रेवाखाण्ड (संशोधित पाठ) · अध्याय 25
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये करनर्मदासङ्गममाहात्म्यवर्णनं नाम चतुर्विंशो ऽध्यायः ॥
र्क्व् अध्याय 25
श्रीमार्कण्डेय उवाच:
ओंकारात्पूर्वभागे वै सङ्गमो लोकविश्रुतः ।
रेवया संगता यत्र नीलगङ्गा नृपोत्तम
तत्र स्नात्वा जपित्वा च को ऽर्थो ऽलभ्यो भवेद्भुवि ।
षष्टिर्वर्षसहस्राणि नीलकण्ठपुरे वसेत्
तर्पयित्वा पित्ःञ् श्राद्धे तिलमिश्रैर्जलैरपि ।
उद्धरेदात्मना सार्धं पुरुषानेकविंशतिम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0