ऋग्वेदसंहिता, पदपाठ · अध्याय 1.1
मन्दल 1
-र्व्_1:1।1-
(र्व्_1,1)
अग्निम् । ईळे । पुरः-हितम् । यज्ञस्य । देवम् । ऋत्विजम् । होतारम् । रत्न-धातमम्
अग्निः । पूर्वेभिः । ऋषि-भिः । ईड्यः । नूतनैः । उत । सः । देवान् । आ । इह । वक्षति
अग्निना । रयिम् । अश्नवत् । पोषम् । एव । दिवे--दिवे । यशसम् । वीरवत्-तमम्
अग्ने । यम् । यज्ञम् । अध्वरम् । विश्वतः । परि-भूः । असि । सः । इत् । देवेषु । गच्छति
अग्निः । होता । कवि-क्रतुः । सत्यः । चित्रश्रवः-तमः । देवः । देवेभिः । आ । गमत्
॥1॥.
-र्व्_1:1।2-
यत् । अङ्ग । दाशुषे । त्वम् । अग्ने । भद्रम् । करिष्यसि । तव । इत् । तत् । सत्यम् । अङ्गिरः
उप । त्वा । अग्ने । दिवे--दिवे । दोषावस्तः । धिया । वयम् । नमः । भरन्तः । आ । इमसि
राजन्तम् । अध्वराणाम् । गोपाम् । ऋतस्य । दीदिविम् । वर्धमानम् । स्वे । दमे
सः । नः । पिताइव । सूनवे । अग्ने । सु-उपायनः । भव । सचस्व । नः । स्वस्तये
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0