ऋग्वेदसंहिता, पदपाठ · अध्याय 1.133
॥21॥.
-र्व्_2:1।22-
(र्व्_1,133)
उभे । पुनामि । रोदसी इति । ऋतेन । द्रुहः । दहामि । सम् । महीः । अनिन्द्राः । अभि-व्लग्य । यत्र । हताः । अमित्राः । वैल-स्थानम् । परि । तृळ्हाः । अशेरन्
अभिव्लग्य । चित् । अद्रि-वः । शीर्षा । यातु-मतीनाम् । छिन्धि । वटूरिणा । पदा । महावटूरिणा । पदा
अव । आसाम् । मघ-वन् । जहि । शर्धः । यातु-मतीनाम् । वैल-स्थानके । अर्भके । महावैलस्थे । अर्भके
यासाम् । तिस्रः । पञ्चाशतः । अभि-व्लङ्गैः । अप-अवपः । तत् । सु । ते । मनायति । तकत् । सु । ते । मनायति
पिशङ्ग-भृष्टिम् । अम्भृणम् । पिशाचिम् । इन्द्र । सम् । मृण । सर्वम् । रक्षः । नि । बर्हय
अवः । महः । इन्द्र । ददृहि । श्रुधि । नः । शुशोच । हि । द्यौः । क्षाः । न । भीषा । अद्रि-वः । घृणात् । न । भीषा । अद्रि-वः । शुष्मिन्-तमः । हि । शुष्मि-भिः । वधैः । उग्रेभिः । ईयसे । अपुरुष-घ्नः । अप्रति-इत । शूर । सत्व-भिः । त्रि-सप्तैः । शूर । सत्व-भिः
वनोति । हि । सुन्वन् । क्षयम् । परीणसः । सुन्वानः । हि । स्म । यजति । अव । द्विषः । देवानाम् । अव । द्विषः । सुन्वानः । इत् । सिसासति । सहस्रा । वाजी । अवृतः । सुन्वानाय । इन्द्रः । ददाति । आभुवम् । रयिम् । ददाति । आभुवम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0