भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.46

3.46.1

॥9॥.
-र्व्_3:3।10-
(र्व्_3,46)
युध्मस्य । ते । वृषभस्य । स्व-राजः । उग्रस्य । यूनः । स्थविरस्य । घृष्वेः । अजूर्यतः । वज्रिणः । वीर्याणि । इन्द्र । श्रुतस्य । महतः । महानि

3.46.2

महान् । असि । महिष । वृष्ण्येभिः । धन-स्पृत् । उग्र । सहमानः । अन्यान् । एकः । विश्वस्य । भुवनस्य । राजा । सः । योधया । च । क्षयया । च । जनान्

3.46.3

प्र । मात्राभिः । रिरिचे । रोचमानः । प्र । देवेभिः । विश्वतः । अप्रति-इतः । प्र । मज्मना । दिवः । इन्द्रः । पृथिव्याः । प्र । उरोः । महः । अन्तरिक्षात् । ऋजीषी

3.46.4

उरुम् । गभीरम् । जनुषा । अभि । उग्रम् । विश्व-व्यचसम् । अवतम् । मतीनाम् । इन्द्रम् । सोमासः । प्र-दिवि । सुतासः । समुद्रम् । न । स्रवतः । आ । विशन्ति

3.46.5

यम् । सोमम् । इन्द्र । पृथिवीद्यावा । गर्भम् । न । माता । बिभृतः । त्वाया । तम् । ते । हिन्वन्ति । तम् । ओं इति । ते । मृजन्ति । अध्वर्यवः । वृषभ । पातवै । ओं इति

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc