ग्रंथ पाठ
ऋग्वेदसंहिता, पदपाठ · अध्याय 5.23
5.23.1
॥14॥.
-र्व्_4:1।15-
(र्व्_5,23)
अग्ने । सहन्तम् । आ । भर । द्युम्नस्य । प्र-सहा । रयिम् । विश्वाः । यः । चर्षणीः । अभि । आसा । वाजेषु । ससहत्
5.23.2
तम् । अग्ने । पृतनासहम् । रयिम् । सहस्वः । आ । भर । त्वम् । हि । सत्यः । अद्भुतः । दाता । वाजस्य । गो--मतः
5.23.3
विश्वे । हि । त्वा । स-जोषसः । जनासः । वृक्त-बर्हिषः । होतारम् । सद्म-सु । प्रियम् । व्यन्ति । वार्या । पुरु
5.23.4
सः । हि । स्म । विश्व-चर्षणिः । अभि-माति । सहः । दधे । अग्ने । एषु । क्षयेषु । आ । रेवत् । नः । शुक्र । दीदिहि । द्यु-मत् । पावक । दीदिहि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0