ऋग्वेदसंहिता, पदपाठ · अध्याय 10.81
॥15॥.
-र्व्_8:3।16-
(र्व्_10,81)
यः । इमा । विश्वा । भुवनानि । जुह्वत् । ऋषिः । होता । नि । असीदत् । पिता । नः । सः । आशिषा । द्रविणम् । इच्छमानः । प्रथम-च्छत् । अवरान् । आ । विवेश
किम् । स्वित् । आसीत् । अधि-स्थानम् । आरम्भणम् । कतमत् । स्वित् । कथा । आसीत् । यतः । भूमिम् । जनयन् । विश्व-कर्मा । वि । द्याम् । और्णोत् । महिना । विश्व-चक्षाः
विश्वतः-चक्षुः । उत । विश्वतः-मुखः । विश्वतः-बाहुः । उत । विश्वतः-पात् । सम् । बाहु-भ्याम् । धमति । सम् । पतत्रैः । द्यावाभूमी इति । जनयन् । देवः । एकः
किम् । स्वित् । वनम् । कः । ओं इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निः-ततक्षुः । मनीषिणः । मनसा । पृच्छत । इत् । ओं इति । तत् । यत् । अधि-अतिष्ठत् । भुवनानि । धारयन्
या । ते । धामानि । परमाणि । या । अवमा । या । मध्यमा । विश्व-कर्मन् । उत । इमा । शिक्ष । सखि-भ्यः । हविषि । स्वधावः । स्वयम् । यजस्व । तन्वम् । वृधानः
विश्व-कर्मन् । हविषा । ववृधानः । स्वयम् । यजस्व । पृथिवीम् । उत । द्याम् । मुह्यन्तु । अन्ये । अभितः । जनासः । इह । अस्माकम् । मघ-वा । सूरिः । अस्तु
वाचः । पतिम् । विश्व-कर्माणम् । ऊतये । मनः-जुवम् । वाजे । अद्य । हुवेम । सः । नः । विश्वानि । हवनानि । जोषत् । विश्व-शम्भूः । अवसे । साधु-कर्मा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0