ऋग्वेदसंहिता, पदपाठ · अध्याय 10.181
॥38॥.
-र्व्_8:8।39-
(र्व्_10,181)
प्रथः । च । यस्य । स-प्रथः । च । नाम । आनु-स्तुभस्य । हविषः । हव् इः । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथम्-तरम् । आ । जभार । वसिष्ठः
अविन्दन् । ते । अति-हितम् । यत् । आसीत् । यज्ञस्य । धाम । परमम् । गुहा । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । भरत्-वाजः । बृहत् । आ । चक्रे । अग्नेः
ते । अविन्दन् । मनसा । दीध्यानाः । यजुः । स्कन्नम् । प्रथमम् । देव-यानम् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । आ । सूर्यात् । अभरन् । घर्मम् । एते
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0