ऋग्वेदसंहिता, पदपाठ · अध्याय 3.23
॥22॥.
-र्व्_3:1।23-
(र्व्_3,23)
निः-मथितः । सु-धितः । आ । सध-स्थे । युवा । कविः । अध्वरस्य । प्र-नेता । जूर्यत्-सु । अग्निः । अजरः । वनेषु । अत्र । दधे । अमृतम् । जात-वेदाः
अमन्थिष्टाम् । भारता । रेवत् । अग्निम् । देव-श्रवाः । देव-वातः । सु-दक्षम् । अग्ने । वि । पश्य । बृहता । अभि । राया । इषाम् । नः । नेता । भवतात् । अनु । द्यून्
दश । क्षिपः । पूर्व्यम् । सीम् । अजीजनन् । सु-जातम् । मातृषु । प्रियम् । अग्निम् । स्तुहि । दैव-वातम् । देव-श्रवः । यः । जनानाम् । असत् । वशी
नि । त्वा । दधे । वरे । आ । पृथिव्याः । इळायाः । पदे । सु-दिन-त्वे । अह्नाम् । दृषत्-वत्याम् । मानुषे । आपयायाम् । सरस्वत्याम् । रेवत् । अग्ने । दिदीहि
इळाम् । अग्ने । पुरु-दंसम् । सनिम् । गोः । शश्वत्-तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । अग्ने । सा । ते । सु-मतिः । भूतु । अस्मे इति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0