भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 3.10

3.10.1

पावमानीस्.स्वस्त्ययनीस्.सुदुघा.हि.घृत.श्चुतः.।
ऋषिभिस्.सम्भृतो.रसो.ब्राह्मणेष्व्.अमृतम्.हितम्.।

3.10.2

पावमानीर्.दिशन्तु.न.इमम्.लोकम्.अथो.अमुम्.।
कामान्.समर्धयन्तु.नो.देवैर्.देवीस्.समाहृताः.।

3.10.3

येन.देवाः.पवित्रेण.आत्मानम्.पुनते.सदा.।
(.तेन.सहस्र.धारेण.पावमान्यः.पुनन्तु.मा.).।

3.10.4

प्राजापत्यम्.पवित्रम्.शत.उद्यामम्.(.शतोद्यामम्.).ण्हिरण्मयम्.।
तेन.ब्रह्मविदो.वयम्.पूतम्.ब्रह्म.पुनीमहे.।

3.10.5

इन्द्रस्.सुनीती.सह.मा.पुनातु.सोमस्.स्वस्त्या.वरुणस्.समीच्या.।
यमो.राजा.प्रमृणाभिः.पुनातु.माम्.जातवेदा.मोर्जयन्त्या.(.मा.ऊर्जयन्त्या.).पुनातु.।

3.10.6

पावमानीस्.स्वस्त्ययनीर्.याभिर्.गच्छति.नान्दनम्.।
पुण्यांश्.च.भक्षान्.भक्षयत्य्.).अमृतत्वम्.च.गच्छति.।
प्र.देवम्.अच्छा.मधुमन्त.॥16.(.प्.95.).

3.10.1

यन्.मे.गर्भे.वसतः.पापम्.उग्रम्.यज्.जायमानस्य.च.किंचिद्.अन्यत्.।
जातस्य.च.यच्.च.अपि.च.वर्धतो.मे.तत्.पावमानीभिर्.अहम्.पुनामि.।.(.प्.96.).

3.10.2

माता.पित्रोर्.यन्.न.कृतम्.वचो.मे.यत्.स्थावरम्.जङ्गमम्.आबभूव.।
विश्वस्य.यत्.प्रहृषितम्.वचो.मे.तत्.पावमानीभिर्.अहम्.पुनामि.।

3.10.3

क्रय.विक्रयाद्.योनि.दोषाद्.भक्षाद्.भोज्यात्.प्रतिग्रहात्.।
असम्भोजनाच्.च.अपि.नृशंसम्.तत्.पावमानीभिर्.अहम्.पुनामि.।

3.10.4

गोघ्नात्.तस्करत्वात्.स्त्री.वधाद्.यच्.च.किल्बिषम्.।
पापकम्.च.चरणेभ्यस्.तत्.पापवानीभिर्.अहम्.पुनामि.।

3.10.5

ब्रह्म.वधात्.सुरा.पानात्.सुवर्ण.स्तेयाद्.वृषलि.मिथुन.संगमात्.।
गुरोर्.दारा.अभिगमनाच्.च.तत्.पापवानीभिर्.अहम्.पुनामि.।

3.10.6

बालघ्नान्.मातृ.पितृ.वधाद्.भूमि.तस्करात्.सर्व.वर्ण.गमन.मिथुन.संगमात्.।
पापेभ्यश्.च.प्रतिग्रहात्.सद्यः.प्रहरन्ति.सर्व.दुष्कृतम्.तत्.पावमानीभिर्.अहम्.पुनामि.।

3.10.7

अमन्त्रम्.अन्नम्.यत्.किंचिद्द्.हूयते.च.हुत.अशने.।
संवत्सर.कृतम्.पापम्.तत्.पावमानीभिर्.अहम्.पुनामि.।

3.10.8

दुर्यष्टम्.दुरधीतम्.पापम्.यच्.च.अज्ञानतो.कृतम्.।
अयाजिताश्.च.असम्याज्यास्.तत्.पावमानीभिर्.अहम्.पुनामि.।

3.10.9

ऋतस्य.योनयो.अमृतस्य.धाम.सर्वा.देवेभ्यः.पुण्य.गन्धा.।
ता.न.आपः.प्रवहन्तु.पापम्.श्र्द्धा.गच्छामि.सुकृताम्.उ.लोकम्.तत्.पावमानीभिर्.अहम्.पुनामि.।

3.10.16

पावमानीम्.पितॄन्.देवान्.ध्यायेद्.यश्.च.सरस्वतीम्.।
पितॄंस्.तस्य.उपतिष्ठेत.क्षीरम्.सर्पिर्.मधु.उदकम्.।

3.10.17

ऋषयस्.तु.तपस्.तेपुः.सर्वे.स्वर्ग.जिगीषवः.।
तपसस्.तपसो.अग्र्यम्.तु.पावमानीर्.ऋचो.जपेत्.।

3.10.18

पावमानम्.परम्.ब्रह्म.ये.पठन्ति.मनीषिणः.।
सप्त.जन्म.भवेद्.विप्रो.धन.आढ्यो.वेद.पारगः.।

3.10.19

दश.उत्तराण्य्.ऋचाम्.च.एतत्.पावमानीः.शतानि.षट्.।
एतज्.जुह्वम्.जपंश्.चैव.घोरम्.मृत्यु.भयम्.जयेत्.।

3.10.20

पावमानम्.परम्.ब्रह्म.शुक्र.ज्योतिः.सनातनम्.।
ऋषींस्.तस्य.उपतिष्ठेत.क्षीरम्.सर्पिर्.मधु.उदकम्.। (.प्.97.).

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc