ऋग्वेदखिलानि · अध्याय 4.2
आ.रात्रि.पार्थिवम्.रजः.पितुर्.अप्रायि.धामभिः.।
दिवस्.सदांसि.बृहती.वितिष्ठस.आ.त्वेषम्.वर्तते.तमः.।
ये.ते.रात्रि.नृचक्षसो.युक्तासो.नवतीर्.नव.।
अशीतिस्.सन्त्व्.अष्टा.उतो.सप्त.सप्ततिः.।
रात्रिम्.प्रपद्ये.जननीम्.सर्व.भूत.निवेशनीम्.।
भद्राम्.भगवतीम्.कृष्णाम्.विश्वस्य.जगतो.निशाम्.।
संवेशनीम्.सम्यमनीम्.ग्रह.नक्षत्र.मालिनीम्.।
प्रपन्नो.अहम्.शिवाम्.रात्रीम्.भद्रे.पारम्.अशीमहि.।
मम.अग्ने.वर्चो.विहवेष्व्.अस्तु.॥2(प्.110)
स्तोष्यामि.प्रयतो.देवीम्.शरण्याम्.बह्वृच.प्रियम्.।
सहस्र.सम्मिताम्.दुर्गाम्.जातवेदसे.सुनवाम.सोमम्.।
शान्त्य्.अर्थम्.तद्.द्विजातीनाम्.ऋषिभिः.समुपश्रिताः.।
ऋग्वेदे.त्वम्.समुत्पन्न.अरातीयतो.निदहाति.वेदः.।
ये.त्वाम्.देवि.प्रपद्यन्ति.ब्राह्मणा.हव्य.वाहनीम्.।
अविद्या.बहु.विद्या.वा.स.नः.पर्षद्.अति.दुर्गाणि.विश्वा.।
ये.अग्नि.वर्णाम्.शुभाम्.सौम्याम्.कीर्तयिष्यन्ति.ये.द्विजाः.।
ताम्.तारयति.दुर्गाणि.नव.इव.सिन्धुम्.दुरितात्य्.अग्निः.।
दुर्गेषु.विषमे.घोरे.संग्रामे.रिपु.संकटे.।
अग्नि.चोर.निपातेषु.दुष्ट.ग्रह.निवारणे.दुष्ट.ग्रह.निवारण्य्.ओम्.नमः.।
दुर्गेषु.विषमेषु.त्वम्.संग्रामेषु.वनेषु.च.।
मोहयित्वा.प्रपद्यन्ते.तेषाम्.मे.अभयम्.कुरु.तेषाम्.मे.अभयम्.कुर्व्.ओम्.नमः.।
केशिनीम्.सर्व.भूतानाम्.पञ्चमी.इति.च.नाम.च.।
सा.माम्.समाम्.दिशाम्.देवी.सर्वतः.परिरक्षतु.सर्वतः.परिरक्षतु.ओम्.नमः.।
ताम्.अग्नि.वर्णाम्.तपसा.ज्वलन्तीम्.वैरोचनीम्.कर्म.फलेषु.जुष्टाम्.।(प्.111)
दुर्गाम्.देवीम्.शरणम्.अहम्.प्रपद्ये.सुतरसि.तरसे.नमः.सुतरसि.तरसे.नमः.।
दुर्गा.दुर्गेषु.स्थानेषु.शम्.नो.देवीर्.अभिष्टये.।
य.इमम्.दुर्गा.स्तवम्.पुण्यम्.रात्रौ.रात्रौ.सदा.पठेत्.।
रात्रिः.कुशिकः.सौभरो.रात्रिर्.वा.भारद्वाजी.रात्रि.स्तवम्.गायत्रम्.।
रात्री.सूक्तम्.जपेन्.नित्यम्.तत्.काल.उपपद्यते.॥
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0