भाषा

ENहिગુ
ग्रंथ पाठ

प्रवारणावस्तु · भाग 18

प्रवारणावस्तु
प्रवा-व् 1.1.1-3
सन्स्क्रित् तेxत् लोस्त्
प्रवा-व् 1.2.1-3
सन्स्क्रित् तेxत् लोस्त्
प्रवा-व् 1.3
सन्स्क्रित् तेxत् लोस्त्
प्रवा-व् 2.1-2
सन्स्क्रित् तेxत् लोस्त्
प्रवा-व् 2.3.1
सन्स्क्रित् तेxत् लोस्त्
प्रवा-व् 2.3.2.1.
ततः पश्चात् प्रवारको भिक्षुः संमन्तव्यः. पञ्चभिर् धर्मैः समन्वागतः प्रवारको भिक्षुर् असंमतो न संमन्तव्यः. संमतश् चावकाशयितव्यः. कतमैः पञ्चभिः. छन्दाद् गच्छति द्वेषान् मोहाद् भयाद् गच्छति प्रवारणां चाप्रवारणां न जानाति. एभिः पञ्चभिर् धर्मैः ( प्रवा-व् 148 ) समन्वागतः प्रवारको भिक्षुर् असंमतो न संमन्तव्यः. संमतश् चावकाशयितव्यः. पञ्चभिस् तु धर्मैः समन्वागतः प्रवारको भिक्षुर् असंमतः संमन्तव्यः. संमतश् च नावकाशयितव्यः. कतमैः पञ्चभिः. न छन्दाद् गच्छति न द्वेषान् न मोहाद् न भयाद् गच्छति प्रवारणां चाप्रवारणां जानाति. एभिः पञ्चभिर् धर्मैः समन्वागतः प्रवारको भिक्षुर् असंमतः संमन्तव्यः. संमतश् च नावकाशयितव्यः.
प्रवा-व् 2.3.2.2.
एवं च पुनः संमन्तव्यः. शयनासनप्रज्ञप्तिं कृत्वा पूर्ववद् यावद् उत्साहयितव्यः. उत्सहसे त्वम् एवंनामा संघस्य प्रवारणां प्रवारयितुम् इति. सचेद् उत्सहते तेन वक्तव्यम् उत्सहे.
प्रवा-व् 2.3.2.3.1.
ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्. शृणोतु भदन्ताः संघः. अयम् एवंनामा प्रवारको भिक्षुर् उत्सहते संघस्य प्रवारणां प्रवारयितुम्. सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ एवंनामानं प्रवारकं संमन्येत. एवंनामा प्रवारको भिक्षुः संघस्य प्रवारणां प्रवारयितुम्. एषा ज्ञप्तिः.
प्रवा-व् 2.3.2.3.2.
एवं च कर्म कर्तव्यम्. शृणोतु भदन्ताः संघः. एवंनामा प्रवारको ( प्रवा-व् 149 ) भिक्षुर् उत्सहते संघस्य प्रवारणां प्रवारयितुम्. तत् संघ एवंनामानं प्रवारकं भिक्षुं संमन्येत. अयम् एवंनामा प्रवारको भिक्षुः संघस्य प्रवारणां प्रवारयिष्यति. येषाम् आयुष्मतां क्षमत एवंनामानं प्रवारकं भिक्षुं संमन्तुं यद् एवंनामा प्रवारको भिक्षुः संघस्य प्रवारणां प्रवारयिष्यति ते तूष्णीम्. न क्षमते भाषन्ताम्.
प्रवा-व् 2.3.2.3.3.
संमतः संघेनैवंनामा प्रवारको भिक्षुः. अयम् एवंनामा प्रवारको भिक्षुः संघस्य प्रवारणां प्रवारयिष्यति. क्षान्तम् अनुज्ञातं संघेन. यस्मात् तूष्णीम् एवम् एतद् धारयामि.
प्रवा-व् 2.3.3.1.
सन्स्क्रित् तेxत् लोस्त्
प्रवा-व् 2.3.3.2.
सन्स्क्रित् तेxत् लोस्त्
प्रवा-व् 2.3.3.3.
... समन्वाहरायुष्मन्न् अद्य संघस्य प्रवारणा पाञ्चदशिका. ममाप्य् एवंनाम्नो भिक्षोः प्रवारणा पाञ्चदशिका. सो ऽहम् एवंनामा भिक्षुर् भदन्ता त्रिभिः स्थानैः प्रवारयामि दृष्टेन श्रुतेन परिशङ्कया. अववदन्तु मा म् आयुष्मंतः. अनुशास् अन्तु माम् आयुष्मन्तः. अनुकंपका अनुकंपका अनुकंपाम् उपादाय. जानं पश्यन्न् आपत्तिं यथाधर्मं यथाविनयं प्रतिकरिष्ये. एवं द्विर् अप्य् एवं त्रिर् अपि. ... (एxतन्त् तेxत् fरोम् स्ह्त् 4473र्1).
प्रवा-व् ज् 2.3.3.4.
॥। प्रवार वकेन प्रवारयित व्यं ॥। (स्ह्त् 4473र्2).
प्रवा-व् ज् 2.3.3.5.
॥। प्रवारयित व्यः तत ः पश्चाद् भिक्षुण्यः प् र् अवारयन्ति ॥। (स्ह्त् 4473र्3).
प्रवा-व् ज् 2.3.3.6.
॥। क सर्वैर् वक्तव्यं साधु प्रवा रयितं ॥। (स्ह्त् 4473र्4).
प्रवा-व् ज् 2.3.4.
॥। सित्वा । + तुं लभ्यं भदंत एवं ॥। (स्ह्त् 4473र्5).
प्रवा-व् ज् 3.1.
आयुष्मान् उपालि बुद्धं भग वन्त ं पृच् छति . कति भदंत प्रवार् अणाकर्मानि. चत्वार्य् उपालिन्. अधर्मेण कुर्वन्ति व्यग्राः. अधर्मेण समग्राः. धर्मेण व्यग्राः. धर्मेण समग्राः . (एxतन्त् तेxत् fरोम् स्ह्त् 4473व्1).
प्रवा-व् ज् 3.2.
तत्रैकं धार्मिकं प्रवारणाकर्म यद् इ दं धर्मेण प्रवारयंति समग्राः. (एxतन्त् तेxत् fरोम् स्ह्त् 4473व्2).
प्रवा-व् ज् 4.1.

अथ भगवांस् तद् एव प्रवारणायां पञ्चदश्यां पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः. निषद्य भगवान् भिक्षून् आमन्त्रयते स्म. निर्गच्छन्ति भिक्षवो रात्रिः. कुरुत भिक्षवः प्रवारणाम्. अथान्यतमो भिक्षुर् उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्. अन्यतम स्मिं भदंतावासे भिक् षुर् आबाधिको दुःखितो बाढग्लानः. तस्यास्माभिः कथं प्रतिपत्तव्यम्. भगवान् आह. प्रवारणास्यानयितव्या. उक्तं भगवता प्रवारणास्यानयितव्येति भिक्षवो न जानते कथ म् आनयितव्येति. भगवान् आह. एकस्यैकेन द्वयोर् एकेन संबहुलानां यावतां वा शक्नोति संघमध्ये नामानि परिकीर्तयितुम्. (एxतन्त् तेxत् fरोम् स्ह्त् 4473व्3-5).
प्रवा-व् ज् 4.2.
प्रवारणादायकस्याहं भिक्षव भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि. प्रवारणादायकेन भिक्षुणैकांसम् उत्तरासङ्गं कृत्वा उपानहाव् अवमुच्य यथावृद्धिकया सामीचीं कृत्वोत्कुटुकेन निषद्याञ्जलिं प्रणम्येदं स्याद् वचनीयम्. समन्वाहरायुष्मन्न् अद्य संघस्य प्रवारणा पाञ्चदशिका. ममाप्य् एवंनाम्नो भिक्षोः प्रवारणा पाञ्चदशिका. सो ऽहम् एवंनामा भिक्षुः परिशुद्धम् अन्तरायिकैर् धर्मैर् आत्मानं वदामि. प्रवारणायां मे पारिशुद्धिम् आरोचयाम्य्. आरोचितां च प्रवेदयामि. एवं द्विर् अप्य् एवं त्रिर् अपि.
प्रवा-व् ज् 4.3.
प्रवारणादायको भिक्षुः सचेत् कायविज्ञप्त्या प्रवारणां ददाति दत्ता प्रवारणा वक्तव्या. वाग्विज्ञप्त्या ददाति दत्ता प्रवारणा वक्तव्या. कायविज्ञप्त्या च वाग्विज्ञप्त्या च ददाति दत्ता प्रवारणा वक्तव्या. न कायविज्ञप्त्या न वाग्विज्ञप्त्या ददाति सर्वसंघेन वा तत्र गन्तव्यं स वा भिक्षुः संघमध्ये ऽवतारयितव्यः. न सर्वसंघस् तत्र गच्छति तं च भिक्षुं संघे नावतारयिष्यन्ति व्यग्राः कुर्वन्ति सातिसारा भवन्ति. प्रवारणादायको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते सातिसारो भवति.
प्रवा-व् ज् 4.4.
प्रवारणाग्राहकस्याहं भिक्षव भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि. प्रवारणाग्राहकेन भिक्षुणा प्रवारणां गृहीत्वा न धावितव्यं न द्रवितव्यं न लङ्घयितव्यं न परिखा लङ्घयितव्या न परिषण्डा लङ्घयितव्या नोपरिविहायसा स्थातव्यं न बहिःसीमां गन्तव्यं नैकेन पादेन द्वौ निश्रेणपदकाव् अभिरुहितव्यौ नैकेन पादेन द्वौ सोपानकडेवराव् अभिरुहितव्यौ न स्वपितव्यं न समापत्तव्यम्. स्वपिति समापद्यते द्वाभ्यां कारणाभ्यां गर्ह्यो भवति यच् चालज्जित्वेन यच् च वैतरिकत्वेन.
प्रवा-व् ज् 4.5.
यदा संघस्थविरः कथयत्य् अनागमनायायुष्मन्तश् छन्दं च पारिशुद्धिं चारोचयत, आरोचितां च प्रवेदयतेति, तेनान्तरिकस्य भिक्षोः पुरतः स्थित्वा वक्तव्यम्. समन्वाहरायुष्मन्न् अमुष्मिन्न् आवासे भिक्षुर् आबाधिको दुःखितो बाढग्लानः. अद्य संघस्य प्रवारणा पाञ्चदशिका. ( 69र् = ग्म्ब् 6.1054 ) तस्यापि भिक्षोः प्रवारणा पाञ्चदशिका. सो ऽय म् एवंनामा भिक्षुस् ( प्रवा-व् 152 ) त्रिभिः स्थानैः प्रवारयति दृष्टेन श्रुतेन परिशङ्कया. प्रवारणे ऽस्य छन्दं च प्रवारणां चारोचयामि. आरोचितां च प्रवेदयामि. प्रवारणाग्राहको भिक्षुर् आसमुदाचारिकान् धर्मान् न समादाय वर्त ते सातिसारो भवति. (ग्ब्म् 6.1054.1-2; म्स्व्,wइ 43).
प्रवा-व् ज् 4.6.
आयुष्मान् उपाली बुद्धं भग वन्तं पृच्छति. प्रवारणाग्राहकस् तावद् भदन्त भिक्षुः प्रवारणां गृहीत्वा तत्रैवोच्छिद्य कालं कुर्यात्. आनीता प्रवारणा वक्तव्या अनानीता. अनानीतोपालिन्. पुनर् अप्य् आनयितव्या. प्रवारणाग्राहकस् तावद् भदन्त भिक्षुः प्रवारणां गृहीत्वा संघमध्ये प्राप्तः कालं कुर्यात्. आनीता प्रवारणा वक्तव्या अनानीता. अनानीतोपालिन्. पुनर् अप्य् आनयितव्या. (ग्ब्म् 6.1054.2; म्स्व्,wइ 43).
प्रवा-व् ज् 4.7.
आगारिकत्वं प्रतिजानाति. श्रमणो द्देशकत्वं षण्ढकत्वं पण्डकत्वं भिक्षुणीदूषकत्वं मातृघातकत्वं पितृघातकत्वम् अर्हद्घातकत्वं संघभेदकत्वं तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकत्वं तीर्थिकत्वं तीर्थिकावक्रान्तकत्वं स्तेयासंवासिकत्वं नानासंवासिकत्वम् असंवासिकत्वं प्रतिजानाति. आनीता प्रवारणा वक्त व्या अनानीता । अनानीता उपालिं । पुनर् अप्य् आनयि तव्या. (ग्ब्म् 6.1054.3-4; म्स्व्,wइ 43).
प्रवा-व् ज् 5.1.1.
आयुष्मान् उपाली बुद्धं भग वन्तं पृच्छति । यस्मिन् भदन्तावासे एको भिक्षुः प्र तिवसति, तेन तद् एव प्रवारणायां पञ्चदश्यां कथं प्रतिपत्तव्यम्. तेनोपालिन् भिक्षुणा विहारः सेक्तव्यः संमार्जितव्यः सुकुमारी गोमयकार्ष्य् अनुप्रदातव् य् आ . सि ं हासनं प्रज्ञपयितव्यम्*. आसनप्रज्ञप्तिः क र्तव्या. धर्मश्रवणं दातव्यम् . (ग्ब्म् 6.1054.5-6; म्स्व्,wइ 43).
प्रवा-व् ज् 5.1.2.
ततः पश्चाद् उच्चतरके देशे चतुर्दिशं प्रेक्षितव्यम् .
प्रवा-व् ज् 5.1.3.1.
सचेत् परिशुद्धाः समानदृष्टयो भिक्षव आगच्छन्ति, त इदं स्युर् व् अ क्त् अ व्यास्. त्वरितत्वरितं तावद् आयुष्मन्त आगच्छताद्य संघस्य प्रवा रणा पाञ्चदशिका. ममाप्य् एवंनाम्नो भिक्षोः प्रवारणा पाञ्चदशिका. सो ऽहम् एवंनामा भिक्षुर् अद्य भदन्तानां पुरतः प्रवारयामि त्रिभिः स्थानैर् दृष्टेन श्रुतेन परिशङ्कया. एवं द्विर् अप्य् एवं त्रिर् अपि. (ग्ब्म् 6.1054.7; म्स्व्,wइ 43).
प्रवा-व् ज् 5.1.3.2.
सचेत् संपद्यत इत्य् एवं कुशलम्. नो चेत् संपद्यते, तेन भिक्षुणा स्वासन आसद्य चित्तम् इत्य् एवम् उत्पादयितव् य् अं व् आ ग् भाषितव्या. अद्य संघस्य प्रवारणा पांचदशिका. ममाप्य् एवंनाम्नो भिक्षोः प्रवारणा पांचदशि का. सो ऽहम् एवंनामा भिक्षुर् अद्य तावद् प्रवारणाम् अधितिष्ठामि. प्रवारयिष्ये दृष्टेन श्रुतेन परिशङ्कया. एवं द्विर् अप्य् एवं त्रिर् अ प् इ । (ग्ब्म् 6.1054.8-9; म्स्व्,wइ 43).
प्रवा-व् 5.2.
यत्र द्वौ भिक्षू प्रतिवसतस् तत्र एष एवानुपूर्वी आन्योन्यम् आरोचयितव्यम्*. यत्र त्रयो भिक्षवः प्रतिवसन्ति, तत्राप्य् आनुपूर्व्यान्योन्यम् आरोचयितव्यम्. यत्र चत्वारो भिक्षवः प्रतिवसन्ति, तैर् ज्ञप्तिं कृत्वा प्रवारयितव्यम्. नो तु प्रवारको भिक्षुः संमन्तव्य ः. (ग्ब्म् 6.1054.9-10; म्स्व्,wइ 43).
प्रवा-व् 5.3.1.
यत्र पंच भिक्षवः प्रतिवसन्ति, तैर् ज्ञप्तिं कृत्वा प्रवारयितव्यं. प्रवारको भिक्षुः संमन्तव्यः. नो तु ग्लानस्य प्रवा रणा ( 69व् = ग्ब्म् 6.1053 ) ग्रहीतव्या. (ग्ब्म् 6.1054.10; म्स्व्,wइ 43).
( प्रवा-व् 154
प्रवा-व् 5.3.2.
यत्र षड् वोत्तरे वा भिक्षवः प्रतिवसन्ति, तैर् ज्ञप्तिं कृत्वा प्रवारयितव्यम्. प्रवारको भिक्षुः संमन्तव्यः. ग्लानस्य प्रवारणा ग्रहीतव्या.
उद्दान 3.
अन्तरोद्दा नम्* ॥
अधार्मिकं स्थापनीयम् एकवाचा प्रवारणा ।
कस्मिन्न् एका हि का वाचा क्रिया उपगते हि च ॥ ॥
(ग्ब्म् 6.1053.1; म्स्व्,wइ 44).
प्रवा-व् 6.1.

एकं धार्मिकं प्रवारणास्थापनम् एकम् अधार्मिकम्. त्रीणी वा धार्मिकानि प्रवारणास्थापनान्य् एकम् अधार्मिकम्. पञ्च वा धार्मिकाणि प्रवारणास्थापनान्य् एकम् अधार्मिकम्. (ग्ब्म् 6.1053.1; म्स्व्,wइ 44).
प्रवा-व् 6.2.1.
एकं धार्मि क् अं प्रवारणास्थापनम् एकम् अधार्मिकं कतमत्*. (ग्ब्म् 6.1053.2; म्स्व्,wइ 44).
प्रवा-व् 6.2.2.
एकवाचिकायां प्रवारणायाम् वाचि भाष्यमाणायां अ पर्यवसितायां प्रवा रणां स्थापयति धार्मिकं प्रवारणास्थापनम्. (ग्ब्म् 6.1053.2; म्स्व्,wइ 44).
प्रवा-व् 6.2.3.

वाचि भाषितायां पर्यवसितायां प्रवारणां स्थापयत्य् अधार्मिकं प्रवारणास्थापनम्.
प्रवा-व् 6.2.4.
इतीम एकं धार्मिकं प्रवारणास्थापनम् एक म् अधार्मिकं । (ग्ब्म् 6.1053.3; म्स्व्,wइ 44).
प्रवा-व् 6.3.1.)
त्रीणी वा धार्मिकानि प्रवारणास्थापनानि एकम् अधार्मिकं कतमत्*. (ग्ब्म् 6.1053.3; म्स्व्,wइ 44).
प्रवा-व् 6.3.2.1.
द्विवाचिकायां प्रवारणायां प्रथमा यां वाचि भाष्यमाणायाम् अपर्यवसितायायां प्रवारणां स्थापयति धार्मिकं प्रवारणास्थापनम्. (ग्ब्म् 6.1053.3; म्स्व्,wइ 44).
प्रवा-व् 6.3.2.2.
प्रथमायां वाचि भाषितायां पर्यवसितायां प्रवारणां स्थापयत्य् धार्मिकं प्रवारणास्थापनम्.
प्रवा-व् 6.3.2.3.
द्वित् ईयायां वाचि भाष् य् अमाणायां अ पर्यवसितायायां प्रवारणा ं स्थापयति धार्मिकं प्रवारणास्थाप नम्. (ग्ब्म् 6.1053.4; म्स्व्,wइ 44).
प्रवा-व् 6.3.3.
द्वितीयायां वाचि भाषितायां पर्यवसितायां प्रवारणां स्थापयत्य् अधार्मिकं प्रवारणास्थापनम्.
प्रवा-व् 6.3.4.
इतीमानि त्रीणि धार्मिकाणि प्रवारणास्थापनान्य् एकम् अधार्मिकम्.
प्रवा-व् 6.4.1.
पञ्च वा धार्मिकाणि प्रवारणास्थापनान्य् एकम् अधार्मिकं कत मत्*. (ग्ब्म् 6.1053.5; म्स्व्,wइ 44).
प्रवा-व् 6.4.2.1.
त् र् इवाचिकायां प्रवारणायां प्रथमायां वाचि भाष्यमाणा याम् अपर्यवसितायां प्रवारणां स्थापयति धार्मिकं प्रवारणास्थापनम्. (ग्ब्म् 6.1053.5; म्स्व्,wइ 44).
प्रवा-व् 6.4.2.2.
प्रथमायां वाचि भाषितायां पर्यवसितायां प्रवारणां स्थापयति धार्मिकं प्रवारणास्थापनम्.
प्रवा-व् 6.4.2.3.
द्वितीयायां वाचि भाष्यमाणायाम् अपर्यवसितायां प्रवारणां स्थापयति ध् आर्मिकं प्रवारणास्थापनं । (ग्ब्म् 6.1053.6; म्स्व्,wइ 44).
प्रवा-व् 6.4.2.4.
द्वितीयायां वाचि भाषितायां पर्यवसि तायां प्रवारणां स्थापयति धार्मिकं प्रवारणास्थापनम्. (ग्ब्म् 6.1053.6; म्स्व्,wइ 44).
प्रवा-व् 6.4.2.5.
तृतीयायां वाचि भाष्यमाणायाम् अपर्यवसितायां प्रवारणां स्थापयति धार्मिकं प्रवारणास्थापनम्.
प्रवा-व् 6.4.3.
तृतीयायां वाचि भाषितायां पर्यवसितायां प्रवारणां स्थापयत्य् अधार्मिकं प्रवार णास्थापनं. (ग्ब्म् 6.1053.7; म्स्व्,wइ 44).
प्रवा-व् 6.4.4.
इतीमानि पञ्च धार्मिकाणि प्रवार णास्थापनान्य् एकम् अधार्मिकम्. (ग्ब्म् 6.1053.7; म्स्व्,wइ 44).
प्रवा-व् 7.1.
अस्त्य् एकवाचिका प्रवारणा, द्विवाचिका प्रवारणा, त्रिवाचिका प्रवारणा, गणप्रवारणा. कस्मिन्न् अर्थे एकवाचिका प्रवारणा.
उद्दान 4.
अन्तरोद्दानम् ॥
अर्शा च वर्षा च राजा मधुरं धर्मं विनिश्चयं ।
संघो ऽन्तरा यपतितः अयं संगृहीतो गणः ॥ ॥
(ग्ब्म् 6.1053.8; म्स्व्,wइ 44).
प्रवा-व् 7.2.1.1.1.
यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां सम्बहुला भिक्षवः ...

प्रवा-व् 7.2.1.1.2.
तत्र प्रवारकस्य भिक्षोर् एवं भवति. अद्य सं घस्य प्रवारणा पांचदशिका । इमे च संबहुला भिक्षवः ... (ग्ब्म् 6.1053.9; म्स्व्,wइ 44).
प्रवा-व् 7.2.1.1.3.
अहं चेत् त्रिवाचिकया प्रवारणया प्रवारयेयं, ... यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयम्. स एकवाचिकया प्रवार णया प्रवारयति । अस्मिन्न् अर्थे एकवाचिका ( 70र् ) प्रवारणा. (ग्ब्म् 6.1053.10; म्स्व्,wइ 44).
fओर् प्रवा-व् 7.2.1.2.1-7.2.1.8.1 थे सन्स्क्रित् तेxत् ओf थे मनुस्च्रिप्त् (fओल्. 70) इस् लोस्त्. थे एxतन्त् तेxत् इस् fरोम् अ fरग्मेन्त् ओf थे प्रवारणावस्तु ओf थे मूलसर्वास्तिवादिन् fरोम् थे तुर्fअन् चोल्लेच्तिओन् (स्ह्त् वि 1578).
प्रवा-व् 7.2.1.2.1.
अपरस्मिन्न् अर्थ एकवाचिका प्रवारणा. यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां संबहुलानि भवन् ति शय् अ नासनान्य् अभ्यवकाशे उ पनिक्षिप्तानि. देवः प्रवर्षति ... (स्ह्त् वि 1578र्1).
प्रवा-व् 7.2.1.2.2.
तत्र प्रवारकस्य भिक्षोर् एवं भवति. अद्य संघस्य प्रवारणा पांचदशिका. सम्बहुलानि च भवन्ति शय नासनान्य् अभ्यवकाशे उपनिक्षि प्तानि. देवः प्रवर्षति ... (स्ह्त् वि 1578र्2-3).
प्रवा-व् 7.2.1.2.3.
अहं चेत् त्रिवाचिकया प्रवारणया प्रवारयेयं, शयनासनानि न शक्नोम्य् अनार्द्रम्(?) उपसंहार यितुम्(?). यन्व् अहं एकवाचिकया प्रवारणया प्रवारयेयम्. स एकवाचिकया प्रवारणया प्रवारयति. अस्मिन्न् अर्थ एकवाचिका प्रवारणा. (स्ह्त् वि 1578र्3-4).
प्रवा-व् 7.2.1.3.1.
अपरस्मिन्न् अर्थ ए कवाचिका प्रवारणा. यथा पि तत् तद् एव प्रवारणायां पञ्चदश्यां राजा स्वकीयैः सार्धं देवीभिः कुमारैर् अमात्यैर् भटबलाग्रैर् निगमजानपदैर् आरामम् आगच्छति. राज्ञा संघस्य प्रभूतो वस्त्रलाभः आ मिषलाभः दत्तः. देवीभिर् अपि कुमारैर् अमात्यैर् भटबलाग्रैर् निगमजानपदैर् प्रभूतो वस्त्रलाभ आमिषलाभो दत्तः. उद्घोषकेन च भिक्षुणा उद्घोषय ... (स्ह्त् वि 1578र्4-व्1).
प्रवा-व् 7.2.1.3.2.
तत्र प्रवारकस्य भिक्षोर् एवं भवति. अद्य संघस्य प्रवारणा पांचदशिका. राजा च स्वकीयै ः सार्धं देवीभिः कुमारैः अमात्यैः भ टबलाग्रैर् निगमजानपदैर् आरामम् आगच्छति. राज्ञा संघस्य प्रभूतो वस्त्रलाभ आमिषलाभो दत्तः. देवीभिर् अपि कुमारैर् अमात्यैर् भटब लाग्रै र् निगमजानपदैः प्रभूतो वस्त्रलाभ आमिषलाभो दत्तः. उद्घोषकेन च भिक्षुना उद्घोषय ... (स्ह्त् वि 1578व्2-3).
प्रवा-व् 7.2.1.3.3.
अहं चेत् त्रिवाचिकया प्रवारणया प्रवारयेयं, न श क्नोमि ... प्रवारयितुम्. यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयम्. स एकवाचिकया प्रवारणया प्रवारयति. अस्मि न्न् अर्थे एकवाचिका प्रवारणा. (स्ह्त् वि 1578व्4-5).
प्रवा-व् 7.2.1.8.1.
अपरस्मिन्न् अर्थ एकवाचिका प्रवारणा. यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां चोरा ग्रामं निर्घातयन्ति नगरं वा निगमं वा. आरामद्वारम् आगत्य गां हत्वा महिषीं छगलिकां वा रुधिराङ्गकानि रुधिरविलेखकानि कृत्वा भिक्षूणां दूतम् अनुप्रेषयन्ति. निर्गच्छन्त्व् आर्याः. वयम् अत्र वत्स्यामः.
प्रवा-व् 7.2.1.8.2.
तत्र प्रवारकस्य भिक्षोर् एवं भवति. अद्य संघस्य प्रवारणा पाञ्चदशिका. चोराश् च ग्रामं निर्घातयन्ति नगरं वा निगमं वा. ( 71र् = ग्ब्म् 6.724 ) ( प्रवा-व् 159 ) आरामद्वारम् आगत्य गां हत्वा महिषीं छगलिकां वा रुधिरांगकानि रुधिरविलेखकानि कृत्वा भिक्षूणां दूतम् अनुप्रेषयन्ति. निर्गच्छन्त्व् आर्या ः . वयम् अत्र वत्स्यामः. (ग्ब्म् 6.724.1; म्स्व् इव् 119.1-3).
प्रवा-व् 7.2.1.8.3.
अहं चेत् त्रिवाचिकया प्रवारण या प्रवार येयं, स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायो ब्रह्मचर्यान्तरायः. यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति. अस्मिन्न् अर्थे एकवाचिका प्रवारणा. (ग्ब्म् 6.724.1-2; म्स्व् इव् 119.3-6).
प्रवा-व् 7.2.1.9.1.
अ पर स्मिन्न् अर्थे एकवाचिका प्रवारणा. यथापि तत् तद् एव पंचदश्यां प्रवारणायां अन्यतमेन महल्लेन बालेन मूढेनाव्यक्तेनाकुशलेन गोचरे वा गोचरमार्गे वा कुलस्त्री वा कुलकुमारी वा आक्रुष्टा भवत्य् आभाष्टा परामृष्टा वा. मनुष्याः प्रकुपि ता आरामद्वारम् आगत्य यथा गृहीतका न् उद्घोषयन्ति. गृःणंतु भवंत ः श्रमणां शाक्यपुत्रीयां. हनंतु. बध्नंतु. प्रवासयंतु. राज्ञ ः हस्त्यारोहा भविष्य न् त्य् अश्वारोहा इष्टकारोहा ध्वजारोहाः पताकारोहा वा . पृथग् राजकृत्यानि राजकरणीयानि करिष्यंति. (ग्ब्म् 6.724.2-4; म्स्व् इव् 119.7-14).
प्रवा-व् 7.2.1.9.2.
तत्र प्रवारकस्य भिक्षोर् एवं भवति. अद्य संघस्य प्रवारणा पांचदशिका. अन्यतमेन च महल्लकेन मूढेनाव्यक्तेनाकुशलेन गोचरे वा गोचरमार्गे वा कुलस्त्री वा कुलकुमारी वा आक्रुष्टा भवत्य् आभाष्टा परामृष्टा वा. मनुष्याः प्रकुपिताः आरामद्वारम् आगत्य यथा गृहीतका न् उद् घोषयंति. गृह्णंतु भवन्तः श्रमणां शाक्यपुत्रीयां. हनंतु. बध्नंतु. प्रवासयन्तु. राज्ञः हस्त्यारोहा भविष्यन्त्य् ( प्रवा-व् 160 ) अ श्वारोहा इष्टकारोहा ध्वजारोहा ः पताकारोहा वा . पृथग् राजकृत्यानि राजकरणीयानि करिष्यंति. (ग्ब्म् 6.724.4-6; म्स्व् इव् 119.14-120.2).
प्रवा-व् 7.2.1.9.3.
अहं चे त् त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायो ब्रह्मचर्यान्तरायः. यन्व् अहम् एकवाचिक या प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति । अस्मिन्न् अर्थे एकवाचिका प्रवारणा. (ग्ब्म् 6.724.6-7; म्स्व् इव् 120.2-6).
प्रवा-व् 7.2.1.10.1.
अपरस्मिन्न् अर्थ एकवाचिका प्रवारणा. यथापि तद् विहारः अमनुष्याध्युषिते प्रदेशे प्रतिष्ठापितो भवति । अन्यतमेन च महल्लेन बालेन मूढेनाव्यक्तेनाकुशलेनाप्रतिरूपे प्रदेश उच्चारप्रस्रावं खेटं शि ङ् घाणकं वान्तं विरिक्तं छोरितम् अशुचिम्रक्षितं वा शयनासनं प्रविक्षिप्तं. अमनुष्याः प्रकुपिताः गोचरे ऽपि तिष्ठंति गोचरमार्गे ऽपि चंक्रमे ऽपि मेढ्या म् अपि द्वारकोष्ठ के ऽपि. भिक्षून् अप्य् आविशंति, मञ्चान् अपि संपरिवर्तयन्ति. (ग्ब्म् 6.724.7-8; म्स्व् इव् 120.7-12).
प्रवा-व् 7.2.1.10.2.
तत्र प्रवारकस्य भिक्षोर् एवं भवति : अद्य संघस्य प्रवारणा पांचदशिका. अयं च विहारो ऽमनुष्याध्युषिते प्रदेशे प्रतिष्ठापितः. अन्यतमेन च महल्लेन बालेन मूढेनाव्यक्तेनाकुशलेनाप्रतिरूपे प्रदेश ( प्रवा-व् 161 ) उच्चारप्रस्रावं खेटं शिङ्घाणकं वान्तं विरिक्तं छोरितम् अशुचिम्रक्षितं वा शयनासनं प्रविक्षिप्तं. अमनुष्याः प्रकुपिता गोचरे ऽपि तिष्ठन्ति गोचरमार्गे ऽपि चङ्क्रमे ऽपि मेढ्याम् अपि द्वारकोष्ठके ऽपि. भिक्षून् अप्य् आविशन्ति, मञ्चान् अपि संपरिवर्तयन्ति. (ग्ब्म् 6.724.8-9; म्स्व् इव् 120.12-14).
प्रवा-व् 7.2.1.10.3.

अहं चेत् त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायो ब्रह्मचर्यान्तरायः. यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयम्. स एकवाचिकया प्रवारणया प्रवारयति. अस्मिन्न् अर्थे एकवाचिका प्रवारणा.
प्रवा-व् 7.2.1.11.1.
अपरस्मिन्न् अर्थ एकवाचिका प्रवारणा. यथापि तद् विहारो व्याडाध्युषिते प्रदेशे प्रतिष्ठापितो भवति. अन्यतमेन च महल्लेन बालेन मूढेनाव्यक्तेनाकुशलेनाप्रतिरूपे प्रदेश उच्चारप्रस्रावं खेटं शिङ्घाणकं वान्तं विरिक्तं छोरितम् अशुचिम्रक्षितं वा शयनासनं प्रविक्षिप्तम्. व्याडाः प्रकुपिता गोचरे ऽपि तिष्ठन्ति गोचरमार्गे ऽपि चङ्क्रमे ऽपि मेढ्याम् अपि द्वारकोष्ठके ऽपि. भिक्षून् अप्य् आविशन्ति, मञ्चान् अपि संपरिवर्तयन्ति.
प्रवा-व् 7.2.1.11.2.
तत्र प्रवारकस्य भिक्षोर् एवं भवति. अद्य संघस्य प्रवारणा पांचदशिका. अयं च विहारो व्याडाध्युषिते प्रदेशे प्रतिष्ठापितः. अन्यतमेन च बालेन मूढेनाव्यक्तेनाकुशलेन अप्रतिरूपे प्रदेशे उच् च् आरप्रस्रावं खेटं शि ङ् घाणकं वान्तं विरिक्तं छोरितम् अशुचिम्रक्षितं वा शयनासनं प्रविक्षिप्तं. व्याडाः प्रकुपिताः गोचरे ऽपि तिष्ठन्ति गोचरमार्गे ऽपि चंक्रमे ऽपि मेढ्या म् अपि द्वारकोष्ठके ऽपि. भिक्षून् अप्य् आविशंति, मञ्चान् अपि संपरिवर्तयन्ति. (ग्ब्म् 6.724.9-10; म्स्व् इव् 120.14-18).
प्रवा-व् 7.2.1.11.3.

अहं चे त् त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तराय ः श्रामण्यान्तरायो ब्रह्मचर्यान्तराय ः . यन्व् अहम् ( प्रवा-व् 162 ) एकवाचिकया ( 71व् = ग्ब्म् 6.725 ) प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति । अस्मिन्न् अर्थे एकवाचिका प्रवारणा । (ग्ब्म् 6.724.10-725.1; म्स्व् इव् 120.18-121.2).
प्रवा-व् 7.2.1.12.1.
अपरस्मिन्न् अर्थे एकवाचिका प्रवारणा. यथापि तद् विहारः नागाध्युषिते प्रदेशे प्रतिष्ठापितो भवति. अन्यतमेन च महल्लेन बालेन मूढेनाव्यक्तेनाकुशलेन अप्रतिरूपे प्रदेशे उच्चारप्रस्रावं खेटं शि ङ् घाणकं वान्तं विरिक्तं छोरितं अशुचिम्रक्षितं वा शयनासनं प्रविक्षिप्तं. नागाः प्रकुपिताः गोचरे ऽपि तिष्ठंति गोचरमार्गे ऽपि चंक्रमे ऽपि मेढ्या म् अपि द्वारकोष्ठके ऽपि. भिक्षून् अप्य् आविशंति मंचान् अपि संपरिवर्तयन्ति. (ग्ब्म् 6.725.1-3; म्स्व् इव् 121.3-9).
प्रवा-व् 7.2.1.12.2.
तत्र प्र वारकस्य भिक्षोर् एवं भवत्य्. अद्य संघस्य प्रवारणा पांचदशिका. अयं च विहारः नागाध्युषिते प्रदेशे प्रतिष्ठापितः. अन्यतमेन च महल्लेन बालेन मूढेनाव्यक्तेनाकुशलेन अप्रतिरूपे प्रदेशे उच्चारप्रस्रावं खेटं शि ङ् घाणकं वान्तं विरिक्तं छोरितम् अशुचिम्रक्षितं वा शयनासनं प्रविक्षिप्तं. नागाः प्रकुपिताः गोचरे ऽपि तिष्ठंति गोचरमार्गे ऽपि चंक्रमे ऽपि मेढ्या म् अपि द्वारकोष्ठ् अक् ए ऽपि । भिक्षून् अप्य् आविशंति । मंचान् अपि संपरिवर्तयंति. (ग्ब्म् 6.725.3-4; म्स्व् इव् 121.9-15).
प्रवा-व् 7.2.1.12.3.
अहं चे त् त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तराय ः श्रामण्यान्तरायो ब्रह्मचर्यान्तराय ः . यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति । अस्मिन्न् अर्थे एकवाचिका प्रवारणा. (ग्ब्म् 6.725.4-5; म्स्व् इव् 121.15-19).
प्रवा-व् 7.2.1.13.1.
अपरस्मिन्न् अर्थे एकवाचिका प्रवारणा. यथापि तद् विहारः दावमध्ये प्रतिष्ठापितो भवति. अग्निर् मुक्त इत्य् अग्नि र् ग्रामनिगमराजराष्ट्रधानीं दहं परैति. गोचरम् अपि दहति गोचरमार्गम् अपि चंक्रम म् ( प्रवा-व् 163 ) अपि मेढी म् अपि द्वारकोष्ठक म् अपि . विहारम् अपि दहति विहारसामन्तकम् अपि. (ग्ब्म् 6.725.5-6; म्स्व् इव् 121.20-122.3).
प्रवा-व् 7.2.1.13.2.
तत्र प्रवारकस्य भिक्षोर् एवं भवति । अद्य संघस्य प्रवारणा पांचदशिका : अयं च विहारो दावमध्ये प्रतिष्ठापित ः . अग्निर् मुक्त इत्य् अग्नि र् ग्रामनिगमराजराष्ट्रधानीं दहं परैति. गोचरम् अपि दहति गोचरमार्गम् अपि चंक्रम म् अपि मेढीम् अपि द्वारकोष्ठकम् अपि . विहारम् अपि दहति विहारसामन्तकम् अपि. (ग्ब्म् 6.725.6-7; म्स्व् इव् 122.3-7).
प्रवा-व् 7.2.1.13.3.
अहं चे त् त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायः ब्रह्मचर्यान्तरायः. यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति. अस्मिन्न् अर्थे एकवाचिका प्रवारणा ॥ (ग्ब्म् 6.725.7-8; म्स्व् इव् 122.7-11).
प्रवा-व् 7.2.1.14.1.
अपरस्मिन्न् अर्थे एकवाचिका प्रवारणा. यथापि तद् विहारः अनूपमध्ये प्रतिष्ठापितो भवति । उपरि पर्वतसंक्षेपे स्थूलबिन्दुको देवो वर्षं ग्रामनिगमराजराष्ट्रधानीं वहं परैति. गोचरम् अपि वहति । गोचरमार्गम् अपि चंक्रमम् अपि मेढीम् अपि द्वारकोष्ठकम् अपि . विहारम् अपि संस्वेदयति. (ग्ब्म् 6.725.8-9; म्स्व् इव् 122.12-16).
प्रवा-व् 7.2.1.14.2.
तत्र प्रवारकस्य भिक्षोर् एवं भवत्य्. अद्य संघस्य प्रवारणा पांचदशिका. अयं विहारो ऽनूपमध्ये प्रतिष्ठापितः. उपरि पर्वतसंक्षेपे स्थूलबिन्दुको देवो वर्षं ग्रामनिगमराजराष्ट्रधानीं वहन् परैति. गोचरम् अपि वहति गोचरमार्गम् अपि चंक्रमम् अपि मेढीम् अपि द्वारकोष्ठकम् अपि . ( 72र् = ग्ब्म् 6.726 ) विहारम् अपि संस्वेदयति. (ग्ब्म् 6.725.9-726.1; म्स्व् इव् 122.16-20).
प्रवा-व् 7.2.1.14.3.
अहं चेत् त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायो ब्रह्मचर्यान्तरायः. यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति. अस्मिन्न् अर्थे एकवाचिका प्रवारणा । (ग्ब्म् 6.726.1; म्स्व् इव् 122.20-123.2).
प्रवा-व् 7.2.2.
कस्मिन्न् अर्थे द्विवाचिका प्रवारणा. यत्र तृतीयायां वाच्य् अवकाशो न भवति । तत्र द्विवाचिकया प्रवारणया प्रवारयति । अस्मिन्न् अर्थे द्विवाचिका प्रवारणा । (ग्ब्म् 6.726.1-2; म्स्व् इव् 123.3-4).
प्रवा-व् 7.2.3.
कस्मिन्न् अर्थे त्रिवाचिका प्रवारणा. समावस्थायाः. (ग्ब्म् 6.726.2; म्स्व् इव् 123.5).
प्रवा-व् 7.3.
कस्मिन्न् अर्थे गणप्रवारणा. यथापि तद् भयं भवति । अटवीं संक्षोभाश् चक्रसमारूढा जनपदास् तेन ते ऽन्वाहिण्डन्ति. तत्र भिक्षु भि र् चीवर विसिकासु चीवरं च कुण्डीं ब द् ध्वा अन्योन्यम् अवलोक्य प्रक्रमितव्यं. अद्यायुष्मन्त ः संघस्य प्रवारणा पांचदशिका । यदा संघसामग्री ं लप्स्याम ः तदा प्रवारयिष्यामः. अस्मिन्न् अर्थे गणप्रवारणा. (ग्ब्म् 6.726.2-3; म्स्व् इव् 123.6-10).
प्रवा-व् 8.1.
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति. यथा पि त द् भदंत भिक्षव इदम् एवंरूपं कृयाकारं कृत्वा वर्षा ं उपगच्छंति । यस्यास्माकम् आयुष्मन्तो ऽन्तर्वर्षे ज्ञातिर् आगच्छेद्, दातव्या प्रवारणा : देया भदन्त प्रवारणा न देया. देया उपालिं । (ग्ब्म् 6.726.3-4; म्स्व् इव् 123.11-13).
प्रवा-व् 8.2.1-2.
सन्स्क्रित् तेxत् हस् बेएन् ओमित्तेद् इन् थे मनुस्च्रिप्त्
प्रवा-व् 9.1.1.
सचेद् वस्तुं स्थापयेत्* न पुद्गलं, देया प्रवारणा न देया. नोपालिं. स इदं स्याद् वचनीयः. न वयम् आयुष्मन्न् इत्यर्थं सन्निषण्णाः सन्निपतिताः. कस्माद् आयुष्मं वस्तुं स्थापये र् न पुद्गलं. अपि त्व् आत्मविशु द् ध्यर्थं प्रवारणा उक्ता भग व ता. सचेद् आकांक्षसि, प्रवारय. (ग्ब्म् 6.726.4-5; म्स्व् इव् 123.13-17).
प्रवा-व् 9.1.2.
सचेत् पुद्गलं स्थापयति न वस्तुं । देया प्रवारणा न देया । नोपालिं । स इदं स्याद् वचनीयः. न वयम् आयुष्मन्न् इत्यर्थं सन्निषण्णाः सन्निपतिताः. कस्माद् आयुष्मं पुद्गलं स्थापये र् न वस्तुम् . अपि त्व् आत्म वि शु द् ध्यर्थं प्रवारणा उक्ता भगवता. सचेद् आकांक्षसि, प्रवारय : (ग्ब्म् 6.726.5-6; म्स्व् इव् 123.18-124.1).
प्रवा-व् 9.1.3.
सचेद् वस्तुं स्थापयति पुद्गलं च, देया प्रवारणा न देया. नोपालिं. स इदं स्याद् वचनीयः ... (ग्ब्म् 6.726.6; म्स्व् इव् 124.1-2).
प्रवा-व् 9.1.4.
... एतान् आकारा न् स्थापयित्वा : ॥ ॥ (ग्ब्म् 6.726.6; म्स्व् इव् 124.2-3).
उद्दान 5.
उद्दानम्* ॥
भिक्षु ं च राजा गृह्णाति स्मरेच् च दशिका ब् हिश् च ।

आप त् त्याः सप्तिकां कुर्याच् चोदना ं हि च सप्तकां ॥ ॥
(ग्ब्म् 6.726.6-7; म्स्व् इव् 124.4-5).
प्रवा-व् 9.2.
यथापि तत् तद् एव प्रवारणायां पंचदश्या ं भिक्षू राज्ञा गृहीतो भवति चोरैर् वा धूर्तैर् वा वधकैः प्रत्यर्थिभिः प्रत्यमित्रैः. तस्य भिक्षुभिर् दूतो ऽनुप्रेषयितव्यः. मुंचैनं भिक्षुं. सब्रह्मचार्य् एषो ऽस्माकं. सचेन् मुंचतीत्य् एवं कुशलं. नो चेन् मुंचति, द्वितीयो दूतो ऽनुप्रेषयितव्य ः । मुंचैनं भिक्षुम्. अस्त्य् अस्माकम् अनेन सार्धं किंचिद् एव करणीयं. सचेन् मुंचतीत्य् एवं कुशलं. नो चेन् मुंचति, भिक्षुभिर् मण्डलकं गत्वा प्रवारयितव्यं. ततः पश्चा द् द्वितीये दिवसे तस्य भिक्षो र् मोक्षायोद्युञ्जितव्यं. सचेद् उद्युञ्जन्तीत्य् एवं कुशलं. नो चे द् उ द्युंज न् ति सातिसारा भवंति. (ग्ब्म् 6.726.7-9; म्स्व् इव् 124.6-14).
प्रवा-व् 9.3.1.
यथापि तत् तद् एव प्रवारणायां पंचदश्यां भिक्षुर् आपत्ति ं स्मरति. तेन भिक्षुणा सापत्ति र् भिक्षोः पुरस्ताद् यथाधर्मं प्रतिकर्तव्या : ततः पश्चात् प्रवारयितव्यं. एवं हि प्रवारयितव्यं. न त्व् एवाहं प्रवारणाया अन्तरायं वदामि । पूर्ववद् यावद् यथा पोषधवस्तुन्य् एवं विस्तरेण दशिका कर्तव्या । (ग्ब्म् 6.726.9-10; म्स्व् इव् 124.15-19).
प्रवा-व् 9.3.2.1.
यथापि तत् तद् एव प्रवारणायां पंचदश्यां भिक्षुर् आपत्तिं प्रतिजानाति. (ग्ब्म् 6.726.10; म्स्व् इव् 124.20-21).
प्रवा-व् 9.3.2.2.
सचेत् पाराजिकां प्रतिजानाति । नाशयित्वा प्रवारयितव्यं. (ग्ब्म् 6.726.10; म्स्व् इव् 124.21-22).
प्रवा-व् 9.3.2.3.
सचेत् संघावशेषां प्रतिजानाति, अधिष्ठाय प्रवारयितव्यं. (ग्ब्म् 6.726.10; म्स्व् इव् 124.22).
प्रवा-व् 9.3.2.4.
सचेत् पायन्तिकां प्रतिदेशनीयां ( 72व् = ग्ब्म् 6.727 ) दुष्कृतां प्रतिजानाति । देशयित्वा प्रवारयितव्यं. (ग्ब्म् 6.726.10-727.1; म्स्व् इव् 125.1-2).
प्रवा-व् 9.3.3.1.
यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां वस्त्व् अविदितं भवति. केचिन् निरवशेषसंज्ञिनः, केचित् सावशेषसंज्ञिनः. तत्र ये निरवशेषसंज्ञिनस् तैर् नाशयित्वा प्रवारयितव्यं. ये सावशेषसंज्ञिनस् तैर् अधिष्ठाय प्रवारयितव्यं । (ग्ब्म् 6.727.1; म्स्व् इव् 125.3-5).
प्रवा-व् 9.3.3.2.
यथापि तत् तद् एव प्रवारणायां पंचदश्याम् आपत्तिर् अविनिश्चिता भवति । केचि द् देशनाकरणीयम् इत्य् आहु ः । केचित् संवरणीयम् इत्य् आहु ः । तत्र ये देश ना करणीयम् इत्य् आहुः तैर् देशयित्वा प्रवारयितव्यम्. ये संवरणीयम् इत्य् आहुः तैस् संवरणं कृत्वा प्रवारयितव्यं । (ग्ब्म् 6.727.1-2; म्स्व् इव् 125.6-9).
प्रवा-व् 10.1.1.1.
यथापि तत् तद् एव प्रवारणायां पंचदश्यां भिक्षुर् भिक्षुं चोदयति. सचेच् चोदकः न कायेन संवृतो भवति न वाचा । एवंरूपं चोदकं आमर्दयित्वा प्रमर्दयित्वा प्रवारयितव्यं । (ग्ब्म् 6.727.3; म्स्व् इव् 125.10-12).
प्रवा-व् 10.1.1.2.
सचे च् चोदकः कायेन संवृतो भवति न वाचा : एवंरूपम् अपि चोदकम् आमर्दयित्वा प्रमर्दयित्वा प्रवारयितव्यं । (ग्ब्म् 6.727.3-4; म्स्व् इव् 125.12-14).
प्रवा-व् 10.1.1.3.
सचेच् चोदकः वाचा संवृतो भवति न कायेन , एवंरूपम् अपि चोदकम् आमर्दयित्वा प्रमर्दयित्वा प्रवारयितव्यं. (ग्ब्म् 6.727.4; म्स्व् इव् 125.14-15).
प्रवा-व् 10.1.2.1.
सचे च् चोदकः कायेन संवृतो भवति वाचा च, न सूत्रधरो न विनयधरो न मातृकाधर, एवंरूपं चोदकम् आज्ञपयित्वा संज्ञपयित्वा प्रवारयितव्यं । (ग्ब्म् 6.727.4-5; म्स्व् इव् 125.16-18).
प्रवा-व् 10.1.2.2.
सचे च् चोदकः कायेन संवृतो भवति वाचा च, सूत्रधरो विनयधरो मातृकाधर ः , न सूत्रव्यक्तो न विनयव्यक्तः न मातृकाव्यक्तो, एवंरूपम् अपि चोदकम् आज्ञापयित्वा संज्ञापयित्वा प्रवारयितव्यम् . (ग्ब्म् 6.727.5; म्स्व् इव् 125.18-126.1).
प्रवा-व् 10.1.2.3.
सचेच् चोदकः कायेन संवृतो भवति वाचा च, सूत्रधरो विनयधरो मातृकाधरो, सूत्रव्यक्तो विनयव्यक्तो मातृकाव्यक्तो , न सूत्रकोविदो न विनयकोविदो न मातृकाकोविदः, एवंरूपम् अपि चोदकम् आज्ञपयित्वा संज्ञपयित्वा प्रवारयितव्यं । (ग्ब्म् 6.727.5-6; म्स्व् इव् 126.1-2).
प्रवा-व् 10.1.2.4.
सचे च् चोदकः कायेन संवृतो भवति वाचा च , सूत्रधरो विनयधरो मातृकाधर ः , सूत्रव्यक्तो विनयव्यक्तो मातृकाव्यक्त ः । सूत्रकोविदो विनयकोविदो मातृकाकोविदः, न सूत्रकुशलो न विनयकुशलः न मातृकाकुशलः, एवंरूपम् अपि चोदकम् आज्ञपयित्वा संज्ञपयित्वा प्रवारयितव्यं । (ग्ब्म् 6.727.6-7; म्स्व् इव् 126.2-6).
प्रवा-व् 10.1.3.
सचेच् चोदकः कायेन संवृतो भवति वाचा च , सूत्रधरो विनयधरो मातृकाधरः, सूत्रव्यक्तो विनयव्यक्तो मातृकाव्यक्तः, सूत्रकोविदो विनयकोविदो मातृकाकोविदः, सूत्रकुशलो विनयकुशलो मातृकाकुशलः, किं तु संचिन्त्य संघमध्ये अधर्मं धर्मतो दीपयति धर्मं चाधर्मतः, अविनयं विनयत् ओ दीपयति विनयं चाविनयतः, एवंरूपम् अपि चोदकम् आज्ञपयित्वा संज्ञपयित्वा प्रवारयितव्यं । (ग्ब्म् 6.727.7-8; म्स्व् इव् 126.7-12).
प्रवा-व् 10.1.4.
सचेच् चोदकः कायेन संवृतो भवति यावत्* सचे न् न संचि न् त्य संघमध्ये अधर्मं धर्मतो दीपयति धर्मं चाधर्मतः, अविनयं विनयत् ओ दीपयति विनयं चाविनयतः, एवंरूपम् अपि चोदकम् आज्ञपयित्वा संज्ञपयित्वा प्रवारयितव्यं. (ग्ब्म् 6.727.8-9; म्स्व् इव् 126.13-16).
प्रवा-व् 10.2.1.1.
सचेच् चोदकः कायेन संवृतो भवति वाचा च , सूत्रधरो विनयधरो मातृकाधरः, सूत्रव्यक्तः विनयव्यक्तः मातृकाव्यक्तः । सूत्रकोविदः विनयकोविदः मातृकाकोविदः । ( 73र् = ग्ब्म् 6.728 ) सूत्रकुशलो विनयकुशलो मातृकाकुशलः, न संचिन्त्य संघमध्ये अधर्मं धर्मतो दीपयति धर्मं चाधर्मतः, अविनयं विनयतो दीपयति विनयं चाविनयतः. स इदं स्याद् वचनीयः. (ग्ब्म् 6.727.9-728.1; म्स्व् इव् 126.17-21).
प्रवा-व् 10.2.1.2.
वदायुष्मं. चोदकेन वदसि पाराजिकया संघावशेषया पायन्तिकया प्र ति देशनी यया दुष्कृतया, रात्रिकृतेन दिवसकृतेन पथकृतेनोत्पथकृतेन, गच्छतस् तिष्ठतो निषण्णस्य निपन्नस्य. (ग्ब्म् 6.728.1-2; म्स्व् इव् 126.21-127.2).

प्रवा-व् 10.2.2.1.
सचेत् पाराजिकया, न संघावशेषया न पायन्तिकया न प्रतिदेशनीयया न दुष्कृतया, सचेत् संघावशेषया, न पाराजिकया न पायन्तिकया न प्रतिदेशनीयया न दुष्कृतया, सचेत् पायन्तिकया, न पाराजिकया न संघावशेषया न प्रतिदेशनीयया न दुष्कृतया. सचेत् प्रतिदेशनीयया, न पाराजिकया न संघावशेषया न पायन्तिकया न दुष्कृतया. सचेद् दुष्कृतया, न पाराजिकया न संघावशेषया न पायन्तिकया न प्रतिदेशनीयया. (ग्ब्म् 6.728.2-3; म्स्व् इव् 127.2-9).
प्रवा-व् 10.2.2.2.1.
सचेत् प्रथमया पाराजिकया, न द्वितीयया न तृतीयया न चतुर्थिकया, सचे द् द्वितीयया न प्रथमया न तृतीयया न चतुर्थिकया, सचे त् तृतीयया न प्रथमया न द्वितीयया न चतुर्थिकया, सचे च् चतुर्थिकया न प्रथमया न द्वितीयया न तृतीयया. (ग्ब्म् 6.728.4; म्स्व् इव् 127.10-14).
प्रवा-व् 10.2.2.2.2.
सचेत् प्रथमया संघावशेषया न द्वितीयया न यावत् त्रयोदशम् इक् अया : सचेद् यावत् त्रयोदशमिकया न प्रथमया न द्वितीयया न तृतीयया यावन् न द्वादशमिकया. (ग्ब्म् 6.728.4-5; म्स्व् इव् 127.14-16).
प्रवा-व् 10.2.2.2.3.
सचेत् प्रथमया पाय न् तिकया, न द्वितीयया यावन् न न वतिमया, सचेन् नवतिमया न प्रथमया न द्वि ती यया यावन् नैकोननवतिमया । (ग्ब्म् 6.728.5-6; म्स्व् इव् 127.16-18).
प्रवा-व् 10.2.2.2.4.
सचेत् प्रथमया प्रतिदेशनी य या न द्वितीयया न तृतीयया न चतुर्थिकया । सचे द् द्वितीयया न प्रथमया न तृतीयया न चतुर्थिकया, सचेत् तृतीयया न प्रथमया न द्वितीयया न च तुर्थिकया : सचेच् चतुर्थिकया न प्रथमया न द्वितीयया न तृतीयया । (ग्ब्म् 6.728.6; म्स्व् इव् 127.18-128.1).
प्रवा-व् 10.2.2.2.5.
सचेत् प्रथमया दुष्कृतया न द्वितीयया न तृतीयया न याव द् अन्तिमया । सचेद् अन्तिमया न प्रथमया न द्वितीयया याव न् नो पान्तिमया. (ग्ब्म् 6.728.6-7; म्स्व् इव् 128.1-3).
प्रवा-व् 10.2.2.3.
सचेद् रातृकृतेन न दिवसकृतेन, सचेद् दिवसकृतेन न रात्रिकृतेन, सचेद् उत्पथकृतेन न पथकृतेन, सचेत् पथकृतेन नोत्पथकृतेन, सचेद् ( प्रवा-व् 171 ) गच्छतः न तिष्ठतः न निषण्णस्य न निपन्नस्य, सचे त् तिष्ठतः न गच्छतः न निषण्णस्य न निपन्नस्य, सचेन् निषण्णस्य न गच्छत् ओ न तिष्ठतो न निपन्नस्य, सचेन् निपन्नस्य न गच्छतः न तिष्ठतः न निषण्णस्य. (ग्ब्म् 6.728.7-8; म्स्व् इव् 128.4-9).
प्रवा-व् 10.2.3.1.
सचेच् चोदकः एवं साधु च सुष्ठु च समनुयुज्यमानः समनुशास्यमानः समनुगाह्यमानः स्थानास्थानं संक्रामति, अचोदक ः स्यात्*. अचोदितस् स्यात्*. सचे च् चोदकः स्थानास्थानं न संक्रामति, चोदकः स्यात्* ॥ (ग्ब्म् 6.728.8-9; म्स्व् इव् 128.10-13).
प्रवा-व् 10.2.3.2.
सचेच् चोदकः स्थानास्थानं न संक्रामति चोदित इदं स्याद् वचनीयं. वदायुष्म ं . के ते तस्मिं समये कायसंस्कारा वाक्संस्कारा मन ःसंस्कारा. (ग्ब्म् 6.728.9-10; म्स्व् इव् 128.13-15).
प्रवा-व् 10.3.1.
स चेत् पाराजिकां प्रतिजानाति, नाशयित्वा प्रवारयितव्यं. (ग्ब्म् 6.728.10; म्स्व् इव् 128.15-16).
प्रवा-व् 10.3.2.
सचेत् संघावशेषां प्रतिजानाति, अधिष्ठाय प्रवारयितव्यं. (ग्ब्म् 6.728.10; म्स्व् इव् 128.16-17).
10.3.3.
सचेत् पायन्तिकां प्रतिदेशनीयां दुष्कृतां प्रतिजानाति, देशयित्वा प्रवारयितव्यं : ॥ ॥ (ग्ब्म् 6.728.10; म्स्व् इव् 128.17-18).
उद्दान 6.
उद्दानम्* ॥
महापेयालो गृ ह्णाति ( 73व् = ग्ब्म् 6.729) ) स्थाप न ं हि च पंचिकां ।
गमिकेन त्रयं कुर्यात् परिशुद्धानां प्रवारणा ॥ ॥
(ग्ब्म् 6.728.10-729.1; म्स्व् इव् 128.19-20).
प्रवा-व् 11.1.
यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताः पंच वा उत्तरे वा. तेषाम् एवं भवति. सन्ति भिक्षवो ये ऽनागतका इति. ये ऽनाग तकाः कल्पत् य् अ स्माकं तैर् विना ज्ञप्तिं कृत्वा प्रवारयितुं, ते कल्पार्थिनः कल्पनिष्कारा ज्ञप्तिं कृत्वा प्रवारयन्ति. (ग्ब्म् 6.729.1-2; म्स्व् इव् 128.21-129.3).
प्रवा-व् 11.2.
ततः पश्चा न् नैवासिका भिक्षवः सन्निषण्णा ः सन्निपतिता आगच्छंत्य् अल्पतरकास्. तैः पुनर् अपि ज्ञप्तिं कृत्वा प्रवारयितव्यं. पूर्विका भिक्षवः सातिसाराः कल्पसामन्तकाः. (ग्ब्म् 6.729.2-3; म्स्व् इव् 129.3-5).
प्रवा-व् 11.3.
पूर्ववद् यावद् यथा पोषधवस्तुन्य् एवं यथोक्ता उद्दानगाथा वाच्यं. एकस् तु विशेषः. तत्र नैवासिका भिक्षवः सन्निषण्णा ः सन्निपतिताः चत्वारो वा उत्तरे वा, इहापि वाच्यं पंच वा उत्तरे वेति : ॥ ॥ (ग्ब्म् 6.729.3; म्स्व् इव् 129.5-8).
उद्दान 7.
उद्दानं ॥
वर्षोपगतका भिक्षूञ् ज्ञात्वा कलहकारकां ।
साखिल्यकेन प्रत्युद्गम्य नियतं चातुर्मासिकी ।
ग्लानकश् च वस्तु च वर्गो भवति य ः स् अम् उद्दितः ॥ ॥

(ग्ब्म् 6.729.3-4; म्स्व् इव् 129.9-11).
प्रवा-व् 12.1.1.
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । यथापि तद् भदंत वर्षोपगता भिक्षवः शृण्वन्ति. भिक्षवः आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिका ः . ते ऽस्माकं चोदयिष्यंति स्मारयिष्यंति अलज्जितायो वैतरिकत्वेन. तैस् तेषां कथं प्रतिपत्तव्यं. तैर् उपालिं भिक्षुभिर् द्वे त्रीणि वा पोषधकर्माण्य् अतिक्रम्य प्रवारयितव्यं. (ग्ब्म् 6.729.4-5; म्स्व् इव् 129.12-17).
प्रवा-व् 12.1.2.
सचेत् संपद्यते ऽत्य् एवं कुशलं. नो चेत् संपद्यते, तैर् भिक्षुभिर् द्वौ त्रयो वा आपदर्थिका मण्डलका ः संमन्तव्याः. (ग्ब्म् 6.729.5-6; म्स्व् इव् 129.17-19).
प्रवा-व् 12.2.1.
सचेत् संपद्यते ऽत्य् एवं कुशलं. नो चेत् संपद्यते, वाक्साखिल्यकेन प्रत्युद्गम्य पात्रचीवरं प्रतिग्रहीतव्यं. पात्रचीवरेणामोहयित्वा प्रमोहयित्वा प्रवारयितव्यं. (ग्ब्म् 6.729.6; म्स्व् इव् 129.19-130.1).
प्रवा-व् 12.2.2.) तेxत् इन् तिबेतन् ओन्ल्य्; सन्स्क्रित् तेxत् ओमित्तेद्
प्रवा-व् 12.2.3.
सचेत् संपद्यते ऽत्य् एवं कुशलं. नो चेत् संपद्यते, धर्मश्रवणं दातव्यम्*. धर्मश्रवणेनामोहयित्वा प्रमोहयित्वा प्रवारयितव्यं. (ग्ब्म् 6.729.6-7; म्स्व् इव् 130.1-3).
प्रवा-व् 12.3.
सचेत् संपद्यते ऽत्य् एवं कुशलं. नो चेत् संपद्यते, तैर् उपालिं भिक्षुभिर् मण्डलकं कृत्वा पोषधः कर्तव्यः. (ग्ब्म् 6.729.7; म्स्व् इव् 130.3-5).
प्रवा-व् 12.4.
सचेत् त एवं वदेयुः. अद्यायुष्मन्तस् संघस्य प्रवारणा पांचदशिका. कस्माद् यूयं पोषधं कुरुत् ह् एति. त इदं स्युर् वचनीयाः. आगन्तुका यूयम् आयुष्मन्तो. नैवासिका भिक्षवो ऽनेनार्थेन. तेषाम् एवं भवति । नियतम् आयुष्मतां चातुर्मासिकी प्रवारणा भविष्यतीति । ततः पश्चात् तैर् गतवेगैर् गतप्रत्यर्थिभिः पुनर् अपि प्रवारयितव्यं : ॥ (ग्ब्म् 6.729.7-9; म्स्व् इव् 130.5-10).
प्रवा-व् 13.1.
यथापि तत् तद् एव प्रवारणायां पंचदश्यां ग्लानः अग्लानस्य प्रवारणां स्थापयति. ग्लान इदं स्याद् वचनीयः. आगम य त्वम् आयुष्मं. ग्लानस् त्वम् अप्रयोगक्षमः. (ग्ब्म् 6.729.9; म्स्व् इव् 130.11-13).
प्रवा-व् 13.2.
यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां अग्लानः ग्लानस्य प्रवारणां ( प्रवा-व् 174 ) स्थापयति. अग्लान इदं स्याद् वचनीयः. आगम य त्वम् आयुष्मं. ग्लानो ऽसाव् अप्रयोगक्षमः. (ग्ब्म् 6.729.9-10; म्स्व् इव् 130.13-15).
प्रवा-व् 13.3.
यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां ग्लानः ग्लानस्य दूतेन प्रवारणां स्थापयति. दूत इदं स्याद् वचनीय ः . आगमय त्वम् आयुष्मं. ग्लानो ऽसाव् अप्रयोगक्षमः. (ग्ब्म् 6.729.10; म्स्व् इव् 130.16-18).
प्रवा-व् 13.4.
यथापि तत् तद् एव प्रवारणा यां ( 74र् ) पञ्चदश्याम् अग्लानो ग्लानस्य प्रवारणां दूतेन स्थापयति. दूत इदं स्याद् वचनीयः. आगमय त्वम् आयुष्मन्. ग्लानो ऽसाव् अप्रयोगक्षमः. (ग्ब्म् 6.729.10; म्स्व् इव् 130.18).
fओलिओ 74 इस् लोस्त्, थेरेfओरे थे सन्स्क्रित् तेxत् ओf प्रवा-व् 14.1 तो 14.2.4 इस् नोत् एxतन्त्.

मूल पाठ: Pravāraṇāvastu · Edition: Jin-il Chung, Die Pravāraṇā in den kanonischen Vinaya-Texten der Mūlasarvāstivādin und der Sarvāstivādin, Göttingen 1998 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 7). = Pravā-v; Cf. Gilgit Manuscript, ed. N. Dutt, vol. III: Mūlasarvāstivādavinayavastu, part IV (Calcutta 1950), pp. 119-130: Pravāraṇāvastu; dto.: second edition, Delhi 1984. GBM = Gilgit Buddhist Ma · Data entry Jin-il Chung & Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc