ऋग्वेदखिलानि · अध्याय 7
हिमस्य.त्वा.जरायुणा.शाले.परि.व्ययामसि.।
उत.ह्रदो.हि.नो.भुवो.अग्निर्.ददातु.भेषजम्.।
शीत.ह्रदो.हि.नो.भुवो.अग्निर्.ददातु.भेषजम्.।
अन्तिकाम्.अग्निम्.अजनयद्.दुर्वारः.शिशुर्.आगमत्.।
अजात.पुत्र.पक्षाया.हृदयम्.मम.दूयते.।
विपुलम्.वनम्.बह्व्.आकाशम्.चर.जातवेदः.कामाय.।
माम्.च.रक्ष.पुत्रांश्.च.शरणम्.अभूत्.तव.।
पिङ्ग.अक्ष.लोहित.ग्रीव.कृष्ण.वर्ण.नमो.अस्तु.ते.।
अस्मान्.निबर्ह.रस्योनम्.सागरस्य.ऊर्मयो.यथा.।
इन्द्रः.क्षत्रम्.ददातु.वरुणम्.अभिषिञ्चतु.।
शत्रवो.निधनम्.यान्तु.जयस्.त्वम्.ब्रह्म.तेजसा.।
कल्प.जटीम्.सर्व.भक्षम्.च.अग्निम्.प्रत्यक्ष.दैवतम्.।
वरुणम्.च.वशाम्य्.अग्रे.मम.पुत्रांश्.च.रक्षतु.मम.पुत्रांश्.च.रक्षत्व्.ओम्.नमः.।
साग्रम्.वर्ष.शतम्.जीव.पिब.खाद.च.मोद.च.।
दुह्खितांश्.च.द्विजांश्.चैव.प्रजाम्.च.पशु.पालय.।
यावद्.आदित्यस्.तपति.यावद्.भ्राजति.चन्द्रमाः.।
यावद्.वायुः.प्लवायति.तावज्.जीव.जया.जय.।
येन.केन.प्रकारेण.को.वीनाम्.अनुजीवति.।
परेषाम्.उपकार.अर्थम्.यज्.जीवति.स.जीवति.।
एताम्.वैश्वानरीम्.सर्व.देव.नमो.अस्तु.ते.।
न.चोर.भयम्.न.च.सर्प.भयम्.न.च.व्याघ्र.भयम्.न.च.मृत्यु.भयम्.।
यस्य.अपमृत्युर्.न.च.मृत्युः.स.सर्वम्.लभते.स.सर्वम्.जयते.॥
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0