भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.178

1.178.1

॥20॥.
-र्व्_2:4।21-
(र्व्_1,178)
यत् । ह । स्या । ते । इन्द्र । श्रुष्टिः । अस्ति । यया । बभूथ । जरितृ-भ्यः । ऊती । मा । नः । कामम् । महयन्तम् । आ । धक् । विश्वा । ते । अश्याम् । परि । आपः । आयोः

1.178.2

न । घ । राजा । इन्द्रः । आ । दभत् । नः । या । नु । स्वसारा । कृणवन्त । योनौ । आपः । चित् । अस्मै । सु-तुकाः । अवेषन् । गमत् । नः । इन्द्रः । सख्या । वयः । च

1.178.3

जेता । नृ-भिः । इन्द्रः । पृत्-सु । शूरः । श्रोता । हवम् । नाधमानस्य । कारोः । प्र-भर्ता । रथम् । दाशुषः । उपाके । उत्-यन्ता । गिरः । यदि । च । त्मना । भूत्

1.178.4

एव । नृ-भिः । इन्द्रः । सु-श्रवस्या । प्र-खादः । पृक्षः । अभि । मित्रिणः । भूत् । स-मर्ये । इषः । स्तवते । वि-वाचि । सत्राकरः । यजमानस्य । शंसः

1.178.5

त्वया । वयम् । मघ-वन् । इन्द्र । शत्रून् । अभि । स्याम । महतः । मन्यमानान् । त्वम् । त्राता । त्वम् । ओं इति । नः । वृधे । भूः । विद्याम । इषम् । वृजनम् । जीर-दानुम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc