ग्रंथ पाठ
ऋग्वेदसंहिता, पदपाठ · अध्याय 9.57
9.57.1
॥13॥.
-र्व्_7:1।14-
(र्व्_9,57)
प्र । ते । धाराः । असश्चतः । दिवः । न । यन्ति । वृष्टयः । अच्छ । वाजम् । सहस्रिणम्
9.57.2
अभि । प्रियाणि । काव्या । विश्वा । चक्षाणः । अर्षति । हरिः । तुञ्जानः । आयुधा
9.57.3
सः । मर्मृजानः । आयु-भिः । इभः । राजा-इव । सु-व्रतः । श्येनः । न । वंसु । सीदति
9.57.4
सः । नः । विश्वा । दिवः । वसु । उतो इति । पृथिव्याः । अधि । पुनानः । इन्दो इति । आ । भर
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0