प्रकरणपञ्चिका (टीका सहित) · अध्याय 14
1071॥
तत्र कार्यवाक्यार्थवादिन एव भावम्, भावनाम्, अपूर्वञ्च वाक्यार्थान् प्रतिजानते ।
तत्रापूर्वमेव वाक्यार्थ इति साधनीयम् ।
तस्य मूलं पदानामन्विताभिधायेतेति, तामेव तावदादौ परिशोधयति ।
1072अत्र ये प्रत्यस्तमितपदविभागम्, वाक्यमेव वाक्यार्थस्य वाचकमित्याचक्षते ।
1073ये च वाक्यान्त्यवर्ण एवेति,1074 ये च पदैरनन्विताः पदार्था अभिहिताः पदार्था अभिहिताः परस्परान्वयमात्मनो ऽवगमयन्ति---इति ।
तन्निरासाय प्रतिजानीते---
पदेभ्य एव वाक्यार्थप्रत्ययो जायते यथा ।
तथा वयं निबध्नीमः प्रभाकरगुरोर्मतम्
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0