भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 5.1

5.1.1

संज्ञानम्.उशना.अवदत्.संज्ञानम्.वरुणो.वदत्.।
संज्ञामम्.इन्द्रश्.च.अग्निश्.च.संज्ञानम्.सविता.वदत्.।

5.1.2

संज्ञानम्.नस्.स्वेभ्यस्.संज्ञानम्.अरणेभ्यः.।
संज्ञानम्.आश्विन.युवम्.इह.अस्मासु.नियच्छताम्.।

5.1.3

यत्.कक्षीवान्.संवननम्.पुत्रो.अङ्गिरसाम्.अवेत्.।
तेन.नो.अद्य.विश्वे.देवास्.सम्.प्रियाम्.सम्.अवीवनम्.।

5.1.4

सम्.वो.मनांसि.जानताम्.सम्.आकूतिम्.मनामसि.।
असौ.यो.विमना.जनस्.तम्.समावर्तयामसि.।

5.1.5

तत्.शम्योर्.आवृणीमहे.गातुम्.यज्ञाय.गातुम्.यज्ञ.पतये.दैवी.स्वस्तिर्.अस्तु.नस्.स्वस्तिर्.मानुषेभ्यः.।
ऊर्ध्वम्.जिगातु.भेषजम्.शम्.नो.अस्तु.द्विपदे.शम्.चतुष्पदे.॥(प्.132)

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc