भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.189

1.189.1

॥9॥.
-र्व्_2:5।10-
(र्व्_1,189)
अग्ने । नय । सु-पथा । राये । अस्मान् । विश्वानि । देव । वयुनानि । विद्वान् । युयोधि । अस्मत् । जुहुराणम् । एनः । भूयिष्ठाम् । ते । नमः-उक्तिम् । विधेम

1.189.2

अग्ने । त्वम् । पारय । नव्यः । अस्मान् । स्वस्ति-भिः । अति । दुः-गाणि । विश्वा । पूः । च । पृथ्वी । बहुला । नः । उर्वी । भव । तोकाय । तनयाय । शम् । योः

1.189.3

अग्ने । त्वम् । अस्मत् । युयोधि । अमीवाः । अनग्नि-त्राः । अभि । अमन्त । कृष्टीः । पुनः । अस्मभ्यम् । सुविताय । देव । क्षाम् । विश्वेभिः । अमृतेभिः । यजत्र

1.189.4

पाहि । नः । अग्ने । पायु-भिः । अजस्रैः । उत । प्रिये । सदने । आ । शुशुक्वअन् । मा । ते । भयम् । जरितारम् । यविष्ठ । नूनम् । विदत् । मा । अपरम् । सहस्वः

1.189.5

मा । नः । अग्ने । अव । सृजः । अघाय । अविष्यवे । रिपवे । दुच्छुनायै । मा । दत्वते । दशते । मा । अदते । नः । मा । रीषते । सहसावन् । परा । दाः

1.189.6

॥10॥.
-र्व्_2:5।11-
वि । घ । त्वावान् । ऋत-जात । यंसत् । गृणनः । अग्ने । तन्वे । वरूथम् । विश्वात् । रि रिक्षोः । उत । वा । निनित्सोः । अभि-ह्रुताम् । असि । हि । देव । विष्पट्

1.189.7

त्वम् । ताम् । अग्ने । उभयान् । वि । विद्वान् । वेषि । प्र-पित्वे । मनुषः । यजत्र । अभि-पित्वे । मनवे । शास्यः । भूः । मर्मृजेन्यः । उशिक्-भिः । न । अक्रः

1.189.8

अवोचाम । नि-वचनानि । अस्मिन् । मानस्य । सूनुः । सहसाने । अग्नौ । वयम् । सहस्रम् । ऋषि-भिः । सनेम । विद्याम । इषम् । वृजनम् । जीर-दानुम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc