भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.50

9.50.1

॥6॥.
-र्व्_7:1।7-
(र्व्_9,50)
उत् । ते । शुष्मासः । ईरते । सिन्धोः । ऊर्मेः-इव । स्वनः । वाणस्य । चोदय । पविम्

9.50.2

प्र-सवे । ते । उत् । ईरते । तिस्रः । वाचः । मखस्युवः । यत् । अव्ये । एषि । सानवि

9.50.3

अव्यः । वारे । परि । प्रियम् । हरिम् । हिन्वन्ति । अद्रि-भिः । पवमानम् । मधु-श्चुतम्

9.50.4

आ । पवस्व । मदिन्-तम । पवित्रम् । धारया । कवे । अर्कस्य । योनिम् । आसदम्

9.50.5

सः । पवस्व । मदिन्-तम । गोभिः । अञ्जानः । अक्तु-भिः । इन्दो इति । इन्द्राय । पीतये

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc