भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 3.22

3.22.1

ब्रह्म.जज्ञानम्.प्रथमम्.पुरस्तात्.वि.सीमतस्.सुरुचो.वेन.आवः.।
स.बुध्न्या.उपमा.अस्य.विष्ठास्.सतश्.च.योनिम्.असतश्.च.विवः.।

3.22.2

इयम्.पित्रे.राष्ट्र्य्.एत्य्.अग्रे.प्रथमाय.जनुषे.भूमनेष्ठाः.।
तस्मा.एतम्.सुरुचम्.ह्वारमह्यम्.घर्मम्.श्रीणन्ति.प्रथमाय.धासेः.।

3.22.3

महान्.मही.अस्तभयद्.विजातो.द्याम्.पिता.सद्म.पार्थिवम्.च.रजः.।
स.बुध्न्याद्.आष्ट.जनुषा.अभ्य्.उग्रम्.बृहस्पतिर्.देवता.तस्य.संराट्.।

3.22.4

{.अभि.त्यम्.देवम्.सवितारम्.ओण्योः.कवि.क्रतुम्.
{.अर्चामि.सत्य.सवम्.रत्नधाम्.अभि.प्रियम्.मतिम्.कविम्.।.(.प्.106.).
{.ऊर्ध्व.यस्य.अमतिर्.भा.अदिद्युतत्.सवीमनि.
{.हिरण्य.पाणिर्.अमिमीत.सुक्रतुः.कृपा.स्वः.॥34

3.22.5

ता.सूर्या.चन्द्रमसा.गातुवित्तमा.महत्.तेजो.वसुमद्.भ्राजतो.दिवि.।
साम.आत्मना.चरतस्.साम.चारिणा.ययोर्.व्रतम्.न.वसे.जातु.देवयोः.।

3.22.6

(.उभाव्.अन्तौ.परियात.अर्म्या.दिवो.न.रश्मींस्.तनुतो.व्य्.अर्णवे.।
उभा.भुवन्ती.भुवना.कवि.क्रतू.सूर्या.न.चन्द्रा.चरतो.हतामती.।

3.22.7

पती.द्युमद्.विश्वविदा.उभा.दिवस्.सूर्या.उभा.चन्द्रमसा.विचक्षणा.।
विश्व.वारा.वरिवा.उभा.वरेण्या.ता.).नो.अवतम्.मतिमन्ता.महि.व्रता.।

3.22.8

विश्व.वपरी.प्रत.(.रणा.(.प्रतरणा.).तरन्ता.सुवर्विदा.दृशये.भूरि.रश्मी.।
सूर्या.हि.चन्द्रा.वसु.त्वे.).षदर्शता.(.त्वेष.दर्शता.).मनस्विना.उभा.अनुचरतो.नु.सन्.दिवम्.॥35

3.22.9

अस्य.श्रवो.नद्यस्.सप्त.बिभ्रति.द्यावा.क्षामा.पृथिवी.दर्शतम्.वपुः.।
अस्मे.सूर्या.चन्द्रमसा.अभिचक्षे.श्रद्धे.कम्.इन्द्र.चरतो.वितर्तुरम्.।

3.22.10

पूर्व.अपरम्.चरतो.मायया.एतौ.शिशू.क्रीडन्तौ.परि.यातो.अध्वरम्.।
विश्वान्य्.अन्यो.भुवना.अभिचष्ट.ऋतूंर्.अन्यो.विदधज्.जायते.पुनः.।
असावि.सोमः.पुरु.हूत.तुभ्यम्.॥36.(.प्.107.).

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc