रेवाखाण्ड (संशोधित पाठ) · अध्याय 145
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशीतीर्थमहात्म्यवर्णनं नाम चतुश्चत्वारिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 145
मार्कण्डेय उवाच:
ततो गच्छेद्धरापाल शीवतीर्थमनुत्तमम् ।
दर्शनाद्यस्य देवस्य मुच्यते सर्वकिल्बिषैः
शिवतीर्थे तु यः स्नात्वा जितक्रोधो जितेन्द्रियः ।
पूजयेत महादेवं सो ऽग्निष्टोमफलं लभेत्
तत्र तीर्थे तु यो भक्त्या सोपवासो ऽर्चयेच्छिवम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकाद् असंशयम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0