भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.170

10.170.1

॥27॥.
-र्व्_8:8।28-
(र्व्_10,170)
वि-भ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञ-पतौ । अवि-हुतम् । वात-जूतः । यः । अभि-रक्षति । त्मना । प्र-जाः । पुपोष । पुरुधा । वि । राजत् इ

10.170.2

वि-भ्राट् । बृहत् । सु-भृतम् । वाज-सातमम् । धर्मम् । दिवः । धरुणे । सत्यम् । अर्पितम् । अमित्र-हा । वृत्र-हा । दस्युहन्-तमम् । ज्योतिः । जज्ञे । असुर-हा । सपत्न-हा

10.170.3

इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । उत्-तमम् । विश्व-जित् । धन-जित् । उच्यते । बृहत् । विश्व-भ्राट् । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम्

10.170.4

वि-भ्राजम् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः । येन । इमा । विश्वा । भुवनानि । आभृता । विश्व-कर्मणा । विश्वदेव्य-वता

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc