ऋग्वेदसंहिता, पदपाठ · अध्याय 5.25
॥16॥.
-र्व्_4:1।17-
(र्व्_5,25)
अच्छ । वः । अग्निम् । अवसे । देवम् । गासि । सः । नः । वसुः । रासत् । पुत्रः । ऋषूणाम् । ऋत-वा । पर्षति । द्विषः
सः । हि । सत्यः । यम् । पूर्वे । चित् । देवासः । चित् । यम् । ईधिरे । होतारम् । मन्द्र-जिह्वम् । इत् । सुदीति-भिः । विभावसुम्
सः । नः । धीती । वरिष्थया । श्रेष्ठया । च । सु-मत्या । अग्ने । रायः । दिदीहि । नः । सुवृक्ति-भिः । वरेण्य
अग्निः । देवेषु । राजति । अग्निः । मर्तेषु । आविशन् । अग्निः । नः । हव्य-वाहनः । अग्निम् । धीभिः । सपर्यत
अग्निः । तुविश्रवः-तमम् । तुवि-ब्रह्माणम् । उत्-तमम् । अतूर्तम् । श्रवयत्-पतिम् । पुत्रन् । ददाति । दाशुषे
॥17॥.
-र्व्_4:1।18-
अग्निः । ददाति । सत्-पतिम् । ससाह । यः । युधा । नृ-भिः । अग्निः । अत्यम् । रघु-स्यदम् । जेतारम् । अपराजितम्
यत् । वाहिष्ठम् । तत् । अग्नये । बृहत् । अर्च । विभावसो इतिविभावसो । महिषी-इव । त्वत् । रयिः । त्वत् । वाजाः । उत् । ईरते
तव । द्यु-मन्तः । अर्चयः । ग्रावाइव । उच्यते । बृहत् । उतो इति । ते । तन्यतुः । यथा । स्वानः । अर्त । त्मना । दिवः
एव । अग्निम् । वसु-यवः । सहसानम् । ववन्दिम । सः । नः । विश्वा । अत् इ । द्विषः । पर्षत् । नावाइव । सु-क्रतुः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0