ऋग्वेदसंहिता, पदपाठ · अध्याय 4.39
॥12॥.
-र्व्_3:7।13-
(र्व्_4,39)
आशुम् । दधि-क्राम् । तम् । ओं इति । नु । स्तवाम । दिवः । पृथिव्याः । उत । चर्किराम । उच्छन्तीः । माम् । उषसः । सूदयन्तु । अति । विश्वानि । दुः-इतानि । पर्षन्
महः । चर्कर्मि । अर्वतः । क्रतु-प्राः । दधि-क्राव्णः । पुरु-वारस्य । वृष्णः । यम् । पूरु-भ्यः । दीदि-वांसम् । न । अग्निम् । ददथुः । मित्रावरुणा । ततुरि म्
यः । अश्वस्य । दधि-क्राव्णः । अकारीत् । सम्-इद्धे । अग्नौ । उषसः । वि-उष्टौ । अनागसम् । तम् । अदितिः । कृणोतु । सः । मित्रेण । वरुणेन । स-जोषाः
दधि-क्राव्णः । इषः । ऊर्जः । महः । यत् । अमन्महि । मरुताम् । नाम । भद्रम् । स्वस्तये । वरुणम् । मित्रम् । अग्निम् । हवामहे । इन्द्रम् । वज्र-बाहुम्
इन्द्रम्-इव । इत् । उभये । वि । ह्वयन्ते । उत्-ईराणाः । यज्ञम् । उप-प्रयन्तः । दधि-क्राम् । ओं इति । सूदनम् । मर्त्याय । ददथुः । मित्रावरुणा । नः । अश्वम्
दधि-क्राव्णः । अकारिषम् । जिष्णोः । अश्वस्य । वाजिनः । सुरभि । नः । मुखा । करत् । प्र । णः । आयूंषि । तारिषत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0