ऋग्वेदसंहिता, पदपाठ · अध्याय 5.73
॥10॥.
-र्व्_4:4।11-
(र्व्_5,73)
यत् । अद्य । स्थः । पारावति । यत् । आर्वावति । अश्विना । यत् । वा । पुरु । पुरु-भुजा । यत् । अन्तरिक्षे । आ । गतम्
इह । त्या । पुरु-भूतमा । पुरु । दंसांसि । बिभ्रता । वरस्या । यामि । अध्रिगूइत्य् अध्रि-गू । हुवे । तुविः-तमा । भुजे
ईर्मा । अन्यत् । वपुषे । वपुः । चक्रम् । रथस्य । येमथुः । परि । अन्या । नाहुषा । युगा । मह्ना । रजांसि । दीयथः
तत् । ओं इति । सु । वाम् । एना । कृतम् । विश्वा । यत् । वाम् । अनु । स्तवे । नाना । जातौ । अरेपसा । सम् । अस्मे इति । बन्धुम् । आ । ईयथुः
आ । यत् । वाम् । सूर्या । रथम् । तिष्ठत् । रघु-स्यदम् । सदा । परि । वाम् । अरुषाः । वयः । घृणा । वरन्ते । आतपः
॥11॥.
-र्व्_4:4।12-
युवोः । अत्रिः । चिकेतति । नरा । सुम्नेन । चेतसा । घर्मम् । यत् । वाम् । अरेपसम् । नासत्या । आस्ना । भुरण्यति
उग्रः । वाम् । ककुहः । ययिः । शृण्वे । यामेषु । सम्-तनिः । यत् । वाम् । दंसः-भिः । अश्विना । अत्रिः । नरा । आववर्तति
मध्वः । ओं इति । सु । मधु-युवा । रुद्रा । सिसक्ति । पिप्युषी । यत् । समुद्रा । अति । पर्षथः । पक्वाः । पृक्षः । भरन्त । वाम्
सत्यम् । इत् । वै । ओं इति । अश्विना । युवाम् । आहुः । मयः-भुवा । ता । यामन् । याम-हूतमा । यामन् । आ । मृळयत्-तमा
इमा । ब्रह्माणि । वर्धना । अश्वि-भ्याम् । सन्तु । शम्-तमा । या । तक्षाम । रथान्-इव । अवोचाम । बृहत् । नमः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0