रेवाखाण्ड (संशोधित पाठ) · अध्याय 126
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 126
मार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र परं तीर्थमयोनिजम् ।
स्नातमात्रो नरस्तत्र न पश्येद् योनिसङ्कटम्
तत्र तीर्थे नरः स्नात्वा पूजयेद् देवमीश्वरम् ।
अयोनिजो महादेव यथा त्वं परमेश्वर
तथा मोचय मां देव सम्भवाद् योनिसङ्कटात् ।
गन्धपुष्पादिधूपैश्च स मुच्येत् सर्वपातकैः
तस्य देवस्य यो भक्त्या कुरुते लिङ्गपूरणम् ।
स वसेद्देवदेवस्य यावत्सिक्थस्य संख्यया
अयोनिजे महादेवं स्नापयेद् गन्धवारिणा ।
मधुक्षीरेण दध्ना वा स लभेद् विपुलां श्रियम्
अष्टभ्यां च सिते पक्षे असितां वा चतुर्दशीम् ।
पूजयित्वा महादेवं प्रीणयेद् गीतवाद्यकैः
वसेत्स च शिवे लोके ये कुर्वन्ति मनोहरम् ।
ते वसन्ति शिवे लोके यावद् आभूतसम्प्लवम्
तस्य देवस्य भक्त्या तु यः करोति प्रदक्षिणाम् ।
विज्ञापयंश्च सततं मन्त्रेणानेन भारत
तस्य यत्फलमुद्दिष्टं पारम्पर्येण मानवैः ।
सकाशाद्देवदेवस्य तच्छृणुष्व समाधिना
अयोनिजो महादेव यथा त्वं परमेश्वर ।
तथा मोचय मां शर्व सम्भवाद्योनिसङ्कटात्
किं तस्य बहुभिर्मन्त्रैः कंठशोषणतत्परैः ।
येनौंनमः शिवायेति प्रोक्तं देवस्य संनिधौ
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनौंनमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः
न तत्फलमवाप्नोति सर्वदेवेषु वै द्विजः ।
यत्फलं समवाप्नोति षडक्षर उदीरणात्
तत्र तीर्थे तु यः स्नात्वा पूजयेच्छिवयोगिनम् ।
द्विजानामयुतं साग्रं स लभेत् फलमुत्तमम्
अथवा भक्तियुक्तस्तु तेषां दान्ते जितेन्द्रिये ।
संस्कृत्य ददते भिक्षां फलं तस्य ततो ऽधिकम्
यतिहस्ते जलं दद्याद् भिक्षां दत्त्वा पुनर्जलम् ।
सा भिक्षा मेरुणा तुल्या तज्जलं सागरोपमम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0