ऋग्वेदसंहिता, पदपाठ · अध्याय 4.7
॥5॥.
-र्व्_3:5।6-
(र्व्_4,7)
अयम् । इह । प्रथमः । धायि । धातृ-भिः । होता । यजिष्ठः । अध्वरेषु । ईड्यः । यम् । अप्नवानः । भृगवः । वि-रुरुचुः । वनेषु । चित्रम् । वि-भ्वम् । विशे--विशे
अग्ने । कदा । ते । आनुषक् । भुवत् । देवस्य । चेतनम् । अध । हि । त्वा । जगृभ्रिरे । मतार्सः । विक्षु ईड्यम्
ऋत-वानम् । वि-चेतसम् । पश्यन्तः । द्याम्-इव । स्तृ-भिः । विश्वेषाम् । अध्वराणाम् । हस्कर्तारम् । दमे--दमे
आशुम् । दूतम् । विवस्वतः । विश्वाः । यः । चर्षणीः । अभि । आ । जभ्रुः । केतुम् । आयवः । भृगवाणम् । विशे--विशे
तम् । ईम् । होतारम् । आनुषक् । चिकित्वांसम् । नि । सेदिरे । रण्वम् । पावक-शोचिषम् । यजिष्ठम् । सप्त । धाम-भिः
॥6॥.
-र्व्_3:5।7-
तम् । शश्वतीषु । मातृषु । वने । आ । वीतम् । अश्रितम् । चित्रम् । सन्तम् । गुहा । हितम् । सु-वेदम् । कूचित्-अर्थिनम्
ससस्य । यत् । वि-युता । सस्मिन् । ऊधन् । ऋतस्य । धामन् । रणयन्त । देवाः । महान् । अग्निः । नमसा । रात-हव्यः । वेः । अध्वराय । सदम् । इत् । ऋत-वा
वेः । अध्वरस्य । दूत्यानि । विद्वान् । उभे इति । अन्तरिति । रोदसी इति । सम्-चिकित्वान् । दूतः । ईयसे । प्र-दिवः । उराणः । विदुः-तरः । दिवः । आरोधनानि
कृष्णम् । ते । एम । रुशतः । पुरः । भाः । चरिष्णु । अर्चिः । वपुषाम् । इत् । एकम् । यत् । अप्र-वीता । दधते । ह । गर्भम् । सद्यः । चित् । जातः । भवसि । इत् । ओं इति । दूतः
सद्यः । जातस्य । ददृशानम् । ओजः । यत् । अस्य । वातः । अनु-वाति । शोचिः । वृणक्ति । तिग्माम् । अतसेषु । जिह्वाम् । स्थिरा । चित् । अन्ना । दयते । वि । जम्भैः
तृषु । यत् । अन्ना । तृषुणा । ववक्ष । तृषुम् । दूतम् । कृणुते । यह्वः । अग्निः । वातस्य । मेळिम् । सचते । नि-जूर्वन् । आशुम् । न । वाजयते । हिन्वे । अर्वा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0