भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 7

7.1

तस्मात्सन्ति दर्शनादीनि स्वभावत इति । उच्यते । न सन्ति । इह हि पश्यतीति दर्शनं चक्षुः, तस्य च रूपं विषयत्वेनोपदिश्यते

7.2

यथा दर्शनं रूपं न पश्यति तथा प्रतिपादयन्नाह-
स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति ।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान्

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc