भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.60

1.60.1

॥25॥.
-र्व्_1:4।26-
(र्व्_1,60)
वह्निम् । यशसम् । विदथस्य । केतुम् । सुप्र-अव्यम् । दूतम् । सद्यः-अर्थम् । द्वि-जन्मानम् । रयिम्-इव । प्र-शस्तम् । रातिम् । भरत् । भृगवे । मातरिश्वा

1.60.2

अस्य । शासुः । उभयासः । सचन्ते । हविष्मन्तः । उशिजः । ये । च । मर्ताः । द् इवः । चित् । पूर्वः । नि । असादि । होता । आपृच्छ्यः । विश्पतिः । विक्षु । वेधाः

1.60.3

तम् । नव्यसी । हृदः । आ । जायमानम् । अस्मत् । सु-कीर्तिः । मधु-जिह्वम् । अश्याः । यम् । ऋत्विजः । वृजने । मानुषासः । प्रयस्वन्तः । आयवः । जीजनन्त

1.60.4

उशिक् । पावकः । वसुः । मानुषेषु । वरेण्यः । होता । अधायि । विक्षु । दमूना । गृह-पतिः । दमे । आ । अग्निः । भुवत् । रयि-पतिः । रयीणाम्

1.60.5

तम् । त्वा । वयम् । पतिम् । अग्ने । रयीणाम् । प्र । शंसामः । मति-भिः । गोतमासः । आशुम् । न । वाजम्-भरम् । मर्जयन्तः । प्रातः । मक्षु । धियावसुः । जगम्यात्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc