भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.186

1.186.1

॥3॥.
-र्व्_2:5।4-
(र्व्_1,186)
आ । नः । इळाभिः । विदथे । सु-शस्ति । विश्वानरः । सविता । देवः । एतु । अपि । यथा । युवानः । मत्सथ । नः । विश्वम् । जगत् । अभि-पित्वे । मनीषा

1.186.2

आ । नः । विश्वे । आस्क्राः । गमन्तु । देवाः । मित्रः । अर्यमा । वरुणः । स-जोषाः । भुवन् । यथा । नः । विश्वे । वृधासः । करन् । सु-सहा । विथुरम् । न । शवः

1.186.3

प्रेष्ठम् । वः । अतिथिम् । गृणीषे । अग्निम् । शस्ति-भिः । तुर्वणिः । स-जोषाः । असत् । यथा । नः । वरुणः । सु-कीर्तिः । इषः । च । पर्षत् । अरि-गूर्तः । सूरिः

1.186.4

उप । वः । आ । इषे । नमसा । जिगीषा । उषसानक्ता । सुदुघाइव । धेनुः । समाने । अहन् । वि-मिमानः । अर्कम् । विषु-रूपे । पयसि । सस्मिन् । ऊधन्

1.186.5

उत । नः । अहिः । बुध्न्यः । मयः । करितिकः । शिशुम् । न । पिप्युषी-इव । वेत् इ । सिन्धुः । येन । नपातम् । अपाम् । जुनाम । मनः-जुवः । वृषणः । यम् । वहन्ति

1.186.6

॥4॥.
-र्व्_2:5।5-
उत । नः । ईम् । त्वष्टा । आ । गन्तु । अच्छ । स्मत् । सूरि-भिः । अभि-पित्वे । स-जोषाः । आ । वृत्र-हा । इन्द्रः । चर्षणि-प्राः । तुविः-तमः । नराम् । नः । इह । गम्याः

1.186.7

उत । नः । ईम् । मतयः । अश्व-योगाः । शिशुम् । न । गावः । तरुणम् । रिहन्ति । तम् । ईम् । गिरः । जनयः । न । पत्नीः । सुरभिः-तमम् । नराम् । नसन्त

1.186.8

उत । नः । ईम् । मरुतः । वृद्ध-सेनाः । स्मत् । रोदसी इति । स-मनसः । सदन्तु । पृषत्-अश्वासः । वनयः । न । रथाः । रिशादसः । मित्र-युजः । न । देवाः

1.186.9

प्र । नु । यत् । एषाम् । महिना । चिकित्रे । प्र । युञ्जते । प्र-युजः । ते । सु-वृक्ति । अध । यत् । एषाम् । सु-दिने । न । शरुः । विश्वम् । आ । इरिणम् । प्रुषायन्त । सेनाः

1.186.10

प्रो इति । अश्विनौ । अवसे । कृणुध्वम् । प्र । पूषणम् । स्वतवसः । हि । सन्ति । अद्वेषः । विष्णुः । वातः । ऋभुक्षाः । अच्छ । सुम्नाय । ववृतीय । देवान्

1.186.11

इयम् । सा । वः । अस्मे इति । दीधितिः । यजत्राः । अपि-प्राणी । च । सदनी । च । भूयाः । नि । या । देवेषु । यतते । वसु-युः । विद्याम । इषम् । वृजनम् । जीर-दानुम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc