भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.28

10.28.1

॥19॥.
-र्व्_7:7।20-
(र्व्_10,28)
विश्वः । हि । अन्यः । अरिः । आजगाम । मम । इत् । अह । श्वशुरः । न । आ । जगाम । जक्षीयात् । धानाः । उत । सोमम् । पपीयात् । सु-आशितः । पुनः । अस्तम् । जगायात्

10.28.2

सः । रोरुवत् । वृषभः । तिग्म-शृङ्गः । वर्ष्मन् । तस्थौ । वरिमन् । आ । पृथिव्याः । विश्वेषु । एनम् । वृजनेषु । पामि । यः । मे । कुक्षी इति । सुत-सोमः । पृणाति

10.28.3

अद्रिणा । ते । मन्दिनः । इन्द्र । तूयान् । सुन्वन्ति । सोमान् । पिबसि । त्वम् । एषाम् । पचन्ति । ते । वृषभान् । अत्सि । तेषाम् । पृक्षेण । यत् । मघ-वन् । हूयमानः

10.28.4

इदम् । सु । मे । जरितः । आ । चिकिद्धि । प्रति-ईपम् । शापम् । नद्यः । वहन्ति । लोपाशः । सिंहम् । प्रत्यञ्चम् । अत्सारिति । क्रोष्टा । वराहम् । निः । अतक्त । कक्षात्

10.28.5

कथा । ते । एतत् । अहम् । आ । चिकेतम् । गृत्सस्य । पाकः । तवसः । मनीषाम् । त्वम् । नः । विद्वान् । ऋतु-था । वि । वोचः । यम् । अर्धम् । ते । मघ-वन् । क्षेम्या । धूः

10.28.6

एव । हि । माम् । तवसम् । वर्धयन्ति । दिवः । चित् । मे । बृहतः । उत्-तरा । धूः । पुरु । सहस्रा । नि । शिशामि । साकम् । अशत्रुम् । हि । मा । जनिता । जजान

10.28.7

॥20॥.
-र्व्_7:7।21-
एव । हि । माम् । तवसम् । जज्ञुः । उग्रम् । कर्मन्-कर्मन् । वृषणम् । इन्द्र । देवाः । वधीम् । वृत्रम् । वज्रेण । मन्दसानः । अप । व्रजम् । महिना । दाशुषे । वम्

10.28.8

देवासः । आयन् । परशून् । अबिभ्रन् । वना । वृश्चन्तः । अभि । विट्-भिः । आयन् । नि । सु-द्रम् । दधतः । वक्षणासु । यत्र । कृपीटम् । अनु । तत् । दहन्ति

10.28.9

शशः । क्षुरम् । प्रत्यञ्चम् । जगार । अद्रिम् । लोगेन । वि । अभेदम् । आरात् । बृहन्तम् । चित् । ऋहते । रन्धयानि । वयत् । वत्सः । वृषभम् । शूशुवानः

10.28.10

सु-पर्णः । इत्था । नखम् । आ । सिसाय । अव-रुद्धः । परि-पदम् । न । सिंहः । नि-रुद्धः । चित् । महिषः । तर्ष्यावान् । गोधा । तस्मै । अयथम् । कर्षत् । एतत्

10.28.11

तेभ्यः । गोधाः । अयथम् । कर्षत् । एतत् । ये । ब्रह्मणः । प्रति-पीयन्ति । अन्नैः । सिमः । उक्ष्णः । अव-सृष्टान् । अदन्ति । स्वयम् । बलानि । तन्वः । शृणानाः

10.28.12

एते । शमीभिः । सु-शमी । अभूवन् । ये । हिन्विरे । तन्वः । सोमे । उक्थैः । नृ-वत् । वदन् । उप । नः । माहि । वाजान् । दिवि । श्रवः । दधिषे । नाम । वीरः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc