ऋग्वेदखिलानि · अध्याय 2.14
स्वप्नस्.स्वप्न.अधिकरणे.सर्वम्.निष्वापया.जनम्.।
आ.सूर्यम्.अन्यान्.स्वापय.अव्युषम्.जागृयाम्.अहम्.।
क.ईम्.व्यक्ता.नरस्.सनीढाः.॥17
अजगरो.नाम.सर्पः.सर्पिरविषो.महान्.।
तस्मिन्.हि.सर्पः.सुधितस्.तेन.त्वा.स्वापयामसि.।
सर्पः.सर्पो.अजगरः.सर्पिरविषो.महान्.।
तस्य.सर्पात्.सिंधवस्.तस्य.गाधम्.असीमहि.।
कालिको.नाम.सर्पो.नव.नाग.सहस्र.बलः.।.(.काळिक, बळ.).
यमुन.ह्रदे.ह.सो.जातो.यो.नारायण.वाहनः.।
यदि.कालिक.दूतस्य.यदि.काह्कालिकाद्.भयम्.।.(.काळिक.).
जन्म.भूमिम्.अतिक्रान्तो.निर्विषो.याति.कालिकः.।.(.काळिक.).(.प्.86.).
आयाहि.इन्द्र.पथिभिर्.इडितेभिर्.यज्ञम्.इमम्.नो.भाग.धेयम्.जुषस्व.।
तृप्ताम्.जुहुर्.मातुलस्य.इव.योषा.भागस्.ते.पैतृ.स्वसेयी.वपाम्.इव.।.(.मातुळ.).
यशस्करम्.बलवन्तम्.प्रभुत्वम्.तम्.एव.राज.अधिपतिर्.बभूव.।
संकीर्ण.नाग.अश्व.पतिर्.नराणाम्.सुमङ्गल्यम्.सततम्.दीर्घम्.आयुः.।
कर्कोटको.नाम.सर्पो.यो.दृष्टी.विष.उच्यते.।
तस्य.सर्पस्य.सर्पत्वम्.तस्मै.सर्प.नमो.अस्तु.ते.।
नमो.अस्तु.सर्पेभ्यो.ये.के.च.पृथिवीम्.अनु.।
ये.अन्तरिक्षे.ये.दिव्.तेभ्यः.सर्पेभ्यो.नमः.।
उग्र.आयुधाः.प्रमथिनः.प्रवीरा.मायाविनो.बलिनो.मिच्छमानाः.।
ये.देवा.असुरान्.पराभवन्.तांस्.त्वम्.वज्रेण.मघवन्.निवारय.।(.प्.87.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0