भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 5.22

5.22.1

यद्.अस्या.अंहु.भेद्याः.पृथु.स्थूरम्.उपातसत्.।
मुष्का.इद्.अस्या.एजतो.गोशफे.शकुलाव्.इव.।

5.22.2

यदा.स्थूरेण.पससा.अणू.मुष्का.उपावधीत्.।
विष्वञ्चाव्.अस्य.अर्दतस्सिकतास्व्.इव.गर्दभौ.।

5.22.3

यद्.अल्पिका.स्वल्पिका.कर्कन्धुका.इव.पच्यते.।
वासन्तिकम्.इव.तेजनम्.यभ्यमाना.विनम्यते.।

5.22.4

यद्.देवासो.ललाबुकम्.प्रविष्टीमिनम्.आविषुः.।
सक्थ्ना.ते.दृश्यते.नारी.सत्यस्य.अक्षी.भागो.यथा.॥46

5.22.5

महानग्न्य्.उपब्रूते.श्वस्या.वेशितम्.पसः.।
ईदृक्.फलस्य.वृक्षस्य.शूर्पम्.शूर्पम्.भजेमहि.।

5.22.6

महानग्न्य्.अदृप्तम्.हि.सो.क्रन्दद्.अस्तम्.आसदत्.।
सक्नु.कामना.भुव.मशकम्.सक्थ्य्.उद्यतम्.।

5.22.7

महानग्न्य्.उलूखलम्.अतिक्रामन्त्य्.अब्रवीत्.।
यथा.एव.ते.वनस्पते.पिघ्नन्ति.तथा.एव.मे.।

5.22.8

महानग्नी.कृकवाकुम्.शम्यया.परिधावति.।
इदम्.न.विद्म.तेजनम्.शीर्ष्णा.भवति.धानिका.।

5.22.9

महानग्नी.महागङ्गन्.धावन्तम्.अनुधावति.।
इमास्.तद्.अस्य.गा.रक्ष.यभ.माम्.अद्ध्य्.ओदनम्.।

5.22.10

महान्.वै.भद्रो.बिल्वो.महान्.पक्व.उदुम्बरः.।
महान्.अभिज्ञु.बाधते.महतस्.साधु.खोदनम्.।

5.22.11

कपृन्.नरः.कपृथम्.उद्दधातन.चोदयत.खुदत.वाज.सातये.।
निष्टिग्र्यः.पुत्रम्.आच्यावय.ऊतय.इन्द्रम्.सबाध.इह.सोम.पीतये.।

5.22.12

यद्.ध.प्राचीर्.अजगन्त.उरो.मण्डूर.धाणिकीः.।
हता.इन्द्रस्य.शत्रवस्.सर्वे.बुद्बुदयाशवः.।

5.22.13

दधिक्राव्णो.अकारिषन्.जिष्णोर्.अश्वस्य.वाजिनः.।
सुरभि.नो.मुखा.करत्.प्र.ण.आयूंषि.तारिषत्.॥47(प्.165)

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc