ग्रंथ पाठ
ऋग्वेदसंहिता, पदपाठ · अध्याय 10.184
10.184.1
॥41॥.
-र्व्_8:8।42-
(र्व्_10,184)
विष्णुः । योनिम् । कल्पयतु । त्वष्टा । रूपाणि । पिंशतु । आ । सिञ्चतु । प्रजापतिः । धाता । गर्भम् । दधातु । ते
10.184.2
गर्भम् । धेहि । सिनीवालि । गर्भम् । धेहि । सरस्वति । गर्भम् । ते । अश्विनौ । देवौ । आ । धत्ताम् । पुष्कर-स्रजा
10.184.3
हिरण्ययी इति । अरणी इति । यम् । निः-मन्थतः । अश्विना । तम् । ते । गर्भम् । हवामहे दशमे मासि सूतवे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0