ऋग्वेदसंहिता, पदपाठ · अध्याय 10.155
॥12॥.
-र्व्_8:8।13-
(र्व्_10,155)
अरायि । काणे । वि-कटे । गिरिम् । गच्छ । सदान्वे । शिरिम्बिठस्य । सत्व-भिः । तेभिः । त्वा । चातयामसि
चत्तो इति । इतः । चत्ता । अमुतः । सर्वा । भ्रूणान्यि । आरुषी । अराय्यम् । ब्रह्मणः । पते । तीक्ष्ण-शृङ्ग । उत्-ऋषन् । इहि
अदः । यत् । दारु । प्लवते । सिन्धोः । पारे । अपुरुषम् । तत् । आ । रभस्व । दुर्हनो इतिदुः-हनो । तेन । गच्छ । परः-तरम्
यत् । ह । प्राचीः । अजगन्त । उरः । मण्डूर-धाणिकीः । हताः । इन्द्रस्य । शत्रवः । सर्वे । बुद्बुद-याशवः
परि । इमे । गाम् । अनेषत । परि । अग्निम् । अहृषत । देवेषु । अक्रत । श्रवः । कः । इमान् । आ । दधर्षति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0