भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.69

5.69.1

॥6॥.
-र्व्_4:4।7-
(र्व्_5,69)
त्री । रोचना । वरुण । त्रीन् । उत । द्यून् । त्रीणि । मित्र । धारयथः । रजांसि । ववृधानौ । अमतिम् । क्षत्रियस्य । अनु । व्रतम् । रक्षमाणौ । अजुर्यम्

5.69.2

इरावतीः । वरुण । धेनवः । वाम् । मधु-मत् । वाम् । सिन्धवः । मित्र । दुह्रे । त्रयः । तस्थुः । वृषभासः । तिसॄणाम् । धिषणानाम् । रेतः-धाः । वि । द्यु-मन्तः

5.69.3

प्रातः । देवीम् । अदितिम् । जोहवीमि । मध्यन्दिने । उत्-इता । सूर्यस्य । राये । मित्रावरुणा । सर्व-ताता । ईळे । तोकाय । तनयाय । शम् । योः

5.69.4

या । धर्तारा । रजसः । रोचनस्य । उत । आदित्या । दिव्या । पार्थिवस्य । न । वाम् । देवाः । अमृताः । आ । मिनन्ति । व्रतानि । मित्रावरुणा । ध्रुवाणि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc