भाषा

ENहिગુ
ग्रंथ पाठ

पवनदूत · भाग 111

अस्ति श्रीमति+अखिलवसुधासुन्दरे चन्दनाद्रौ
गन्धर्वाणाम्+कनकनगरी नाम रम्यस्+निवासस्+।
हैमैस्+लीलाभवनशिखरैस्+अम्बरम्+व्यालिखद्भिस्+
धत्ते शाखानगरगणनाम्+यस्+सुराणाम्+पुरस्य॥ 1
तस्मिन्+एका कुवलयवती नाम गन्धर्वकन्या
मन्ये जैत्रम्+मृदु कुसुमतस्+अपि+आयुधम्+या स्मरस्य।
दृष्ट्वा देवम्+भुवनविजये लक्ष्मणम्+क्षोणिपालम्+
बाला सद्यस्+कुसुमधनुषस्+संविधेयीबभूव॥ 2
बाल्येषु+आलीषु+अपि मनसिजम्+सा+अनभिव्यञ्जयन्ती
पाण्डुक्षामा कतिचित्+अनयत्+कातरा वासराणि।
गन्तुम्+देशान्तरम्+अथ मधौ+अन्यथा+एव प्रवृत्तम्+
गाढोत्कण्ठा मलयपवनम्+सप्रणामम्+ययाचे॥ 3
त्वत्तस्+प्राणास्+सकलजगताम्+दक्षिणस्+त्वम्+प्रकृत्या
जङ्घालम्+त्वाम्+पवन मनसस्+अनन्तरम्+व्याहरन्ति।
तस्मात्+एव त्वयि खलु मया सम्प्रणीतस्+अर्थिभावस्+
प्रायस्+भिक्षा भवति विफला न+एव युष्मद्विधेषु॥ 4
वीक्ष्य+अवस्थाम्+विरहविधुराम्+रामचन्द्रस्य हेतोस्+
यातस्+पारम्+पवन सरिताम्+पत्युस्+अपि+आञ्जनेयस्+।
तत्+तातस्य+अप्रतिहतगतेस्+यास्यतस्+ते मदर्थम्+
गौडी क्षोणी कति नु मलयक्ष्माधरात्+योजनानि॥ 5
तत्र+अवश्यम्+कुसुमसमये स त्वया शीलनीयस्+
सान्द्रोद्यानस्थगितगगनप्राङ्गणस्+गौडदेशस्+।
तत्+मे+अवस्थाम्+कथय नृपतेस्+जीवनत्राणहेतोस्+
प्रादुर्भावस्+त्रिजगति खलु त्वादृशानाम्+परार्थस्+॥ 6
हृत्वा+अनर्घ्यम्+परिमलम्+इतस्+चन्दनानोकहानाम्+
तूर्णम्+तावत्+विसृज मलयोपत्यकाकाननानि।
यावत्+न+एते निधुवनकलाकेलिभाजस्+भुजङ्गास्+
भोगव्याजात्+चुलुकचुलुकम्+मत्सरास्+त्वाम्+पिबन्ति॥ 7
श्रीखण्डाद्रेस्+परिसरम्+अतिक्रम्य गव्यूतिमात्रम्+
गन्तव्यस्+ते किम्+अपि जगतीमण्डनम्+पाण्ड्यदेशस्+।
तत्र ख्यातम्+पुरम्+उरगम्+इति+आख्यया ताम्रपार्ण्यास्+
तीरे मुग्धक्रमुकतरुभिस्+बद्धरेखे भजेथास्+॥ 8
सम्भोगान्ते श्लथभुजलतानिःसहानाम्+वधूनाम्+
व्याधुन्वन्तस्+अनुचितकवरीभारम्+अव्याजमुग्धम्।
अस्मिन्+सद्यस्+श्रमजलनुदस्+सौधजालैस्+उपेत्य
प्रत्यासन्नास्+मलयमरुतस्+तालवृन्तीभवन्ति॥ 9
क्रीडाशैलम्+भुजगनगरीयोषिताम्+कौतुकम्+चेत्+
सेतुम्+यायास्+जलधिकरिणस्+शृङ्खलादाम दीर्घम्।
भाति स्नेहात्+अवनितनयाजीवनाश्वासहेतोस्+
लङ्काद्वीपम्+प्रहितस्+इव यस्+बाहुस्+एकस्+पृथिव्यास्+॥ 10

क्रुध्यद्गौरीकरकिशलयाकृष्टचूडासुधांशोस्+
द्रक्ष्यसि+उच्चैस्+कुलम्+अकलुषम्+तत्र रामेश्वरस्य।
मध्यम्+यत्र त्रिवलिविषमम्+वारसीमन्तिनीनाम्+
हस्तोत्कम्पम्+कथयति विधेस्+सृष्टकाञ्चीपदस्य॥ 11
लीलागारैस्+अमरनगरस्य+अपि गर्वम्+हरन्तीम्+
गच्छेस्+काञ्चीपुरम्+अथ दिशस्+भूषणम्+दक्षिणस्यास्+।
नक्तम्+यत्र प्रहरिकस्+इव+उज्जागरम्+नागराणाम्+
कुर्वन्+पाणिप्रणिहितधनुस्+जायते पञ्चबाणस्+॥ 12
आभ्रम्+लीलाविहसितम्+इव श्यावताम्+अभ्युपेते
सद्यस्+फेनव्यतिकरमिषादर्पयति+अंशुकान्तम्(?)।
अम्भःक्रीडाकुतुकरभसभ्रष्टचीनोत्तरीये
यन्नारीणाम्+उरसि सुबला वीचिहस्तैस्+सखी+इव॥ 13
मन्ये मोक्षस्+कठिनसुरतायासलब्धस्य तूर्णम्+
दुष्प्रापस्+ते पवन भविता चोलसीमन्तिनीभ्यस्+।
के वा तासाम्+अलकरचनालीननीलीसनाथे
गण्डाभोगे मलयजपयःपिच्छिले न स्खलन्ति॥ 14
हित्वा काञ्चीम्+अविनयवतीभक्तरोधोनिकुञ्जाम्+
ताम्+कावेरीम्+अनुसर खगश्रेणिवाचालकूलाम्।
कान्ताश्लेषात्+अपि खलु सुखस्पर्शम्+इन्दुत्विषस्+अपि
स्वच्छम्+भिक्षाप्रवणमनसस्+अपि+अम्बु यस्यास्+लघीयस्+॥ 15
या गङ्गा+इव प्रकृतिसुभगा जायते केरलीनाम्+
केलिस्नाने कुचमलयजैस्+पाण्डिमानम्+दधाना।
शश्वद्गोत्रस्खलनजनितत्रासलोलस्य सिन्धोस्+
उद्वीचिभ्रुस्+चरणपतनप्रेमवाचाम्+रसज्ञा॥ 16
तस्यास्+लीलासरितस्+इव तास्+स्रोतसि श्रोणिदघ्ने
तोयक्रीडाम्+यदि विदधते दाक्षिणात्यास्+तरुण्यस्+।
वीचिक्षेपैस्+स्तनपरिसरेषु+अस्तहारेषु तासाम्+
मुक्ताजालम्+रचय तत्+अपाम्+बिन्दुभिस्+कुन्दगौरैस्+॥ 17
स्निग्धश्यामम्+गुरुभिस्+उपलैस्+पर्वतम्+माल्यवन्तम्+
पश्येस्+उत्तम्भितम्+इव पुरस्+केशपाशम्+पृथिव्यास्+।
तत्र+अद्य+अपि प्रतिझरजलैस्+जर्जरास्+प्रस्थभागास्+
सीताभर्तुस्+पृथुतरशुचस्+सूचयन्ति+अश्रुपातान्॥ 18
रम्योपान्तम्+सरलतरुभिस्+माण्डकर्णस्+सरस्+तत्+
गच्छेस्+पञ्चाप्सरस्+इति हृतप्रौढतापम्+मघोनस्+।
यत्र+अद्य+अपि त्रिदशतरुणीमुग्धसंगीतिमाला
पूर्वप्रेमोपगतहरिणश्रेणिम्+उत्कण्ठयन्ति॥ 19
क्रीडाशोकक्रमुकबहुलारामरम्योपकण्ठास्+
सम्पत्स्यन्ते पथि पथि तव प्रीतये प्रस्थितस्य।
पीनोत्तुङ्गस्तनभरनमत्पामरीप्रेमलोभात्+
निर्विच्छेदभ्रमितपथिकास्+पल्लयस्+पल्वलिन्यस्+॥ 20

अन्ध्रान्+हित्वा जनपदवधूगाढगोदावरीकान्+
कालिङ्गस्य+अनुसर नगरीम्+नाम ताम्+राजधानीम्।
सम्भोगान्ते मुकुलितदृशाम्+तत्र वाराङ्गनानाम्+
अङ्गग्लानिम्+हर परिपतन्+केलिवातायनेषु॥ 21
खेलद्वीचिप्रचयरचितानेकसोपानरेखम्+
तीरम्+यायास्+फलभरनमत्पूगमालम्+पयोधेस्+।
गायन्तीनाम्+श्रवणसुभगम्+तत्र सिद्धाङ्गनानाम्+
स्थाने स्थाने जनय शनकैस्+तान्+अशब्दानुवादान्॥ 22
कुञ्जक्रीडत्त्रिदशतरुणीकेलिनिश्वासवातैस्+
ग्लायद्वल्लीकिशलयरुचस्+निर्विशेस्+विन्ध्यपादान्।
पश्यन्+वक्त्राणि+अनतिचतुरव्याधसीमन्तिनीनाम्+
माद्यद्गन्धद्विरदरसितत्रासलोलेक्षणानि॥ 23
स्वेच्छारम्यम्+विहर विहगव्याकुलोत्तुङ्गवृक्षे
विन्धोत्सङ्गप्रणयिनि वने मानवत्यस्+अपि यत्र।
संजायन्ते रहसि करिणाम्+क्रूरम्+आकर्ण्य शब्दम्+
भर्तुस्+कण्ठे प्रणिहितभुजावल्लयस्+भिल्लयोषास्+॥ 24
स्वैरक्रीडारसिकशबरीसिक्तरोधोनिकुञ्जाम्+
गच्छेस्+रेवाम्+अभिनवशुकश्यामवंशीवनेन।
मन्यन्ते यत्+परिसरभुवि प्रौढसीमन्तिनीनाम्+
लीलामानग्रहम्+अपि रतेस्+अन्तरायम्+युवानस्+॥ 25
लीलाम्+नेतुम्+नयनपदवीम्+केरलीनाम्+रतेस्+चेत्+
गच्छेस्+ख्याताम्+जगति नगरीम्+आख्यया ताम्+ययातेस्+।
गाढाश्लिष्टक्रमुकतरवस्+प्राङ्गणे नागवल्ल्यस्+
बालाम्+यत्र प्रियतमपरीरम्भम्+अध्यापयन्ति॥ 26
गङ्गावीचिप्लुतपरिसरस्+सौधमालावतंसस्+
यास्यति+उच्चैस्+त्वयि रसमयस्+विस्मयम्+सुह्मदेशस्+।
श्रोत्रक्रीडाभरणपदवीम्+भूमिदेवाङ्गनानाम्+
तालीपत्रम्+नवशशिकलाकोमलम्+यत्र याति॥ 27
तस्मिन्+सेनान्वयनृपतिना देवराज्याभिषिक्तस्+
देवस्+सुह्मे वसति कमलाकेलिकारस्+मुरारिस्+।
पाणौ लीलाकमलम्+असकृत्+यत्समीपे वहन्त्यस्+
लक्ष्मीशङ्काम्+प्रकृतिसुभगास्+कुर्वते वाररामास्+॥ 28
यातस्य+ऊर्ध्वम्+धनपतिगनेन+एव गौरैस्+अगारैस्+
पश्येस्+तस्मिन्+नगरम्+अनघम्+चारु चन्द्रार्धमौलेस्+।
यत्र+अनेकप्रियनखपदव्याजतस्+वाररामास्+
भर्तुस्+भूषाशशधरकलाचिह्नम्+अङ्के वहन्ति॥ 29
तत्र+अनर्घ्यम्+रघुकुलगुरुम्+स्वर्णदीतीरदेशे
नत्वा देवम्+व्रज गिरिसुतासंविभक्ताङ्गरम्यम्।
याते यस्मिन्+नयनपदवीम्+सुन्दरभ्रूलतानाम्+
प्रौढस्त्रीणाम्+गलति रमणप्रेमजन्माभिमानस्+॥ 30

तत्+क्षेत्रम्+च त्रिदिवसरितम्+च+अन्तरा सेवनीयस्+
श्रीबल्लालक्षितिपतियशोबान्धवस्+सेतुबन्धस्+।
आरूढानाम्+त्रिदिवतटिनीस्नानहेतोस्+जनानाम्+
यत्र द्वेधा+अपि+अमरनगरी सन्निकृष्टा विभाति॥ 31
गङ्गाम्+फेनस्तबकमुकुरम्+वीचिहस्ते वहन्तीम्+
सेवेथास्+ताम्+अथ परिसरप्रौढहंसावतंसाम्।
प्रत्यावृत्य व्रजति जलधौ प्रेयसि प्रेमलोला
कर्तुम्+केशग्रहम्+इव किम्+अपि+उद्धता या विभाति॥ 32
तोयक्रीडासरसनिपतत्सुह्मसीमन्तिनीनाम्+
वीचीधौतैस्+स्तनमृगमदस्+श्यामलीभूय भूयस्+।
भागीरथ्यास्+तपनतनया यत्र निर्याति देवी
देशम्+यायास्+तम्+अथ जगतीपावनम्+भक्तिनम्रस्+॥ 33
संसर्पन्तीम्+प्रकृतिकुटिलाम्+दर्शितावर्तचक्राम्+
ताम्+आलोक्य त्रिदशसरितस्+निर्गताम्+अम्बुगर्भात्।
मा निर्मुक्तासितफणिवधूशङ्कया कातरस्+भूस्+
भीतस्+सर्वस्+भवति भुजगात्+किम्+पुनस्+त्वादृशस्+यस्+॥ 34
क्रीडन्तीनाम्+पयसि रभसात्+तत्र लीलावतीनाम्+
वीचीहस्तैस्+रचय कुचयोस्+अंशुकस्रंसनानि।
सद्यस्+तासाम्+अपि च रमणालोकनव्याकुलानाम्+
यान्तु क्रीडामसृणहसितानि+उत्तरीयाञ्चलत्वम्॥ 35
स्कन्धावारम्+विजयपुरम्+इति+उन्नताम्+राजधानीम्+
दृष्ट्वा तावत्+भुवनजयिनस्+तस्य राज्ञस्+अधिगच्छेस्+।
गङ्गावातस्+त्वम्+इव चतुरस्+यत्र पौराङ्गनानाम्+
सम्भोगान्ते सपदि व्तनोति+अङ्गसंवाहनानि॥ 36
यत्सधानाम्+उपरि वडभीशालभञ्जीषु लीनास्+
सुस्निग्धासु प्रकृतिमधुरास्+केलिकौतूहलेन।
उन्नीयन्ते कथम्+अपि रहःपाणिपङ्केरुहाग्रस्पर्शोद्गच्छत्पुलकमुकुलास्+सुभ्रुवस्+वल्लभेन॥ 37
स्निग्धश्यामारमणमणिभिस्+बद्धमुन्धालवालास्+
पौरस्त्रीभिस्+क्रमुकतरवस्+रोपितास्+प्राङ्गणेषु।
यत्र+अयत्नोपगतसलिलैस्+नक्तम्+आसिक्तमूलास्+
न+अपेक्षन्ते परिजनवधूपाणिविश्राणिताम्भस्+॥ 38
गङ्गाश्लेषप्रकृतिविमले पालिते तेन राज्ञा
जाता लोकद्वितयविगलद्भीतयस्+यत्र पौरास्+।
बालाभ्यस्+अथ प्रणयकलहैस्+रूढकोपाङ्कुराभ्यस्+
विचस्यन्ति भ्रुकुटिरचनाचारुभीमाननाभ्यस्+॥ 39
आत्तम्+कर्णात्+प्रणिहितपदम्+साञ्जनैस्+अश्रुलेशैस्+
बद्धम्+तापग्लपितबिसिनीतन्तुना बन्धनेन।
यत्र स्त्रीणाम्+अधररुचकन्यस्तसिन्दूरमुद्रम्+
तालीपत्रम्+प्रणयिनि जने प्रेमलेखत्वम्+एति॥ 40
भर्तुस्+स्वैरम्+सुरतजनितस्वेदबिन्दून्+विनेतुम्+

यत्र स्नेहात्+अगणितजिनग्लानिभिस्+मुग्धदारैस्+।
सीधोत्सङ्गे शशधररुचस्+तन्तुजालप्रविष्टास्+
व्याकृष्यन्ते रुचिरचमरीबालभारभ्रमेण॥ 41
वृद्धोष्माणस्+स्तनपरिसरास्+कुङ्कुमस्य+अङ्गरागास्+
दोलास्+केलिव्यसनरसिकास्+सुन्दरीणाम्+समूहास्+।
क्रीडावाप्यस्+प्रतनुसलिलास्+मालतीदाम रात्रिस्+
स्त्यानज्योत्स्ना मुदम्+अविरतम्+कुर्वते यत्र यूनाम्॥ 42
भ्राम्यन्तीनाम्+तमसि निबिडे वल्लभाकाङ्क्षिणीनाम्+
लाक्षारागास्+चरणगलितास्+पौरसीमन्तिनीनाम्।
रक्ताशोकस्तबकललितैस्+बालभानोस्+मयूखैस्+
न+आलक्ष्यन्ते रजनिविगमे पौरमार्गेषु यत्र॥ 43
रत्नैस्+मुक्तामरकतमहानीलसौगन्धिकाद्यैस्+
शङ्कैस्+बालावलयरचनाबन्धुभिस्+विद्रुमैस्+च।
लोपामुद्रारमणमुनिना पीतनिःशेषवारस्+
श्रीःसर्वस्वम्+हरति विपदम्+यत्र रत्नाकरस्य॥ 44
मूकीभूताम्+मरकतमयीम्+हारयष्टिम्+दधानास्+
यस्मिन्+बालास्+मृगमदमसीपिच्छिलेषु स्तनेषु।
चेतोवर्तिस्मरहुतवहम्+दीपितम्+स्नेहपूरैस्+
कृत्वा यान्ति प्रियतमगृहान्+अन्धकारे घने+अपि॥ 45
नीतम्+यत्नात्+अविनयलिपेस्+पत्रताम्+आयताक्ष्या
निर्गच्छन्त्यस्+सपदि हृदयम्+क्षालयित्वा+इव यत्र।
कान्ते पादप्रणयिनि मिलत्कज्जलश्यामलानाम्+
उन्मुच्यन्ते नयनपयसाम्+श्रेणयस्+मानिनीभिस्+॥ 46
अग्रे तेषाम्+व्यपगतमदस्+स्थातुम्+एव+असमर्थस्+
दृष्ट्वा कान्तिम्+कुसुमधनुषस्+का कथा विक्रमस्य।
सुभ्रूलीलाचतुरनयनक्षेपरम्यैस्+विलासैस्+
यस्मिन्+यातास्+तत्+अपि सुदृशाम्+किंकरत्वम्+युवानस्+॥ 47
त्वयि+आसीनि मनसिजगुरौ यत्र सारङ्गनेत्रास्+
संदृश्यन्ते रचितचतुरोद्यानदोलाविलासास्+।
अभ्यस्यन्त्यस्+सरभसम्+इव व्योमकान्तारयानम्+
कन्दर्पस्य त्रिदिवयुवतीम्+जेतुकामस्य सेनास्+॥ 48
प्रासादानाम्+दिनपरिणतौ गर्भम्+दग्धागुरूणाम्+
जालोद्गीर्णस्+सजलजलदश्यामलस्+यत्र धूमस्+।
सद्यःक्रीडाकुतुकरभसारूढपौरीमुखेन्दुज्योत्स्नासंगप्रसृमरतमःश्रेणिशङ्काम्+तनोति॥ 49
व्यर्थीभूतप्रियसहचरीचारुवाचाम्+निशीथे
रोषात्+अस्त्रीकृतकुवलयोत्तंसविस्रंसिमाल्यम्।
यूनाम्+यत्र प्रणयकलहम्+केलिहर्म्याग्रभाजाम्+
इन्दुस्+प्रत्यादिशति सविधीभूय शश्वत्+करेण॥ 50
तत्र स्वेच्छारतिविनिमये च+एअव् सीमन्तिनीनाम्+
कर्णस्रंसि प्रकृतिसुभगम्+केतकीगर्भपत्रम्।

उत्पश्यन्ति व्यतिकरचलत्कुण्डलाघट्टनाभिस्+
भिन्नम्+साक्षात्+इव मुखविधोस्+खण्डम्+एकम्+विदग्धास्+॥ 51
वाचस्+श्रोत्रामृतम्+अनुगतभ्रूविलासास्+कटाक्षास्+
रूपम्+हस्तोच्चयसमुचितम्+स्निग्धमुग्धास्+च हावास्+।
यातम्+लीलाञ्चितम्+अकृतकम्+यत्र नेपथ्यम्+एतत्+
पौरस्त्रीणाम्+द्रविणसुलभा प्रक्रिया भूषणम्+च॥ 52
पुञ्जीभूतम्+जगत्+इव ततस्+सप्तकक्ष्यानिवेशैस्+
रम्यम्+यायास्+भवनम्+अवनीमण्डलाखण्डलस्य।
यत्सौधानाम्+शिखरिसुहृदाम्+मूर्ध्नि विश्रान्तमेघे
विद्युल्लेखा वितरति मुहुस्+वैजयन्तीविलासम्॥ 53
स्निग्धश्यामैस्+इव विरचिता दारितैस्+इन्द्रनीलैस्+
व्यापी तस्मिन्+अवनिवनितारम्यरोमावली+इव।
यस्यास्+तीरे विहरदनतिप्रौढसीमन्तिनीनाम्+
मन्ये लीलागतिषु गुरवस्+राजहंसास्+भवन्ति॥ 54
देवम्+साक्षात्+मनसिजम्+इव प्राप्तराज्याभिषेकम्+
सेवेथास्+त्वम्+व्यथितसमये चामरग्राहिणीभिस्+।
यस्य स्निग्धस्फुरदसिलतास्फारगत्या जलानाम्+
लब्धस्+सख्ये रिपुकुलवधूलोचनैस्+संविभागस्+॥ 55
यस्य+औत्सुक्यात्+असमसमरालोकनोन्मादभाजाम्+
स्वर्गस्त्रीणाम्+अपरिगणितस्रस्तचेलाञ्चलानाम्।
मन्ये धाराचतुरतुरगोत्खातरेणुप्रतानस्+
सद्योलग्नस्+स्तनकलशयोस्+अन्तरीयत्वम्+एति॥ 56
भुग्नग्रीवम्+भुजबिसलतासक्तवक्त्राम्बुजाभिस्+
सस्+अयम्+सेनान्वयनृपस्+इति त्रासकौतूहलाभ्याम्।
विष्वक्+पीतस्+कुवलयदलश्रेणिदीर्घैस्+कटाक्षैस्+
पौरस्त्रीभिस्+सपदि नगरीविद्रवे विद्विषाम्+यस्+॥ 57
बद्धाक्रान्दास्+विहगरुदितैस्+बिभ्रती चैतसी+इव
क्रीडागारे सुचिरलिखिताम्+आकृतिम्+वल्लभस्य।
प्रौढारामा यदरिनगरी सौधसंजातदूर्वाजालव्याजात्+अलकपटलीम्+दूरनम्राम्+बिभर्ति॥ 58
क्रीडारोषे सुतनुचरणाहन्यमानस्य पत्युस्+
प्रत्युद्गच्छत्पुलकपटलेन+अपि बाधाम्+दधाना।
भ्राम्यसि+अद्रेस्+वनभुवि कथम्+क्रूरदर्भाङ्कुरायाम्+
एवंप्रायस्+यदरिनगरीशारिकाणाम्+विलापस्+॥ 59
तस्मिन्+काले क्वचित्+अपि स चेत्+वासरस्य त्रिभागम्+
राजा शक्तस्+गमयति रहस्+चिन्तयन्+अन्तरायान्।
संदेशस्+मे न पवन तदा किंचित्+आवेदनीयस्+
कार्योत्तप्ते मनसि लभते न+अवकाशम्+विलासस्+॥ 60
आसाद्य+अतस्+कम्+अपि समयम्+सौम्य वक्तुम्+विविक्ते
देवम्+नीचैस्+विनयचतुरस्+कामिन्+प्रक्रमेथास्+।
अपि+अन्येषु प्रणयिभिस्+अभिव्यञ्जितस्+कार्यभागस्+

सिद्धिम्+गन्तुम्+प्रभुस्+अवसरे किम्+पुनस्+पार्थिवेषु॥ 61
श्रीखण्डाद्रेस्+वसति शिखरे कस्+अपि गन्धर्वलोकस्+
तत्र+अस्ति+एका कुवलयवती नाम मान्या+अङ्गनानाम्।
दूतम्+तस्यास्+कलय मलयोपत्यकामारुतम्+माम्+
कामिद्वन्द्वम्+घटयति मिथस्+विप्रयुक्तम्+यस्+एकस्+॥ 62
जित्वा देव त्वयि सरभसम्+दाक्षिणात्यान्+क्षितीशान्+
प्रत्यावृत्ते मलयकटकात्+चित्तम्+आदाय तस्यास्+।
दूरम्+याते कमितरि वृथा वृत्तिस्+अस्य+इति तस्यास्+
बाष्पोत्पीडा सपदि पदवीम्+संरुरोध+ईक्षणस्य॥ 63
विन्यस्य+अग्रम्+भुवि चरणयोस्+कौतुकोत्तम्भिताक्षी
त्वत्सम्पर्कप्रकृतिसुभगाम्+उन्नतग्रीवम्+आशाम्।
उत्पश्यन्ती किम्+अपि सुतनुस्+लक्ष्यते सौधशृङ्गात्+
उद्भिन्नाश्रुस्थगितम्+असकृत्+त्वत्समीपम्+यियासुस्+॥ 64
यस्मिन्+काले नयनविषयम्+साहसिनिया+असि नीतस्+
सारङ्गाक्ष्यास्+सकलललनालोचनानन्दकारिन्।
जाने तस्मात्+प्रभृति जनितस्वान्तसंतापखेदा
सा रम्येषु क्वचित्+अपि न विश्वासम्+एकान्तम्+एति॥ 65
मुष्टिग्राह्यम्+किम्+अपि विधिना कुर्वता मध्यभागम्+
मन्ये बाला कुसुमधनुषस्+निर्मिता कार्मुकाय।
राजन्+उच्चैस्+विरहजनितक्षामभावम्+वहन्ती
जाता सम्प्रति+अह सुतनुस्+सा च मौर्वी लता+इव॥ 66
कीदृक्+कान्तस्+कथय तरले वर्तते यस्+तव+अन्तर्+
यत्नात्+इत्थम्+सुभग बहुशस्+पृष्टया+आलीजनेन।
निःश्वस्य+उच्चैस्+कथम्+अपि तया स्तम्भिताश्रुप्रवाहा
न्यस्ता दृष्टिस्+लिखितमदने भित्तिभागे गृहस्य॥ 67
धत्ते सद्यस्+त्वदुपगमितप्रेमलेखभ्रमम्+सा
तालीपत्रे प्रियसहचरीकर्णपाशच्युते+अपि।
किम्+च क्रीडाशुकम्+अपि मुहुस्+पृच्छति त्वत्प्रवृत्तिम्+
गाढोद्भूतस्+क्व खलु गणयति+अन्वयम्+तु+अर्थिभावस्+॥ 68
न+उत्तंसत्वम्+दृशम्+अपि नयति+उत्पले बद्धकोपा
माल्यैस्+क्लान्ता न भुजलतिकाम्+अपि+असौ संवृणोति।
पद्मोद्विग्नास्+हृदयनिहितात्+तापसम्पत्तिहेतोस्+
आलीहस्तात्+अपि च सहसा मीलिताक्षी बिभेति॥ 69
अभ्यस्यन्ती सरसकुसुमस्वस्तरोस्+प्रान्तसुप्ता
शुष्यत्पङ्कप्रकरसफरीसम्भ्रमोद्वर्तितानि।
धाराबाष्पम्+नयननलिनीनालताम्+च+आनयन्ती
मन्ये बाला गमयति पुनस्+सा कथंचित्+दिनानि॥ 70
अन्तस्+तापम्+तुहिनपयसाम्+अपि+अनुच्छिद्यम्+आप्य
त्वत्तस्+बालास्+मलयजरजःस्रोतसाम्+अपि+असाध्यम्।
धत्ते निन्दाम्+कुसुमविशिखे+अत्यन्तसादृश्यमूढा

सुस्था+अपि स्यात्+किम्+उत विरहव्याकुलास्+विभ्रमिण्यस्+॥ 71
द्वेषस्+क्रीडाविपिनवसतौ चन्दनाम्भोनिषेधस्+
प्रत्याख्यानम्+सरसनलिनीतालवृन्तानिलस्य।
जातस्+तस्याम्+कथम्+अपि सखीबुद्धिजस्+त्वद्वियोगे
मूर्छावेगव्यपगमविधेस्+एषस्+एव प्रकारस्+॥ 72
धत्ते द्वेषम्+शशिनि कुरुते न ग्रहम्+केशहस्ते
दूरे हारम्+क्षिपति रमते निन्दया चन्दनस्य।
वक्तुम्+देव त्वयि परम्+असौ स्वाम्+अवस्थाम्+कथंचित्+
गाढोद्वेगा नयति कविताचिन्तया वासराणि॥ 73
आदौ यातस्+नयनपदवीम्+स्तम्भयन्+पक्ष्ममालाम्+
चुम्बन्+गण्डस्थलभुवम्+अथो पीतबिम्बाधरोष्ठस्+।
कुर्वन्+कण्ठग्रहम्+अपि कुचोत्सङ्गशय्याशयानस्+
तस्यास्+बाष्पस्+किम्+इव न खलु त्वद्वियोगे करोति॥ 74
शारङ्गाक्ष्या जनयति न यत्+भस्मसात्+अङ्गकानि
त्वद्विश्लेषे स्मरहुतवहस्+श्वाससंधुक्षितस्+अपि।
जाने तस्यास्+स खलु नयनद्रोणिवाराम्+प्रभावस्+
यत्+वा शश्वत्+नृप तव मनोवर्तिनस्+शीतलस्य॥ 75
शान्तप्राये रजनिसमये किंचित्+आमीलिताक्षी
प्राप्य स्वप्ने कथम्+अपि पुरस्+त्वाम्+अतिप्रौढरागा।
श्लिष्यन्ती स्वाम्+तनुम्+अनुपदम्+विप्रबुद्धा+अथ बाला
लज्जालोलम्+बलयति मुखम्+सा सखीनाम्+मुखेषु॥ 76
चन्द्रात्+रम्याम्+उपवनभुवम्+दूरतस्+द्वेष्टि बाला
न+आलापम्+च क्वचन कुरुते सार्धम्+आलीजनेन।
रक्षाहेतोस्+स्मरविशिखतस्+केवलम्+सा वराकी
धत्ते लीलाफलकम्+उरसि त्वत्प्रतिच्छन्दशोभि॥ 77
विन्यस्यन्ती शशिनि नयने दुर्दिनैस्+अश्रुवाराम्+
धाराश्वासैस्+बकुलकुसुमामोदम्+आघ्रातुकामा।
शुश्रूषस्+च भ्रमरविरुतम्+मूर्छया रक्षिता+असौ
वीक्ष्य+अवस्थाम्+कस्+इव करुणाकातरस्+स्यात्+न तस्यास्+॥ 78
चेतोवृत्तिस्+स्फुरति करुणा विप्रयोगे विरागस्+
कोपावेशस्+कुसुमविशिखे नित्यम्+आत्मनि+अवज्ञा।
इत्थम्+स्वाङ्गे स्थितम्+इव समालम्ब्य चित्रा वराकी
त्वयि+एकान्तस्थिरविरचितम्+भावम्+आविष्करोति॥ 79
प्राक्+आलापास्+प्रतिमुहुस्+अपि प्रेमरम्यास्+सखीनास्+
त्वजि+एकान्तव्यपगतदये संगमाशा+अपि न+एव।
तस्यास्+चिन्ताम्+विरहजनिताम्+नाथ विस्मारयन्ती
मूर्छा+एव+एका भवति सततम्+जीवितालम्बनाय॥ 80
तस्यास्+राजन्+अनुभवम्+अनासाद्यहस्तावरोधात्+
गण्डाभोगे नयनसलिलस्रोतसा क्षालितस्+अपि।
प्रत्यासन्नस्+स्तनपरिसरे चेतसा त्वाम्+वहन्त्यास्+

प्रालेयांशुस्+नृपतिककुदच्छत्रभङ्गीम्+बिभर्ति॥ 81
यातस्+कृच्छ्रात्+तुहिनसमयस्+सम्प्रति त्वत्सकाशात्+
आगच्छन्तीम्+पवनलहरीम्+अपि+अनासादयन्त्यास्+।
कस्+सन्नद्धे परभृतवधूकेलिवाचाललोले
चैत्रे तस्यास्+कथय सुभग प्राणरक्षाभ्युपायस्+॥ 82
भूयस्+भूयस्+प्रविशति मनस्+दारुणे मन्मथाग्नौ
मग्नम्+बाष्पाम्भसि नयनयोस्+द्वन्द्वम्+इन्दीवराक्ष्यास्+।
तस्यास्+राजन्+अतनुविरहव्याकुलायास्+तपस्वी
जातस्+भस्मच्छुरितस्+इव स क्षामपाण्डुस्+कपोलस्+॥ 83
राजन्+उर्वीवलयवनिताकामुक त्वत्सकाशात्+
आशातन्तुस्+भवतु सुदृशस्+दुर्लभस्+प्रेमतन्तुस्+।
कष्टात्+कष्टम्+पुनर्+इदम्+अहो स्वप्नसंकेतदूती
निद्रा+अपि+अस्यास्+क्षणम्+अपि न यत्+नेत्रसीमानम्+एति॥ 84
प्रत्यावृत्तास्+स्तनपरिसरात्+चन्दनस्फीतमूर्तेस्+
श्वासास्+एव स्मरहुतवहोद्दीपनैकप्रगल्भास्+।
ताम्+उत्कण्ठाकुलितहृदयाम्+खेदयन्ति प्रकामम्+
सम्प्राप्यन्ते मलयपवनैस्+एवम्+एव+अयशांसि॥ 85
त्वद्वक्त्रानुस्मरणरसिका कातरा च प्रकामम्+
ज्योत्स्नासेकैस्+द्विजपतिम्+अधिक्षेपपात्रम्+करोति।
किम्+च द्वेष्टि त्रिदशभिषजौ सुन्दर त्वाम्+विचिन्त्य
प्रायेण+एवम्+भवति विधुरासन्नमृत्योस्+मनीषा॥ 86
सा वैरस्यात्+असितनयना हेमतालीदलानाम्+
प्रत्याख्यानात्+प्रकृतिसुभगम्+कर्णपाशम्+बिभर्ति।
तद्गात्राणाम्+किम्+अपि सहसा दुर्बलत्वम्+विचिन्त्य
त्यक्तम्+त्रासात्+गुणम्+इव मनोजन्मना कार्मुकस्य॥ 87
अपि+आजन्मप्रभृतिसुहृदस्+चन्दनस्य+अपराधात्+
अध्यास्ते सा न खलु मलयोपत्यकाकाननानि।
किम्+च द्वेषात्+उपरि मदनस्य+इव सर्वाङ्गतन्वी
बद्धावेशा मनसि रतये न+अवकाशम्+ददाति॥ 88
लीलोद्याने वितरति दृशम्+यत्नसंरुद्धबाष्पा
सान्द्रे चन्द्रार्चिषि निविशते चन्दनाभ्यक्तगात्री।
क्रीडावापीम्+मरुत्+अभिमुखम्+धावति व्याकुला+असौ
किम्+वा नार्यस्+रमणविरहे साहसम्+न+आचरन्ति॥ 89
यातास्+कण्ठस्थलम्+अपि घनश्वासमात्रावशेषास्+
ताम्+उत्कण्ठाप्रतनुम्+असवस्+सर्वथा न त्यजन्ति।
लब्ध्वा कण्ठप्रणयम्+अथवा तादृशम्+अङ्गनानाम्+
शक्तस्+त्यागे कस्+इव भुवने चेतसा विच्युतस्+अपि॥ 90
क्षीणस्+तापस्+वपुषि विगता नेत्रयोस्+अश्रुधारा
विश्रान्तानि क्रमकृशतनोस्+अङ्गविक्षेपणानि।
इत्थम्+शान्ते विरहजनिते व्याधिरागे मृगाक्ष्यास्+

श्वासस्+तस्यास्+परम्+उपचितस्+निर्वृतेस्+अन्तरायस्+॥ 91
लीलोद्याने परभृतवधूपञ्चमैस्+पीड्यमाना
ताम्यन्मूर्तिस्+मलयमरुता केलिवातायनेषु।
सा न+एकत्र क्वचित्+अपि पदम्+कातराक्षी विधत्ते
यत्+सत्यम्+न त्रिभुवनम्+अपि प्रीतये दुःखितानाम्॥ 92
सा सर्वत्र+अप्रतिहतगतिस्+विद्यया सति+अपि त्वाम्+
प्रत्याख्यानात्+सुभग सहसा बिभ्यती न+अभ्युपैति।
राजानस्+हि प्रकृतिरसवच्चेतसस्+अपि+अन्यनारीम्+
रूढप्रेमप्रबलवनिताभीरवस्+नो लसन्ति॥ 93
तस्यास्+तीव्रस्मरहुतभुजा दह्यमानाङ्गयष्टेस्+
न्यस्तम्+सद्यस्+स्तनपरिसरे चन्दनम्+शोषम्+एति।
उक्तैस्+किम्+वा बहुभिस्+अपदारोपितस्वान्तवृत्तेस्+
त्वयि+आयत्तस्+कुवलयदृशस्+जीवरक्षाप्रकारस्+॥ 94
इति+आख्याते पुलकिततनुस्+मेदिनीपुष्पकेतुस्+
प्रत्युत्थाय प्रणयसुभगम्+गाढम्+आश्लिष्यति त्वाम्।
वाक्यैस्+एभिस्+करुणमसृणैस्+कोमलत्वम्+भजन्ते
ग्रावाणस्+अपि प्रकृतिसरसस्+किम्+पुनस्+तादृशस्+यस्+॥ 95
सद्यस्+कृत्वा पवन विनयात्+अञ्जलिम्+मूर्ध्नि किंचित्+
वक्तव्यस्+असौ रहसि भवता मद्गिरा गौडराजस्+।
त्वत्तस्+श्रोष्यति+अवहितमनास्+सस्+अनुरक्ताङ्गनानाम्+
जायन्ते हि प्रणयिनि सुधावीचयस्+वाचिकानि॥ 96
पार्श्वे पश्चात्+अपि च पुरतस्+दर्शयन्+आत्मरूपम्+
व्यक्तम्+देव त्वम्+असि जगताम्+ईश्वरस्+शार्ङ्गपाणिस्+।
तत्+माम्+भक्तिप्रवणमनसम्+न+अनुगृह्णासि कस्मात्+
कायव्यूहम्+रचयितुम्+अलम्+न+अपरस्+कैटभारेस्+॥ 97
सौधोत्सङ्गे मुकुलितदृशम्+तत्सखीनाम्+पुरस्तात्+
माम्+आसाद्य त्वम्+अयम्+अकृथास्+गोचरे यत्+न वाचाम्।
तत्+कुर्वीथास्+सुभग न सताम्+गर्हणीया यथा स्याम्+
कन्याम्+लोके न खलु सुधियस्+दूषयित्वा त्यजन्ति॥ 98
वृत्ते गौरीपरिणयविधौ पीवरप्रीतिभाजा
सृष्टस्य+इव त्रिपुरजयिना पुष्पकेतिस्+नवस्य।
राजन्+अस्तु प्रणयचतुरस्+दूरतस्+प्रेमबन्धस्+
पुण्येन स्याम्+तव चरणयोस्+केन संवाहने+अपि॥ 99
संदेशस्+अयम्+मनसि निहितस्+कच्चित्+आयुष्मता मे
किम्+वा भूयस्+त्वयि विरचितैस्+अङ्ग भिक्षाप्रकारैस्+।
पारार्थ्यैकप्रवणमनसस्+त्वद्विधास्+बाष्पमिश्रान्+
आपन्नानाम्+न खलु बहुशस्+काकुवादान्+सहन्ते॥ 100
दन्तिव्यूहम्+कनकलतिकाम्+चामरम्+हैमदण्डम्+
यस्+गौडेन्द्रात्+अलभत कविक्ष्माभृताम्+चक्रवर्ती।
श्रीधोयीकस्+सकलरसिकप्रीतिहेतोस्+मनस्वी

काव्यम्+सारस्वतम्+इव महामन्त्रम्+एतत्+जगाद॥ 101
गोष्ठीबन्धस्+सकलकविभिस्+वाचि वैदर्भरीतिस्+
वासस्+गङ्गापरिसरभुवि स्निग्धभोग्या विभूतिस्+।
सत्सु स्नेहस्+सदसि कविताचार्यकम्+भूभुजाम्+मे
भक्तिस्+लक्ष्मीपतिचरणयोस्+अस्तु जन्मान्तरे+अपि॥ 102
यावत्+शम्भुस्+वहति गिरिजासंविभक्तम्+शरीरम्+
यावत्+जैत्रम्+कलयति धनुस्+कौसुमम्+पुष्पकेतुस्+।
यावत्+राधारमणतरुणीकेलिसाक्षी कदम्बस्+
तावत्+जीयात्+कविनरपतेस्+एष वाचाम्+विलासस्+॥ 103
कीर्तिस्+लब्धा सदसि विदुषाम्+शीतलक्षोणिपालास्+
वाक्संदर्भास्+कतिचित्+अमृतस्यन्दिनस्+निर्मितास्+च।
तीरे सम्प्रति+अमरसरितस्+क्व+अपि शैलोपकण्ठे
ब्रह्माभ्यासे प्रयतमनसा नेतुम्+ईहे दिनानि॥ 104
श्रीधोयीकविराजविरचितम्+पवनदूताख्यम्+काव्यम्+समाप्तम्।

मूल पाठ: Pavanadūta · Edition: Chintaharan Chakravarti (ed.): Pavanadutam of Dhoyi. Edited with Critical and Historical Introduction, Sanskrit Notes, Variants etc. etc. Calcutta: Sanskrit Sahitya Parishat 1926. Sanskrit Sahitya Parishat Series No. 13. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc