ग्रंथ पाठ
ऋग्विधान · अध्याय 1.6
1.6.27
कृच्छ्राणाम्.एष.सर्वेषाम्.विधिर्.उक्तो.अनुपूर्वशः.।
प्राजापत्य.अतिकृच्छ्रस्य.तथा.सांतपनस्य.च.॥
1.6.28
पराकस्य.च.कृच्छ्रस्य.विधिश्.चान्द्रायणस्य.च.।
एकेन.शुद्धिम्.आप्नोति.द्वाभ्याम्.पापैः.प्रमुच्यते.॥
1.6.29
त्रिभिर्.सिध्यन्ति.मन्त्राश्.च.मुच्यते.च.उपपातकै.ह्।(?)
चतुर्भिर्.भ्रूणहत्यायास्.तथैव.अयाज्य.याजनात्.॥
1.6.30
पञ्चभिः.पातकैः.सर्वैर्.दुष्कृतैश्.च.प्रमुच्यते.।
तप्त.कृच्छ्रेण.सर्वाणि.पापानि.प्रतिबाधते.॥
1.6.31
चान्द्रायणम्.सह.आद्य्.अन्तम्.एभि.ः.कृच्छ्रैः.समम्.स्मृतम्.।
त्रिभिश्.चान्द्रायणैः.पूतो.ब्रह्म.लोकम्.समश्नुते.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0