ऋग्वेदखिलानि · अध्याय 2.6
हिरण्य.वर्णाम्.हरिणीम्.सुवर्ण.रजत.स्रजाम्.।
चन्द्राम्.हिरण्मयीम्.लक्ष्मीम्.जातवेदो.मम.आवह.।
ताम्.म.आवह.जातवेदो.लक्ष्मीम्.अनपगामिनीम्.।
यस्याम्.हिरण्यम्.विन्देयम्.गाम्.अश्वम्.पुरुषान्.अहम्.।
अश्व.पूर्वाम्.रथ.मध्याम्.हस्ति.नाद.प्रमोदिनीम्.।
श्रियम्.देवीम्.उपह्वये.श्रीर्.मा.देवी.जुषताम्.।
कांस्य्.अस्मि.ताम्.हिरण्य.प्रवाराम्.अर्द्राम्.ज्वलन्तीम्.तृप्ताम्.तर्पयन्तीम्.।
पद्मेस्तिथाम्.पद्म.वर्णाम्.ताम्.इह.उपह्वये.श्रियम्.।
चन्द्राम्.प्रभासाम्.यशसा.ज्वलन्तीम्.श्रियम्.लोके.देव.जुष्टाम्.उदाराम्.।
तम्.पद्म.नेमिम्.शरणम्.प्रपद्ये.अलक्ष्मीर्.मे.नश्यताम्.त्वाम्.वृणोमि.॥6
आदित्य.वर्णे.तपसो.अधिजातो.वनस्पतिस्.तव.वृक्षो.अथ.बिल्वः.।
तस्य.फलानि.तपसा.नुदन्तु.माया.अन्तरा.याश्.च.बाह्या.अलक्ष्मीः.।.(.प्.72.).
उप.एतु.माम्.देव.सखः.कीर्तिश्.च.मणिना.सह.।
प्रादुर्.भूतो.अस्मि.राष्ट्रे.अस्मिन्.कीर्तिम्.वृद्धिम्.ददातु.मे.।
क्षुत्.पिपासा.मला.ज्येष्ठाम्.अलक्ष्मीन्.नाशयाम्य्.अहम्.।
अभूतिम्.असमृद्धिम्.च.सर्वान्.निर्णुद.मे.गृहात्.।
गन्ध.द्वाराम्.दुराधर्षाम्.नित्य.पुष्टाम्.करीषिणीम्.।
ईश्वरीम्.सर्व.भूतानाम्.ताम्.इह.उपह्वये.श्रियम्.।
मनसः.कामम्.आकूतिम्.वाचस्.सत्यम्.अशीमहि.।
पशूनाम्.रूपम्.अन्नस्य.मयि.श्रीश्.श्रयताम्.यशः.।
कर्दमेन.प्रजा.भूता.मयि.सम्भव.कर्दम.।
श्रियम्.वासय.मे.कुले.मातरम्.पद्म.मालिनीम्.।
आप.स्रवन्तु.स्निग्धानि.चिक्लीता.वस.मे.गृहे.।
नि.च.देवीम्.मातरम्.श्रियम्.वासय.मे.गृहे.।
पक्वाम्.पुष्करिणीम्.पुष्टाम्.पिङ्गलाम्.पद्म.मालिनीम्.।
सूर्याम्.हिरण्मयीम्.लक्ष्मीम्.जातवेदो.मम.आवह.।
आर्द्रम्.पुष्करिणीम्.यष्टीम्.सुवर्णाम्.हेम.मालिनीम्.।
चन्द्राम्.हिरण्मयीम्.लक्ष्मीम्.जातवेदो.मम.आवह.।
ताम्.म.आवह.जातवेदो.लक्ष्मीम्.अनपगामिनीम्.।
यस्याम्.हिरण्यम्.प्रभूतम्.गावो.दास्यो.विन्देयम्.पुरुषान्.अहम्.॥8
य.आनन्दम्.समाविशद्.उपाधावन्.विभावसुम्.।
श्रियस्.सर्वा.उपासिष्व.चिक्लीत.वस.मे.गृहे.।
कर्दमेन.प्रजा.स्रष्टा.सम्भूतिम्.गमयामसि.।
अदधाद्.उपागाद्.येषाम्.कामान्.ससृज्महे.।
जातवेदः.पुनीहि.मा.रायस्.पोषम्.च.धारय.।
अग्निर्.मा.तस्माद्.एनसो.विश्वान्.मुञ्चत्व्.अंहसः.।
अच्छा.नो.मित्रमहो.देव.देवान्.अग्ने.वोचस्.सुमतिम्.रोदस्योः.।
वीहि.स्वस्तिम्.सुक्षितिम्.दिवो.नॄन्.द्विषो.अंहांसि.दुरिता.तरेम.ता.तरेम.तव.अवसा.तरेम.।9.(.प्.73.).
धनम्.अग्निर्.धनम्.वायुर्.धनम्.सूर्यो.धनम्.वसुः.।
धनम्.इन्द्रो.बृहस्पतिर्.वरुणम्.धनम्.उत्सृजे.।
वैनतेय.सोमम्.पिब.सोमम्.पिबतु.वृत्रहा.।
सोमम्.धनस्य.सोमिनो.मह्यम्.ददातु.सोमिनः.।
न.क्रोधो.न.च.मात्सर्यम्.न.लोभो.न.अशुभा.मतिः.।
भवन्ति.कृत.पुण्यानाम्.भक्तानाम्.श्री.सूक्तम्.जपेत्.।
सरसिज.निलये.सरोज.हस्ते.धवलतराम्.शुभ.गन्ध.माल्य.शोभे.।
भगवति.हरि.वल्लभे.मनोज्ञे.त्रिभुवन.भूति.करि.प्रसीद.मह्यम्.।.(.प्.77.).
श्री.वर्चस्वम्.आयुष्यम्.आरोग्यम्.आविधात्.शुभमानम्.महीयते.।
धान्यम्.धनम्.पशुम्.बहु.पुत्र.लाभम्.शत.संवत्सरम्.दीर्घम्.आयुः.।
विष्णु.पत्नीम्.क्षमाम्.देवीम्.माधवीम्.माधव.प्रियाम्.।
लक्ष्मीम्.प्रिय.सखीम्.देवीम्.नमान्य्.अच्युत.वल्लभाम्.।
महा.लक्ष्मी.च.विद्महे.विष्णु.पत्नी.च.धीमहि.।
तन्.नो.लक्ष्मीः.प्रचोदयात्.।
पद्म.आनने.पद्मिनि.पद्म.पत्रे.पद्म.प्रिये.पद्म.दल.आयत.अक्षि.।
विश्व.प्रिये.विश्व.मनो.अनुकूले.त्वत्.पाद.पद्मम्.हृदि.सम्निधत्स्व.।
आनन्दः.कर्दमः.श्रीतस्.चिक्लीत.इव.विश्रितः.।
ऋषयश्.श्रियः.पुत्राश्.च.श्रीर्.देवी.देव.देवता.।.(.प्.78.).
ऋण.रोग.आदि.दारिद्र्यम्.पाप.क्षुद्.अपमृत्यवः.।
भयः.शोक.मनस्.तापा.नश्यन्तु.मम.सर्वदा.।
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0