भाषा

ENहिગુ
ग्रंथ पाठ

फलदीपिका · अध्याय p3

p3.1

उपसंहाराध्याय
संज्ञाध्यायः कारको वर्गसंज्ञो
वीर्याध्यायः कर्मजिवाऽथ योगः ।
योगो राज्ञां राशिशीलो ग्रहाणां
मेषादिनां लग्नसम्प्राप्तशीलः

p3.2

भार्याभावो जातक कमिनीना
सूनुर्बालारिष्टयोगोऽथ रोगः ।
भावस्तस्माद्द्वादशावाप्तभावा
निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात्

p3.3

सूर्यादीनां यत्फलं तदृशाप्तं
भावादीनामीश्वराङ्का दशा च ।
सूर्यादीनामन्तराख्या दशाऽथ
सव्यासव्या कालचक्रोऽष्टवर्गः

p3.4

होरासारावाप्तयद्यष्टवर्गो
मान्द्यध्यायो गोचर स्यात्प्रव्रज्यः ।
अध्यायानां विंशतिः सप्तयुक्तान्
जन्मन्येतद्गोलजं संवदामि

p3.5

श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै ।
दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे

p3.6

सुकुन्तलाम्बां सम्पूज्य सर्वभीष्टप्रदायिनीम् ।
तत्कटाक्षविशेषेण कृता या फलदीपिका

मूल पाठ: phaladīpikā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc