भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 59

59.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदतीर्थमाहात्म्यवर्णनं नामाष्टपञ्चाशत्तमो ऽध्यायः॥
शूलभेदमाहात्म्यं समाप्तम्
र्क्व् अध्याय 59
श्रीमार्कण्डेय उवाच:
ततः पुष्करिणीं गच्छेत् सर्वपापप्रणाशिनीम् ।
श्रुते यस्याः प्रभावे तु सर्वपापैः प्रमुच्यते

59.2

रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
यत्रास्ते सर्वदा देवो वेदमूर्तिर्दिवाकरः

59.3

कुरुक्षेत्रं यथा पुण्यं सार्वकामिकमुत्तमम् ।
इदं तीर्थं तथा पुण्यं सर्वकामफलप्रदम्

59.4

कुरुक्षेत्रे यथा वृद्धिर्दानस्य जगतीपते ।
पुष्करिण्यां तथा दानं वर्धते नात्र संशयः

59.5

यवमेकं तु यो दद्यात् सौवर्णं मस्तके नृप ।
पुष्करिण्यां तथा स्थानं यथा स्थानं नरे स्मृतम्

59.6

सूर्यग्रहे तु यः स्नात्वा दद्याद् दानं यथाविधि ।
हस्त्यश्वरथरत्नादि गृहं गाश्च युगंधरान्

59.7

सुवर्णं रजतं वापि ब्राह्मणेभ्यो ददाति यः ।
त्रयोदश दिनं यावत्त्रयोदशगुणं भवेत्

59.8

तिलमिश्रेण तोयेन तर्पयेत् पितृदेवताः ।
द्वादशाब्दे भवेत् प्रीतिस्तत्र तीर्थे महीपते

59.9

यस्तत्र कुरुते श्राद्धं पायसैर् मधुसर्पिषा ।
श्राद्धदो लभते स्वर्गं पित्ःणां दत्तम् अक्षयम्

59.10

अक्षतैर्बदरैर्बिल्वैरिङ्गुदैर्वा तिलैः सह ।
अक्षयं फलमाप्नोति तस्मिंस्तीर्थे न संशयः

59.11

तत्र स्नात्वा तु यो देवं पूजयेच् च दिवाकरम् ।
आदित्यहृदयं जप्त्वा पुनरादित्यम् अर्चयेत् ।
स गच्छेत् परमं लोकं त्रिदशैरपि वन्दितम्

59.12

ऋचमेकां जपेद्यस्तु यजुर्वा साम एव च ।
स समग्रस्य वेदस्य फलमाप्नोति वै नृप

59.13

यस्त्र्यक्षरं जपेन्मन्त्रं ध्यायमानो दिवाकरम् ।
आदित्यहृदयं जप्त्वा मुच्यते सर्वपातकैः

59.14

यस्तत्र विधिवत्प्राणांस्त्यजते नृपसत्तम ।
स गच्छेत्परमं स्थानं यत्र देवो दिवाकरः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc