भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.14

8.14.1

॥13॥.
-र्व्_6:1।14-
(र्व्_8,14)
यत् । इन्द्र । अहम् । यथा । त्वम् । ईशीय । वस्वः । एकः । इत् । स्तोता । मे । गो--सखा । स्यात्

8.14.2

शिक्षेयम् । अस्मै । दित्सेयम् । शची-पते । मनीषिणे । यत् । अहम् । गो--पतिः । स्याम्

8.14.3

धेनुः । ते । इन्द्र । सूनृता । यजमानाय । सुन्वते । गाम् । अश्वम् । पिप्युषी । दुहे

8.14.4

न । ते । वर्ता । अस्ति । राधसः । इन्द्र । देवः । न । मर्त्यः । यत् । दित्ससि । स्तुतः । मघम्

8.14.5

यज्ञः । इन्द्रम् । अवर्धयत् । यत् । भूमिम् । वि । अवर्तयत् । चक्राणः । ओपशम् । दिवि

8.14.6

॥14॥.
-र्व्_6:1।15-
वावृधानस्य । ते । वयम् । विश्वा । धनानि । जिग्युषः । ऊतिम् । इन्द्र । आ । वृणीमहे

8.14.7

वि । अन्तरिक्षम् । अतिरत् । मदे । सोमस्य । रोचना । इन्द्रः । यत् । अभिनत् । वलम्

8.14.8

उत् । गाः । आजत् । अङ्गिरः-भ्यः । आविः । कृण्वन् । गुहा । सतीः । अर्वाञ्चम् । नुनुदे । वलम्

8.14.9

इन्द्रेण । रोचना । दिवः । दृळ्हानि । दृंहितानि । च । स्थिराणि । न । परानुदे

8.14.10

अपाम् । ऊर्मिः । मदन्-इव । स्तोमः । इन्द्र । अजिर-यते । वि । ते । मदाः । अराजिषुः

8.14.11

॥15॥.
-र्व्_6:1।16-
त्वम् । हि । स्तोम-वर्धनः । इन्द्र । असि । उक्थ-वर्धनः । स्तोतॄणाम् । उत । भद्र-कृत्

8.14.12

इन्द्रम् । इत् । केशिना । हरी
इति । सोम-पेयाय । वक्षतः । उप । यज्ञम् । सु-राधसम्

8.14.13

अपाम् । फेनेन । नमुचेः । शिरः । इन्द्र । उत् । अवर्तय्चः । विश्वाः । यत् । अजयः । स्पृधः

8.14.14

मायाभिः । उत्-सिसृप्सतः । इन्द्र । द्याम् । आरुरुक्षतः । अव । दस्यून् । अधूनुथाः

8.14.15

असुन्वाम् । इन्द्र । सम्-सदम् । विषूचीम् । वि । अनाशयः । सोम-पाः । उत्-तरः । भवन्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc