भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 135

135.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रामेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुस्त्रिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 135
श्रीमार्कण्डेय उवाच:
तस्यैवानन्तरं चान्यत्सिद्धेश्वरमनुत्तमम् ।
तीर्थं सर्वगुणोपेतं सर्वलोकेषु पूजितम्

135.2

तत्र तीर्थे तु यः स्नात्वा ह्युमारुद्रं प्रपूजयेत् ।
वाजपेयस्य यज्ञस्य स लभेत् फलमुत्तमम्

135.3

तेन पुण्येन महता मृतः स्वर्गमवाप्नुयात् ।
अप्सरोगणसंवीतो जयशब्दादिमङ्गलैः

135.4

सहस्रवत्सरांस्तत्र क्रीडयित्वा यथासुखम् ।
धनधान्यसमोपेते कुले महति जायते

135.5

पूज्यमानो नरश्रेष्ठ वेदवेदाङ्गपारगः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc