भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.28

1.28.151

वीरान्.धनम्.च.प्राप्नोति.सुश्लोक्यम्.च.नियच्छति.।
कङ्कतो.न.इति.सूक्तम्.तु.विष.आर्तः.प्रयतो.जपेत्.॥

1.28.152

विषम्.न.क्रमते.च.अस्य.सर्पाद्.दृष्टि.विषाद्.अपि.।
यत्.कीटलूटासु.विषम्.दंष्ट्रि.वृश्चिकजम्.च.यत्.॥

1.28.153

मौलम्.च.कृत्रिमम्.चैव.जपन्त्.सर्वम्.व्यपोहति.।
धर्मम्.बुद्धिम्.धनम्.पुत्रान्.सौभाग्यम्.ब्रह्म.वर्चसम्.॥

1.28.154

आरोग्यम्.पुष्टिम्.आयुष्यम्.पशून्.विद्याम्.महद्.यशः.।
त्रि.रात्र.उपोषितः.स्नातः.प्रयतः.चरित.व्रतः.॥

1.28.155

प्राण.आयाम.शतम्.कृत्वा.उपतिष्ठेत्.शत.क्रतुम्.।
एक.अहम्.क्षुर.सम्युक्तः.पादौ.संधाय.वाग्.यतः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc