पारमेश्वरीमततन्त्रम् · अध्याय 1
----
मुक्तबोध इन्दोलोगिचल् रेसेअर्छ् इन्स्तितुते
उसे ओf थिस् मतेरिअल् (ए-तेxत्स्) इस् चोवेरेद् ब्य् च्रेअतिवे चोम्मोन्स् लिचेन्से ब्य्-न्च्
चतलोग् नुम्बेर्: म्
उनिfओर्म् तित्ले: परमेश्वरीमततन्त्र
मनुस्च्रिप्त् : न्ग्म्प्प् मनुस्च्रिप्त् 5-5148 रेएल् नो: ब् 133।
देस्च्रिप्तिओन्:
नोतेस्:
त्रन्स्च्रिबेद् ब्य् थे स्तff ओf मुक्तबोध उन्देर् थे सुपेर्विसिओन् ओf मर्क् स्. ग्. द्य्च्zकोwस्कि fरोम् न्ग्म्प्प् रेएल् नो: ब् 133।3 मनुस्च्रिप्त् नो. 5-
रेविसिओन् 0: सेप्त्. 18, 2010 छप्तेर् 15 तो एन्द् अद्देद्
इन्तेर्नेत् पुब्लिस्हेर् : मुक्तबोध इन्दोलोगिचल् रेसेअर्छ् इन्स्तितुते
पुब्लिचतिओन् येअर् :
पुब्लिचतिओन् चित्य् :
पुब्लिचतिओन् चोउन्त्र्य् : इन्दिअ
----
ओं नमः श्रीमहाभैरवाय
श्रीदेव्युवाच
श्रुतं देवमयासर्वं त्वत्प्रसादावधारितं ।
अधुनाश्रोतुमिच्छामि पारंपर्य क्रमागतं ॥
कथं मेरुः समुत्पन्न उद्धारस्तस्य कीदृशः ।
सन्तानं कीदृशं देव यत्रोत्पन्नं चराचरं ॥
षड्विधञ्च कुलाम्नायं षोढान्यासेनसंयुतं ।
मन्त्रमुद्राश्च विद्याश्च अनेकाकारविस्मयम् ॥
कथं केन प्रकारेण मेरु मध्ये व्यवस्थितम् ।
वागीश्वरी महामाया चामुण्डा कुलनायिका ॥
मृत्युंजया महाकाली त्रोटलात्रिपुरभैरवी ।
समय विद्या कुलाकाराख्या सिद्धामार्त्तण्डभैरवी ॥
महासम्मोहनी नित्या कृतान्ती मुक्तिदापरा ।
कुलमाता महादेव सट्प्रकारां व्यवस्थिता ॥
यत्प्रसादात् स्वयं ब्रह्मा सृजते स चराचरम् ।
मायाशक्तिः परागुह्या यया सिधोजनार्दनः ॥
मायाजालं च कुरूते रूपाणि च वहूनि च ।
हंसवागेश्वरी नाम शेषसम्पादितात् तु या ॥
सरस्वती महाविद्या या दत्ता षड्मुखस्य च ।
कामनिर्नाशनी चैव पुनस्तस्य प्रकोपनी ॥
स वाणधनुषश्चैव मोहयन्ति चराचरम् ।
यस्या विद्या प्रसादेन सिद्धोसौ मकरध्वजः ॥
वक्रप्रस्तारिका विद्या ब्रह्मनित्या(विद्या) तथैव च ।
संजीवनी महाविद्या यया कालो वशीकृतः ॥
गर्भयागं पुनर्देव पुत्रस्योत्पत्ति कारणं ।
विषसंक्रमणी विद्या पुनस्तस्य प्रणाशिनी ॥
विद्याकामदुघानाम सप्तपातालसाधनी ।
दू(तृ)तीयं च विधानं च कन्यानां च सुरेश्वर ॥
प्. १ब्)
मेरु मध्ये कथं देवसमुत्पन्नं चराचरं ।
एतत् सर्वं समासेन प्रसादं कुरु भैरव ॥
श्रीभैरव उवाच
शृणु देवि परं गुह्यं मेरोरूधारमुत्तमं ।
यं दृष्ट्वा विधियोगेन सर्वपापैः प्रमुच्यते ॥
कर्मणा मनसा वाचा यत्पापं समुपार्ज्जितं ।
तत्सर्वं क्षयमाप्नोति दृष्ट्वा मेरुं परं शुभं ॥
स योनिः सर्वविद्यानां कौलिकस्य विशेषतः ।
सन्तानन्तत उत्पन्न षड्विधञ्च कुलक्रमं ॥
कुलंशरीरमित्याहुः शक्तिरूपं व्यवस्थितं ।
पुनश्चाकाश रूपेण ज्ञानं कौलमुदाहृतम् ॥
तत्र मध्ये समुत्पन्ना आज्ञापरमदुर्ल्लभा ।
नवकोटि प्रमाणेन पूर्वोक्तं कुब्जिकामतं ॥
चतुराशीतिसाहस्रं तत्र मध्ये मयोद्धृतं ।
पुनस्तत्रैवमध्ये तु उद्धृतं मेरुमुत्तमं ॥
पारंपर्यक्रमं दिव्यं तत्र मध्ये व्यवस्थितम् ।
उद्धारं सर्वविद्यानां उत्पन्नं तत्र मध्यतः ॥
शास्त्रे शास्त्रे स्थिता मन्त्रा उद्धृतानि बहुधानि च ।
सामर्थ रहिताः सर्वे सखिलाविघ्नदायिकाः (कीर्तिता) ॥
न सिध्यंति वरारोहे ये स्थिता मेरुवाह्यतः ।
मकालमाये रेफोऽग्निरुविष्णुर्विद्रुताम्बर ॥
यश्चभूताम्नया देवि मेरुर्मेलाप रोधनात् ।
मेरुमध्योद्धृता विद्या मेरुमध्योद्धृतः क्रमः ॥
महागुरु प्रसादेन सिध्यते नात्रसंशयः ।
न दीक्षा न कुलं चर्या न ज्ञानं कौलिकोद्भवं ॥
आज्ञा चैवाधिकारश्च यावत् मेरुं न पश्यति ।
तावद्भ्रमति संसारे विकलेन्द्रियवत्सदा ॥
स पाअपः पशुवद्देवि तावन्नैवे दृशी गतिः ।
मेरौ दृष्टे भवेद्दिक्षा मेरौ दृष्टे मलक्षयः ॥
मेरौ दृष्टे परां शान्तिमचिरेणाधिगछति ।
तस्मात् सर्वप्रयत्नेन द्रष्टव्यो वरवर्णिनि ॥
प्. २अ)
आज्ञासिद्धिः प्रवर्त्तेत यत्कामं तद्ध्रुवं लभेत् ।
यत्र स्थाने शुभे रम्ये उद्धृतं च महानगं ॥
विद्याप्रस्तारसंयुक्तं पंचाशीति पुरोद्भवं ।
देवदानवसिधाश्च यक्षगन्धर्वकिन्नराः ॥
अन्तरिक्षस्थिताः सर्वे पश्यन्ति वरवर्णिनि ।
नमस्कारं प्रकुर्वन्ति निर्मलत्वेन हेतुना ॥
सर्वपापैः प्रमुच्यन्ते दृष्ट्वामेरुं परं शुभं ।
सुसंपूर्णः कुलाचार्या एतच्छास्त्रार्थ बोधकः ॥
उद्धरेद्विधियुक्तात्मा परिपूर्णा निश्चितामतिः (परिपूर्णो विनिश्चयः; पूर्णो
निश्चितधीः क्रमात्) ।
विधिहीनं न कर्त्तव्यं यदि साक्षात्महेश्वरः ॥
तस्मात् सर्वप्रयत्नेन विधानं शोभनं शुभं ।
पंचोपचारसंयुक्तं गन्धपुष्पसमन्वितम् ॥
कर्पूरकुंकुमैर्मिशुंलिप्त्वा मेरुं समुद्धरेत् ।
भूमिपीठे पठे वापि अथ शैले सुशोभने ॥
खटिकायां लिखेत्प्राज्ञे रेखाश्च भुवनानि च ।
पूर्वपश्चिमतश्चैव उत्तरं दक्षिणेन तु ॥
कोष्टकानिविचित्राणि शतमेकोन सप्ततिः ।
नाभिमालां परित्यज्य अष्टमादि गुहाननाः ॥
कुमारं अग्रतः कृत्वा द्वे द्वे वृद्धानि यानि च ।
वामदक्षिणभग्नानि उर्द्धभागक्रमेण तु ॥
नेत्र वेद रितु वर्जं यथा संख्या दिशोरविः ।
भग्नाश्चैवमधोभागे षट्प्रकाराणि पूर्ववत् ॥
भग्ने भग्ने महादेवि ये स्थिताः कथयामिते ।
कैवल्यं लोकभूतानि ऋषयो नवकस्तथा ॥
एकादशेन संयुक्तमत ऊर्धं ततः शृणु (ऊर्द्ध भाग क्रमेण तु) ।
विश्वे(विष्णु)रूद्रा गुहाश्चैव मातरो भैरवा ननाः ॥
नामैकं मेरुसंज्ञं च तत्रसर्वं समुद्धरेत् ।
प्. २ब्) कैलासं पूर्व भागे तु दक्षिणे गन्धमादनम् ॥
मन्दरं पश्चिमस्थश्च उत्तरे निषधालयम् ।
चतुःशृंगो महामेरुः सर्वकामार्थसाधकः ॥
प्रस्तारं तत्र कुर्वीत सर्वविद्यालयं परम् ।
अकारादि विसर्गान्तं सोडशैव स्वराल्लिखेत् ॥
चतुस्त्रिंशति वर्णानि पंचस्वरविभूषितान् ।
प्रथमं स्वरहीनश्च द्वितीयं स्वरसंयुतं ॥
एकैकस्य तु वर्णस्य भेद द्वयं प्रकीर्तीतम् (द्वयमुदाहृतम्) ।
पूर्वं पूर्वेणसंयुक्तं द्वितीयेन द्वितीयकं ॥
षडर्धेन तृतीयं तु चतुर्थेन चतुर्थकं ।
पंचमे पंचमं योज्यं ओंकारादि समुधरेत् ॥
ध्रुवनाभिगतं कुर्यात् पूर्वा (न्ते, दि) वर्ण पूर्वकं ।
तस्यान्ते गन्धशिखरं मन्दरान्ते तृतीयकम् ॥
उत्तरान्ते पुनर्द्देवि वेदवर्णं व्यवस्थितं ।
ध्रुवादौ ध्रुवमन्तेषु (ध्रुवादौ वा ध्रुवम्पानो?; ध्रुवादौ ध्रुव
मध्यान्ते) वर्णा भूतरसानि च ॥
रामानां वेदमध्ये तु स्थिताश्चैव नपुंसकाः ।
पुनस्तेष्वादि चान्तेषु पूर्वादारभ्य चोत्तरे ॥
स्थितास्ते क्रमयोगेन वर्णास्तु वसवोनिघे (वसु संख्यया) ।
कैलासे तत्र वर्णानां मधश्चत्वारिमन्दिरात् (कैलासे तु ऋवर्णानामधो
भागे वरानने; कैलासे त्व ऋवर्णाभ्यां चत्वारि भुवनान्यधः) ।
कान्तादि संस्थितास्तत्र संख्यासंख्यैर्व्यवस्थिता (वेद संख्या) ॥
क्रममध्यगतास्त्रीणि संस्थिता गन्धमादने ।
मन्दरे इ ऌ उर्धे तु वेदवर्णा व्यवस्थिताः ॥
ऌ भ्रुमध्यगतास्त्रीणि (मध्यास्तु यो * *?) उत्तरे निषदालये ।
आकाशे मन्दरे देवि कैलासे भैरवानने ॥
तस्यादिश्चैव अन्तेषु (दावेवचान्तेषु) स्थितं वर्णचतुष्टयं ।
क्षकारादि स्थितास्त्रीणि तस्यान्ते एवमेव हि ॥
प्. ३अ)
आदौ चत्वारो वर्णाश्च आन्ते वेदगृहेषु च ।
कान्ते युगसमाख्याता गुडो(ओगु)मध्ये तथैव च ॥
मनरे भूतचत्त्वारः स्थितास्ते वामदक्षिणे ।
ऋषिमध्य परित्यज्य कोषकानि तु संस्थिताः ॥
तेषु स व्यापसव्येषु रसवर्णाव्यवस्थिताः ।
नवके च पुनर्द्देवि वसवः परिकीर्त्तिताः ॥
छा(का)दौ वेदाः समाख्याता अन्य चत्वारि यानि च ।
तेषु चत्वारिवर्णानि (चत्वार्यन्यानि यानि च) सिद्धं प्रस्तारमुत्तमं ॥
एषा योनिः परा गुह्या मन्त्रसृष्टिर्व्यवस्थितम् ।
योनिर् मध्यगता योनिर्यावत् कोणाश्चतुर्दश ॥
एषक्रमगतो मेरुश्चतुः शृगः सुरालयः ।
अत्रमध्ये समुत्पन्नाः सिद्धविध्या अनेकधा ।
पारंपर्यक्रमेणैव गुरु वक्त्रात् तु लभ्यते ॥
इति पारमेश्वरीमतेनवकोटिसंहितायां चतुराशीतिसहस्रमेरुद्धारः
चतुर्विंशतिमः पटलः ॥
देव्युवाच
अद्य मे सफलं जन्मः अद्य मे सफलं तपः ।
श्रुतं मेरुं परंगुह्यं सर्वपापक्षयङ्करं ॥
निर्मलत्वं च संप्राप्तं त्वयि तुष्टे सुरेश्वर (त्वया तुष्टेन शङ्कर) ।
अधुनाश्रोतुमिछामि विद्या नामानि यानि च ॥
कथं सिध्यन्ति देवेश सामर्थ्यं कीदृशं भवेत् ।
श्रीभैरव उवाच
आदौ दीक्षाभिषेकं च सर्वपापप्रनाशनं ॥
पश्चाद्देविक्रमं ज्ञात्वा षोढान्यासेनसंयुतं ।
शब्दाराशिकुकाराख्यं अङ्गवक्त्रे तु संयुतां (शब्दराशिः कुकाराख्या
अङ्गवक्त्रेषु संयुता) ॥
पुनस्तं (ततः) क्रमयोगेन नवात्मानादिनी परं(दं) ।
विद्या त्रयं परं गुह्यं अघोराष्टकमेव च ॥
अङ्गद्वादशकं चान्यं सडङ्गश्च ततः पुनः ।
ग्रन्थादिकं ततो न्यासं त्रिभिर्भेदैश्च तद्ग्रहं ॥
प्. ३ब्)
द्वादशानि च श्लोकानि (दशैव तथा श्लोका) पंचरत्नानि यानि च ।
पीठश्चतुः क्रमं दिव्यं षोढान्यासेनसंयुतं ॥
कुलदीक्षाभिषिक्तस्य पारंपर्य क्रमस्य च ।
मन्यन्ते क्रमज्येष्ठानि ये युक्ताश्च कुलागमे ॥
तस्य देयमिदं ज्ञानं सोढान्यासं क्रमोद्भवं ।
विन्यसेद्विधियुक्तात्मा त्रिष्कालञ्च दिवानिशि ॥
ये के चित्पापसंघाताः सप्त जन्मान्तरेषु च ।
दहते न्यासमात्रेण कल्पान्ते भास्करो यथा ॥
शस्त्रसंघातसङ्कीर्णे संग्रामेष्वा पदेषु च ।
न भयं विद्यते तस्य स वज्रपञ्जरो यथा ॥
कामं क्रोधन्तथा लोभं मायाहंकारमेव च ।
संपर्काभोजनालापं न कुर्यात् केनचित् सह ॥
नमस्कारं न कुर्वीत ज्येष्टस्यापि कदाचन ।
गुरोरपि न पतेत्पादौ म्रियते नात्र संशयः ॥
तस्मात् सर्व प्रयत्नेन नमस्कारंम्विवर्ज्जयेत् ।
षण्मासाभ्यासयोगेन सामर्थ्यं च वदाम्यहं ॥
काष्ठपाषाणधातूनां भूतग्रामं चतुर्विधं ।
नमस्कारात् क्षयं यान्ति गिरिर्वज्र हतो यथा ॥
अब्दैः षोडशभिर्देवि खेचरत्वं भविष्यति ।
देव्युवाच
न जानाम्य प्यहंनाथ षोढान्यासं च कीदृशं ॥
वक्तुमर्हसि देवेश यदि तुष्टोसि मे प्रभो ।
श्रीभैरव उवाच
यो सौ देवि मयाख्यातश्चतुःशृङ्गो महानगः ॥
उद्धारं सर्वविद्यानां तत्र मध्ये व्यवस्थितं ।
तदहंसंप्रवक्ष्यामि उद्धारं या दृशं भवेत् ॥
कैलासशिखरे देवि षद्वर्णं वर्णपूरिक्तं ।
शिरस्थं तं विजानीया छ्रीकण्ठंस्तत्र देवता ॥
पुनस्तस्यैव त्रैव अन्ते च शिखरे गन्धमादने ।
प्. ४अ)
अनन्तं तम्विजानीयात् संस्थितं वक्त्रमण्डले ॥
मन्दरान्ते तृतीयं च भैरवं तत्र संस्थितं ।
दक्षनेत्रस्य मध्यस्थं त्रिमूर्त्ति वामनेत्रगं ॥
निषधान्तं गृहं तस्य वेदवर्णसमुद्भवं ।
ध्रुवादि भूतवर्णस्थं अम(रा)रीशं प्रतिष्ठितं ॥
दक्षिणे श्रवणे न्यस्य अर्घीशं रितुवर्णगं ।
वामश्रवणविन्यासं सर्वपापक्षयंकरं ॥
कैलासे वाम मध्ये तु श्रीकण्ठस्य अधः स्थितं ।
भैरवोभारभूतिस्तु भानुनासा पुटे न्यसेत् ॥
अतिथिः सो मध्ये तु अष्टमं गन्धमादने ।
अनुस्वारविसर्गान्तं लोकस्थं मन्दरे विदौ ॥
स्थाणुरुद्रं विजानीयाद्दक्षगण्डस्थले न्यसेत् ।
निषदेकाकमध्यस्थं रुद्रनामहरम्महत् ॥
वामगण्डस्थले न्यासं कर्त्तव्यं वरवर्णिनि ।
कैलासे कब्य आदिस्थं कर्णाशं नामनामतः ॥
दन्तपंक्तौ न्यसेद्धीमान् भूतीशं दंष्ट्रमध्यतः ।
तस्य बीजं रु अन्ते च आदौ चैव समुद्धरेत् ॥
वामं नासा पुटे पूर्वं विश्ववर्णं व्यवस्थितं ।
सद्योजातं विजानीयात् न्यस्तमोष्टस्य (मस्तके चाष्ट) मध्यतः ॥
रुद्रो अनुग्रहीशश्च महातेजो महामनाः ।
तस्मात् सर्वप्रयत्नेन ऌ अन्ते अधरे न्यसेत् ॥
अंक्रूरं घंटिकाग्रे च जिह्वा मूले विसर्गजं ।
महासेनं विजानीयाद् रुद्रश्चैव महाबलं ॥
वामगण्डादि उत्पन्नं भुजमूले तु दक्षिणे ।
क्रोधं नाम महारुद्रं न्यासं कृत्वा तु यत्नतः ॥
पुनश्चाकाशमध्यस्थं चंशु? नामानमिश्वरं ।
प्. ४ब्)
तत्रैवं वाहुमध्ये तु न्यासं कृत्वा सुरेश्वरि ॥
पश्चान्तं च विजानीयात् ख अधः कूर्परा न्यसेत् ।
कङ्काले (कङ्कणे) शिवमित्याहुर्घकारं वर्णपूर्वकं ॥
एकपादं करे न्यस्य अर्घीशान्ते व्यवस्थितं ।
कूर्म्पं?चकारमध्यस्थं वाममूले व्यवस्थितं ॥
एकहस्तस्थितं वाहुव्व पूर्वं वाम *?न्यसेत् ।
चतुराननेनसंयुक्तं जकारंकूर्परे स्थितं ॥
रूकारं कङ्कणे न्यस्तं अजितस्तत्र देवता ।
स्वान्ते (यान्त)
वर्णस्य(वर्णेन)संभूतकरे(नवर्णसंभूति)शर्म(सव्ये)व्यवस्थिता ॥
एवं न्यासं महादेवि उभौवाहू प्रतिस्थितं ।
जंघा मूले शशाङ्कार्द्धं तत्र सोमेश्वरं विदुः ॥
दक्षिणे तद्द्विजानीयात् पूर्णेन्दु मूरुभूषितं (न्दुतरूसंस्थितं) ।
लांगलीशो महादेवि तत्र स्थाने नियोजयेत् ॥
दारुकं जानुमध्यस्थं न्यासं कृत्वात्रपूर्वकं ।
ग्रहमालास्थितं पूर्वं जंघामध्ये व्यवस्थितं ॥
अर्धनारीश्वरं देवं न्यासं कृत्वानु यत्नतः ।
उमाकान्तं णमध्यस्थं न्यासंपास्पदक्षिणे ॥
तकारं वाममूले तु आषाढीनामनामतः ।
तत्रस्थाने कृतं न्यासं तद्द्वितीयं अधः स्थितं ॥
दण्डिनं मेरुमध्यस्थं न्यासं कृत्वा सुरेश्वरि ।
ढकारं यस्य ऊर्द्धे तु छ(हि?)कारमधः संस्थितं ॥
जानुन्यासं विजानीयाद्धात्रीशो नामनामतः ।
मीनं दधेस्तु (धकार)मध्यस्थं जंघास्थाने नियोजयेत् ॥
तकारस्य अधस्थाने ध्रुवान्ते ऊर्धसंस्थितं ।
मेषोनाम महारुद्रो वामपादे व्यवस्थितः ॥
लोहितं दक्षकुक्षिस्थं विन्यसेद्वरवर्णिनि ।
प्. ५अ) थ(ठ)कारं यस्य मूर्धिस्थं अधोषकारमेव च (सुवर्णं तस्य
पूर्वकं) ॥
भूतादि मन्दरस्थं च वामकुक्षौ नियोजयेत् ।
शिखिवाहिमहारुद्रं तत्र स्थाने प्रति स्थितं ॥
मोकारं यस्य उर्द्धं तु पृष्ठ मध्ये व्यवस्थितं ।
छगलण्डं (* *?) विजानीयात्तत्र रुद्रं व्यवस्थितं ॥
मन्दरे ऋषिमालायां रि(धि)कारस्य अधः स्थितः ।
नाभिस्थाने विजानीयाद्विरण्डन्तत्र देवता ॥
तत्रैव ऋषिमालायां भे च मधे व्यवस्थितं ।
महाकालं विजानीयाद्धृदि मधे व्यवस्थितं ॥
य(*?)कारमधकोष्ठे तु गो पूर्वे यस्य संस्थितं ।
वागीशो भैरवस्तत्र त्वचिन्पासोत्तमोतमः ॥
तस्यान्ते रक्त(वक्त्र) मध्ये तु नवके पूर्वसंस्थितं ।
भूजङ्ग भैरवस्तत्र पिशितस्य(स्थो) पिनाकिनः ॥
स(ग)कारस्य अधः स्थाने रि(?)पूर्वे यस्य संस्थितं ।
एतद्बीजं विजानीयात् न्यस्तं तत्र पिनाकिनः ॥
वेचामध्ये स्थितं बीजं स्नायु मध्ये व्यवस्थितं ।
खड्गीशो भैरवस्तत्र विन्यसेद्वरवर्णिणि ॥
वे अन्तमाश्रयं यस्य वा(*?)गीशान्त(नै) मधः(र्व्यव)स्थितम् ।
अस्थिमध्ये स्थितं रुद्रम् सम्यकं नामनामतः ॥
अधो यस्य र(न)कारस्तु ककारं पूर्वसंस्थितं ।
तद्वर्णंमध्यमध्यस्थं भैरवश्चेत नामतः ॥
सिवारं यस्य अन्ते(श्व) च पिनाकी अधः संस्थितम् ।
शुक्रस्थं तद्विजानीयात् भैरवो भृगुनामतः ॥
खड्गीशं भैरवं यत्र तत्र उर्द्धे व्यवस्थितं ।
लकुलीशः प्राणमित्याहुः अर्घीशस्य अधः स्थितं ॥
क्रोधमध्ये स्थितं रुद्रं वर्णान्ते यद्व्यवस्थितं ।
संवर्त्तकं विजानीयाद्युगान्तेयः क्षयंकरः ॥
शब्दराशिमिदं प्रोक्तं सर्वपाप क्षयंकरं ।
न्यस्तं सर्वाङ्ग देशेषु पंचप्रणवसंपुटं ॥
दुर्गमार्ग जलाग्नीषु दुष्टदंष्ट्री भयेषु च ।
वादे विवादे संग्रामे न भयं विद्यते क्वचित् ॥
यत्र कुत्र चिद्देशेषु तिष्ठते साधकेश्वरः ।
तस्य संपर्क मालायाद्रुद्रलोकं स गच्छति ॥
इति पारमेश्वरीमते नवकोटि संहितायां चतुराशीतिसाहस्रे
शकराशिपंचविंशतिमः पटलः ॥
श्रीदेव्युवाच
पंचप्रणवयोगेन न्यासमुक्तं त्वया प्रभो ।
तमहं श्रोतुमिछामि त्वत्प्रसादाद्यभैरव ॥
श्रीभैरव उवाच
शृणु देवि परंगुह्यं उद्धारं दुर्लभञ्च यत् ।
न्यासं पूजा च संस्कारं न तेन रहितं भवेत् ॥
तमहं कथयिष्यामि पञ्चप्रणवदेवता ।
कैलासे यस्य वर्णस्य पूर्वपूर्वे नपुंसके ॥
लोकान्ता(दि)शिरसाक्रान्तं मन्दिरे यद्व्यवस्थितम् ।
पूर्वप्रणवयोगोयं यत्रोत्पन्नं चराचरम् ॥
छा(अ)न्तं वर्णं समुद्धृत्य ल(न)कुश(ल) यत्रसंस्थितं ।
नवके संस्थितं देवि आसनं तस्य संस्थितं ॥
त्रिमूर्तिनाशिरोभिन्नं बिन्दुमस्तकभूषितं ।
परशक्ति समुत्पन्नं द्वितीयं प्रणवं विदुः ॥
अधस्थं यस्य वागी(ली)शो उर्द्धे क्रोधाक्षरं भवेत् ।
तद्वर्णं रक्तमारुढं चतुर्थस्वरसंयुतम् ॥
क्रूरवर्णं शिरे दत्तं बीजमैश्चर्यदायकं ।
प्. ६अ) मन्दरे भूत पूर्वं तु संगृह्यशिखिवाहनं ॥
झण्टीशं मस्तके दत्तं भुजङ्गासनसंस्थितम् ।
चतुर्थप्रणवं प्रोक्तं बिन्दुमस्तकबूषितं ॥
एतद्घोरतरं बीजं जित(दत्त?)कालानलप्र(मालनाशु)भं ।
यस्य स्मरणमात्रेण ब्रह्माण्डं परिकल्पते ॥
शिकारं पूर्ववर्णस्य प्राणमूर्द्ध्नि स्थितं ।
सावित्री मस्तके दत्तं उच्चारश्च स बिन्दुकम् ॥
प्रणवण् निर्वाणमित्युक्तं पावकासनसंस्थितम् ।
एतेपंचमहाबीजा आदिभूताकुलागमे ॥
न्यास पूजा च संस्थानं(स्कारं) ना(स्वा?)नेन रहितं भवेत् ।
उक्तं देवि परंगुह्यं पंचप्रणवसंपुटं ॥
ननेनैवविधानेन न्यासपूजा सदा कुरु ।
क्रमिकन्तं विजानीयाच्चतुर्वर्ग फलं लभेत् ॥
देव्युवाच
द्वात्रिंशदक्षरां देवी सर्वकामार्थ साधनीं ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥
एतानि पञ्च देवानि येन सिद्धाः सुरेश्वराः ।
आदि भूतां परां सूक्ष्मां श्रोतुमिछामि तत्त्वतः ॥
जन्मजन्मान्तरं पापं भस्मसाद्यान्ति तत्क्षणात् ।
श्रीभैरव उवाच
आदौवर्णं समुत्पन्नं रुद्राणां वा(ऋ)षिमन्दिरे ।
यत्र मध्ये महादेवि मेषो(माया)रुद्रो महाबलः ॥
पूर्वं तु तद्विजानीयान्मालिनी शिरसि स्थितम् ।
पूर्वं वागीश वर्णस्य स्त्रायुरूर्द्ध्वं व्यवस्थितं ॥
द्वीतीयञ्च समुत्पन्नं नाभि रुद्रं तृतीयकं ।
ग्रहमालास्थितं वर्णं ततो मध्ये व्यवस्थितम् ॥
प्. ६ब्)
स्नायु रुद्रं तदग्रे च पंचमं परमेश्वरि ।
वागीशे शान्तं मारूढं भूतीशं मस्तके स्थितं ॥
षष्ठे बीजं विजानीयात् तस्यान्ते शिखिवाहनं ।
लोर्द्धे च मस्तके तस्य रकारासन संस्थितं ॥
झण्टीशं शिरसे चैव कूरन्तस्योपरिस्थितं ।
हृद्बीजं परमं देवि सर्वसिद्धिप्रदायकं ॥
क्रोधवर्णं समुद्धृत्य अमरीशासन स्थितम् ।
अष्टमञ्च भवेद्बीजं वकारन्तस्य अग्रतः ॥
सूक्ष्मरुद्रं शिरेदत्तं चतुर्वक्त्रमधस्थितम् ।
रुद्रमालादि तस्याग्रे वागीशं भूतिसंयुतम् ॥
ल(न)कुलीरक्तमारूढं व्यञ्जनं शिरसिस्थितम् ।
अनन्तेनन्तेनसमायुक्तं द्वादशं बीजमुत्तमम् ॥
पुनः प्राणं समुद्धृत्य द्विःस्थाने तु महेश्वरि ।
भुजङ्गमासनस्तेषां उभौवर्णे प्रदापयेत् ॥
व्यञ्जनश्चैव वर्णेन त्रिमूर्त्ते न विभुषितम् ।
अर्घीशमासनश्चैव व्यञ्जनोर्द्ध्वमतःपरम् ॥
क्रोधकूर्म्मान्त वर्णानां टतवर्गानि मानि च ।
केवलञ्च समुद्धृत्यमेकारान्तेषु अग्रतः ॥
श्रीकण्ठं यद्भवेद्वर्णं केवलं च ततः पुनः ।
सद्योजातेनसंयुक्तं शिवेशपरमेश्वरम् ॥
सर्वपापहरं बीजं एकविंशे सुरेश्वरि ।
अनन्तेनसमायुक्तं तस्यान्ते रक्तसंस्थितम् ॥
महाकालं पुनर्द्देवि सव्यकर्णासनस्थितं ।
क्रोधवर्गद्वितीयञ्च त्रिमूर्त्तेन तु भेदितम् ॥
चतुर्विंशतिमंबीजमक्षरं सिद्धिदायकं ।
प्राणादि संस्थितं यच्च कूर्म्मन्तस्योपरिस्थितं ॥
प्. ७अ)
क्रूरानन्तेनसंयुक्तं पंचविशतिमं विदुः ।
पुनस्तं क्रूरसंयुक्तं वेदस्वरविभूषितम् ॥
अग्रे तस्य महादेवि क्रोधरुद्रालयं परम् ।
सुक्ष्मरुद्रेणसंयुक्तं सप्तविंशतिमं महत् ॥
दक्षपादोद्भवं वर्णमुमा(का)न्तस्य मन्दिरम् ।
अष्टविंशतिमं बीजं सूक्ष्मं तस्योपरिस्थितं ॥
पुनरैतव बीजेत उभे अग्रे व्यवस्थिते ।
पुनः स्नायुस्थितं वर्णं सुक्ष्मरुद्रसमन्वितम् ॥
झण्टीशेनसामायुक्तं कूर्मन्तस्योपरिस्थितं ।
एषाविद्यापरागुह्या पराशक्तेर्व्यवस्थिता ॥
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पंचवक्त्रोद्भवाह्येते अत्रविद्याननेषु च ॥
पूर्ववक्त्रे समुत्पन्नो भूतामां च पितामहः ।
पुनर्नारायणे देवि संभूतश्चोत्तरानने ॥
एकादशानि रुद्राणि याम्य वक्त्रोद्भवानि च ।
सिद्धास्ते नात्रसंदेहो अस्या विद्या प्रभावतः ॥
ईश्वरश्च महादेवि प्राची वक्त्रसमुद्भवम् ।
परापरे शिवः सिद्धः ऊर्द्ध्ववक्त्रे सुरेश्वरि ॥
वक्रे वक्रे महादेवि सिद्धा ह्येते सुरोत्तमाः ।
सिद्धाप्रजायते न्योपि सिद्धैस्तु संहिता पुरा ॥
हृदयेन महादेवि सानुष्ठान परायणाः ।
शिरेगांधर्वमित्याहुः (शिरसागन्ध्र्व आहुः; गन्धवोः शिरसा सिद्धाः)
पूजाराधनतत्पराः ॥
गन्धर्वत्वं च संप्राप्तः शिरोदेव्याः प्रभावतः ।
महर्ज्जनतपः सत्यं ये सिद्धा अत्र संस्थिताः ॥
द्वात्रिंशदक्षरा देव्या शिवाराधनतत्पराः ।
ज्ञानसिद्धाः समाख्याता ऊर्ध्वलोक निवासिनः ॥
प्. ७ब्)
इन्द्राद्या देवताः सर्वे धर्म्मराजो यमो निलः ।
नि-ऋतिर्वरुणश्चैव ये यक्षाधनदादयः ॥
सिद्धास्ते नात्रसंदेहः कवचे वरवरवर्णिनि ।
चन्द्रादित्या गुहा अथात डिन्मेषादि राशयः ॥
नेत्राराधनयोगेन सिद्धास्ते नात्रसंशयः ।
नागा विद्याधराः सर्वे पर्वताः सागराः सरित् ॥
यद्भूता भुवि पाताले अस्त्र योनिसमुद्भवाः ।
अनुष्ठानेन देवेशि स्वसिद्धिसहिताः पुरा ॥
सामर्थ्यं यस्य यो देवि वर्त्तते भुवनान्तरे ।
द्वात्रिंशदक्षरी विद्या त्वत्प्रसादात् सुरेश्वरि ॥
विद्यायोनिसमुत्पन्नं त्रैलोक्यं स चराचरं ।
एषादेवि परामाया मन्त्र सृष्टि(मूर्ति)व्यवस्थिता ॥
पूजामानेन देवेशि त्रैलोक्यं पूजितं भवेत् ।
तस्याङ्गानि च वक्त्राणि न्यासं कुर्याद् वरानने ॥
देव्युवाच
श्रुतं देव परंगुह्यं देव्यानुद्धार(तद्ध्यानं)मुत्तमं ।
तस्याङ्गानि च वक्त्राणि त्वया चोक्तानि यानि च ॥
तमहं श्रोतुमिछामि त्वत् प्रसादाच्च भैरव ।
श्रीभैरव उवाच
कथयामि न सन्देहो य त्वया परिपृच्छितं ।
देव्याः सप्ता(रुद्रा)क्षरं मूलं कस्यान्ते यादृशं भवेत् ॥
तमहं संप्रवक्ष्यामि हृदि देव्या न संशयः ।
खण्डपावकमारूढं खण्डमायाधः संस्थितं ॥
प्राणमूर्धगतं कुर्यादाषाढी तस्य चाग्रतः ।
क्रोधवर्णासनारूधं महाकालं च केवलं ॥
पिनाकी म?द्भवेद्वर्णं केवलं च ततः पुनः ।
एतानि वेदवर्णानि विद्या सप्तान्तसंस्थिताः ॥
प्. ८अ)
विद्यासप्तेति चत्वारि अस्यान्ते ते समालिखेत् ।
तस्यान्ते हृदयं चैव दशमेष्टाक्षरं विदुः ॥
इच्छासिद्धिकरं दिव्यं हृदयं कुब्जिकस्य तु ।
रुद्रान्ते संस्थिता त्रीणि मूलविद्यानु यानि च ॥
मस्तकन्तद्विजानियात्मार्त्तण्ड भैरवी सह ।
भुवनान्ते भूतबीजानि मूलविद्या तु संस्थिता ॥
देवीज्ञानशिखानाम वौषडन्ता च संस्थिता ।
शिखान्ते पंचवर्णानि कवचं परिकीर्त्तितं ॥
सर्वसर्वादरी देव्या कुलिशः पञ्जरं इव ।
तस्य पुरत ये वेदास्त्रिनेत्रासंस्थितानि च ॥
त्रैलोक्य दर्शनी देवी संभूता चतुरक्षरी ।
विद्यान्ते युगवर्णानि देव्यास्त्रेसंव्यवस्थितं ॥
सर्वार्थरक्षणी देवी दिशासु विदिशासु च ।
नमः स्वाहा वौषडन्तं वषट् हुंफट् च संयुतं ॥
श्रीभैरव उवाच
अथातः संप्रवक्ष्यामि देव्या वक्त्राणि यानि च ।
नकारादि यै(ए?)कारान्तं ये वर्णा रुद्रसंस्थिताः ॥
सृष्टिशक्तिर्नमोन्ते च पूर्ववक्त्रे प्रपूजयेत् ।
तस्यान्ते च सु(स्व)वर्णानि संभूताश्चोत्तरानने ॥
मायाशक्तिर्नमोन्तश्च पूजितव्यं प्रयत्नतः ।
दक्षिणास्ये पुनर्देवि भूतवर्णा व्यवस्थिताः ॥
रौद्रीशक्तिसमायोगान्नमोन्तं पूजनं भवेत् ।
पश्चिमे ऋतुवर्णानि शक्तिमैश्वर्यदायिके ॥
नमोन्तं पूजनन्तस्य इच्छाशक्ति फलं लभेत् ।
ऊर्द्धवर्णै स्थितौ नेत्रो मोक्षशक्तिरुदाहृता ॥
पूजितव्यं विधानेन सर्वपापैः(बन्धै) प्रमुच्यते ।
एतेषु पंचवक्त्रेषु विद्याबीजानि यानि च ॥
प्. ८ब्)
आदौ उच्चारणं कुर्याद्यो यस्य या दृशानि च ।
अङ्गानि पंचवक्राणि न्यासं प्रणवसंयुतम् ॥
मूलविद्यां जपे देवि सर्वसिद्धि प्रदायिकीं ।
इति पारमेश्वरीमते पंचप्रणवमूलविद्याङ्गवक्त्रोद्धारः
षड्विंशतिमः पटलः ॥
श्रीभैरव उवाच
अथातः संप्रवक्ष्यामि नवात्मा न्यासमुत्तमं ।
नाभिवर्णं समुद्धृत्य प्राणं तस्यासनं भवेत् ॥
प्राणं रक्तसमारूढं रक्तं क्रोधासनस्थितं ।
महाकालासनं क्रोधं महाकालं पिनाकिनं ॥
पिनाकी स्नायुमारूढं स्नायु वागीशमुर्द्धगं ।
ध्रुवान्ते सम(र्व)मारूढं नादबिन्दुविभूषितं ॥
एतत्सर्वाङ्गदेहेषु न्यासं कुर्यादनात्मनः ।
(महाकालं पिनाकिनं पिनोकी स्नायुमारूढं ॥
ध्रुवान्ते समारूढं नादबिन्दुविभूषितं ।
एतत्सर्वाङ्ग देहेषु न्यासं कुर्वात यत्नत ॥)???????
न भयं विद्यते तस्य त्रैलोक्ये स चराचरे ।
श्रीभैरव उवाच
या सा देवि परागुह्या मालिनी मातृकोद्भवा ।
भासयन्ती स्वतेजे(देहे)न मा(लि)नं स चराचरं ॥
तस्योद्धारं परंगुह्यं शृणुष्वेकाग्रमानसाः ।
मेषोनाममहारुद्रो मूलं विद्यादि संस्थितः ॥
तद्वर्णं शिरसि न्यस्तं नादिनी देवि संस्थितं ।
नाथिमध्यगतं वर्णं लोहितस्योपरिस्थितं ॥
ग्रसनीतिसमाख्यातं संस्थिता वक्त्रमण्डले ।
प्. ९अ) भारभूस्प?तिथिश्चैव नासिकाग्रे व्यवस्थितौ ॥
दक्षगण्डस्थलं वाममेते वर्णा नपुंसकाः ।
निवृत्यायै प्रतिष्ठायै विद्यायै शान्तिमेव च ॥
एषादेवि शिरोमाला मालिनी शिरसि स्थिता ।
कूर्म्मवर्णं पुनर्देवि तृतीयं नेत्रसंस्थितं ॥
न्यासं कृत्वा तु चामुण्डा सर्वविघ्नप्रणाशनी ।
पुनश्चक्षुश्च(द्व)योर्मध्ये या देव्या प्रियदर्शनी ॥
मीनरुद्रोद्भवं वर्णं विन्यसेद्विधिपूर्वकं ।
पुनर्नारायणी देवी श्रवणाभ्यामध(ण योर्मध्य सं)स्थिता ॥
विन्यसेद्विधि पूर्वं तु उमाकर्णे च या स्थिता ।
ध्रुवादि मोहिनी देवी दक्षिणे कर्ण भूषणं ॥
ध्रुवान्तं वामकर्णे तु प्रज्ञायै तत्र संस्थितम् ।
कैवल्यं मन्दरस्थं च नासिकाग्रे व्यवस्थितं ॥
गुह्यशक्तिं विजानीयाद्वज्रिनीवज्र(क्र)मध्यतः ।
व(क)कान्तं(रा)स्थितं तत्र खड्गीशं यत्रसंस्थितम् ॥
कराली च कपाली च शिवाघोरा वशि(*?)र्वरा ।
पञ्चैताः क्रमयोगेन क्रोधवर्गे व्यवस्थिताः ॥
न्यासं कुर्वीत देवेशि अधोर्द्धं दन्तपंक्तिषु ।
अष्टवागेश्वरी वाचा त्रिमूर्त्तिश्च सरस्वती ॥
जिह्वान्यासं च कुर्वीत व(च)कारं कण्ठमध्यतः ।
तत्रमध्यस्थिता देवी शिखिवाहीति विश्रुता ॥
ऋषिपूर्वं समुद्धृत्य तत्र भीमा व्यवस्थिता ।
दक्षिणे तु भुजे दण्डे शिखरं यस्य मन्दिर(ण्डित)म् ॥
तत्रैव ऋषिमालायां यामे मध्ये व्यवस्थितम् ।
शिखरं वामहस्तस्य वायुवेगा प्रतिष्ठिता ॥
प्. ९ब्)
नमो दक्ष भुजादण्डे दा(चा)रुवर्णासनस्थिता ।
पूनर्विनायकी देवी ग्रहादिवर्णसंस्थिता ॥
न्यासं वामभुजादण्डे पूर्णिमाकरमध्यतः ।
ढान्तवर्णसमायोगा न्यासं कृत्वा करेषु च ॥
रू(कं)कारिणी च या देव्या अजितावर्णसंस्थिता ।
अङ्गुलीन्यासं कर्त्तव्यं दक्षिणस्य करस्य तु ॥
पुनर्वाम करे देवि अंगुली न्यास पार्वती ।
सर्ववर्णसमायोगादाकाशान्ते व्यवस्थिता ॥
दीपनी शूलदण्डं च भुजंगे दक्षिणे करे ।
जयन्ती शूलमित्याहुर्जकारस्य तु पूर्वकं ॥
करे वामे कपालञ्च वर्णे सोमेश्वरासनं ।
कपालीनामविख्याता वामहस्ते प्रतिष्ठिता ॥
पवनी हृदये यो ह्य लोहितं वर्णपूर्विका ।
अंबिका च ततो देवि छहु(मम; वक्र)मध्ये व्यवस्थिताम् ॥
न्यासं प्राणस्य कर्त्तव्यं इछाशक्ति हृदिस्थितम् ।
लोकान्ते तस्य वर्णस्य उद्धारं पूर्वतस्थितम् ॥
सकारं बिन्दुसंयुक्तं हृदिमध्ये नियोजयेत् ।
देवी तु परमात्मायै न्यासं कृत्वा प्रयत्नतः ॥
एकहस्तस्य यद्वर्णं छागली तत्रसंस्थिता ।
दक्षिणस्तनमध्यस्थं वामे वै पूतनां विदुः ॥
पिनाकी तत्र वर्णं च पूर्वे यर्द्धे(दत्वा) च विन्यसेत् ।
अनन्तेनसमायोगादामोटीक्षीरमध्यतः ॥
पुनस्तं लंबिनी देवी आसने स्वेनसंयुतं ।
न्यासंकुर्वीत यत्नेन उदरमध्ये तु संस्थितम् ॥
संवर्त्तकस्य मध्यस्थं देवी संहारिका भवेत् ।
नाभि न्यासं विजानीयात् महाकालीमपूर्वकं ॥
न्यासंनितंवमध्यस्थं कुर्वीत्त परमेश्वरि ।
प्. १०अ) लोकानां पूर्ववर्णे तु गुह्येसु कुसुमा युधा(न्यसेत्) ॥
संवकं शुक्रमध्ये तु श्रुक्रा(सूक्ष्मा) देवी व्यवस्थिता ।
आषाढीक्रूरसंयुक्ता तत्र ताराव्यवस्थिता ॥
ऊरू मध्यगतं न्यासं जानुन्यासमतः शृणु ।
ना(वा)मादिवर्णमुद्धृत्यझण्टीशं यत्रसंस्थितम् ॥
ज्ञानशक्तिप्रयत्नेन विन्यसेदक्षजानुनि ।
ऋ अन्तं वामजानुस्थं कैलासे यत्प्रतिष्ठितं ॥
क्रियाशक्ति स्थिता तत्रन्यासंकुर्वीत यत्नतः ।
सद्योजातस्य(स्तु) गायत्री दक्षजंघेषु संस्थिता ॥
सावित्री वामजंघाया ऋकारं तस्य पूर्वकं ।
दहनी दक्षिणे पादे दकारासनसंस्थिता ॥
वामपादे फकारस्य(तु फेत्कारि) न्यासं कुर्यात् प्रयत्नतः ।
एतद्देविपरंगुह्यं मालिनी न्यासमुत्तमम् ॥
विन्यस्तं विधियोगेन पंचप्रणवसंपुटम् ।
भूतप्रेतपिशाचानि यक्षरक्षमहोरगाः ॥
अन्येपि हिंसका ये च संस्थितावरवर्णिनि ।
तस्य दृष्टि निपातेन विद्रवन्ति दिशोदश ॥
अशनीवज्रपा(धा)तेषु राजचौर भयेषु च ।
संग्रामे जयमाप्नोति शस्त्रघातं न विद्यते ॥
महारक्षा भवेत्तस्य सर्वशस्त्रेषु चैव हि ।
लभेत्सौभाग्य मतुलमायुरारोग्यसंपदं ॥
न्यासंकुर्वीतयत्नेन स्मशाने तिष्ठते यदि ।
भूतप्रेतपिशाचैश्च ज्वलन्तं दृश्यते तु सः ॥
ददन्ति विपुलां सिद्धिं निशाचारेणसुन्दरि ।
सप्तवारान्कृतन्यासा गजाश्वे तिष्ठते यदि ॥
प्. १०ब्) अथवाभूमिपादेन शस्त्रंसंगृह्यपाणिना ।
प्रविश्यति महावीरः संग्रामे युद्धकांक्षिभिः ॥
दृश्यते परचक्रे तु एकेरौनिकरूपिणः ।
पंचाशद्रूपपिण्डस्य एकोसौ देवि दृश्यते ॥
प्रहरन्शस्त्रजालेन पादेषुगजसंस्थितः ।
निर्ज्जित्य परसैन्यानि आगछन्ति न संशयः ॥
मालिनी न्यासयोगस्य सामर्थ्यं ईदृशं भवेत् ।
अन्ते मुक्ति मवाप्नोति पुनर्ज्जन्म न विद्यते ॥
इति पारमेश्वरीमते मालिनीन्याससप्ताविंशतिमः पटलः ॥
श्रीभैरव उवाच
देव्या भू?यं परंगुह्यं प्रवक्ष्याम्यनुपूर्वशः ।
परा च अपरा चैव तथा चैव परापरा ॥
न्यासं कृत्वा तु देवेशि सर्वपापैः प्रमुच्यते ।
पञ्चप्रणवमंत्राणि आदिस्थाने भवन्ति वै ॥
पराविद्यादिसंयोज्य श्रीकण्ठन्तदनन्तरं ।
शिवं च पूर्वमुद्धृत्य सद्योजातेनसंयुतम् ॥
ज्ञानशक्तिसमायोगात् भुजंगं पंचमं विहुः ।
नवादि दीपिनी वर्णे प्राणन्तस्योपरिस्थितं ॥
त्रिमूर्त्तेन समायुक्तं लोकादिसंयुतं लिखेत् ।
पुनस्तु अंबिका देवी शुक्रभैरवसंस्थिता ॥
सप्तमं च महाबीजं लोकान्तं पुरतः स्थितं ।
पावनी बीजमुद्धृत्य लोहितं यत्रसंस्थितम् ॥
भुजङ्गञ्च पुनर्देवि नवमन्तस्य अग्रतः ।
महाकालोद्भवं वर्णं तस्य अग्रे पुनर्लिखेत् ॥
शिवायवर्णसंयुक्तं(भागेन) सद्योजातेनसंयुतं ।
ऋ आदिश्चैव योगेन नवादे *? ग्रतस्थितं ॥
ध्रुवादि आसनं दद्यात् लोकादि मस्तके स्थितं ।
ध्रुवान्तस्य अधश्चैव एषुवर्णेषु मध्यगः ॥
ध्रुवान्ते अन्तमन्ते च सद्योजातविभूषितम् ।
चतुर्दशं च इत्युक्तं दीपिनी तदनन्तरं ॥
केवलं शूलदण्डस्थं पुनस्तं तस्य अग्रतः ।
ध्रुवान्ते आसनंस्थं च षोडशं बीजमुत्तमम् ॥
झण्टीशेनसमायुक्तं लोहितं तदनन्तरम् ।
भृखु?कं बीजमुद्धृत्य अम्बिकामूर्द्ध्निसंस्थितं ॥
पक्षान्तान्तं शिरसे दत्तं सविसर्गं समालिखेत् ।
ऋ आदिवर्णमुद्धृत्य शिवं यत्रव्यवस्थितम् ॥
रुद्रान्तेनसमायुक्तं दीपनीतदनन्तरम् ।
अनन्तेन समासक्तं? बीजं विंशतिमं(भुजंगं पंचमं) विदुः ॥
मे च मध्यगतं देवि नितंत्वं मालिनी स्थितम् ।
अमरीशासनारूढं बीजं परमदुर्लभं ॥
भारद्भूति अधो गृह्य प्रचण्डं भैरवानने ।
ऋ पूर्ववर्णयोगेन बीजं द्वात्रिंशमं(गुपतरं) प्रिये ॥
ऋषिपूर्वं समुद्धृत्य मालिनीजिह्वसंयुतम् ।
केवलं वैनितं वंच भैरवे हृदिसंस्थितं ॥
पुनस्तस्यादि अग्रे तु कान्तं तस्याग्रतो स्थितम्(लिखेत्) ।
उमाकान्तं समुद्धृत्य ज्ञानशक्तिसमन्वितं ॥
छगलण्ड भैरवं यत्रवर्णं तस्याग्रतस्थितम् ।
महांकालं पुनश्चैव तस्याग्रे संस्थितं प्रिये ।
पाने(सो)मध्यगतं देवि लोहितं सूक्ष्मसंयुतं ।
स्नायुरुद्रं च तस्याग्रे मालिनी वक्त्रसंस्थितम् ॥
प्. ११ब्) पुनरेत्तानि बीजानि उभौ अग्रे व्यवस्थितौ(चत्वार्यग्रे स्थितानि च) ।
उभौ प्राणौ(रक्षवर्णौ)समुद्धृत्य झिण्टिशेनादिसंयुतं ॥
केवलं चैव तस्याग्रं अंबिका यत्रसंस्थितम् ।
रक्तवर्णं समुद्धृत्य युगस्थानेषु सुन्दरि ॥
ध्रुवादि आसनस्थौ चिद्वौ वर्णो पूर्वसंस्थितौ ।
तस्याग्रे संस्थितौ द्वौ तु केवलानि च भैरवि ॥
पंचप्रणवादि अन्तस्थं तस्याग्रे तु पुनर्ल्लिखेत् ।
विद्यया विश्वबीजञ्च पुरतस्तस्पदापयेत् ॥
भूतादि वर्णमुद्धृत्य दीपिनी संस्थितं कुरु ।
ऋपूर्वं शिरसे दत्तं परस्य(ण्या) हृदयं विदुः ॥
अस्य बीजस्य यत्पूर्वं ते नेदं संपुटं कुरु ।
अस्या विद्यादि (विद्यायाविश्व) बीजं च पुरत(स्त)स्पदापयेत् ॥
एषा विद्या परा देवि त्रिषु लोकेषु दुर्लभा ।
चतुश्चत्वारि बीजानि जीवभूताव्यवस्थिताः ॥
अर्द्धं चडी?नि(अर्द्धं च त्रीणि)वर्णानि अपरा च ततः शृणु(अन्ते च नियोजयेत्)
।
प्रणवादि द्वितीयं च प्रथमं बीजमुत्तमं ॥
भुजंगासनमारुढं हराद्येनविभूषितम् ।
ठ आद्येन शिराक्रान्तं बीजंपरमदुर्लभं ॥
वकारोर्द्धं समादाय *(?)वान्तेन विभूषितम् ।
शुक्रा देवी शिराक्रान्तं बीजं सुरवरार्चितं ॥
ध्रुवान्ता स(न)मारूढं प्राणंबिन्दु(णबीज)युतं कुरु ।
मालिनी वामपादञ्च केवलं च ततः पुनः ॥
ध्रुवादिखण्डमारुढं अर्द्धेन्दुपुरतस्थितम् ।
अपरा च समाख्यात्ता सर्वविग्नप्रणाशनी ॥
यक्षापरापरादेव्या तस्यो द्वारं वदाम्यहं ।
सर्वसिद्धिप्रदासाक्षाद्भुक्तिमुक्ति प्रदायिका ।५????
प्. १२अ)
ध्रुवान्ते अधसंगृह्यक्षान्तन्तस्योपरिस्थितं ।
शुक्लवर्णसमारूढं सविसर्गसमालिखेत् ॥
प्रणवादि पुनः कृत्वा विद्यानाम परापरा ।
न्यासं सर्वाङ्गदेहेषु कुर्वीतवरवर्णिनि ॥
धर्मकामार्थमोक्षञ्च लभते नात्रसंशयः ।
श्रीभैरव उवाच
महान्यासंप्रवक्ष्यामि अघोरस्याष्टकं परं ॥
प्रणवादि समुद्धृत्यं श्रीकण्ठन्तदनन्तरम् ।
अपूर्वमो(म)ष्टसंयुक्तं संस्थितं गन्धमादने ॥
तृतीयं च समाख्यातं शूलदण्डं चतुर्थकं ।
अपूर्वेश(ण)शिरोभिन्नं चतुर्थं बीजमुत्तमम् ॥
तस्यान्ते अंबिका देवी संस्थितं छान्तमन्दिरे ।
विश्वमालादिसंयुक्तं रक्तस्थं मुर्द्ध्निबिन्दुकं ॥
पंचमं च महाबीजं शुक्रचैवाग्र(विसर्ग)संयुतं ।
अघोर्याश्च शिरोन्यासं ऋतुवर्णं पतिष्ठितं ॥
प्रणवादि आदि बीजं शूलदण्डं द्वितीयकं ।
अमरी आस(श)नसंयुक्तं बिन्दुमस्तकभूषितं ॥
पावनीवर्णमुद्धृत्य केवलं च तृतीयकं ।
चतुर्थं केवलन्देवि भुजंगं भैरवालयं ॥
तस्याग्रे मालिनीवर्णन्नितम्बं केवलं स्थितं ।
तस्यान्ते(ग्रे) शिवमित्याहु रुद्रान्तेन विभूषितं ॥
झण्टीशेन शिरस्थेन रक्तवर्णं समालिखेत् ।
छकारान्तं समुद्धृत्य अमरीशासनस्थितम् ॥
श्रका देवी शिराक्रान्तं सप्तमं परिकीर्तितम् ।
पराया विश्वबीजं च अष्टमं तस्य दापयेत् ॥
विसर्गेन समायुक्तं भृगुवर्णं तदग्रतः ।
प्. १२ब्) एतानि नवयोगानि परमघोरेणसंयुताः ॥
वक्रन्यासं प्रकुर्वीत कण्ठन्यासमतः परं ।
ऋ अन्तमादि मुद्धृत्य शिरोबिन्दु विभूषितं ॥
तस्याग्रे रक्तमित्याहुर्द्वितीयं वर्णसंस्थितं ।
ऋपूर्वमोष्ठसंयुक्तं भुजंगं तदनन्तरं ॥
ध्रुवान्ते रक्तमारूढं पादितस्याग्रतस्थितं ।
शिरे तस्य ऋपूर्वं च षष्ठमं बीजमुत्तमं ॥
अंबिका च पुनर्द्देवि छा(ढा)न्तवर्णे प्रतिष्ठितम् ।
एकादशे चतुर्थं च शुक्रमध्यगतं लिखेत् ॥
घोररूपं च तस्याग्रे न्यासं कण्ठस्य मध्यतः ।
झण्टीशं वर्णमुद्धृत्य ज्ञानशक्ति विभेदितम् ॥
नवादि वर्णं तस्याग्रे द्वितीयं बीजसंस्थितं ।
ऋपूर्वमोष्ठसंयुक्तं तृतीयं बीजमुत्तमं ॥
अनन्ते न समायुक्तं भुजंगं तस्य अग्रतः ।
ध्रुवादि आसनं दद्यात् मे च मध्ये समालिखेत् ॥
(प्र)चण्डवर्णं समुद्धृत्य (ऌ) पूर्वेण(च) समन्वितम् ।
शुक्रमध्यगतं वर्णं सविसर्गं तदग्रतः ॥
घोरा तस्याग्रतो दद्याद्धृदिन्या संप्रतिष्ठितम् ।
ज्ञानशक्तिं समुद्धृत्य अनन्तं शिरसि स्थितं ॥
ऋक्षादि वर्णमुद्धृत्य विस्वादि संयुतं कुरु ।
तत्रैव ऋषिमालायां भे अन्ते संस्थितं च यत् ॥
क्रियाशक्तिसमायोगात्तृतीयं बीजमुत्तमं ।
शुक्रं विसर्गवर्णं (शुक्लवर्णं विसर्गं) च पुरतस्तस्य दापयेत् ॥
भीमवर्णेनसंयुक्तं न्यासं (भू?)द(र)मध्यतः ।
मालिनी वामजानुस्थं ज्ञान(क्रिया)शक्ति समुद्भवं ॥
प्. १३अ)
क्रूरवर्णं शिरे(वे)दत्तं प्रथमं बीजमुत्तमम् ।
अध(प)रस्य द्वितीयं च तस्याग्रे संस्थितं कुरु ॥
ऋष्यादि वर्णमुद्धृत्य विश्वादि शिर(व)भूषितं ।
कान्तं वर्णं च तस्याग्रे स्वेतरुद्रालयं परं ॥
उमाकान्तोद्भवं वर्णं झण्टीशेनसमन्वितं ।
शिखा(सासि)मध्यगतं गृह्य भैरवं शुक्रसंभवं ॥
लोकान्तेन समायुक्तं भीषणं(णः) प(पु)रतः स्थितं ।
नाभिमध्यगतं देवि न्यासं कुर्वीत यत्नतः ॥
पंचप्रणवादि तं? बीजं तस्याग्रे अंबिकां कुरु ।
मालिनी वक्त्रवर्णन्तु मन्दरे भूतसंस्थितं ॥
महाकालं पुनर्द्देवि केवलं च समुद्धरेत् ।
तस्याग्रे शुक्लबीजं च भृगुकं यत्र भैरवं ॥
पंचमं च महाबीजं विसर्गसंहितं लिखेत् ।
वमनीं अग्रत कृत्वा गुह्ये नयासंप्रकल्पयेत् ॥
क्रियाशक्तिं समुद्धृत्य बिन्दुमस्तकभूषितं ।
मालिनी वामपादं च आदिस्थं तद्वरानने ॥
अर्द्धेनुपुरतस्तस्य ध्रुवादि खण्डसंयुतं ।
यादिस्थं रुद्रमालायां सूक्ष्मन्तु शिरसि स्थितम् ॥
वामे मध्यगतं गृह्य स्नायु रुद्रालयं परम् ।
शुक्रमध्यगतं देवि स विसर्गं समालिखेत् ॥
पवनीं पुरतः कृत्वा गुदन्यासं प्रकिर्त्तितं ।
वज्रदेहमिदं चैव न्यासं परम दुर्लभम् ॥
असाध्यं सुर दैत्यानां न्यासं यस्य शरीरगम् ।
इति पारमेश्वरी मते विद्यात्रयमघोर्याष्टकोद्धारो अष्टाविंशतिमः
पटलः ॥
प्. १३ब्)
श्रीभैरवौवाच
परा द्वादशकं न्यासं प्रवक्षाम्यनु पूर्वशः ।
न काले नापमृत्युश्च न विघ्नं तस्य जायते ॥
सर्वव्याधि विनिर्मुक्तो रुद्रस्य सदृशो भवेत् ।
पंचप्रणवादि योगेन शुक्रवर्णं समुद्धरेत् ॥
भृगु भैरव बीजं च तस्याधो अंबिकां कुरु ।
उद्धृतव्यं प्रयत्नेन स्थानानि द्वादशानि च ॥
द्वादशस्वरभेदेन भेदितव्यं प्रयत्नत ।
पूर्वं पूर्वेण संयुक्तं द्वितीयेन द्वितीयकं ॥
तृतीयेन तृतीयं च चतुर्थेन चतुर्थकं ।
पंचमे पञ्चमं योज्यं षष्टे षष्ठं नियोजयेत् ॥
सप्तमे सप्तमस्थं च अष्टमे अष्टसंयुतं ।
तस्याग्रे च पुनर्देवि नवमे नवमं कुरु ॥
दशमे दशमं चैव रुद्रमेकादशेन च ।
द्वादशेन पुनर्द्देवि विसर्ग सहितं कुरु ॥
सर्व बिन्दुसमायुक्ता द्वादशैते महाबलाः ।
अंबिका च महादेवि स्वरैरेभिः प्रभेदितम् ॥
उच्चारं प्रणवादिश्च सकारसहितेन च ।
सिद्धिः प्रथम उच्चारं ऋद्धिनामा द्वितीयकं ॥
द्युतिनाम तृतीयं च लक्ष्मीनामा चतुर्थकम् ।
पञ्चमी दीप्ति माली च शिवा षष्ठि प्रकीर्त्तिता ॥
सुमुखी सप्तमी देव्या मालिनी चाष्टमी भवेत् ।
नन्दा वै नवमी प्रोक्ता हय वेगा तदग्रतः ॥
रुद्रे महामुखी चैव विश्वे शा च(यी) तदग्रतः ।
बीजद्वयसमायुक्तं पञ्चप्रणवपूर्वकं ॥
एकैकस्य तु कर्त्तव्यं न्यासं सर्वाङ्ग(र्थ)सिद्धिदम् (पादौ जानूरु? गुह्ये
च नाभौ हृत्कण्ठतः मुखे नासा पुटे चैव कर्णे मंत्रे शिरे न्यसेत्) ।
द्वादशाःङ्गमिदं न्यासं षडंगं च अतः शृणु ॥
भृगुभैरवमुद्धृत्य पञ्चप्रणवसंयुतं ।
मालिनी मुखवर्णं च वज्रिणी यत्रसंस्थिता ॥
रक्तभैरवमूर्द्धस्था एकपादं तदग्रतः ।
सम(धर्म)वर्णसमारुढं तृबीजं हृदये न्यसेत् ॥
नमोन्तोच्चारणं तस्य संस्थितं हृदि मध्यतः ।
कैलासे शिखरे देवि श्रीकण्ठं यत्रसंस्थितम् ॥
पूर्ववर्णं विजानीयात् महाकालं तदग्रतः ।
ऋकारखण्डमारूढं द्वितीयं वर्णमुत्तमम् ॥
नाग(म)मध्यगतं गृह्य आरूढमात्मनस्य च ।
ऋपूर्वं शिरसि दत्तं तृतीयं बीजमुत्तमम् ॥
द्विजमध्यगतं देवि मालिनी शूलमुत्तमम् ।
सद्योजातेनसंयुक्तं चतुर्थं च समालिखेत् ॥
विश्वमालान्तु योगेन नितंवं देवि पंचमम् ।
मन्दरे लोकमध्यस्थं तस्याग्रे तु समालिखेत् ॥
अधस्थं वर्णं संगृह्य आषाढी भैरवस्य तु ।
मंदरान्तं शिरे दत्तं सप्तमं बीजमुत्तमम् ॥
ग्रहमाला ऋतु स्थाने कैलासवर्णभूषितं ।
खण्डपावकमारूढं अष्टमं च समालिखेत् ॥
पानोमध्यगतं गृह्य रुद्रेषु ग्रहमन्दिरे ।
आषाढी भैरवारुढं कैवल्यं वर्णभूषितं ॥
शिरो न्यासं प्रकुर्वीत स्वाहा कारान्तसंयुतम् ।
मालिनीकण्ठ(मुख)वर्णञ्च स्नायू भैरवमन्दिरं ॥
प्रथमं बीजामित्याहुर्नामादि शिर(व)भूषितम् ।
का ऊ (उ; र्द्र; दि)मध्यगतं देवि रुद्रदी(द्राणी)प द्वितीयकम् ॥
पुनरस्यैव अग्रे तु पूर्ववर्णेनसंयुतं ।
प्. १४ब्)
दहनी वर्णमुद्धृत्यमालिनी पादसंस्थितं ।
मालिनी मूर्द्ध्नि वर्णं च कैवल्यं वर्णभूषितम् ॥
कैलास शिखरान्तस्थं अग्रतस्तस्य दापयेत् ।
मेषवर्णं पुनर्द्देवि अनन्तेनसमन्वितम् ॥
सप्तमं च समुद्धृत्य अष्टमं कान्तसंस्थितं ।
सूक्ष्मभैरवसंयुक्तं नवमं च ततः शृणु ॥
मंदरे भूतमध्यस्थं पृष्ठे रुद्रालयं परम् ।
रुद्रान्तेन समायुक्तं नवमं बीजमुत्तमम् ॥
दुधे(त्ववि)मध्यस्थितं वर्णं मीन रुद्रालयं परं ।
दशमं च विजानीयाद् वौषडन्ता च या शिखा ॥
मालिनी मुखवर्णञ्च भूतवर्णे व्यवस्थितम् ।
स्थापितं पूर्व वर्णं च जपन्तीं च समालिखेत् ॥
शूलदण्डासनं तस्य भुजंगं यत्र संस्थितम् ।
मन्दरान्तेन संभिन्नं उमाकान्तं तृतीयकम् ॥
तस्यसूक्ष्मं शिरे(वे)दत्तं कैवल्यं यद्व्यवस्थितम् ।
पृष्ठ(पूष्णि)भैरवमुद्धृत्य चतुर्थं वर्णमुत्तमम् ॥
जयन्ती रक्तमारूढं तस्यान्ते पंचमं विदुः ।
अनन्तेन समायुक्तं मीनवर्णन्तदग्रतः ॥
भुजंगभैरवं वर्णं प्रथमं(सप्तमं) च समालिखेत् ।
भूषणन्तस्य दात्तव्यं शिरस्थं गन्धमादने ॥
वागीशं च ततो देवि अष्टमं केवलं भवेत् ।
मालिनी कण्ठवर्णस्य आरूढं भृगुजं(कं) कुरु ॥
न ऊर्द्धे ग्रहमालायां तादिवर्णं व्यवस्थितं ।
सोपि बिन्दुयुतं कार्या तद्वर्णन्तस्य अग्रतः ॥
सोपि रक्तासनं कुर्याद् रुद्र बीजं व्यवस्थितम् ।
केवलं(कवचं) तद्विजानीयात् हुंकारान्तं व्यवस्थितम् ॥
प्. १५अ) भूतमध्यस्थितम्वर्णं मालिनीमुख(कण्ठ)संस्थितम् ।
प्रथमं तद्विजानीयात् संवर्त्तकं तदनन्तरं ॥
ध्रुवान्ते अधः संगृह्य छहू(भूज)मध्ये व्यवस्थितम् ।
ऊर्द्धमनु(रुञ्चा)ग्रहीशेन क्रूरेण च समन्वितम् ॥
भूषितञ्च वरारोहे तृतीयं बीजमुत्तमम् ।
शंवकस्य तु वर्णस्य ऊर्द्धवर्णम्व्यवस्थितम् ॥
तस्यादिं गृह्य मेधावी ध्रुवान्ते आसन स्थितम् ।
लोकान्तं शिरसे दत्तं चतुर्थं बीजमुत्तमम् ॥
विसर्गेनसमायुक्तं शुक्रवर्णं तदग्रतः ।
कैलास शिखरस्थञ्च वर्णादि (चा)ग्रतः स्थितम् ॥
ध्रुवादि आसनस्थञ्च पिशितं भैरवं कुरु ।
सप्तमन्तद्विजानीयाल्लोहितश्चाष्टमं भवेत् ॥
आषाढी रुद्रवर्णेन आरुढं नात्रसंशयः ।
नवकेशांवकं गृह्य वेशोमध्ये व्यवस्थितम् ॥
केवलन्तद्विजानीयान्नवमं नात्रसंशयः ।
क्रोधभैरवमूद्धृत्य नागमव्यासनं कुरु ॥
सूक्ष्मरुद्रं शिरे दत्तं दशमं बीजमुत्तमम् ।
पंचप्रणव योगेन वषडं नेत्रमुत्तमम् ॥
जकारं यस्य उर्द्धन्तु स बीजं यत्रसंस्थितम् ।
एकादशे चतुर्थस्य पिशितस्यासनं कुरु ॥
विश्वमालादि संबिन्नं क्रूरं शिरसिसंस्थितम् ।
पूर्ववर्णं विजानीयात् पावनी तस्याग्रतः स्थिता ॥
शुक्रवर्णं पुनर्द्देवि क्षे(ना)न्तेन विभूषितम् ।
कैलास शिखरस्थं च चतुर्थं वर्णमुत्तमम् ॥
मेषरुद्रोद्भवं वर्णं लोकान्तं शिरभूषितम् ।
प्. १५ब्) पंचमं बीजमित्याहुश्चाषाढी तदनन्तरं ॥
संवकं च पुनर्द्देवि सप्तमं च समालिखेत् ।
एकादशादि चाग्रे तु आषाढी आसनस्थितम् ॥
मन्दरान्ते न संभिन्नं अष्टमं बीजमुत्तमम् ।
षडंगस्य इदं देवि फडन्तं अस्त्रमुत्तमम् ॥
षट्कौशिकमिदं पिण्डं शिवशक्तिसमुद्भवं ।
शुठ्यं ते नात्रसंदेहः सप्तजन्मान्तिकं मलम् ॥
पुनरन्यं प्रवक्ष्यामि ग्रन्थि न्यासं यथा भवेत् ।
सर्वेषामादि बीजानि ये भूता कथयामिते ॥
अकारादि विसर्गान्ता ये वर्णा मातृकोद्भवाः ।
एकैकं तेषु पूर्वस्थं ग्रन्थि न्यासं सदा कुरु ॥
आदि युक्तेन प्रथममनन्तमङ्गुलीषु च ।
द्वितीयेन समायुक्तं कालग्रन्थिं वरानने ॥
अधोङ्गुष्ठ(गुल्फ)स्य कर्त्तव्यं न्यासं परम दुर्लभं ।
तृतीयेनादि युक्तेन ज्येष्ठग्रन्थिरुदाहृतम् ॥
न्यासं जंघासुमध्यस्थं कर्त्तव्यं वरवर्णिनि ।
रौद्रिग्रन्थि चतुर्थेन आदिभूतेन जानुनि ॥
पंचमेन समायुक्तं वामदेवं प्रकीर्त्तितम् ।
न्यासं कृत्वा प्रयत्नेन स्थिचाभ्यां देवि यत्नतः ॥
षष्ठं गुदस्य मध्यस्थं पूर्वोच्चारं जगस्य च ।
ब्रह्मग्रन्थिं पुनर्द्देवि ब्रह्मस्था तेषु विन्यसेत् ॥
सप्तमेन तु पूर्वेण स्वरेण वरवर्णिनि ।
अष्टमं गुह्यमध्ये तु कामग्रन्थिमुदाहृतम् ॥
अष्टमेन तु बीजेन आदवुच्चारणं कुरु ।
नवमे बीजयोगेन सोमग्रन्थिं च विन्यसेत् ॥
अधो नाभिस्थितं स्थानं संपूर्णं चन्द्रवद्यथा ।
प्. १६अ) सूर्ययग्रन्थि पुनर्देवि विन्यसेन्नाभि मध्यतः ॥
दशमेन तु पूर्वेण कुर्वीत वरवर्णिनि ।
आदि एकादशं बीजं स्थितमुदरमध्यतः ॥
न्यासं कुर्वीत यत्नेन प्राणग्रन्थिं सुरेश्वरि ।
हृदये जीवग्रंत्थि च द्वादशेनसमन्वितम् ॥
विष्णुग्रन्थिं विजानीयात् कण्ठस्थाने त्रयोदश ।
न्यासं कुर्वीत यत्नेन रुद्रग्रन्थिं चतुर्दशः ॥
चतुर्द्दशेन बीजेन संस्थितं तालुमध्यतः ।
ईशग्रन्थिं कृतं न्यासं बीजं पञ्चदशेन तु ॥
ललाटस्थं विजानीयात् तस्योर्द्धे षोडशीं कलां ।
सदाशिवस्य देवस्य ग्रन्थिमूर्त्ते व्यवस्थिता ॥
षोडशी कलभेदेन ग्रन्थिन्यासं प्रकीर्त्तितम् ।
पुनर्द्वादशकं चैव अंबिकान्यासमुत्तमम् ॥
तदहं संप्रवक्ष्यामि महासिद्धिकरं परम् ।
शुक्रभैरव मुद्धृत्य शूलदण्डासनस्थितम् ॥
तस्योर्द्ध्वे अंबिका देवी कुटबीजमिदं महत् ।
उद्धृतव्यं प्रयत्नेन स्थानेषु द्वादशेषु च ॥
द्वादशस्वरभेदेन भेदितव्यं (प्र)यत्नतः ।
एकैकेन स्वरेणैव अकारादि विसर्गजाः ॥
प्रथमे बीजयोगेन सिद्धिनामा प्रकीर्तिता ।
न्यासं पादेषु कर्त्तव्यं सर्वसिद्धिप्रदायकं ॥
द्वितीयेन तु बीजेन ऋद्धिनामा महाबला ।
अत्रन्यासं प्रकुर्वीत सिद्ध्यते नात्रसंशयः (जानु न्यासं प्रकर्तव्य
मृद्धि हेतोर्नसंशयः) ॥
रा(वा)मबीजेन देवेशि पूर्वेण चक्र(ऊरू)मध्यतः ।
अ(घु)तिन्यासं च वक्ष्यामि सर्वाकृष्टिकरं परम् ॥
प्. १६ब्)
चतुर्थं गुदमध्यस्थं यत्र लक्ष्मीर्व्यवस्थिता ।
न्यासं कुर्वीत यत्नेन महालक्ष्मी प्रसाधनं ॥
पञ्चमेन तु बीजेन नाभिन्यासं व्यवस्थितम् ।
दीप्तिनामाधरा देव्या ज्ञानदीपप्रदायिका ॥
हृदिमध्यगता देवि षष्ठबीजादि संस्थिता ।
मायानाम परासूक्ष्मा सर्वमाया प्रबोधनी ॥
सप्तमं बीजमाश्रित्य शिवाकण्ठस्य मध्यतः ।
शिवाशान्ति करी सा तु विन्यस्ता देवि यन्ततः ॥
सुमुखि नामया देव्या(वी) अष्टमे बीजसंस्थिता ।
मुखमध्यकृतं न्यासं वाचां सिद्धिकरं परम् ॥
नवमेन तु बीजेन आदि भूतेन चात्मना ।
पुरप्रवेशं कुरुते नासिका न्यासमुत्तमम् ॥
नेत्राभ्यां नन्दिनी देवी सर्वानन्दकरी सुभा ।
दशमेन तु पूर्वेण विन्यस्ता दूरदर्शनी ॥
एकादशेन बीजेन हरिकेशी महाबला ।
दुराश्रवणा च कुरुते विन्यस्ता कर्णमध्यतः ॥
मूर्ध्निस्थं द्वादशे नैव महाकेशी प्रतिष्ठिता ।
धर्म्मकामार्थ मोक्षं च न्यासं सर्वार्थ सिद्धिदं ॥
इति पारमेश्वरीमते द्वादशाङ्ग षडङ्ग अंबिकान्यासमुधारमेकोन
त्रिंशतिमः पटलः ॥
श्रीभैरव उवाच
पुनरन्यं प्रवक्ष्यामि तद्ग्रह(द्धृतं)न्यासमुत्तमम् ।
येन विन्यस्त मात्रेण सर्वसिद्धिञ्च जायते ॥
श्रीकण्ठं नादिनी देवी परा बीजं तृतीयकम् ।
अनन्तं ग्रसनी बीजं तृतीयं परसम्भवं ॥
प्. १७अ)
सूक्ष्मरुद्रं निवृत्तीश्च विद्या बीजान्तसंस्थितम् ।
प्रतिष्ठायै त्रिमूर्तादि अन्ते बीजं परस्य च ॥
अमरीशादि विद्यायै तृतीयं परपञ्चमम् ।
अर्घीशं शान्ति पूर्वस्थं माया बीजं तृतीयकं ॥
भारभूतिश्च चामुण्डा परस्य सप्तमं लिखेत् ।
अतिथिं पूर्वतः कृत्वा मध्यस्थं प्रियदर्शनी ॥
तस्यान्ते अष्टमं बीजं लोहितं च समुद्धरेत् ।
नारायणी पुनर्देवि स्थाण्वीशमादि(संस्थि)तम् ॥
तस्यान्ते रक्तमित्याहुः परस्पपरमञ्च यत् ।
हरेशं मोहनी बीजं मकारं पुरतः स्थितम् ॥
झण्टीरुद्रोद्भवं वर्णं प्रज्ञा(जा)यै मध्यसंस्थिता ।
तस्यान्ते (अष्टमं बीजं लोहितं च समुद्धरेत्) वदातव्यं रुद्रबीजं
परस्य च ॥
भूतिपूर्वं विजानीयाद् गुह्यशक्तिस्तदग्रतः ।
पराबीजं लिखेत् प्राज्ञो द्वादशञ्च न संशयः ॥
सद्योजातं पुनर्द्देवि वज्रिनी मध्यसंस्थिता ।
तृतीयञ्च पुनर्द्देवि पराबीजं त्रयोदशं ॥
पूर्वे अनुग्रहीशं च मध्ये काली व्यवस्थिता ।
तस्यान्ते परमं बीजं बीजं देयं चतुर्दशं ॥
क्रूरवर्णं पुनर्देवि कपाली मध्यसंस्थितम् ।
परापञ्चदशं बीजं पुनस्तं तस्य दापयेत् ॥
शिवामध्यगतं कुर्यात् महासेनञ्च पूर्वगम् ।
पराषोडशमं बीजं तृतीयं परतः स्थितम् ॥
पूर्वं क्रोधं समुद्धृत्य घोरां च तदनन्तरं ।
सप्तदशं पुनर्देवि पराबीजं तदग्रतः ॥
प्. १७ब्)
प्रचण्डभैरवं पूर्वं द्वि?र्वरामध्यसंस्थिता ।
अष्टादशतृतीयञ्च पराबीजं समुद्भवम् ॥
प्रचण्डभैरवं पूर्वं मध्ये सरस्वतीं विदुः ।
तस्यान्ते तु पुनर्देवि (पराव?)जं समुद्धरेत् ॥
शिवमादिसमालिख्य वा गेगी?मध्यसंस्थिता ।
पराबीजं तृतीयञ्च पुरतस्तस्य दापयेत् ॥
एकपादं महारुद्रं मध्ये तु शिखिवाहिनी ।
तस्यान्ते चैव दातव्यमेकविंशतिमं परा ॥
कूर्मभैरवपूर्वस्थं भीमा च मध्यसंस्थिता ।
पराबीजं तृतीयं च न्यासं कुर्वीत यत्नतः ॥
एकहस्तं(नेत्रं) पुनर्देवि वायुवेगस्य पूर्वक(ग)म् ।
तृतीयं चैव दात्तव्यं पराबीजं सुनिश्चितं ॥
नामा च चक्र मध्यस्थं पराबीजं तदग्रतः ।
चतुराननेन संयुक्तं आदिस्थं न्यासमुत्तमम् ॥
वामकङ्गणसंभूतं भैरवं आदि संस्थितं ।
देवी विनायकी नाम अग्रतस्तस्य दापयेत् ॥
पराबीजं पुनर्यद्वत्तृतीयं संस्थितं कुरु ।
सर्म्मभैरवपूर्वस्थं पूर्णिमामध्यसंस्थितं ॥
पराविद्या समुत्पन्नं (पुरतस्थं तृतीयकं) ।
पूर्वे सोमेश्वरं देयं मध्ये झंकारि(णीं) विदुः ॥
तृतीयं बीजं दातव्यं पराविद्यासमुद्धृतम् ।
लांगलीशंपुनर्देवि कुर्दन्या पूर्वसंस्थितं ॥
पराबीजं तृतीयं च तस्यान्ते च समालिखेत् ।
दारुभैरवपूर्वस्थं दीपिनी मध्यसंस्थिता ॥
उद्धृतव्यं प्रयत्नेन पराबीजन्तदग्रतः ।
अर्द्धनारीश्वरं देवं जयन्ती पूर्वसंस्थितं ॥
प्. १८अ) पराविद्यो(बीजो)द्भवं वर्णं तृतीयं च समालिखेत् ।
पूर्वबीजं समुद्धृत्य उमाकान्तं च भैरवं ॥
कपाली मध्य देशे तु तृतीयं च परोद्भवं ।
आषाढीभैरवं पूर्वं पवनीमध्यसंस्थितं ॥
पराबीजं तृतीयञ्च उद्धृतव्यं सुयत्नतः ।
अंबिका या तु पूर्वे तु स्थापितं दिण्डिभैरवं ॥
अंबिकान्ते तृतीयं च पराबीजं समुद्धरेत् ।
धात्रीशं भैरवं पूर्वं महासेनं च (इच्छाशक्तिश्च) मध्यगाम् ॥
पराबीजं तृतीयं च आलिखेद्वरवर्णिनि ।
मीनरुद्रश्च पूर्वे तु सर्म्मरुद्रो महाबलं ॥
उधृतव्यं तृतीयं च महाबीजं परस्य च ।
मेषभैरवपूर्वस्थं छागलीमध्यसंस्थितं ॥
तृतीयं च पराबीजं स्थापितव्यं तदग्रतः ।
लोहितं भैरवी देवि पुत (नापार्श्व) पूर्वगं ॥
अन्ते बीजं तृतीयं च परादेव्या समुद्भवं ।
शिखिवाही महारुद्रं आषाढी मध्यसंस्थिता ॥
तस्यान्ते परमुत्पन्नं स्थितं बीजं सु(दु)र्लभं ।
छगलण्डं पुनर्देवि तस्यान्ते लंविनीं विदुः ॥
परावर्णं(पर) विजानीयात् तृतीयं नात्रसंशयः ।
द्विरण्डं भैरवं हुत्वा मध्ये संहारिणी भवेत् ॥
पराबीजं तृतीयं च उद्धृतव्यं प्रयत्नतः ।
पूर्वे रुद्रं महाकालं महाकाली च मध्यगा ॥
उद्धृतव्यं तदन्ते च पराबीजं न संशयः ।
वागी(ली)शं भैरवं पूर्वं अन्ते कुसुमायुध स्थितं ॥
उद्धृतव्यं प्रयत्नेन अन्ते बीजं परस्य च ।
भुजंगभैरवं पूर्वं देवी मध्ये तु संस्थितं ॥
प्. १८ब्) पराबीजं तृतीयं च उद्धृतव्यं प्रयत्नतः ।
पूर्वे विनायकीत्याहुः मध्ये तारा व्यवस्थिता ॥
पराबीजं तृतीयं च तस्यान्ते संस्थितं कुरु ।
खड्गीशं भैरवं देवि ज्ञानशक्तिश्च पूर्वगं ॥
तृतीयं च समुद्धृत्य बीजं चैव परस्य च ।
संवकञ्च समुद्धृत्य क्रियाशक्तिश्च मध्यगा ॥
परायाश्च तृतीयं तु तदन्ते तस्य दापयेत् ।
श्वेतभैरवपूर्वस्थं गायत्री मध्यसंस्थिता ॥
अपरस्य तृतीयं तु तस्यान्ते कुरुयत्नतः ।
सावित्री मध्यदेशे तु भृगुः पूर्वे व्यवस्थितः ॥
अपरस्य तृतीयं तु तस्यान्ते च समालिखेत् ।
लकुलीशं भैरवं पूर्वं दहनी मध्यसंस्थितं ॥
उद्धृतव्यं प्रयत्नेन तस्यान्ते तु परापुनः(परां) ।
संवर्त्तकं महारुद्रं पूर्वभागे व्यवस्थितं ॥
मध्ये फेत्कारिणी देवी त्रिविद्यान्तं तृतीयकं ।
देवी यज्ञो पवीतञ्च न्यासं सर्वाङ्गसिद्धिदं ॥
सर्वविघ्नोपशमनं कुर्वीतवरवर्णिनि ।
अकारादि क्षकारान्ता ये वर्णा रुद्र संभवाः ॥
एकैकं तस्य पूर्वे तु उच्चारं देवि संस्थितं ।
नकारादि फकारान्तं मध्यस्थं मालिनीं कुरु ॥
परा च अपरा चैव तथा चैव परापरा ।
एताषु त्रिषु विद्याषु बीजं पंचाशतानि च ॥
मालिन्योद्भववर्णानामेकैकं पुरतस्थितं ।
शब्दराशि कृतं न्यासं वर्णभैरवसंयुतम् ॥
मालिनी च पुनर्देव्या विन्यस्ता योगिनी सह ।
परा च अपरा देवी तथा न्यास परापरा ॥
प्. १९अ) परेषु सर्वमन्त्रेषु न्यासं पूर्वं च यत्कृतम् ।
तद्ग्रहेन विना देवि तत्सर्वं निस्फलं भवेत् ॥
विन्यस्तं विधियोगेन देवी यज्ञो पवीतकम् ।
सबीजं भवते सर्वं पूर्वमासे च यत्कृतम् ॥
इति पारमेश्वरीमते तद्ग्रहोद्धारस्त्रिंशतिमः पटलः ॥
श्रीभैरव उवाच
अथातः संप्रवक्ष्यामि श्लोकानि द्वादशानि च ।
येन विज्ञान मात्रेण सर्व पापैः प्रमुच्यते ॥
अर्घीशमन्दिरे देवि अधोवर्णं प्रतिष्ठितम् ।
पूर्वेनिष च (सं)स्थं च शिरे(व) तस्य प्रदापयेत् ॥
देवी कुसुमायुधा वर्णं तस्य ऊर्द्धे तु दापयेत् ।
आदिबीजं विजानीयात् भुजङ्गस्थं न संशयः ॥
एकादशे ऋषिस्थाने मालिनी कण्ठ ऊर्द्धतः ।
उद्धृतव्यं प्रयत्नेन उभौस्थाने तदग्रतः ॥
पुनस्तं बीजमग्रे तु पावकासनसंस्थितम् ।
अधस्तस्य प्रदातव्यं शृमध्योर्धसंयुतं ॥
मालिनी संभवं शुक्रं शिरसि तस्य दापयेत् ।
मन्दिरे भूतमालायां पूर्वे वर्णं व्यवस्थितं ॥
रिकारा(नवका)दि समारुधं ऋवणं च शिरे स्थितम् ।
लोकादि वर्णभेदेन भूषितं पंचमं भवेत् ॥
हु अंतं च समुद्धृत्य लोकान्तेन समन्वितम् ।
रुद्रसंवर्त्तकं नाम भूतबीजान्तसंस्थितम् ॥
एषाषडक्षरी विद्या आदिभूताअ कुलागमे ।
अत्रमध्ये समुत्पन्ना श्लोकानि द्वादशानि च ॥
प्. १९ब्)
पंचाशद्वर्णभेदेन यथा भवति तछृणु ।
विद्या बीजं द्वितीयस्य पूर्वे पूर्वं व्यवस्थितम् ॥
तस्यान्ते च पुनर्देवि तद्वर्णं संस्थितं कुरु ।
एतानि च सुवर्णानि युगस्थानेषु कारयेत् ॥
मातृकोद्भववर्णं च एकैकन्तेषु दापयेत् ।
द्वितीयञ्च तृतीयञ्च विद्या बीजानि यानि च ॥
पूर्वे पूर्वे च कर्तव्यं एकैकं मातृकाक्षरं ।
अकारादि सकारान्ता पावनी पूर्णताङ्गता ॥
इति वै द्वादशश्लोकाः पूर्वमीशेन भाषिताः ।
यः पठेद् दीयते यस्य कर्णः कर्णो पदेशिकाः ॥
गुप्तागुप्ततरा ह्येते पुस्तकेन च संलिखेत् ।
एषा षडक्षरी विद्या न देया यस्य कस्यचित् ॥
अदीक्षितेन दातव्यं कुलमार्गस्य निन्दके ।
प्रमादाहदत्ते यस्तु सिद्धिहानिस्तु जायते ॥
न्यासं कुर्वीत यत्नेन मेखला कुब्जिकस्य च ।
भूतप्रेतपिशाचाश्च दुष्टदंष्ट्र(दस्युं)भयानकाः ॥
यमश्चित्रो विचित्रश्च तेषु दूता महाबलाः ।
स जीवोजीव हीनस्य स पापे निर्मलस्य च ॥
न शक्नोति वरारोहे वक्त्रं तस्य निरिक्षितुं ।
निर्ज्जित्ययमदूतानि रुद्रलोकं स गच्छति ॥
अथान्यं संप्रवक्ष्यामि शरीरे द्वादशानि च ।
आक्रम्यमूलकरणैरधोर्द्ध्वं च विद्यधृयेत्? ॥
शक्तिदीपशिखाकारा स्फुरन्नाडी निवेशयेत् ।
ब्रह्मरन्ध्रं तु तत्प्राप्य विष्णुरुद्रेश्वरं शिवं ॥
विज्ञानममृतं दिव्यं चतुर्वर्गफलप्रदं ।
प्. २०अ) नासिकारन्ध्र ऊर्द्धे तु यावद्व्योमविलाश्रयं ॥
उर्द्धस्था परमाशक्तिर्वर्षनी परमामृतम् ।
चन्द्रबिम्बकलाकान्तं धौतचामीकरप्रभं ॥
ध्यायेच्चात्मनि संलीनमापादतलमस्तकं ।
नासिकाग्रे गता दृष्टिरमृतं तस्वादयेत् परं ॥
काकचंचु पुटाकारमौष्टौ चाकृष्य सद्भुतम् ।
आत्मा समरसं देवि आदिस्थाने परामृतम् ॥
समाधिरेषा देहस्य समलं च प्रयच्छति ।
सर्वाङ्गममृतं सिच्य तत्रस्थं देहविग्रहं ॥
तदावर्णपदावस्थां स बाह्याभ्यन्तरं प्रिये ।
(अहन्य हनि विन्यस्य) धर्माधर्मो समेपदे ॥
योजयेच्चात्मनो देहे योगं मृत्युविनाशनम् ।
आपादतलमूर्द्धान्तं नादान्तं तत्वमुत्तमम् ॥
चन्द्रसूर्यसमैकत्वं यः पश्यति समुच्यति ।
उत्पतेन्निपतेच्चैव पुनरारुद्रेश्वरे पदे ॥
नादो पदेशं वेत्ता च लभते शाश्वतं पदम् ।
करणद्वयसंक्षोभात् सोमार्क्कातलमध्यगौ ॥
यदाबिन्दु विनिष्क्रान्तन्तदातछ्रेयताङ्गतः ।
परबिन्दुविनिष्क्रान्तं नित्यादित्य प्रवाहकम् ॥
ये पिवन्ति च मुक्तास्ते ते यान्ति परमाङ्गतिं ।
एते च द्वादशश्लोकाः पूर्वं देवि मया श्रुताः ॥
नमया भाषिता देवि स्वयमेवविनिर्गताः ॥
पंचरत्नस्य संबंधे दशश्लोका उदाहृताः ॥
निरालम्बपदे द्वे तु इति द्वादशकीर्तिताः ।
श्रीभैरव उवाच
अथान्यं संप्रवक्ष्यामि पंचरत्नानि यानि च ।
प्. २०ब्) पञ्चस्थानविशुध्यर्थं कृतं न्यासं सुरेश्वरि ॥
ततो मध्यगतं गृह्य ग्रहेषु भूतमंदिरे ।
एकादशे चतुर्थे तु शिखा मध्ये व्यवस्थितम् ॥
द्वितीयं च समुद्धृत्य पवनी तस्या(पा)ग्रतस्थितम् ।
महाकालोद्भवं वर्णं पुरतस्तस्य दापयेत् ॥
मालिनी मूर्ध्निवर्णन्तु पंचमञ्च न संशयः ।
एतानि पञ्चवर्णानि लोकादि भूषितं कुरु ॥
(लोकमध्यगतं वीक्ष्य अधस्तेयां नियोजयेत् ।
अर्घीशेन समारूढा लोकान्तेन विभूषिताः ॥)
भ्रुमध्यगतं वर्णं पिनाकी भैरवस्य च ।
तत्रारुढानि सर्वाणि अर्घिशासनसंस्थिताः ॥
एतानि पंचरत्नानि पंचस्थानेषु विन्यसेत् ।
प्रथमं मुर्ध्निमध्यस्थं संस्थितं चन्द्रमण्डलं ॥
षोडशारं महापद्मं अधोमुखविलंबितम् ।
कुन्देन्दु तु हिनाभासन्तस्य मध्ये तु कर्णिका ॥
तत्र मध्यगतं वर्णं प्रथमं रत्नमुत्तमम् ।
अकारादिविसर्गान्तं षोडशानि कलानि च ॥
संस्थितानि दलाग्रेषु संपूर्णशशिरश्मयः ।
श्वेतवर्णामृतेनैव वर्षन्तं चिन्तयेद्बुधः ॥
तस्य पंकजमध्यस्थं आत्मानं चिन्तयेत् ततः ।
प्रथमे रत्नयोगेन संलीनं दीपवद्यथा ॥
अनेना भ्यास योगेन षण्मासात्पलित ।
क्षयादिव्यतेजो महाकायो अब्दमेकेन जायते ॥
वर्षैः षोडशभिर्देवि खेचरत्वं न संशयः ।
प्रथमक्रमयोगेन ये सिद्धाः कथयाम्यहम् ॥
चतुःषष्टिस्तु कोटीनां सिद्धानां योगिनी सह ।
अधिकारं प्रकुर्वन्ति गगनस्था वरानने ॥
प्. २१अ)
द्वितीयं हृदिमध्यस्थमष्टपत्रं सुशोभनम्(सकर्णिकम्) ।
श्वेतं पीतं च वर्णाभं कर्णिका मध्यसंस्थितं ॥
तत्र मध्यगतं ध्यायेत् द्वितीयं रत्नमुत्तमम् ।
शब्दः स्पर्शञ्च रूपञ्च रसो गंधञ्च पञ्चमः ॥
मनोबुद्धिरहंकार एकैकं च दलेषु च ।
मध्यस्थं कुरुयत्नेन आत्मानं वरवर्णिनि ॥
अब्दमेकेन देवेशि उत्पद्यन्ते च ये गुणाः ।
दूरश्रवणविज्ञानं दुरादर्शनमेव च ॥
अनेनक्रमयोगेन अभ्यासेन न संशयः ।
वर्षद्वादशभिर्देवि सिद्ध्यंते नात्रसंशयः ॥
पंचाशत्कोटियोगिन्यः सिद्धैस्तु सहितः पुरा ।
अधिकारं मया दत्तं स्वर्गस्थाः क्रीडयंतिताः ॥
पुनर्नाभिगतं चक्रं षट्पत्रं पंकजे स्थितम् ।
रक्तश्वेतमयं सर्वं मध्ये रत्नतृतीयकं ॥
पिण्डस्थञ्च विजानीयात् संस्थितं विषमध्यतः ।
तत्र मध्यगतं जीव(बीजं) दीपाकारं विचिन्तयेत् ॥
तावत्तच्चिन्तयेद्देवि यावत्तल्लयतां गतः ।
षण्मासाभ्यासयोगेन वागीशो नात्रसंशयः ॥
वदते सर्वशास्त्राणि अदृष्टा (न्य) श्रुतानि च ।
परकायप्रवेशञ्च कुरुते नात्रसंशयः ॥
सप्तविंशति वर्षैस्तु कथितासिद्धिखेचरी ।
द्वात्रिंशत्कोटि सिद्धानां योगिन्या सहितानि च (योगिन्यः सिद्धैश्चैव सह
स्थिता) ॥
अत्रसिद्धावरारोहे पाताले अधिकारिणः ।
या सा शक्तिः परासूक्ष्मा सुसुप्तभुजगोपमा ॥
तस्य मध्ये त्रिकोणञ्च सिन्दूरारुणसन्निभम् ।
प्. २१ब्) योनिस्थं परमं दिव्यं यथोत्पन्नं चराचरम् ॥
तस्यमध्यगतंध्यायेच्चतुर्थं रत्नमुत्तमम् ।
महादीप्तिकरं दिव्यं भासयन्तं चराचरं ॥
आत्मानं सूक्ष्मरूपेण तत्रस्थाने लयं कुरु ।
तस्यैवाभ्यासयोगेन निर्मलत्वं च जायते ॥
धूननं कंपंना वेशं आनन्दं सुर्मि(घूर्ण)मेव च ।
दिव्यभाषागमन्निद्रां विषुवेचारं संस्थितम् ॥
सतताभ्यासयोगेन वाचां सिद्धिश्च जायते ।
निग्रहानुग्रहं चैव रूपस्य परिवर्त्तनम् ॥
दृश्यो अदृश्यतां याति अब्दद्वादशकेन तु ।
खेचरैः सहसामान्यमिच्छासिद्धिश्च जायते ॥
अनेनाभ्यासयोगेन सिद्धिर्वा कथयाम्यहम् ।
अष्टादशानिकोटीनां सिद्धानां योगिनी सह ॥
अधिकारं प्रकुर्वन्ति मर्त्यलोके व्यवस्थिताः ।
पुनश्चाधारमध्यस्थं स्थितं चक्रं महेश्वरि ॥
त्रिदलं कर्वुराकारं स्वेतरक्तं च पंकजं ।
तस्यमध्ये समुत्पन्नं वंशांकुरनिभं प्रिये ॥
रक्तवर्णं महातेजं तस्यान्ते संस्थिता शिखा ।
अंगुष्ठपर्वमानेन दीपाकाराव्यवस्थिता ॥
तस्यमध्ये स्थितं देवि पंचमं रत्नमुत्तमम् ।
आत्मबीजेनसंयुक्तं तत्रस्थं सूक्ष्मरूपिणं ॥
तावच्चिन्तयते देवि यावत्तल्लयतां गतः ।
आनन्दंप्पूर्मि(घूर्ण)मावेजायते मण्डुकप्लुतिः ॥
योगनिद्रास्थितो योगी पश्यते अवनी तलं ।
दिव्यभाषागमं चैव परकायप्रवेशनं ॥
वलीपलितनिर्मुक्तो मृत्युस्तस्य न जायते ।
अब्दैः षोडशभिर्देवि सिद्धो भवति निश्चितम् ॥
प्. २२अ)
अत्र चक्रे तु ये सिद्धा अष्टकोटिमहाबलाः ।
योगिनी सहसिद्धानां नागलोकाधिकारिणः ॥
एतानि पंचरत्नानि कुलमार्गे व्यवस्थिताः ।
महासिद्धि कराह्येते न देया यस्य कस्यचित् ॥
कुलमार्गाभिषिक्तस्य अनुष्ठानरतस्य च ।
अनेकजन्मयोगेन लभते नात्रसंशयः ॥
श्रीदेव्युवावाच
श्रुतं देवत्व शेषस्तु न्यासः परमदुर्लभः ।
इदानीं श्रोतुमिच्छामि षदूतीन्यासमुत्तमम् ॥
येन विन्यस्यमात्रेण षोढान्यासफलं लभेत् ।
तन्मे कथय देवेश यदि तुष्टोसि शंकर ॥
श्रीभैरव उवाच
साधु देवि महाप्राज्ञे यत्त्वया पृष्टमादरात् ।
तदहं संप्रवक्ष्यामि तव भक्त्या न संशयः ॥
न देयं यस्य कस्यापि यतं क्रूरास्तु मानवाः ।
आदेशेन विना देवि यो दद्याज्ज्ञानमुत्तमम् ॥
भक्षयन्ति च योगिन्यो डा?द्याः क्वद्धानसंशयः ।
धनंधान्यं कलत्रं च पुत्रपौत्रादि संततिं ॥
निघ्नन्ति ऽसतशः क्रुद्धा भैरवादेशतः सदा ।
तस्माद्भक्तं दृढं गुप्तं समयाचारपालकम् ॥
कुलीनं सत्त्वसम्पन्नं * * * * * * * * ।
* * * * * * * * * * * * * * ॥
* * * * तं बीजं छङ्गमध्योपरिस्थितम् ।
सखिमध्यं गतोधस्ता देयं बीजं खगेश्वरम् ॥
भूतादि मन्दरस्येवदयवाजवरपरम् ।
* * * * * * * * * * * विभूषितम् ॥
प्. २२ब्)
बिन्दुमस्तकसंभिन्नं कालिका हृदयं परम् ।
हादिबीजं समुद्धृत्य तस्याग्रेरीलु मध्यगम् ॥
विश्वादिमस्तके भिन्नं द्वितीयं वर्णमुत्तमम् ।
नुभा * * पुनर्देवी ह्यनन्तेनसमन्वितम् ॥
षादिवर्णं पुनर्देवि अनंतेनसमन्वितम् ।
पिनाकिवर्णमुद्धृत्य भे?सयोर्म्मध्यसंस्थितम् ॥
विश्वादिनासमायुक्तं वमुवर्णे प्रकीर्तितम् ।
मे? च मध्यगतं बीजं ऋ अन्तेनसमन्वितम् ॥
बिन्दुना शिरसाक्रान्तं भृगुवर्णन्निकेवलम् ।?
शास्त्रं बीजं समुद्धृत्य * * * * * * * * ॥?
* ? शिरसि तस्यैव नागमध्यगतः परम् ।
भे? आदि ऋषिमालायां सद्यो जातेनसंयुतम् ॥
जच्छीमध्यं पुनर्वर्णं नोगूमध्ये तदग्रतः ।
त्रिमूर्त्तिना शिरो भिन्नं वर्णं चन्द्र कलांकितम् ॥
जवमध्यं त्रिधा देवी देयं बीजं वरानने ।
भुजंगासनमासीनं तद्बीजं कारयेत् त्रिधा ॥
प्रथमस्य त्वनन्तेन द्वितीयस्य त्रिमूर्तिना ।
अर्घीशेन तृतीयस्य शिरो देशं विभूषयेत् ॥
क्रूरेणशिरसाक्रान्तं बीजत्रयमुदाहृतम् ।
रक्तवर्णे पुनर्देवि क्रोधवर्णं तदग्रतः ॥
ठीरमध्येन संभिन्नं बीजमेकोन विंशकम् ।
पुनः क्रोधं समुद्धृत्य ख उर्ध्वे अधसंस्थितम् ॥
कीरमध्यस्थितं वर्णमुमाकान्तः शिरः स्थितम् ।
झंटीशेन समायुक्तं वज्रिणीवर्णमग्रतः ॥
प्. २३अ)
विश्वादिना शिरोभिन्नं बीजं स्यात् सप्तविंशकम् ।
महाकालद्वयं देवि अनन्तेन विभूषितम् ॥
बिन्दुमस्तकसंभिन्नमेकमेकोनविंशकम् ।
लोहितं वर्णमादाय पानो मध्ये व्यवस्थितम् ॥
वेशमध्ये समुद्धृत्य वालीशासनसंस्थितम् ।
शिरसिक्रूरसंयुक्तं माषाढन्तस्य चाग्रतः ॥
दशविंशतिमं बीजं द्व्यधिकंजन्तसंस्थितम् ।
वेसोमध्यं पुनर्देवि तस्याषाढी मुखे स्थितम् ॥
भुजंगासनसंस्थश्च वज्रिणी बीजमग्रतः ।
ऌ अन्तेन समायुक्तं बीजं षट्विंशकं वरम् ॥
अन्ते च प्रणवो देयो विलोमात् पूर्वसूचिता ।
एषादेवी महाकाली कालकालानल प्रभा ॥
सर्वज्ञादि गुणैर्युक्ता भुक्तिमुक्तिफलप्रदा ।
न देया देवदेवेशी यस्य नो भैरवी तनुः ॥
मयापि गोपिना पूर्वं ब्रह्मविश्वेष्णीश्वादिषु? ।
देवदानवसिद्धेषु यक्षगन्धर्वकेषु च ॥
नागेषुनागपत्नीषु गोपिताभुविदुर्लभा ।
यो ददाति इमां देवी गुरुतस्तस्य जगत्त्रये ॥
नादेयं वियुते तस्य आत्मदारादिकं च यत् ।
इदानीं देवि ते गुह्या गुह्यापि प्रकटी कृता ॥
गोपनीया त्वया देवि सर्वथा सर्वदा प्रिये ।
दत्त्वादौ प्रणवान्यं च ततः कूढं * * * * ॥
उ आदिमं समुंधृत्य ग अन्तेयद्व्यवस्थितम् ।
तस्याधो रक्तबीजं च पूतना तदधः स्थिता ॥
क्रोधबीजासवो दद्यात्तज्वलमध्य मधः पुनः ।
प्. २३ब्) छङ्गमध्यमधस्तस्माद्ध्रुवान्तासनसंस्थितं ॥
तस्याधो रक्तबीजं च पूतना न दधः स्थिता ।
अ अंतेन तु संयुक्तं नाम बिन्दुकलाङ्कितम् ॥
कूटराजमिदं देवि देव दानवनाशकृत् ।
शाकिनीहृदयं गुह्यं तव भक्त्या मयोदितम् ॥
येन जप्तं हुतं ध्यातं लक्षाणां रससंख्यया ।
तस्य संकल्पमात्रेण निग्रहसंप्रवर्तते ॥
मेषरुद्रं समादायमहाकालं तदग्रतः ।
सद्योजातेनसंयुक्तं बीजराजं द्वितीयकम् ॥
द्विरण्डभैरवं गृह्य प्रचण्डं तस्य चाग्रतः ।
वज्रिणी बीजमन्त्रे तु आषाढी तदनंतरम् ॥
विश्वादिनाशिरो भिन्नं बीजराजं रसान्वितम् ।
ॠ ए मध्यं समुद्धृत्य कषान्तं संस्थितं पुरः ॥
सोमेश्वरासनस्थं च वसु संख्यं प्रकीर्त्तितम् ।
कूर्मरुद्रं ततो दद्यादनंतेनसमन्वितम् ॥
नादबिन्दुशिरोभिन्नं ठी अंतं तस्य चाग्रतः ।
ऋ अंतेन समायुक्तं पिनाकी तदनन्तरम् ॥
विश्वादिना समायुक्तम स्वरं रुद्र * * कम् ।
बुजंगभैरवं गृह्य ध्रुवाद्यासनसंस्थितम् ॥
मीनरुद्रंसमादायमन्दरस्थेन मण्डितम् ।
मालिनीशूलदण्डं च महाकालं तदग्रतः ॥
अनंतं बिन्दुसंयुक्तं तस्य मूर्ध्ने निवेशयेत् ।
भृंगभैरवकं पश्चात् केवलं तस्य चाग्रतः ॥
द्विरण्डं भैरवं तस्मात् सम्वर्तं तदनंतरम् ।
इकारेणसमायुक्तमुमाकान्तमतोग्रतः ॥
क्रोधभैरवमादाय ओ आदिं तस्य चाग्रतः ।
दुधे मध्यमुमाकान्तां नेषढस्थेनभूषितम् ॥
प्. २४अ)
लकूलीशं ततोद्ध्र्त्य मेषरुद्रं तदग्रतः ।
द्विधाकार्यं वरारोहे दहनी तस्य चाग्रतः ॥
लकुलीशं पुनर्दद्यान्तं द्विधा च सुरेश्वरि ।
(* * * * समुद्धृत्य अकारेण समन्वितम् ॥
भुजंगभैरवं तस्य मन्दरस्थेन भूषितम् ॥)???
मीनरुद्रं ततो दद्यात् महाकालं तदग्रतः ।
द्विधाकार्यं महादेवि लोहितं कूर्ममेव च ॥
ग्रसबीज द्वयं द्वेधा हुं फट् स्वाहान्त संयुता ।
द्रष्टव्यासंपुटेनैषा साकिनीतन्त्रनायिका ॥
श्मशाने चैकवृक्षे वा नदीतीरेथ संगमे ।
लक्षमेकं जपेद्यस्तु विद्यां वीरव्रते स्थितः ॥
तस्य विध्वं समायान्ति ज्वररोगादि शत्रवः ।
तीव्राज्ञा जायते नूनं निग्रहानुग्रहेषु च ॥
किमन्यदुच्यते देवि देव्या सामर्थ्यमद्भुतम् ।
यस्याः स्मरणमात्रेण ज्वरभूतादिनाशनम् ॥
अन्यच्च कथयाम्यस्याः सान्निध्यकरणं परम् ।
घृतप्लुतं महाफल्गु विशेषेण तु होमयेत् ॥
एषा देवि त्रिधा ख्याता शिवोदूतीं समुद्धरेत् ।
न देया यस्य कस्यापि यो न वीरांशभाग्भवेत् ॥
* * पंचकं चादौ दत्वा देवि ततोद्धरेत् ।
प्रणवादिसमुद्धृत्य आषाढी तदनंतरम् ॥
तदधो देवी दातव्यं सद्योजातेनसंयुतम् ।
पूतना बीजमादायमन्दरस्थेन भूषितम् ॥
अनंतमग्रतस्येषासी मध्यं च ततो लिखेत् ।
ऋकारेण शिरोभिन्नं पंचमं बीजमुत्तमम् ॥
प्. २४ब्)
महाकालं ततोद्धृत्य सोमंसोमासनस्थितम् ।
ऋकारेण शिरोभिन्नं अंते ऋ अंतसंस्थितम् ॥
लकुलीशं पुनर्भद्रे वज्रिणी चेश्वरे स्थिता ।
भृगुवर्णं बिन्दुयुक्तं छगलण्डोग्रतः स्थितम् ॥
सोमेश्वरमथोद्धृत्यमन्दरस्थेन भूषितम् ।
अनंतमन्ते दातव्यं बिन्दुचन्द्रकलांकितम् ॥
दहनीबीजमादाय निषढस्थेन भूषितम् ।
ऋ अंतमन्ते दातव्यं बिन्दुचन्द्र कलाधिकं ॥
* * * ग्रतो देवि शृंगमीश्वरसंयुतम् ।
ध्रुवादि वां समालिख्य पिनाकी तदनंतरम् ॥
झंटीशं मस्तके दत्तं तदग्रे ऋ अधः स्थितम् ।
मन्दरस्थे न तद्भिन्नं मन्ते चानन्तसंयुतम् ॥
पूतनोर्ध्वं महाबीजं मन्तेवज्रा युधा पुनः ।
तस्या धस्ताकादत्तं कान्तं ध्रुवादि संयुतम् ॥
ठकारस्य अधोदद्यात् पूर्णिमां सर्वसिद्धिदं ।
भममध्यं समुद्धृत्य पूतनामग्रतः स्थितम् ॥
रवीर्चे बिन्दुमादाय तस्याधस्तात्त देव तु ।
मन्दरस्थेन संभिन्नमन्ते चानन्तसंस्थितम् ॥
देवतापंचकं चान्ते विलोमेनप्रदापयेत् ।
एषा देवी महागुह्या भेल्लखीनामविश्रुता ॥
मोहनीसर्वसत्वानां तैलयागप्रयोगतः ।
स रहस्या महाख्याता न देया यस्य कस्यचित् ॥
पूर्णिमा द्वितीयं चादौ तस्यान्ते रक्त मालिखेत् ।
क्रोधबीजं समादाय आषाढी ह्यासन स्थितम् ॥
झंटीशेन शिरोभिन्नं वेदवर्णमुधाहृतम् ।
प्. २५अ) महाकालं समादाय अंबिकातदनंतरम् ॥
अनंतेनसमायुक्तं रसबीजं प्रकीर्तितम् ।
भुजंगंबीजमुद्धृत्य क्रोधबीजमतः परम् ॥
आषाढी ह्यासनारूढं ज्ञानशक्तिविभेदितम् ।
थे च मध्यगतं गृह्य महाकालं ततो यतः ॥
ध्रुवाद्यासनमारूढं शिरसिक्रूरदूषितम् ।
ठी दूमध्यस्थितं गृह्य झंटीशेनसमन्वितम् ॥
भृगुवर्णं समादाय वज्र बीजासनस्थितम् ।
र ल मध्यगतं गृह्य वालीशं बीजमग्रतः ॥
ऋ आदिना शिरो भिन्नं बीजं भुवनसंख्यया ।
एषा विद्या महादेवी नेत्र पूतीति कीर्तिता ॥
पंचप्रणवयोगेन आद्यन्तेन वरानने ।
समुद्धरेदिमां विद्यां सर्वकामार्थसाधनीम् ॥
अथातः संप्रवक्ष्यामि सर्वकर्म्मप्रसाधनीम् ।
महाविद्या महादेवि अस्त्रदूतीति नामतः ॥
तणोमध्यगतं गृह्य प्राधान्यासनसंस्थितम् ।
तस्याग्रे चाम्बिका देवी मात्मामध्यासने स्थितम् ॥
तस्याग्रे क्रोधबीजं तु एकारोपरिसंस्थितम् ।
वज्रीणीबीजमादाय की ज मध्यस्थितं प्रियेः ॥
मन्दरस्थेनसंभिन्नं चतुर्थं बीजमुत्तमम् ।
एकादशादि संगृह्य ज्ञानशक्त्याविभूषितम् ॥
छङ्गमध्यगतं गृह्य ध्रुवाद्यासनसंस्थितम् ।
नादबिन्दुकलायुक्तं बीजं त्रैलोक्य डामरम् ॥
मालिनीवामपादं तु ऋषिरादि स्थितं पुनः ।
प्. २५ब्) एतत्तु पतितं कुर्यात् सप्तमादक्षरात्परं ॥
महाकालं द्वयं गृह्यमीषामध्यगतोद्धरेत् ।
चावे मध्ये ततो गृह्य भुजंगेन तु भाषितम् ॥
सद्योजाते स संभिन्नं बीजमीखरसंज्ञकम् ।
पानोमध्यगतं गृह्य दहनी तस्य चाग्रतः ॥
भुजंगं भैरवारूढं विश्ववर्णं प्रकीर्तितम् ।
स्नायुवर्णं समुद्धृत्य अनंतेनसमन्वितम् ॥
अतोमध्यगतं गृह्य शूलदंडोपरिस्थितम् ।
ततस्तारां समुद्धृत्य कुसुमायुधभूषितम् ॥
पुनः पूर्वाक्षरं दत्वा वर्णानां विंशतिः ।
स्मृताः मनोमध्यगतं गृह्य ध्रुवान्तासनसंस्थितम् ॥
पधमध्यमधो गृह्य रेफाक्रान्तं तु मस्तके ।
पवनीबीजमुद्धृत्य भुजंगासनसंस्थितम् ॥
पामोमध्यगतं गृह्य सद्योजातेनसंयुतम् ।
खीनूमध्यगतं तस्मादनंतेनसमन्वितम् ॥
दहनीबीजमादाय मन्दरास्थेनमंडितम् ।
क्रोधबीजं ततोद्धृत्य क्रूरेण परिकल्पितम् ॥
वेवूमध्यगतं ग्राह्यं ऋशांसेनविभूषितम् ।
मेषवर्णमतः पश्चात् क्रोधवर्णानलान्वितम् ॥
तारकाबीजमुद्धृत्य बिन्दुयुक्तं चकारयेत् ।
दकाराद्यं समादाय ऌ उर्द्धे यद्व्यवस्थितम् ॥
थस्याधस्थमथोद्धृत्य अनन्तेनसमन्वितम् ।
थघोमध्यगतं गृह्य मन्दरस्थेनमंडितम् ॥
पंचत्रिंशतिमं बीजं सा च तारा स बिन्दुका ।
एकादशाद्यमुद्धृत्य भुजंगेनदथान्विते ॥
* * * * * * * ह्यधोवालीशसंयुतम् ।
प्. २६अ) क्रूरेणमस्तके भिन्नमष्टत्रिंशतिमं स्मृतम् ॥
नाराद्विनवमुद्धृत्य ईकारासनसंस्थितम् ।
कषामध्यमतोन्यस्त्वा ह्यधो * * * संयुतम् ॥
क्रूरेणमस्तके भिन्नमष्टत्रिंशतिमं स्मृतम् ।
ताराद्वितीयमुद्धृत्य ईकारासनसंयुतम् ॥
मेषवर्णं ततो दत्वा पतितं कारयेत् प्रिये ।
भृंगभैरवबीजं च तस्याग्रे वज्रिणि भवेत् ॥
अनंतेनसमाक्रान्तं भुजंगेन तु भूषितम् ।
मालीन्या शिवाग्रे तु पतितं तच्चकारयेत् ॥
हरबीजद्वयं देयं रुद्रवर्णं ततोलिखेत् ।
करालिने पदं दत्वा बीजत्रयमथोद्धरेत् ॥
चामुंडा हृदयं मार्गान् मुद्राराजस्ततो भवेत् ।
कुब्जिकापादमादाय गुह्यपूर्वं च सर्वदा ॥
हुंफट् स्वाहान्तसंयुक्तं विद्याराज्ञी प्रकीर्तिता ।
यस्त्विमां जपते विद्यां जुहुयाच्च विसेषतः ॥
त्रैलोक्यविजयी देवि भवेत् सत्यं न संशयः ।
प्रणवन्यासं प्रथमं नवाअत्मानं द्वितीयकम् ॥
त्रिखंडायास्तृतीयं तु समयात्मं चतुर्थकम् ।
पंचमं शब्दराशि मालिन्या षष्ठमं स्मृतम् ॥
सप्तमं च त्रिविद्याया ह्यघोर्याष्टकमष्टमम् ।
नवमं द्वादशांगं तु षडंगं दशमं स्मृतम् ॥
षोडशग्रंथिसंयुक्तं न्यासमेकादशं स्मृतम् ।
प्. २६ब्) द्वादशे द्वादशं ज्ञेयं तद्ग्रहस्य त्रयोदशं ॥
श्लोकद्वादशेका न्यासं भुवनाख्यं प्रकीर्तितम् ।
रत्नपंचकविन्यासं पंचाधिकदशं स्मृतम् ॥
षड्दूत्यः षोडशं ज्ञेयं षोढा न्यासमिति स्मृतम् ।
त्रिसन्ध्यं विन्यसेद् यस्तु शुद्धकायो दृढव्रतः ॥
तस्य दृष्टि निपातेन स्फुटंति गिरयोपि च ।
इति पारमेश्वरीमते द्वादशश्लोकपंचरत्नोद्धारः एकत्रिंशतिमः पटलः
॥
देव्युवाच
द्वादशानि च श्लोकानि स बाह्याभ्यन्तराणि च ।
पंचरत्नोपदेशं च श्रुतं निर्म्मलं तां मया ॥
अधुना श्रोतु मिछामि क्रमस्य पूजनं यथा ।
येन विज्ञान मात्रेण आज्ञा सिद्धिः प्रवर्त्तते ॥
या सा शक्तिः परासूक्ष्मा जगत् माता व्यवस्थिता ।
एकमात्रा द्विमात्रा च त्रिमात्रा च कथं भवेत् ॥
अर्द्धमात्रा परासूक्ष्मा कस्यवर्णार्धसंस्थि(र्णे व्यवस्थि)ता ।
भगाकारा कथं देव अर्द्धलिंगा व्यवस्थिता ॥
प्. २७अ)
निर्वाणपदभेदेन मथिता भैरवेण तु ।
कु(इ)काराख्या महा(परा)देव्या तत्र मध्ये व्यवस्थिता ॥
आज्ञासनेन रूपेण रुद्रशक्ति समुद्भवा ।
षट्प्रकारं कथं सिद्धं कथं पीठ चतुष्टयं ॥
पीठ देव्यः कथं देव सिद्धिश्च सहिताः स्थिताः ।
कस्मिन् स्याने समुत्पन्ना ब्रह्मग्रन्थिः किमुच्यते ॥
प्. २७ब्)
सकलं कीदृशं देव निष्कलं च कथं भवेत् ।
मुक्तिभेदं किमाख्यातं अस्तिनासि विवर्ज्जितम् ॥
शब्दःस्पर्शञ्च रूपञ्च रसोगंधं च पञ्चमः ।
षट्चक्रपिण्डमध्यस्थं चेतो भूतं व्यवस्थितम् ॥
इन्द्रियाणां गुणं वेत्ति केषुस्थाने पृथक् पृथक् ।
सप्तविंशति भेदानि(देन) अग्र(ह्यत्र)मध्ये कथं स्थिता ॥
नाडी संचारभेदेन षट्प्रकारेण भैरव ।
चक्रे चक्रे स्थितो देवो जीवाख्यः परमः प्रभुः ॥
तस्य चंचकिमाख्यातं वंधे मुक्तिः कथं भवेत् ।
वृक्षत्रयं समाख्याहि स बाह्याभ्यन्तरेषु च ॥
मुद्रासी?सो? महादेव खेचराद्या यथा भवेत् ।
समयमुद्रा परादेव्या कथं जानामि तत्वतः ॥
गृहं पूर्वं किमाख्यातं पश्चिमं च कथं भवेत् ।
एतद् भेदं परं गुह्यं ममाख्याहि महेश्वर ॥
स्थितिं कस्य विजानीयाल्लयं कस्य प्रतिस्थितम् ।
उभयोश्चैव योगेन किं जातं परमेश्वर ॥
मातृकावर्णभेदेन षट्प्रकाराः कथं स्थिताः ।
सप्तविंशति भेदेन मण्डलानि वदस्वमे ॥
कालज्ञान(नो) पदाञ्चैव(पदेशेषु) उद्भवास्तमनेषु च ।
विपरीतप्रयोगेन(च) वंचनं(र्वणं) च वदस्वमे ॥
त्रिविधमधिकारं च समय(तथा)संकेतमण्डलं ।
अनेनैव शरीरेण कथं मुक्तिर्भविष्यति ॥
गमनं त्रिषुलोकेषु पिण्डपातं न विद्यते ।
एतत् सर्वं समासेन प्रसादं कुरु भैरव ॥
श्रीभैरव उवाच
प्. २८अ)
कथयामि न संदेहो गुप्तं गोप्यं सुरक्षितं ।
आदिभूतं कुलाम्नायं तन्मया गोपितं पुरा ॥
उत्तरं दक्षिणे मूलं दक्षिणं पश्चिमस्य च ।
पश्चिममुत्तरे योज्यं पराशक्तिर्व्यवस्थिता ॥
भैरवाख्यं द्वितीयं तु यस्य(स्यो) पूर्वं व्यवस्थितम् ।
तस्यार्द्धे वामभागेन ऊर्द्धे चैव प्रलंबितम् ॥
पूर्वे मूलं प्रकुर्वीत द्वौ शांखौ वामदक्षिणौ ।
अन्ते सव्यापसव्येन तृतीयं च नियोजयेत् ॥
या सा शक्ति परा(रमा)सूक्ष्मा अर्द्धवर्णा व्यवस्थिता ।
तस्यान्ते पूर्वरत्नस्य दक्षिणावर्त्त योजिता ॥
भैरवस्य कलाह्येषा लिंगभूता व्यवस्थिता ।
रुद्रशक्तिरियं देवि अत्रोत्पन्नं चराचरं ॥
मध्ये मन्थान योगेन भैरवं शक्तिभीः सह ।
अव्यक्ताव्यक्त रूपेण उत्पन्ना परमेश्वरि ॥
आज्ञानामपरासिद्धिः कुकाराख्या विनिर्गता ।
एषा सा व्यक्तरूपेण शक्ति रूपा त्वधः स्थिता ॥
निर्वाणपदरूपेण तस्योर्द्धे भैरवः स्थितः ।
षट्कौशिकमिदं पिण्डं कुलकौलं व्यवस्थितम् ॥
योजनाति वरारोहे स भवेत् कुलयोगिनः ।
अत्र पूजाप्रकर्त्तव्या षड्विधञ्च कुलक्रमम् ॥
ओंकारमध्य देशे तु जालाख्यं दक्षिणेन तु ।
पूर्णपीठं स्थितं वामे अग्रे श्रीकामरूपकम् ॥
रकारं च मिकारं च पंचप्रणवसंयुत(पुट)म् ।
मध्यस्थं पूजयेद्देवि ओंकार त्रयसंस्थितम् ॥
ओंकारवर्णसंयुक्तं पंचप्रणवसंपुटं ।
पूजितव्यं प्रयत्नेन पीठे जालन्धरेषु च ॥
प्. २८ब्)
चकारं च षकारं च देवी देवादि संस्थिता ।
पूर्णपीठस्य मध्यस्थं पूजितव्यं प्रयत्नतः ॥
उकारं देवि पूर्वस्य चकारं सिद्धिपूर्वकम् ।
अग्रे पीठे महादेवि पूजयेत् प्रणवसंपुटं ॥
एतत् पीठचतुष्कं तु शक्तिकोणे प्रपूजयेत् ।
पंचरत्नानि मध्ये तु यदुक्तं न्यास मे पुरा (यदुक्तं ते मया पुरा) ॥
विकारं प्रथमं पूज्य अकारन्तदन्तरम् ।
मकारं च तृतीयं च स्वाकारं च चतुर्थकम् ॥
आकारं पंचकस्थं च पुनस्तत् षष्ठमेव च ।
रुद्रशक्तिषु मध्यस्थं सृष्टियोगेन पूजयेत् ॥
ज्ञान षट्कमिदं शुद्धं चतुष्कं च अतः शृणु ।
आकारे सिद्धनाथं च स्वाकारं द्वितीयकम् ॥
तृतीयं चक्र कारेण मकारेण चतुर्थकम् ।
आदि सिद्धाश्च चत्वारि पीठस्थाने प्रपूजयेत् ॥
देव्यापंचकमध्यस्थं कुलमार्गे व्यवस्थितम् ।
माकारे प्रथमा देव्या सकारेण द्वितीयका ॥
तृतीया च ऊकारेण चतुर्थी च च पूर्विका ।
कुकारे पंचमा देव्या संस्थिता वरवर्णिनि ॥
एते महल्लि(हात्मि)का पंचमध्यस्थं पूजनं कुरु ।
आकारं च अकारे च उकारं च तृतीयकं ॥
रुद्रस्य शिखे स्थाने त्रिकं चैव प्रपूजयेत् ।
चतुष्कं पंचकं षट्कं चतुष्कं पञ्चकं त्रिकम् ॥
षट्प्रकारमिदं देवि उक्तं सङ्केतकेन तु ।
सप्तविंशति भेदानि स बाह्याभ्यन्तरेषु च ॥
कुलदीक्षाभिषिक्तेन ज्ञातव्यं कुलयोगिभिः ।
अस्योर्द्धे पूजयेद् देवि गुरुपङ्क्तिः क्रमेण तु ॥
प्. २९अ) तस्याग्रे कुलवृक्षाणं त्रयमेकत्रपूजयेत् ।
कदाहं वामकर्णे तु करज्जं दक्षिणे तथा ॥
कदम्बं नासिकाग्रे च वृक्ष त्रयमुदाहृतम् ।
आनन्दस्तु विसर्गान्तः कादिठान्तस्तथा विलः ॥
डादिहान्तः प्रभुर्ज्ञेयो योगी सलाज्ञादि लान्तकः ।
कादिक्षान्तस्तथा तीतः पादः स्मादक्ष वर्णकः ॥
आनन्दश्चा बलिश्चैव प्रभुर्योगी तथैव च ।
अती तश्चैव पादश्च षट्प्रकाराणि पूजयेत् ॥
प्रभालोका ललिता उत्पला प्रतिमा शंखासिंद्या ।
शिवामन्मथा सद्या पुरुषा शांत्या(मर्त्या)भैरवा ॥
रक्ता सर्वापुष्पा कमला खख(पद्मा)गागगणाघोरा ।
एक चर्या संपूर्णा सूर्या खड्गा देवा अश्वा चन्द्रा ॥
पूर्णा डमरुका विनया आत्मा तत्वास्थविरा धनुषा ।
पादा पवना शब्दा ब्रह्मा भावा योगा स्वगा रक्ता ॥
तेजा आत्मना उत्पला भुवना कुला संक्षेपा पिशाचा ।
एतानि सिद्धनामानि षड्विधानि भवन्ति च ॥
मातृकाक्षरयोगेन आदि भूतानिकारयेत् ।
पूर्वं वर्णं समुद्धृत्य अन्ते आनन्दसंस्थितम् ॥
षड्विधस्थान भेदेन पूजितव्यं प्रयत्नतः ।
विशुद्ध षोडशैर्भेदैः कण्ठस्थाने प्रपूजयेत् ॥
अकारादि विसर्गान्तं पूजितव्यं प्रयत्नतः ।
अत्रमध्यगतं वर्णं यस्य नामस्य पूर्वकं ॥
सोपि नामा भवेत् तस्य कौलिकस्य वरानने ।
ते नैव ध्यान योगेन सिद्ध्यते नात्रसंशयः ॥
पुनस्तं हृदिमध्ये तु द्वादशारमनाहतम् ।
कंठमध्यगतं विद्यादत्रमध्ये समुद्भवम् ॥
नामवर्णादि योगेन योगिनस्तु न संशयः ।
सिद्ध्यते नात्रसंदेह अस्यान्यासरतः सदा ॥
प्. २९ब्)
नाभिमध्यगतं देवि उरुमध्ये व्यवस्थितम् ।
दशभिस्तु मणिर्बिन्नं स्वाधिस्थानं षडात्मकम् ॥
वल(पर)मध्यगतं विद्याल्लिङ्गस्थाने प्रपूजयेत् ।
वलमध्यगतं देवि आधारे वर्णसंस्थितं ॥
पूजितव्यं प्रयत्नेन तत्र सिद्धचतुष्टयम् ।
आज्ञा स्थाने पुनर्देवि भ्रूमध्ये अक्षरद्वयं ॥
द्वौ सिद्धौ पूजयेन् देवि आज्ञासिद्धिप्रदायकौ ।
यस्य चक्रस्य(सिद्धय)द्वर्णनामपूर्वे व्यवस्थितम् ॥
अन्ते आनन्दयोगेन तन्नामं तस्य कीर्त्तितम् ।
या यस्य स्थ(नु)कुलं चक्रं नामभेदेनसंस्थितम् ॥
तस्य ध्यानप्रयोगेन सिद्धतेनात्रसंशयः ।
यावत् स्वकुलनामं च न ज्ञानं कुलचिन्तकैः ॥
तावन्ते दर्शने बाह्या न पूजा नैव पूजकाः ।
सम्पूज्य(र्ण)मण्डलस्थं चक्रमं संपूज्ययत्नतः ॥
तमहंसंप्रवक्ष्यामि मण्डलस्य यथाविधि ।
कुंकुमैश्चन्दने नैव रक्ते न अलिनापि वा ॥
घृतं च पयः पानीयंमधुलाक्षारसेन वा ।
गोरोचना च कर्पूरं पंचामृतमथापि वा ॥
सिन्दूरमथपिष्टेन अथवा भस्मशोभनं ।
विष्णुनां गोमये नैव यथालाभेन कारयेत् ॥
मणिरत्नमये पीठे सूर्यसोमान्त(भ)संभवे ।
स्फटिके नृपावर्त्ते का च पीठे सुशोभने ॥
विषाणेकरिसंभूते कांचने राजतेपि वा ।
ताम्रपीठेथवाद्योषे श्रीखण्डे चन्दनोद्भवे ॥
रक्तचंदनपीठे वा अशोकमधुकोद्भवे ।
पट्टे पाषाणमध्यस्थे मृत्पीठे भूतलेपि वा ॥
प्. ३०अ)
पीठचतुष्कमध्यस्थं पाणिमानेनमण्डलं ।
कर्त्तव्यं वामहस्तेन मेखलात्रयसंयुतम् ॥
तत्रमध्यगतं कूर्यात् षट्चक्रं शोभनं प्रिये ।
शिवशक्तिकलैर्युक्तं पूर्वोक्तं यादृशं मया ॥
तत्र मध्ये षडा(व्रता)रं च सिद्धपीठचतुष्टयम् ।
सप्तविंशतिभेदैश्च पूजितव्यं प्रयत्नतः ॥
जातीपुष्पकदंवैश्च पारिजातकपाटलैः ।
सपत्रैः कुन्दकैर्विल्वैः र्मरुकवीरैश्च यूथिकैः ॥
मल्लिकारक्तपद्मानि र?कपुष्पोत्पलानि च ।
सुगन्धीन्यपि पुष्पाणि केशरः कुंकुमस्य च ॥
कर्त्तव्यं साधकेन्द्रेण यथालाभेन पूजनम् ।
धूपंदीपं च नैवेद्यं तर्पणं चासवेन तु ॥
फल्गुषं त्रिविधं दद्यादन्ते जापं समारभेत् ।
द्वात्रिंशदक्षरी देव्याः पंचप्रणवसंपुटा ॥
सहस्रञ्च सहस्रार्द्धं शतार्द्धार्द्धार्द्धमेव च ।
मुद्राबन्धं परं कृत्वा प्रणिपत्यनिवेदयेत् ॥
एकांगं चैव पंचांगमष्टांगं सर्वमेव वा ।
नमस्कारं प्रकुर्वीत चरुकं प्रासनं कुरु ॥
फल्गुषं दीपनैवेद्यं आसवं पुरतः स्थितम् ।
प्रासितव्यं प्रयत्नेन प्रणिपत्यविसर्ज्जयेत् ॥
षोढान्यासमिदंशुद्धं क्रमेणसहितं यथा ।
आख्यातं देवदेवेशि पारंपर्यक्रमागतम् ॥
यः करोति इदं न्यासं त्रिकालं च दिवानिशि ।
भूतप्रेतपिशाचानि(श्च)यक्षकुष्माण्डराक्षसाः ॥
पश्यंति पावकं रूपं ये चान्ये हिंसकाः प्रिये ।
सतताभ्यासयोगेन षण्मासेनवरानने ॥
प्. ३०ब्)
दहते सर्वपापानि ब्रह्महत्यादि यानि च ।
पुनरन्यप्र(नि)वक्ष्यामि कुलपर्वाणि यानि च ॥
षष्ठी भाद्रपदे मासे कृष्णाश्विनि चतुर्दशी ।
कार्त्तिकेनवमीशुक्लामार्गेकृष्णाचतुर्दशी ॥
पौषे च पूर्णिमा देवि माघेवरचतुर्थिका ।
फाल्गुनेनवमीशुक्ला चैत्रेकामं त्रयोदशी ॥
वैशाखे च तृतीया च ज्येष्ठे च दशमीसिता ।
आषाठैकादशीशुक्ला अमावास्या च श्रावणे ॥
विज्ञेयारण्यषष्ठी च पंचमी दक्षिणायणे ।
दीपोत्सवं रजोत्सर्गं कर्त्तव्यं चोत्तरायणे ॥
एतानि देव पूर्वाणि कथिता वीरवन्दिते ।
यः पर्व पू(ज)येन्नित्यं विशुद्धेनान्तरात्मना ॥
अब्दैर्द्वादशभिर्द्देवि खेचरैः सहमोदते ।
अनेनैव विधानेन क्रमपूजां सदाकुरु ॥
शरीरस्थं पुनर्देवि पूजितव्यं प्रयत्नतः ।
सिध्यते नात्रसन्देहो भावयुक्तो पदा भवत् ॥
वांछन्ते यस्य देवाव(स्त) चरणपु(मा)राधनं भ्क्तिमन्तः
संसारछेदहेतोर्नियतिवसुगताः । पुण्यपापैर्विमुक्ताः ॥
निर्वाणं येन नीतं क्षणहृतकलुसं चन्द्रसूर्याभिषिक्तं तं वन्दे(देव)
आदिनाथं विमलपदगतं नित्यमेवं नमामि
यो सौ सिद्धा च याद्यः सुरवरनमितो योगिभिर्वन्द्यमानभ्यत्का श्री
उड्डियाणं विविधगुणगणालं कृतं दिव्यवृन्दैः ॥
कृत्वाख्याति महोच्चैस्सुरवरभुवने योगिवृन्दस्य मध्ये तस्याहं
पादयुग्मं स्तुतिशरणगतो नित्यमेवं नमामि
येन व्याप्तं च(श्व) पीठं गिरिवरशिखरालं कृतं गह्वरैश्च
श्रीमज्जालन्धराख्यं विजितगुणनिधिं योगीनेन्द्रेण
(कृतगुणनिधिनायोगिनायेन नित्यम्) देवं(वन्द्यं) ॥
प्. ३१अ)
गत्वा पातालमूले विषधरविविधा मर्दिता येन दैत्या ।
तं श्रीखेचक्रनाथं(श्चक्रीशस्पार्थसिद्ध्य)प्रणम सततं
पातुमां(श्रद्धया)पादयुगमं
यः श्रीनाम्ना कुरङ्गी शिवभुवनगतैः क्रीडते कामभोगैगं त्यक्त्वा
श्रीपूर्णपीठं बहुललितपदैश्च चर्च्चितं दिव्य वृन्दैः ॥
भुक्त्वादीपानशेषा नमरगुणगणालंकृते दिव्यवृन्दैस्तस्याहं
पादयुग्मं यु(स्तु)तिशरणगतो नित्यमेवं नमामि
त्यक्त्वा श्रीकामरूपं निशिनिशिभवने योगिनी प्रार्थ्यमानो गत्वा
कैलासदिव्यं(पीठं) सुरवरशिखरे तोषितो येन श(म्भुः) ॥
लङ्कायान्तत्क्षणार्द्धे पुनरपि च गतो लङ्कनाथाभिषिक्तः
श्रीमातलङ्कनाथः सुरयुवति गणैरर्च्चितं पाद(नु)युग्मं
कृत्यानेकाधिकारं विविधजनबुधा(पद्य)मर्दिता येन सिद्धा
नानातीव्रैस्त्रवेधैः सुरवरभवने योजिता येन सत्वाः ॥
तीव्राज्ञाभुक्तभोगान् भ्रमणमति कृतः क्षेत्रपीठेपपीठैः वज्रस्फोटं
कृतात्यं प्रणमतसततं पंचमं चर्यनाथं
नाम्ना यो वज्र बोधेर्व्रतचरणरतोराधितो येन रुद्रकृत्वा विद्याव्रतं यः
सुरवरभवने शक्तिखट्वांग मुद्रं ।
कृत्वा तत्राधिकारं सुरवरगुरूणा सोभिषिक्तः प्रयत्ना देवं
सद्योगिनेन्द्रं सकलगुणनिधिः पातुमां षष्ठनाथः
एवं सिद्धान्वये या सकलगुणनिधि मन्त्रमार्गे प्रसिद्धा स्वर्गे ब्रह्मादि
देषैः? क्रमचरणरतैर्मत्यलोके मुनीन्द्रैः ।
पाताले चान्तरीक्षे विषधरविविधैरर्च्यमानः समस्तैस्तत्रस्थैर्देवदिव्यै
स्तवचरणगतः कुन्नमामि
इत्येतैरष्टभिर्वृत्तैस्त्रिवारं स्तौति यः स्वयं तस्य देव्या
प्रसादेनसिद्धाज्ञा संप्रवर्तते ।
नश्यन्ति विघ्नसंघाता दिव्यजानोदयो भवेत् ।
हृत्पद्मस्थ मनन्तपीठनिलयं बिन्दु त्रिमात्रान्वितं तेजो
मण्डलमध्यमं प्रविलसद्दिव्याङ्गनालं कृतं ॥
ओंकाराख्यमनेकसिद्धनिकरैः संसेव्यमानं जगत् ।
ख्यातं नित्यमहं नमामि विपुलं तद्भुक्तिमुक्ति प्रदं
ज्ञानाग्नि ज्वालदीपं सकलमलहरं नाभिमध्ये स्थ(प्र)संस्थं
दिग्नागा वेष्टितं च त्रिभुवनभुवनं दक्षवामोर्द्धमध्यं ।
तत्स्थानं ज्ञानरूपं रमति परकला नेत्रचंद्रार्द्ध युक्तं
तछ्रीजालन्धराख्यं विषमसमपदं दिव्यपीठन्नमस्ते
स्वाधिष्ठानोर्द्धवासं सकलगुणमयं
पिण्डमध्येस्थ(प्र)संस्थंसंपूर्णपूरयन्तं
तरलतडिभंशोधयन्तं सुशुधं ॥
कंदे कुब्जाष्ट(स्व)रूपा तदुपरिभुवनं मध्यग्रन्थि प्रभिन्नं
त्रिष्कोणं तत्प्रदेशं रविंशशि निरयं पूर्णपीठन्नमस्ते
उत्पन्नं यत्र पिण्डं सकलगुणमयं भूतसंघात विश्वं
त्रैगुण्याकाशलिंगं युगकुटिलगतं बुन्दुयंत्रावतारं ॥
ब्रह्माकालस्य मध्यो क्रु?रतिमणिरिवयोगिभिस्तं स्वपक्षं सिद्धं
सिधावतारं त्रिभुवननमितं कामरूपं नमस्ते(नमामि)
प्. ३२अ)
उक्तानि पीठसूत्राणि चत्वारि वरवर्णिनि ।
ज्ञातव्यं चक्रभेदेन शरीरस्थं सुसिद्धिदं ॥
अधुनासंप्रवक्स्यामि त्रिखण्डा यादृशो भवेत् ।
पूजितव्या प्रयत्नेन सर्वसिद्धिफलप्रदा ॥
ःमनमो नरायणागतृमामो न फ्र्ंलिरुभुलिरुभुफ्रें रिभुरिभु ॥
फ्रें रि हे रि हे ॥ फ्रें तिवजीसंनिवजीसं ॥ फ्रें णि भक्षोणि भक्षो ॥
फ्रें णिस्राणि रमा ॥ फ्रेंणिवद्राविणि वड्रावि ॥ फ्रें णिमभ्राणि मभ्रा ॥
फ्रें निसत्रानि सत्रा ॥ फ्रें रिभिरिभि ॥ फ्रें रिविरिवि ॥ फ्रें टत्रु टत्रु ॥
फ्रें दनु दनु ॥ फ्रें नां नीर्त्तव रिपस्रहसपरूक्यलोत्रै यामा ॥
फ्रें त्यनृ त्यनृ ॥ फ्रें सह सह ॥ फ्रें राद राद ॥
फ्रें ये प्रिवसरासुतणिशोसमां ॥ फ्रें द्धेक्रु द्धेक्रु ॥ फ्रें ष्ट्रंदं तकृ
वि २ ॥ फ्रें वेभ्रु लङ्गपि फ्रें क्षिकारता फ्रें हूं ज्जिद्तुवि फ्रें खेशितंलिज्व
फ्रें शेकेर्र्द्ध-ऊ फ्रें ण्डेमुचा ॥ फ्रें ह्स्रां फ्रें श्रीं ह्रीं ऐं ऐं ह्रीं श्रीं
फ्रें ह्स्रौं ःमनच्चेविनिश-ई ण्डेमुचा ःमनच्चे विणिन्द्रा इण्डेमुचा
ःमन च्चेवि रिश्वगेयो ण्डेमुचा ःमन च्चेवि हिरावाण्डेमुचा ःमन च्चेवि
विष्णवै ण्डेमुचा ःमनच्चे विरिमाकौण्डेमुचा ःमनच्चे विरिश्व हेमा
ण्डेमुचा ःमन च्चेवि णिह्माब्र ण्डेमुचा । थाद्यत । फ्रें भंशु नं
चवणांतॄ मा फ्रें रंक ष्टिप्र फ्रें रंकद्धि
प्. ३२ब्)
ऋ फ्रें रंकद्धिसि फ्रें रंक दच्छेर्म्मकरप फ्रें यंदहृ ह्यगु तृमार्वस
फ्रें नांनीर्तवरिप र्मकस्तम मसनलन्मूनोदच्छ्राणोरकशीवत्वसर्वस
फ्रें नांनीर्त्तवरिपपरूस्वस्व फ्रें नांतीगतहति प्रत्रार्वस फ्रें
णांरीमराज-अ फ्रें नांकीधसार्थमाकार्वस फ्रें नांनीमिगाशका
आमन फ्रें ण्डेमुचा ःमन ॥ फ्रें यद्रारु तेवगभ मोन ओं फ्रें ॥
अस्या विद्यादि अन्ते च अन्तं पूर्वं व्यवस्थितम् ।
ज्ञातव्यं पदभेदेन विलोमेन यथाभवेत् ॥
समयाचारहीनस्य प्रमदा लंघने कृते ।
अज्ञानादथवा मोहात् सर्वपापप्रमोचनी ॥
क्रमपूजावसाने च जप्तव्या परमेश्वरी ।
श्रीभैरव उवाच
योगविप्लवकानां च हास्यं कुर्वन्ति ये नराः ।
योगिनी समयचक्राणि(योक्तानि) व्रतचर्याणि यानि च ॥
वीरमेलापकं मंत्र मागमं शिवभाषितम् ।
दूषयन्ति दुराचारा विघ्नं कुर्वन्ति ये सदा ॥
निग्रहंते प्रवक्ष्यामि षड्विधं च यथा बह्वेत् ।
मातृणां च ऋतु स्थाने दारुबीजं व्यवस्थितम् ॥
उद्धृत्य षड्विधन्देवि सर्वबिन्दु युतं कुरु ।
अनन्ते न समायुक्तं पूर्ववर्णं च कारयेत् ॥
मालिनी जिह्वसंयुक्तं द्वितीयं वीरवन्दिते ।
ध्रुवान्तस्थं तृतीयं च भूतीशेन चतुर्थकम् ॥
खे(क्षे)अन्ते पंचमं योज्य षष्टं लोकान्तसंस्थितम् ।
पंचप्रणवपूर्वस्थं मन्त्ररत्नं शिरोद्भवं ॥
प्. ३३अ)
प्रणवञ्च तृतीयं च बिन्दूहीनं समालिखेत् ।
एतानि नवबीजानि विशुद्धं परतः स्थितम् ॥
तस्यान्ते डाकिनीनाम गृहत्वचंपुनः ।
स्वाहान्तं पूजयेद् देवि विंशवर्णा त्रयोधिकाः ॥
मालिनीशूलदण्डं च नवके पूर्वसम्स्थितम् ।
षड्विधं तं विजानीयाद् यादृशं पूर्वसंस्थितम् ॥
रि (स) अन्तं बिन्दुसंयुक्तं स्थापितं कुरुयत्नतः ।
अन्ते रत्नं द्वितीयं तु लक्ष्मीबीजन्तदग्रतः ॥
अनाहृतं समुच्चार्य राक्षशी तदनन्तरं ।
तस्यान्ते रक्तवर्णानि शोषयेति पुनः पुनः ॥
स्वाहान्तं योजयेद् देवि द्वितीयं नात्रसंशयः ।
नवके च तृतीये च पिनाकी भैरवः स्थितः ॥
भेदितं षट्प्रकारेण यथापूर्वन्ततैव हि ।
तृतीयरत्नयोगेन पूर्वं पूर्वेणसंयुतम् ॥
उद्धारं देवि कुर्वीत तदन्तं मणिपूरकं ।
तस्यान्ते लाकिनीमांसं गृह्णगृह्णेति पठ्यते ॥
स्वाहान्तं पूजनं कुर्यान्नाभिस्थं योगिनीं विदुः(कुरु) ।
संवकं वर्णमुद्धृत्य षट्प्रकारेण पूर्ववत् ॥
सप्तान्ते रत्नसंयुक्तं चतुर्थेन वरानने ।
पुनस्तं पूर्वबीजं च रत्नान्ते च नियोजयेत् ॥
स्वाधिष्ठानं तदग्रे तु शाकिनीनामसंयुतम् ।
शंकारूपेन इत्युक्तं गृह्णगृह्णेति पयते ॥
स्नान्यु स्वाहान्तसंयुक्तं पूजितव्यं प्रयत्नतः ।
शिखरस्थं भुजे वामे मालिनी वर्णमारूतम् ॥
सड्विधं तं विजानीयाद् यथा पूर्वं व्यवस्थितम् ।
अष्टमं पञ्चमं रत्नं नवमं पूर्ववत् प्रिये ॥
प्. ३३ब्)
आधार यक्षिणी नामतस्यान्ते संस्थितं कुरु ।
जृंभये इति (यद्भवन्ति च) वर्णानि द्विस्थाने संस्थितानि च ॥
अ(स्व)स्तिस्वाहान्त योगेन पूजनं पंचमस्य च ।
क्रोधभैरवमुद्धृत्य आदि एकादशे स्थितम् ॥
पूर्वैः स्वरप्रयोगेन षडेते भेदितानि च(स्तथा) ।
माया बीजान्तयुक्तेन पूर्वबीजं तदग्रतः ॥
त(प)स्यान्ते काकिणी देवी आज्ञापूर्वं समुद्धरेत् ।
तस्यान्ते क्रव्यमा मंत्रासंहरेति पदद्वयं ॥
गुदं स्वाहान्तयोगेन पूजनं षष्ट कस्य च ।
निग्रहे षट्कमित्युक्तं त्रैलोक्यनिग्रहे क्षणात् ॥
साधितवं बिधानेन सद्यः प्रत्ययकारकम् ।
एकैकस्या युतं जाप्यं कर्त्तव्यं वरवर्णिनि ॥
होमं चैव दशांशेन योगस्य संग्रहे स्थितम् ।
प्रथमस्य त्वचं कुर्यात् पौरुषं घृतमिश्रितम् ॥
नृरक्तं घृतयोगेन द्वितीयस्य वरानने ।
महामांसघृतं कुर्यात् देयं देवि तृतीयके ॥
चतुर्थं स्नायुं होमं च घृतेन सहसंयुतम् ।
हुतं देवि सहस्रैकं पंचमं चास्थिसंभवम् ॥
तच्चूर्णं घृतसंयुक्तं अग्निकुण्डे तु होमयेत् ।
अयुतस्य दशांशेन मज्ज(ह्य)होमं तदग्रतः ॥
षड्विधं च इदं होमं कुर्वीतवरवर्णिनि ।
सिद्धं चैव विजानीयात् पश्चात् कन्यां प्रपूजयेत् ॥
सिंदूरं रक्तवस्त्राणि कुंकुमं कज्जलान्वितं ।
तिलकं पुष्पधूपञ्च आसनं विविधं प्रिये ॥
मत्स्यमांसविचित्राणि षड्रसंभोजनं शुभं ।
तृप्तिं कुर्वीत यत्नेन दक्षिणां च समर्प्ययेत् ॥
प्. ३४अ)
नमस्कारं प्रकुर्वीत प्रार्थितव्यं प्रयत्नतः ।
यत्मया साधितं कार्यं तस्याज्ञा मुक्ति मे भवेत् ॥
अनेनैव विधानेन निग्रहं साधितं यथा ।
मनसाकुरुते योगी निग्रहं यस्य कस्यचित् ॥
एकं दशशतं चैव सहस्रैकमथापि वा ।
मारयेन्नात्रसंदेहः संक्रुद्धेनान्तरात्मना ॥
अथवा भूपतेश्चैव निग्रहं कर्तुमिच्छति ।
विधानन्तस्य वक्ष्यामि येना सौ म्रियते ध्रुवं ॥
प्रेतकेशनिवस्त्रं च चूर्णं कृत्वा चिताग्निना ।
सादितं नररक्तेन निशार्द्धे मण्डलं कुरु ॥
कृष्णाष्टम्यां चतुर्दश्यां सष्ट्चक्रं तस्य मध्यतः ।
पूजयेत् षट्क योगेन दक्षिणाभि मुखः स्थितः ॥
दक्षिणावर्त्त योगेन एकैकामुत्तरेण तु ।
देवदत्तस्य नामं तु मध्यस्थं कुरु यत्नतः ॥
चिन्तितं साधकेन्द्रेण जीवहीनं सुविह्वलं ।
अमुकं च मयादत्तं गृह्णगृहेति कथ्यते ॥
षट्सप्तमदिने पूर्णे म्रियते नात्रसंशयः ।
मारणि भूपतीनां च विधानं समुदाहृतम् ॥
विघ्नन्नैवप्रकुर्वंन्ति आश्रमं पालयन्ति ये ।
दर्शनानां च सर्वेषां भक्तिं कुर्वन्ति ये सदा ॥
इदं तस्य न युंजीत लुब्धे नैव कदाचन ।
आज्ञाहानिः परत्रञ्च नरपतेनात्रसंशयः ॥
तस्मात् सर्वप्रयत्नेन क्षुद्रे क्षुद्रं नियोजयेत् ।
जिघांसन्तं जिघांसीयान्नन्तेन ब्रह्महा भवेत् ॥
निग्रहं च समाख्यातं न देयं यस्य कस्यचित् ।
ब्राह्मणेषु कुमारिषु तथा वै लिङ्गधारिणे ॥
प्. ३४ब्)
निग्रहन्नैव कर्त्तव्यं अपराधशतैरपि ।
इति पारमेशवरीमते क्रमपूजाधिकारे निग्रहे द्वात्रिंशतिमः पटलः ॥
देव्युवाच
श्रुतं नाथमयासर्वं पारंपर्यं सुनिश्चितम् ।
षोढान्यासेनसंयुक्तं निग्रहानुग्रहे यथा ॥
अद्यापि संशयो स्माकं वर्त्तते हृदि मध्यतः ।
त्वया पूर्वं समाख्यातं निर्वाणपदमुत्तमम् ॥
मुद्रामन्त्रविहीनञ्च व्रतचर्याविवर्ज्जितम् ।
पारंपर्यक्रमं दिव्यं शरीरस्थं वदस्वमे ॥
कथं जीवः समुत्पन्नो भूतानां चैव लक्षणं ।
कःकालोग्रसते तस्य कस्मिन् काले व्यवस्थित ॥
दिनंदिनार्द्धमित्याहुस्त्रीणिपंचाष्टमेषु च ।
पक्षे मासं च षण्मासमब्दै कस्य च लक्षणं ॥
चिह्नानि वद देवेश अपमृत्युर्यथा भवेत् ।
दिनसंख्यादि नैकेन संक्रान्तिषु यथा भवेत् ॥
विषुवंग्रहयोगानि राशिनक्षत्रयानि च(लक्षणम्) ।
ग्रहणं चन्द्रसूर्याणां चक्रभेदं वदस्व मे ॥
श्रीभैरव उवाच
यो सौ अचिंत्यमित्याहुः शिवः परमकारणः ।
तस्येच्छा निर्गताशक्तिः प्रसुप्तभुजगोपमा ॥
तडित्पुंजसहस्राभा सहस्रकिरणोज्ज्वला ।
हृदये क्षिप्यसामाया वेद(देवि)सिद्धान्तमातृका ॥
सुप्तावस्था गता सा तु(सूक्ष्मा) गुर्वाज्ञायाः प्रबोधने ।
उत्पन्ना तत्र मध्ये तु त्रिता(वि)द्यास्त्रीणि देवताः ॥
ब्रह्माविष्णुस्तथारुद्रस्त्रिगुणं भुवनान्तरे ।
प्. ३५अ) त्रिरंशकमिदं पिण्डं त्रिषण्डे आयुसंस्थितम् ॥
अंशकास्त्रीणि कालस्य भुंजते च पृथक् पृथक् ।
ब्रह्मांशं विष्णुरशं च रुद्रांशं त्रिविधपुमान् ॥
त्रयस्त्रिंशति वर्षास्तुते त्रिभागा व्यवस्थिताः ।
प्रजापतिश्चरेद्वायुः प्रविष्टो भूतपंजरे ॥
यावद्ब्रह्मा शरीरस्थः कालरूपेण भुंजति ।
तावद्ब्रह्मादि योगेन ज्ञातव्यं काललक्षणं ॥
यदा वास्तमने ब्रह्मा उदयं कुरुते हरिः ।
चलते कालरूपेण सृष्टिरुद्रस्य मध्यतः ॥
तेनापि विष्णुयोगेन ज्ञानस्य वंचनं भवेत् ।
गतो ब्रह्मा गतो विष्णुः सृष्टिभोगाः क्षयं गताः ॥
भक्षितास्ते वरारोहे गर्भे रुद्रस्य संस्थिताः ।
यदा तु दयते रुद्रस्तृतीयावस्थसंस्थित ॥
तदा रुद्रस्य योगेन कालचिह्नानि पश्यति ।
यदाकालगतं शेषं सृष्टिरूपं महेश्वरः ॥
स तत्र दृश्यते किंचित् पानीयं कर्दमे पि वा ।
संहृत्यसर्वरुद्रेण जीर्णं कन्दं कृतं यदा ॥
निस्तेजञ्च भवेन्नालं पद्मस्य पतनं भवेत् ।
यदा बिंदुं महापद्मं स नालं कन्दशेखरं ॥
तदा बिन्दुं विजानीयादस्थि अभ्यन्तरे स्थितम् ।
आज्य(अज)मज्जालयं स्नायुं मांसंरक्तन्तथा त्वचं ॥
षट्धातुं विध्यते रुद्रः पच्यते रोमसंकुलं ।
शब्दहीनौ तदाकर्णौ घ्राणहीना च नासिका ॥
ज्योतिर्हीनाभवेदृष्टि रसहीनासरस्वती ।
कंपते च महामेरुर्वृषणो मूलवर्जितः ॥
प्. ३५ब्)
संजीर्णेन च ते(अजीर्णं भवति) स्तंभं यदा रुद्रोदयो भवेत् ।
सकलाकालसंयुक्ता विक(का)लाकालविवर्ज्जिता ॥
या कलादर्शयेत् कालं सा कलाकालमेव च ।
लक्षितव्यं प्रयत्नेन सा कलाकालवासिनी ॥
कालस्य वंचनं कुर्याद् यो यस्य अंशके स्थितम् ।
एतानि त्रीणि भेदानि त्रिभिर्देवैः समुद्भवाः ॥
ब्रह्माविष्णुश्च रुद्रश्च ज्ञातव्यं मन्त्रमध्यतः ।
यो यस्य अंशके आयु(प्राप्त)स्तत्तस्य चक्रमध्यतः ॥
पश्यते ज्ञानयोगेन सुसुप्त स्वप्नगेपि वा ।
स्वप्ने वा यदि प्रत्यक्षं समाधिगुणयोगतः ॥
विवर्णां पश्यते छायां अब्दमेकं स जीवति ।
उत्तराभिमुखोभूत्वा पश्यते यदि दक्षिणं ॥
दिङ्मोहं च समाख्यातं सप्तमासं स जीवति ।
शुद्धनिर्म्मलमादित्यं विरश्मिं पश्यते यदा ॥
वर्षद्वयं मनुष्याणां मृत्युरात्मनि विंदति ।
(अरुन्धतीं ध्रुवं चैव सोमच्छाया महाख्यातं सप्तमासं स जीवति ॥
शुद्धनिर्म्मलमादित्यं विरश्मिं पश्यते यदावर्षद्वयं मनुष्याणां
मृत्युरात्मनिविंदति ॥)
अरुन्धतीं ध्रूवं चैव सोमच्छाया महापथं ॥
यो न पश्यति देवेशि अहधिकन्न जीवति ।
मध्ये चंद्रं स च्छिद्रं च अधोभागेन पश्यति ॥
जानीयाद्वत्सरैकेन तस्य मृत्युर्न्नसंशयः ।
भग्नशाखाद्रुमं चैव गन्धर्वनगरन्तथा ॥
पश्येत्प्रेतपिशाचानि दशमासंसजीवति ॥
प्. ३६अ)
यस्य वैस्रातमात्रस्य हृदि पादौ च शुष्यते ।
धूमो वा मस्तके नास्ति सप्तमासं स जीवति ॥
अग्रतः पृष्ठतो वापि खण्डं यस्य पदं भवेत् ।
पांसौ च कर्दमे वापि सप्तमासं स जीवति ॥
रक्तमाल्यानु लेपानि रक्तकृष्णानि वाससी ।
लभते स्वप्नयोगेन षण्मासानि स जीवति ॥
परासरस्य कालस्य तत्वज्ञानं वदाम्यहम् ।
लेखन्यादि प्रयोगेन विधियोगेन भावयेत् ॥
मार्गशिषस्य मासस्य कृष्णा च पंचमी पया॥
संचा(हा)रं ज्ञानयोगेन(गं च) रात्रौ जागरणं यजेत् ॥
आहरेन्निर्व्रणं भूर्ज्जे रोचना सृक्त कुंकुमम् ।
लिखेत्पूर्वमुखोभूत्वा द्वादशा अक्षराः शुभाः ॥
मात्राबिन्दुसमायुक्ता दर्शयित्वा पुनः पुनः ।
संवृत्यशुक्लसूत्रेण जप विद्यां समालभे(लिखे)त् ॥
सितचन्दननैवेद्यैर्ज्जातीपुष्पैर्म्मनोरमैः ।
पूजयित्वाक्रमाम्नायं वामाद्यामन्त्रसंयुतम् ॥
शरावपुटमध्यस्थं जातीकुसुममध्यगं ।
स्थापयित्वा जपेन्मन्त्रं यावद्रात्रिक्षयं गता ॥
विमले सुप्रभाते च क्रमं संपूज्य यत्नतः ।
कुमारीं च ततः पूज्य विद्यालद्धामतः शृणु ॥
ह्रीं ह्रूं स्व्लें महापतये रक्षरक्ष मां अमृतोद्भवे ।
ह्रीं ह्रूं स्व्लें विच्चे संपुटित्वा जपेन्मन्त्रं देव्याः क्षोभं जपेन तु ॥
कथ्यते नात्रसंदेहः शुभं वा शुभमेव वा ।
न च क्षुभ्यति सा देव्या जप्तविद्या च संपुटा(सांप्रतम्) ॥
प्. ३६ब्)
दर्शयन्ति महाहानिं भ्रष्टोसौ योगिनी कुले ।
एवं कृत्वा यदा पश्येद् भूर्जस्थानेक्षण्भु? शुभात् ॥
वाचा पयन्निरूपेच्च समानिविषमानि च ।
अक्षरोप्यधिको यत्र तत्र राज्यं विधियते ॥
मात्रायाभ्यधिके(धिकेलभेल्)लाभं समे आरोग्यवत्सलं ।
बिन्दुहीनं यदापश्येत् तदाहानिं विनिर्दिशेत् ॥
मात्राहीने भवेद्व्याधिर्मृत्युः स्यादक्षरं विना ।
वामादि क्रमयोगेन पूजयेदुपदेशतः ॥
शुष्कतालुक-ओष्ठं च अकस्माद्धूसाच्छवि ।
शुष्क च(भ?)भग्नमायाति षण्मासं तस्य जीवितं ॥
सुनीलं मण्डलं व्योम्नि पश्यते च दिने दिने ।
शितं हरितकृष्णं च वत्सरांर्द्ध स जीवति ॥
आत्मीयामशिरां छायां तथा कृष्णाश्च तारकाः ।
यदा पश्यति देवेशि ऋतुमेकं स जीवति ॥
तैलाभ्यङ्गन्तथा पानं रक्तं चैव विलेपनं ।
रक्तांवराणि कृष्णानि स्वप्ने च पश्यते यदा ॥
राक्षसैर्भूतवेतालैः श्वानशूकरगर्दभैः ।
गृध्रैकं कैरुलूकैश्च महिषैरुष्ट्रमेव च ॥
यदा पश्यति चात्मानमेभि परिवृत्तो नरः ।
स्वप्ने च पश्यते यो वै अब्दमेकं स जीवति ॥
शंखावर्त्ते ध्रूवोर्म्मध्ये गुल्फेषु मर्म संश्रु?षु ।
यो न जानाति तत्त्वज्ञः स्पंदनं च मुहुर्मुहुः ॥
नेत्राभ्यां करजैः क्रा(जिह्वा)न्तं सोमसूर्यं न पश्यति ।
धूमं च मस्तके नास्ति मासमेकं स जीवति ॥
प्. ३७अ)
तालुमध्यगतं धूमं महाज्ञानं तदुच्यते ।
जिह्वाचारुंधती प्रोक्ता नासाग्रं ध्रुव उच्यते ॥
रसनाशुष्कमायाति हिकका च वहते सदा ।
शुष्यन्ति सर्वगात्राणि ऋतु(या स)मेकं स जीवति ॥
लोहदण्डधरंकृष्णं सन्मुखं पश्यते यदा ।
समाधि स्वप्न योगेन अष्टमासं स जीवति ॥
तारागणं न पश्येत स्थूलकायात्मकं यदा ।
दीपगन्धं न जिघ्राति अब्दमेकं स जीवति ॥
निशिचापं दिवा उल्का अमेघे विद्यु दर्शनं ।
दिग्मोहो दुष्टदेशे च षण्मासान् म्रियते ततः ॥
चक्षुर्भ्यां श्रवते नित्यं न शृणोति अनाहतं ।
दीपगन्धं न गृह्नाति वर्षार्द्धे म्रियते नरः ॥
रक्तपद्मोपमं वक्त्रं जिह्वाकृष्णा च जायते ।
गात्रे वर्णान्यनेकानि मासमेकं स जीवति ॥
बिन्दुं यो हित पश्येत नेत्राभ्यां पुरतः स्थितं ।
तस्य मृत्युं विजानीयात् मासमेकं स जीवति ॥
(बिन्दुयोनि न पश्येत नेत्राभ्यां पुरतः स्थितं ।
तस्य मृत्युं विजानीयात् मासमेकं स जीवति ॥)
शीतलत्वं गतो भानुरुष्णत्वं च निशाकरः ।
ददामृत्युविजानीयादर्द्धमासेनसंशयः ॥ इति ॥
देव्युवाच
या सा विद्या महातेजा कालाग्नि रुद्रसंभवा ।
कालसंकर्षनी नाम सर्वसिद्धि प्रदायिका ॥
तमहं श्रोतुमिछामि प्रसादं कुरु भैरव ।
श्रीभैरव उवाच
शृणु देवि महागुह्या कालसंकर्षणी परा ।
प्. ३७ब्) सिद्ध्यते यत्प्रसादेन त्रैलोक्ये स चराचरं ॥
आदेशं कुरुते कालं मारयेद् रक्षयेद् यथा ।
सर्वसिद्धिकरी ह्येषा कथयामि तव प्रिये ॥
ल(न)कूलीशं महारुद्रं ध्रुवान्तमधःसंस्थितम् ।
नवादि आसनारूढं निषव्यन्तेन भूषितम् ॥
नादबिन्दुशिरेदत्तं प्रथमं अक्षरं विदुः ।
मंदरे भूतपूर्वे तु वामाद्रिमालिनी तु या ॥
नवादि आसनारूढं झण्ठीशेनसमन्वितम् ।
ऌपूर्वेणसमायुक्तं गन्धशिखरभूषितम् ॥
(द्वितीयं बीजमुत्तमम् ॥)???
चामुण्डाहृदयं प्रोक्तं सर्वग्राहकरं परं ।
क्षे पूर्वं तु समुद्धृत्यसावित्री भूषितं कुरु ॥
बिन्दूनादशिवाक्रान्तं नारसिंहं महाबलं ।
मातृमण्डलवर्णं च षष्ठं क्षे अन्तसंयुतम् ॥
सोपि बिन्दुयुतं कुर्याद्बीजं त्रैलोक्यडामरं ।
तद्बीजं तस्य अग्ने तु अनन्तेनविभूषितम् ॥
क्रूरवर्णं शिरे(वे)दत्तं मोहनं पंचंमाक्षरम् ।
एकादशादि संहृत्य(गृह्य)सद्योजातेनसंयुतम् ॥
शूलदण्डासनारूढं अंकुशं बिन्दुसंयुतम् ।
एकादशे चतुर्थे तु केवलं सप्तमं लिखेत् ॥
च पूर्वेण महाकालं रुद्रं सप्तमं भूषितम् ।
तस्य वर्णं चतुर्थं तु शिरसी दापयेद् बुधः ॥
तस्याग्रेच्छान्तवर्णस्तु अंबिका यत्रसंस्थिता ।
रुद्राणा सप्तमं गृह्यविश्वादि भूषितं कुरु ॥
ऋषीणां वेदवर्णञ्च बिन्दुमस्तकभूषितम् ।
मातृ षष्ठे तदग्रे तु ऋण्ष्टीशेनसमन्वितम् ॥
प्. ३८अ)
तस्याग्रे रुद्रपूर्वं तु नवमाला तृतीयकं ।
एकादशे चतुर्थन्तु व्यंजनं तस्य दापयेत् ॥
एकादशादि संगृह्य तस्यान्तमग्रतस्थितम् ।
शूलदण्डं शिरेदत्तं ग्रहमाला तृतीयकम् ॥
विश्वमालादि संभिन्न देवी अष्टदशाक्षरी ।
नमोन्ते जयकाले तु स्वाहान्तं हवने भवेत् ॥
समसमानिवर्णानि न्यासं कुर्यात् तु षड्विधं ।
महाप्रेता सनारुढं भूतमण्डलमध्यगं ॥
जपेदेकाग्र चित्तस्तु कृष्णाष्टम्यां तु सर्वरीम् ।
प्रत्यक्षा भवते देव्या यत्कामं तद्ध्रुवं लभेत् ॥
वेला व्रतेनसंयुक्तः पंचमुद्राधरः शुचि ।
अष्टोत्तरसहस्रन्तु जप्त्वा होमं समर्पयेत् ॥
नृमांसं मदिरा युक्तंः घृतमिश्रं तु गुग्गुलूम् ।
षण्मासात् सिद्धिमाप्नोति सूरसामान्यतां व्रजेत् ॥
कालसंकर्षणी नाम न देया यस्य कस्यचित् ।
कुलमार्गाभिषिक्तस्य पारंपर्यरतस्य च ॥
तस्य देयमिदं ज्ञानमन्यथा नरकं व्रजेत् ।
इति पारमेश्वरीमते कालज्ञानसंकर्षणी त्रयस्त्रिंशतिमः पटलः ॥
देव्युवाच
कालोदयं मयाज्ञातं अंशकानि विशेषतः ।
अधुनाश्रोतुमिछामि वंच(ध)नं च यथा भवेत् ॥
विपरीत न चारयोगे आत्मानं संक्रमते यथा ।
चक्रस्थं तं बीजानीयाद् ध्यानधारणयोगतः ॥
प्. ३८ब्)
श्रीभैरव उवाच
यत्नात् पूर्वं मयाख्यातं शक्त्योर्द्धं अंशकत्रयं ।
महानिलयं तस्योर्द्धे (तस्योर्द्धे तु महानीलं) त्रिपथं वरवर्णिनि ॥
पच्य(ख)ते तत्र मध्ये तु विष्णुरुद्रप्रजापतिः ।
उत्पन्नं तत्र मध्ये तु बीजभूतं वरानने ॥
पृथिव्यायस्तथा तेजो वायुराकाश निष्कलं ।
बीजमध्ये स्थिता ह्येते पृथग् भिन्ना क्रमेण तु ॥
यदासौ निर्मले क्षेत्रे पतितं बीज रोहणं ।
तदाभिद्यन्ति भूतानि स्वकीयगुणपञ्चकैः ॥
तत्रत्रिपथमध्ये तु सूक्ष्मभूताव्यवस्थिताः ।
ऊर्णातन्तु निभाकारा गतासानाभि मण्डले ॥
चतुरङ्गुलमानेन अष्टधा कुटिलं गताः ।
प्रसूता नाभि मध्ये तु शाखैः शाखमनेकधा ।
दशनाद्व्यावृ(धृ)तं चक्रं नाभिस्थाने प्रतिष्ठितम् ॥
इडा च पिंगला चैव सुषुम्ना च तृतीयका ।
उर्द्धभागे स्थिता ह्येता त्रिभिर्देवैर्व्यवस्थिता ॥
गान्धारि हस्ति जिह्वा च पूषा चैव वरानने ।
अधोमार्ग गता ह्येता वृहत् शाखा प्रलम्बिता ॥
यथा(जया) अलंवुषा चैव दक्षिणस्था भवन्ति हि ।
वाममार्ग प्रयोगेन संस्थिता कुहुशंखिनी ॥
नाभेरूर्द्ध गतानाडी एकात्रितयरूपिणी ।
सा प्रसूता वरारोहे ब्रह्मावर्तेनसंस्थिता ॥
नाडी संचारयोगेन संस्थितं पद्मया दृशम् ।
तमहंसंप्रवक्ष्यामि शृणुष्वेकाग्रमानसः ॥
पंचपंच पुनः पंच पंचपुनः पुनः पञ्च ।
पंचमालासमाख्याता संस्थिता पंचविंशकम्(तिः) ॥
प्. ३९अ)
ग्रन्थिस्थानप्रयोगेन नाडीसंचारसंथिता ।
पूर्वमालादि उत्पन्नं द्वितीयस्य द्वितीयके ॥
विश्रान्ता तत्र मध्ये तु गतापूर्व तृ(द्वि)तीयके ।
पूर्वबिन्दु द्वितीयस्य प्रथमस्य द्वितीयकं ॥
ग्रन्थितं नाडियोगेन तृतीयस्य द्वितीयकम् ।
द्वितीयस्य द्वितीयेन तृतीयादि विभेदयेत् ॥
तृतीयस्यय द्वितीयेन चतुर्थे आदियोजितम् ।
तृतीयादिं चतुर्थस्य द्वितीयं ग्रन्थितं कुरु ॥
चतुर्थस्य द्वितीयेन पंचमादिन्नियोजयेत् ।
(पंचमस्य द्वितीयेन चतुर्थापि योजयेत् ॥)
चतुर्थस्य द्वितीयेन पंचमस्य तृतीयकम् ।
ग्रंथितं पूर्वयोगेन नाडीसंचारभेदितम् ॥
चतुर्थस्य तृतीयं च पंचमस्य द्वितीयकम् ।
पंचमस्य चतुर्थे च चतुर्थे पञ्च योजितम् ॥
चतुर्थस्य चतुर्थेन पंचमं तु प्रयोजितम् ।
पंचमान्त चतुर्थस्य चतुर्थस्थान योजितम् ॥
(पञ्चमस्य चतुर्थेन चतुर्थान्तं नियोजयेत् ।
वरानने पूर्वे चतुर्थ योगेन द्वितीयान्ते विभेदितम् ।
द्वितीयस्य चतुर्थेन द्वय(पंच)मस्य तृतीयकम् ।
भेदितं नात्रसंदेहो यथा पूर्वन्तथैव च ॥
तृतीयेन द्वितीयस्य)?????
चतुर्थान्तं तृतीयस्य चतुर्थस्थान योजितम् ।
चतुर्थस्य चतुःस्थानं तृतीयान्तेनसंयुतम् ॥
तृतीयान्तं द्वितीयस्य चतुर्थस्थानसंस्थितम् ।
तृतीयस्य चतुर्थेन द्वितीयान्तं नियोजयेत् ॥
पूर्वान्तेन चतुर्थं च द्वितीयस्य प्रथमस्य चतुर्थकं ।
ग्रंथितं पूर्ववद्वेवि अत उर्द्धमतः शृणु ॥
प्रथमस्य द्वितीयेन द्वितीयस्य तृतीयकम् ।
एकत्र ग्रंथितं कुर्याद् ये चान्ये द्वे तथैव हि ॥
प्. ३९ब्)
नाडीचक्रमिदं शूक्षमं मष्ट(सप्त)पत्रं व्यवस्थितम् ।
शून्यरूपं स्थितं तत्र मध्यस्थं परमेश्वरम् ॥
तद्बाह्ये षोडशाकारं षोडशकलसंयुतम् ।
चन्द्रादित्यमयं सर्वं नाडीचक्रं व्यवस्थितम् ॥
एषा प्रकृतिराख्याता पंचविंशसमुद्भवा ।
अत्रमध्ये स्थितं देवं जीवाख्यं परमेश्वरम् ॥
सत्वंरजस्तमैश्चैव वेष्टितं त्रिविधेन तु ।
अष्टपत्रस्य मध्यस्थं दलेषु यादृशं शृणु ॥
इन्द्रो अग्निर्यमश्चैव नैर्-ऋत्यं वरुणानिलं ।
कौबेरमीशपर्यन्तं दलेषुसंस्थितानि च ॥
शब्दस्पर्शञ्च रूपं च रसोगंधं च पंचमः ।
मनोबुद्धिरहंकारो दलेधः संस्थितानि च ॥
कामं क्रोधन्तथा लोभं मदं मात्सर्यमेव च ।
मोहं दंभं च पैशून्यं एकैकस्य पृथक् पृथक् ॥
यो सौ अचिंत्यमित्याहुः सर्वज्ञः परमेश्वरः ।
मध्यस्थं तं विजानीयाद् रूपमव्यक्तसंस्थित ॥
प्रेरकन्तस्य देवेशि मनोनामकमात्मनः ।
येन येन हि भावेन मनः संयुज्यते नृणां ॥
तस्य तन्मयतां याति विश्वरूपो मणिर्यथा ।
चतुर्विंशति तत्त्वानि पत्रे पत्रे व्यवस्थिताः ॥
प्रकृतिं च विजानीयात् पुरुषे बन्धनात्मिकां ।
मुक्तिन्तेन विना देवि निष्कलं च तदा भवेत् ॥
सकलं तत्र मध्यस्थं निष्कलं तेन वर्जितम् ।
अत्र मध्य गतं विद्यात् कालं कालोदयानि च ॥
प्रकृतिं योन जानाति चतुर्विंशात्मरूपिणीं ।
वृथापरिश्रमं तस्य मुक्तिस्थानं न गच्छति ॥
प्. ४०अ)
अथातः संप्रवक्ष्यामि तिथिसंख्या यथा भवेत् ।
दिनमेकेन देवेशि ये दिनाः काय संभवाः ॥
प्राणा पानस्य चारेण दिनं रात्रिर्विधीयते ।
एकविंशसमाख्याताः सहस्राः षट्च्छताधिकाः ॥
सप्तविंशोत्तराज्ञेया संक्रान्तिषु शतानि च ।
विषुवाः षष्टि समाख्याता(विज्ञेया) अमावस्या च पूर्णिमा ॥
यो सौ त्रिकालरूपेन अष्टसंग्रहसंस्थितम् ।
विंशोत्तरशतं यावद् भ्रमते चन्द्रमण्डलम् ॥
यदाजानाति तत्त्वज्ञः सोमग्रहमुपागतम् ।
अमृताशनस्थितो योगी पूजयेत् तत्त्वनायकम् ॥
सर्वदेव मयंशंभुं सर्वविश्वेश्वरं प्रभुं ।
ज्योतिरूपं परंशातं अव्यक्तं निर्म्मलं च यत् ॥
जीवाख्यं परमं शुद्धं निर्मले मलनाशनं ।
तस्य पूजाप्रकर्त्तव्या प्लावितममृतेन तु ॥
येगता(पशुयो)तिर्यग्योनीषु * नरके चाति दारुणो ।
उद्धरेत् तत् कुलं सर्वं दशपूर्वं दशापरम् ॥
रस्मिज्वाला कुले दीप्तं भानुविवंसुनिर्मलं ।
ग्रंथि(ग्रसि)तं पंचवाराणि अहोरात्रेण दृश्यते ॥
पितृयानस्य पूर्वेण या कलादैविकी मृता ।
तां कलां तर्पयेद् देवि सूर्यग्रहसु पा गते ॥
देवया तस्य पूर्वेण पितृयानस्य चोत्तरे ।
सेतुबंधस्य मध्ये तु भूत्वा भूयो न जायते ॥
पूजितव्यं प्रयत्नेन हृदिस्थं परमेश्वरं ।
दिव्यधारामृतेनैव भानुग्रासं यदा भवेत् ॥
प्. ४०ब्) देवदानवसिद्धानां गन्धर्वो रगराक्षसां ।
तृप्यन्ति सर्वभूतानि विकला तर्पिता यदि ॥
यदा भवति संक्रान्तिर्विषु वा पिण्डमध्यतः ।
तुर्यस्थानसमारूढः पूजयेत् तत्त्वनायकम् ॥
गुरुपदेशयोगेन स्थानं परमुदुर्ल्लभं ।
त्वरितं तद्विजानीयाच्छीघ्रं सिद्ध्यति मानवः ॥
येनज्ञातं सुरेशानि तूर्यस्थानस्य तर्पणं ।
अश्वमेधस्य यागस्य क्षिप्रलभति तत्फलम् ॥
न योगात् सदृशं मन्त्रं न योगात् सदृशं तपः ॥
न योगात् सदृशं तीर्थं त्रिषुलोकेषु दृश्यते ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥
तद्भावभावितात्मानं चिन्तयन्ति परापरं ।
इन्द्राद्या देवताः सर्वे चन्द्रसूर्यादयोग्रहाः ॥
महर्षयः सप्तपूर्वं मवादय अशेषतः ।
अष्टाशीति सहस्राणि वा लखित्पादयोपि च ॥
अनेनैव तु योगेन सिद्धास्ते वरवर्णिनी ।
इतिखलुपुङ्गलाकारं नाडीसञ्चारमण्डले ॥
मुख्यं कथितमिहसिद्धि हेतोर्बोद्धव्यं यत्नतः ।
सिद्धिः एत देवि परंगुह्यं निर्वाणं परमं पदम् ॥
शरीरस्थं परं दिव्यं न देयं यस्य कस्यचित् ।
देव्युवाच
नैव जानाम्यहं नाथ उदयास्त मनं यथा ।
विषुवं नैवजानामि ग्रहणं चन्द्रसूर्ययोः ॥
राशिसंक्रमणं चैव सकलं निष्कलं कथं ।
को वेत्ति अत्रमध्यस्थः सुखदुःखानि यानि च ॥
कस्य धर्म्मञ्च पापं च को गतः कोत्र तिष्ठति ।
प्. ४१अ) चन्द्रसूर्यादि भेदेन कथमात्माप्रतिष्ठितः ॥
ज्ञायते केन योगेन इन्द्रियं विषयानि च ।
अनीता नागतं चैव वर्त्तमानार्थमेव च(बोधकम्) ॥
अनिमादि गुणोपेतं साधनं च कथं भवेत् ।
निर्वाणं मोक्षमार्ग च विविधं कालवंचनम् ॥
अनेनैव शरीरेण यथाभवति तद्वद ।
श्रीभैरव उवाच
यो सौ देवि मयाख्यातं चक्रं प्रकृति संभवं ॥
तत्रमध्यगतं देवं सर्वज्ञं परमेश्वरम् ।
तद्ब्रह्म च महादेवं तद्विष्णुं परमं पदं ॥
तच्चन्द्रसूर्यमित्याहुरिन्दु वरुणमेव च ।
तं कालं भवमित्युक्तं तं वायुं तं खगेश्वरम् ॥
सर्वदेवमया सो हि तत् शून्यं भरितं स्थितम् ।
चैतन्यं सर्वगं नित्यं सर्वप्राणि हृदि स्थितम् ॥
विषयस्थमतीतं च वायुसंयोगसंस्थितम् ।
भ्रमते चक्रमध्यस्थं मनः पवनसंयुतम् ॥
दक्षिणचारुयोगेन पिंगलं भानुमारुतम् ।
प्राणापाणप्रयोगेन नीयते च शनैः शनैः ।
यस्य पत्रस्थ मध्यस्थं तिष्टते परमात्मनः ।
तस्यतन्मयतां भावं धारयेन्नात्रसंशयः ॥
अन्य पत्रस्य मध्यस्थं यदासंक्रमते तु सः ।
संक्रान्तिं तद्विजानीयात् तैः षड्भिश्चोत्तरायणं ॥
विषुवं द्वादशं चैव या राशिं संक्रमेषु च ।
अब्दैर्द्वादभिश्चैव ग्रहणो भास्करस्य च ॥
षण्मासदिनयोगेन चन्द्रस्य ग्रहणं भवेत् ।
प्. ४१ब्) समाधिस्थो महायोगी रविचन्द्रस्य मध्यगः(त) ॥
प्रत्यक्षं दृश्यते ग्रा(श्वा)संस्थानभेदेन या दृशां ।
चन्द्रमण्डलमध्यस्थं आत्मानं कुरुते यदा ॥
ग्रहणं तस्य जानामि सोमस्थं पश्यते ध्रुवं ।
चन्द्रसूर्यस्य चक्राणि सृष्टिसंहारकारकाः ॥
पारंपर्यक्रमेणैव गुरुवक्त्रात्तु लभ्यते ।
यस्य चक्रस्य मध्यस्थं आत्मानं क्रमते लयं ॥
चन्द्रसूर्यप्रयोगेन ज्ञायते नात्रसंशयः ।
धर्माधर्मं च मोक्षं च ज्ञानं वैराग्यमेव च ॥
कामं क्रोधं च लोभं च यत्र(चक्र)स्थं कुरुते ध्रुवम् ।
मरुतस्थं विजानाति संयोगे वामदक्षिणे ॥
प्राणापानस्य मध्यस्थं नासिकाग्रे व्यवस्थितम् ।
ऊर्द्धं ह्यग्नि दधश्चापतिर्यगश्च प्रभञ्जनः ॥
मध्ये तु पृथिवीं विंद्यान्नप्तश्चैव तु सर्वगः ।
भूतान्ते विषुवं चारं सुषुम्नाभिन्नमस्तकं ॥
यदा भवति मध्यस्थ मात्मानं वरवर्णिनि ।
वहतिनात्रसंहेहो योगं विषुवमूत्तमम् ॥
कोलचिह्नानि सर्वाणि उक्तानि यन्मया पुरा ।
वंचनं तेषु देवेशि यथा भवति तच्छृणु ॥
चन्द्रादित्य मयं सर्वं त्रैलोक्यं स चराचरम् ।
मार्गं च तद्विजानीयाद मार्गन्तेषु वर्जितम् ॥
संचारं कथयिष्यामि प्रकृतिस्तस्य चात्मनः ।
वृषभं तत्र मध्ये तु मैथुनस्थं च वायसं ॥
रुद्रमानं सदातिष्ठेत् महाशब्दमनाहतम् ।
सत्वंरजस्तमश्चैव तस्य वंधत्रयं भवेत् ॥
प्. ४२अ)
सोमसूर्याग्नि चारेण त्रिपादास्तत्रसंस्थिताः ।
अधस्तात् तु विजानीयाद् ब्रह्मादि अंशकेषु च ॥
पृथिव्यापस्तथा तेजश्चतुर्थं वायुसंस्थितम् ।
ऊर्द्धभागे स्थिता ह्यते(क्षेत्रे) शृंगाश्चत्वारि यानि च ॥
सार्द्धं त्रीणि स्थिता वामे पुनरेत्तानि दक्षिणे ।
नाडीसञ्चारभेदेन अस्थिरूपा व्यवस्थिताः ॥
एतानि सप्तहस्तानि द्वौशीर्षौ चन्द्रसूर्ययोः ।
यो सौ मध्यगतो देवि रचते च अनाहतम् ॥
मैथुनेन विना तस्य नशब्दो नैव जीवितम् ।
तस्मात् सर्वप्रयत्नेन मैथुनस्थं सदाकुरु ॥
मैथुने मोक्षमाप्नोति मैथुनमायुवर्द्धनम् ।
सर्वसिद्धिकरं देविमैथुनं परिपठ्यते ॥
तस्य देवाधि देवस्य प्रकृतिस्थस्य सुन्दरि ।
मोचनं संप्रवक्ष्यामि आत्मनो वंचनस्य च ॥
उत्पत्तिस्तत्रमध्ये तु कालं कालोदयेषु च ।
एते त्रीणि समाख्याता वृषपादांशकेषु च ॥
तत्रस्थं कारणं योज्यं नीयते च शनैः शनैः ।
संकोच्य सप्तहस्तानि नाडीस्थं यत्समीरणं ॥
द्वे शीर्षे चतुःशृङ्गानि त्रिबन्धं प्रकृतिता सह ।
गुरुवक्त्र शते नैव करणे वरवर्णिनि ॥
सव्यस्थं क्रमयोगेन चतुर्विंशात्मकं कुरु ।
संकोचमिति विख्यातं पिण्डस्थं च तदा भवेत् ॥
हृदि ह्याकाशमध्यस्थं दीपाकारं व्यवस्थितम् ।
दह्यते हृदिमध्यस्थं इन्द्रिया विषयानि च ॥
प्. ४२ब्)
सावित्री यस्य कायस्थाः कालानलसमप्रभा ।
यक्षदीप्ति गतो वह्निः शुष्कमार्द्धं च निर्दहेत् ॥
तथा दहति कर्माणि योगिशो अत्र संस्थितः ।
यदा सौ शिखिरूपेण सर्वं संकोच्यतिष्ठति ॥
तदामुक्तं समाख्यातं सर्वमार्गेषु गच्छति ।
पितृयानस्य पूर्वेण देवयानस्य चोत्तरे ॥
सेतुबन्धपूर्वे तु नीयते च शनैः शनैः ।
या सा वायु(म) कलासूष्मात्रिभिर्देहैर्व्यवस्थिता ॥
एकासंवरणीनाम द्वितीया च विसर्जनी ।
कला चैव तृतीया च अन्तेष्टिर्नामविश्रुता ॥
विसर्जनीं समाश्रित्य अभ्यासेन मुहुर्मुहुः ।
नीयते बंधयोगेन सा च संवरणी कला ॥
अन्तेष्टि पद(क्ष)मध्यस्थं विलोमेन प्रवेशयेत् ।
ब्रह्मस्थानं परित्यज्य विष्णुरुद्रेश्वरं पदम् ॥
शंखिणी द्वारभेदं च कुंचिको दद्याटयेद्विलम् ।
या सा नाडी परासूक्ष्मा सुषुम्ना नामविश्रुता ॥
विभिद्य मूर्द्ध्निमार्गन्तु प्रतिष्ठा तत्र मध्यतः ।
मार्गेन तेन गन्तव्यं स्थानं चैव निरामयं ॥
प्रथमं च द्वितीयं च सुशिरमस्थिमध्यगम् ।
तृतीयं च समाश्रित्य लयं कृत्वा सुयत्नतः ॥
वंचनं च समाख्यातं कालस्य वरवर्णिनि ।
न तत्र भिद्यते जन्म न कालक्षयमेव च ॥
धर्माधर्मौ परित्यज्य लीयते परमे पदे ।
तत्रस्थाने यदालीनं प्राणापानः क्षयं गतः ॥
आगतं च गतं चैव नोस्वासं स्वासमेव च ।
प्. ४३अ) न शृणोति च शब्दानि मुक्ता चैव मनाहतम् ॥
रूपं चैव नज्जानाति वर्णानि यादृशानि च ।
नवसंसा ते जिह्वा शीतोष्णं स्पर्शमेव च ॥
घ्राणञ्चैव न गृह्णाति गन्धं दुर्गन्धमेव च ।
बुद्धि दृश्यमिदं सर्वं त्रैलोक्यम् स चराचरम् ॥
य स? चाह्य?मनेबुद्धिस्तदा द्वैतं न विद्यते ।
एकीभूतं यदात्मानं सर्वेन्द्रिय विवर्जितम् ॥
चैतन्यं चेतनं चेता न कालक्षयमेव च ।
एतद्देवि परंब्रह्म निर्वाणं परमाक्षरम् ॥
ज्ञायते गुरुवक्त्रस्थं मुक्तिस्थानं सुनिर्मलम् ।
अन्यत्पुरप्रवेशं च कुरुते साधकेश्वरः ॥
या सा देविमयाख्याता कलानामविव(स)र्ज्जनी ।
हस्तमात्रप्रमाणेन पुष्पं करतले स्थितम् ॥
अन्ते वंधं प्रकुर्वीत कलासंवरणी तु या ।
नीतं पुष्पस्य मध्यस्थं मारुतं च शनैः शनैः ॥
तं पुष्पं चलितं दृष्ट्वा द्विगुणं च समभ्यसेत् ।
द्विहस्तमात्रयोगेन पुष्पसंक्रमणं यदा ॥
सिधयते नात्रसंदेहः पंचहस्तप्रमाणतः ।
पुष्पं च चलितं दृष्ट्वा वज्रक्षीरं विभेदयेत् ॥
विभेदिते वज्रवृक्षे परकायलयं कुरु ।
परस्य हृदिमध्ये तु पंकजस्थं यदा भवेत् ॥
तदा भिद्यन्ति भूतानि स्वकीय गुणपंचकैः ।
रूपे रूपं विजानाति श्रवणे शब्दं शृणोति च ॥
नासिकाग्रस्थितो वायुः प्राणं गृह्णाति या दृशम् ।
सर्वं जानाति चैतन्यः शीतोष्णं स्पर्शमेव च ॥
प्. ४३ब्)
स्थाने स्थाने विसर्पन्ति इन्द्रिया विषयानि च ।
पूर्वोक्ता यादृशी विद्या तत्सर्वं वदते ध्रूवम् ॥
परकायप्रवेशश्च उक्तं देवि सुदुर्ल्लभं ।
द्विपदे चतुष्पदे चैव अपदे पदसंकले ॥
संक्रमेन्नात्रसंदेहो अस्य योगप्रभावतः ।
अथ उत्कान्तिमिच्छन्ति वैराग्यो पहता नराः ॥
तसहं संप्रवक्ष्यामि सद्य उत्क्रमणं यथा ।
पूर्वं संकोचयोगेन लयं याति परे पदे ॥
उत्क्रमेन्नात्रसंदेहः पुनर्जन्म न विद्यते ।
सर्वं देविमयाख्यातं यत्सुरैरपि दुर्ल्लभं ॥
आत्मसंविन्निभेदेन किमन्यत् परिपृच्छसि ।
इति पारमेश्वरीमते गुह्ये आत्मसंवित्तिभेदश्चतुस्त्रिंशतिमः पटलः ॥
देव्युवाच
अत्रैव मेरुमध्ये तु या स्थिता कुलनायिका ।
त्रिपुरामन्त्रविख्याता वक्त्रांशाबान(गादिषु)संयुता ॥
सप्तविंशति योगिन्यः पंचमुद्रा तथैव च ।
वक्तुमर्हसि देवेश सामर्थं पूजने विधिं ॥
चतुष्के च महातन्त्रे उत्तरे षट्ककेषु च ।
रुद्रयामलमध्ये च पूर्वोक्तं तन्मया श्रुतम् ॥
विशेषेन पुनर्देव यथा भवति तद्वद ।
श्रीभैरव उवाच
कथयामि न संदेहः पारंपर्यं यथास्थितम् ।
ब्रह्मणो विष्णुतेजाच्च रुद्रतेजात्समुद्भवा ॥
त्रिपुरा च महाविद्या भुक्तिमुक्तिफलप्रदा ।
तस्योद्धारं प्रवक्ष्यामि मेरुमध्ये यथास्थितम् ॥
प्. ४४अ)
मालिनीवामकर्णस्य ध्रुवान्ते भूषणं च यत् ।
अधस्तस्य समुद्धृत्य लकुली यत्रसंस्थितम् ॥
अधोर्ध्वेत(अर्द्धे अर्द्धे)द्विजानीयाच्छलदण्डासनस्थितम् ।
सरस्वती समोपेतं क्रूरं शिरसिसंस्थितम् ॥
वाग्भवं च महादेवि ब्रह्मतेजसमुद्भवम् ।
अस्य बीजप्रभावेन सृष्टि रूपः पितामहः ॥
करालीवर्णमुद्धृत्य श्वेत रुद्रादि संस्थितम् ।
तत्रैव वामनेत्रस्थं भैरवेन युतं कुरु ॥
शुक्रभैरव ऊर्द्धं वै पूतना यत्र संस्थिता ।
आसनं तद्विजानीयादम्बिकामूर्द्ध्निसंस्थितम् ॥
अयं बिन्दुयुतं कुर्यात् कामराजं प्रतिष्ठितम् ।
विष्णुतेजः समुद्भूतं महाक्षोभकरं विदुः ॥
सतताभ्यासयोगेन माहासौभाग्यदायकम् ।
जलमद्ध्यगतं देवि भैरवं रेतः संभवम् ॥
भैरवं तस्य देवेशि अधरस्थं नियोजयेत् ।
महासेनोद्भवञ्चैव पुरतस्तस्य दापयेत् ॥
त्राणं मूर्द्ध्नि गतं कुर्यात् तद्बीजं रुद्रसंभवम् ।
एतानि त्रीणि बीजानि त्रिभिर्देवि समुद्भवाः ॥ (इमेनवास्त्र यो बीजा देव त्रय
समुद्भवा ॥)
सुषुप्ताः संस्थिता ह्येते प्रबुद्धाफलदायकाः ।
ततहंसं प्रवक्ष्यामि गुह्याद्गुह्यतरं स्थितम् ॥
विद्यात्रयं परं गुह्यं दीपनं त्रिपुरस्य च ।
छगलण्डभैरवं यत्र दहनी यत्र संस्थितः ॥
उद्धृत्यविधियोगेन उभौ वर्णौ पुनः पुनः ।
अनन्तेन समायुक्त वज्रिणी तस्य चाग्रतः ।
पञ्चार्लं?भैरवं यत्र तद्वर्णमग्रतः स्थितम् ।
प्. ४४ब्)
ज्ञानशक्ति समुद्भूतं शिरस्थं तस्य दापयेत् ।
तस्याग्रे संवकं बीजं देवीखड्गीशमासना(गामिनम्) ॥
भैरवं रक्तसंभूतं गुह्यशक्ति समन्वितम् ।
अष्टाक्षरी महाविद्या ब्रह्मबीजप्रदीपिनी ॥
क्रोधवर्णं समुद्धृत्य पिनाकी आसने स्थितम् ।
वामनेत्रोद्भवं सर्वं(रुद्रं) संयोगं तस्य दापयेत् ॥
मालिनी प्रथमं बीजं झण्टीशेन समन्वितम् ।
तृतीयं पूतनारूढं वर्णं क्रोधसमुद्भवम् ॥
ज्ञानशक्तिसमारूढं धात्रीशमग्रतः स्थितम् ।
तस्याग्रे मेषवर्णं च गुह्यशक्ति विभूषितम् ॥
महावर्णानि तस्याग्रे उद्धरेद्वरवर्णिनि ।
वर्णसंवर्त्तकोनाम गायत्री भूषितं कुरु ॥
दक्षिणस्य भुजे मूले या भीमा शिखरे स्थिता ।
तांन्वा? बिन्दुयुतं कुर्यादूद्धरेद्वरवर्णिनि ॥
तस्याग्रे तु कराली च ध्रुवादि आसनस्थिता ।
तस्याग्रे रक्तसंभूत मकारसनं संस्थितं ॥
महाक्षोभकरीह्येषा विद्या एकादशाक्षरी ।
कामराजादि संभूता विष्णुतेजः प्रबोधनी ॥
ध्रुवमादै समुद्धृत्य तृतीयस्य सुरेश्वरि ।
महाकालं समुद्धृत्य सद्योजातेनसंयुतम् ॥
द्वितीयञ्च समाख्यातं आत्मबीजं सुदुर्ल्लभम् ।
देवीं संघा(हा)तिकां नामबिन्दुमस्तकभूषितम् ॥
अमरे शासनं दत्वा क्रोधवर्णं समालिखेत् ।
भुजंगं च ततो देवि उकारासनसंस्थितम् ॥
एषा पंचाक्षरी विद्या मुक्ति बीजप्रबोधनी ।
विद्याङ्गेषु षडङ्गेषु वक्त्रेषु पूजनेषु(प्रपूजयेत्) च ॥
प्. ४५अ)
वाग्भवं कामराजस्य मुक्तिदं परमेश्वरि ।
या यस्य दिपिनी विद्या उच्चारन्तस्य पूर्विकं ॥
अनेनैव विधानेन स जीवा निखिला भवेत् ।
त्रिभिस्तेजैञ्च संभूता त्रिपुरा तेजदीपिणी ॥
ज्ञातव्या पुरभेदेन सर्वसिद्धि प्रदायका ।
न्यासमात्रे कृते देवि त्रैलोक्यं वशमानयेत् ॥
तमहं संप्रवक्ष्यामि न्यासस्थानानि यानि च ।
मूर्द्ध्नि स्थानं च प्रथमं व्रततेजो व्यवस्थितम् ॥
पुनर्नारायणन्तेजं गुह्यस्थाने च विन्यसेत् ।
हृदये रुद्रतेजेन न्यासं कृत्वा तु यत्नतः ॥
वाग्भवं दक्षनेत्रस्थं वामे चैव जनार्दनः ।
ललाटे शिवमित्याहुर्विन्यसेद् वरवर्णिनि ॥
दक्षिणेश्रवणे न्यस्तं वाग्भवं देवि यत्नतः ।
कामराजस्थितं वाम श्रवणे नात्रसंशयः ॥
रुद्र तेजो महादेवि न्यसेद्वक्त्रस्य मध्यतः ।
दक्षिणे तु भुजा दण्डे पुनर्देवः पितामहः ॥
केशवस्य स्थितं तेजं भुजे वामे प्रतिष्ठितम् ।
विन्यसेद् विधियोगेन रुद्रं पृष्ठस्य मध्यतः ॥
वाग्भवं दक्षजंघायां वामे कामः प्रतिष्ठितः ।
नाभिमध्यस्थितं रुद्रं पुनस्त.क्म् सर्वसंधिषु ॥
एषा विद्यात्मको न्यासः षडंगञ्च अतः शृणु ।
माया वागेश्वई नाम हृदिस्थाने नियोजयेत् ॥
कामराजं शिरेदत्तं शिखास्थानेषु मुक्तिदं ।
वाग्भवं कवचे योज्यं नेत्रौ काम प्रतिष्ठितौ ॥
न्यस्यास्त्रं रुद्रबीजेन दिशासु विदिशासु च ।
प्. ४५ब्) षडंगञ्च इदं देवि वक्रन्यासमतः शृणु ॥
वाग्भवं पूर्ववक्त्रस्थं तेजो विद्या समन्वितम् ।
वामे न्यासं प्रकूर्वीत कामराजं सुरेश्वरि ॥
तस्यापि दीपिनीविद्या न्यासं वक्त्रान्तरे स्थितम् ।
रुद्रबीजं न्यसेद्धीमान् वक्त्रे चैव तु दक्षिणे ॥
पूर्वविद्यादि योगेन वक्त्रं न्यासं सुदुर्ल्लभं ।
वाग्भवं पञ्चवाणानि चापेन सहितानि च ॥
तमहं कथयिष्यामि यथा न्यासं व्यवस्थितम् ।
रुद्रमालादि वेदा(देवा)नां मन्दिरे मीनसंस्थितम् ॥
त्रिस्थाने संस्थिता ह्येते आलिखेद्वरवर्णिनि ।
अमरीशासनारूढं मध्यस्थं कुरु यत्नतः ॥
त्रिरक्षरमिदं चापं वाग्भवं संस्थितं यतः ।
बीजाङ्गे पञ्चवाणानि ये भूता कथयाम्यहम् ॥
शूलदण्डं समुद्धृत्य नवके पूर्वसंस्थितम् ।
सर्वगभैरवं वाणं न्यासं गुह्यस्य मध्यतः ॥
एकादश ऋषिस्थाने च्छ(चा)ङ्गमध्ये व्यवस्थितम् ।
अंबिका वर्णमुद्धृत्य वर्णानां सृष्टिकारकाः ॥
द्वितीयं वाणमित्याहुः संस्थित्तं नाभिमण्डले ।
पुनस्तं हृदिमध्ये तु वर्णं संदीपनं परम् ॥
तृतीयं वाणमित्याहुस्त्रैलोक्यं यत्र संथितम् ।
नाभि मालादि संभूतं शिखरे निषद(ध)स्य च ॥
सरस्वती समुद्भूतं सर्ववागेश्वरं विदुः ।
चतुर्थं च महावाणं न्यासं वक्त्रस्य मध्यतः ॥
ठे-आ(लोका)दिपंचमं चैव क्रूरं यत्र व्यवस्थितम् ।
मूर्द्ध्नि न्यासं महादेवि सर्वसंजीवनं परं ॥
एतानि पंचवाणानि ब्रह्मबिजाङ्गसंभवः ।
प्. ४६अ) वाचा सिद्धिकरास्त्वेते विन्यस्ता पिण्डमध्यतः ॥
कामराजाङ्गं संभूतं पंचवाणं वदाम्यहम् ।
विलुमध्यगतं गृह्य नवके वाम मन्दिरे ॥
पूर्ववर्णं विजानीयान्मांसस्य भैरवा श्रयं ।
रुद्रमाला द्वितीयं च ऊर्द्धे यस्य विनायकी ॥
अनन्तेनसमायुक्तं तद्वर्णं बिंदु भूषितम् ।
रक्तभैरवमारूढं द्वितीयं वर्णमुत्तमम् ॥
तद्वर्णं तस्य अग्रे तु शूलदण्डासनं कुरु ।
तृतीयं बीजमित्याहुर्वक्त्रंभैरवभूषितम् ॥
चकारान्तं समुद्धृत्य अंबिका यत्र संस्थिता ।
मालिनीकंठ(मुख)वर्णं वै चतुर्थमक्षरं विदुः ॥
य वर्गे आदि संबीजं पंचमं च समुद्धरेत् ।
पुनरेतानि बीजानि त्रीणि अग्रे व्यवस्थिताः ॥
प्रथमं कामराजस्य वाणं शिरसि विन्यसेत् ।
अष्टाक्षरमिदं वाणं रक्तवर्णं तु संस्थितम् ॥
कराली वर्णमुद्धृत्य आदि एकादशे स्थितम् ।
द्वितीयस्य स्थितं पूर्वं दहनी तस्य अग्रतः ॥
नवकादि स्थितं वर्णं तत्रारूढं सुरेश्वरि ।
विश्वमालादि वर्णेन भूषितं बिन्दुसंयुतम् ॥
वक्त्रस्थं भैरवं तस्य तृतीयं तस्य अग्रतः ।
चतुर्थी अंबिका देवी स्नायु रुद्रासनं कुरु ॥
विश्वमालान्तसंयुक्तं मेषं तस्याग्रतः स्थितं ।
वागीश अग्रतस्तस्य षष्टमंचनसंशयः ॥
पुनरेतानि बीजानि चत्वारः पुरतः स्थितः ।
दशाक्षरमिदं वाणं न्यसेद्वक्त्रस्य मध्यतः ॥
ककुलीशं पुनश्चैव तृतीये पूर्वसंस्थितम् ।
प्. ४६ब्) मकारं यस्य ऊर्द्धे तु चुकारमग्रतः स्थितः ॥
पृष्ठभैरववर्णं चरि अंतमासनं कुरु ।
लोकादि शिरसेदत्तं अर्घीशस्य द्वितीयकम् ॥
पुनः संवर्त्तकं गृह्य रुद्रमालान्तसंयुतं ।
तृतीयं बीजमित्युक्तं तस्याग्रे भीममालिखेत् ॥
पंचमं वायुवेगस्थं वामस्य शिखरे स्थितम् ।
पुनरेत्तानि बीजानि तस्याग्रे त्रीणि आलिखेत् ॥
तृतीयं च महावाणं वसुवर्णं हृदिस्थितम् ।
त्रिमूर्त्तिभैरवं पूर्वं लस्थं क्रोधसमुद्भवं ॥
मालिनी जिह्ववर्णेन भेदितं बिन्दुसंयुत्तम् ।
तृतीयं दीपनी बीजं ज्ञानशक्ति विभूषितम् ॥
तारामध्यगतं गृह्य मेषस्यो परिसंस्थित्तम् ।
चतुर्थबिन्दुसंयुक्तं आषाढी नामनामतः ॥
महाकालं पुनर्देवि ध्रुवादि संयुतं कुरु ।
क्रूरवर्णं शिरेदत्तं पञ्चमं बीजमुत्तमम् ॥
देवी नेत्रं तृतीयं च अनन्तेन समन्वित्तम् ।
लोहितं सप्तमं बीजं दक्षकुक्षिसमुद्भवम् ॥
वागीशं चाष्टमं योज्यं पुनश्चत्वारि अग्रतः ।
देवीवर्णाक्षरं वाणं चतुर्थन्नाभिमध्यतः ॥
क्रूरं पूर्वसमुद्धृत्य सम्बकं तस्य अग्रतः ।
लोकान्तं पुरन्तस्तस्य द्वितीयमक्षरं विदुः ॥
पुनस्तं संवकं बीजं अनन्तेन विभूषितम् ।
शूलदण्डासनारूढं चतुर्थं स्नायुसंभवं ॥
पंचमं वायुवेगं च त्रीण्ये तान्यग्रतः पुनः ।
वर्गसंख्यानि विजानि पंचमो बाणसंस्थितः ॥
प्. ४७अ) योनिमध्ये कृते न्यासो महासिद्धिकरो भवेत् ।
एतानि पंचवानानि कामबीजसमुद्भवाः ॥
विन्यसेद्विधियोगेन पूजाकाले तु यत्नतः ।
देव्युवाच
कामबीजानि वाणनि अङ्गवक्त्राणिथानि च ।
श्रूतं देवमयासर्वमुद्धारं त्रिपुरस्य च ॥
अधुनाश्रोतुमिच्छामि पूजनस्य यथाविधिः ।
श्रीभैरव उवाच
त्रिस्थानं त्रिपुरं विद्या दासनत्रयसंयुत्तम् ॥
पीठत्रयं तथा बीजं रूपत्रयमुदाहृतम् ।
चर्यात्रीणिसमाख्याता उच्चारं त्रिविधं भवेत् ॥
लयंत्रिविधमित्याहुः स्थाने स्थाने पृथक् पृथक् ।
एकैकस्य तु बीजस्य नव भेदाः प्रकीर्तीताः ॥
भेदे भेदे स्थिता देव्या स्वस्थान नामसंयुता ।
पूजितव्या प्रयत्नेन आदिबीजेनसंपुटम् ॥
एकान्ते विजने स्थाने पशु दृष्टि विवर्ज्जिते ।
शोभने गन्धयुक्ते च पूजयेत् तिपुरभैरवी ॥
दिग्वासा मुक्तकेशश्च नेत्रे कज्जलभूषिते ।
पूजाकाले च कर्तव्यं सर्वसिद्धिप्रदायकं ॥
त्रिवर्णं पंकजं देवि पूर्णपीठे व्यवस्थितम् ।
तप्तहेमप्रतीकाशं स बाह्याभ्यन्तरेषु च ॥
आसनं तद्विजानीयात् पुरं ब्रह्मस्य कीर्तितम् ।
तत्र मध्यगतं बीजं वाग्भवं सुरपूजितम् ॥
स्वमात्रा वेष्टितं कुर्यात् त्रिःप्रकारार्द्धमेव च ।
सुशुद्धहेमसंकाशं विस्फुरन्तं विचिन्तयेत् ॥
तस्याङ्गे(न्ते) नव योगिन्यः पञ्चवाणस्तथैव च ।
प्. ४७ब्)
वाचां सिद्धि करं दिव्यं पूजितव्यं प्रयत्नतः ॥
पुनर्जालन्धरे देवि षट्पत्रं पङ्कजं शुभं ।
यथाबाह्ये तथा देहे रक्तवर्णं विचिन्तयेत् ॥
तत्त्रिमात्रार्द्धसंयुक्तं कामराजं सुरेश्वरि ।
जवापुष्पनिभाकारं भ्रमन्तं चिन्तयेद् बुधः ॥
नवदूति समोपेतं पंचवाणसमन्वितम् ।
महाक्षोभकरं देवि परं विष्णोः प्रकीर्त्तितम् ॥
उड्डियानं पुनर्देवि अष्टपत्रं सुशोभनं ।
कुन्देन्दु तु हिनाभासं पुरं रुद्रस्य कीर्तितम् ॥
कामोर्द्धे च महाबीजं पंकजस्थं तृतीयकं ।
निर्वाणं च समाख्यातं निर्वाण पद दायकम् ॥
नवदेव्या समोपेतं पूजितव्यं प्रयत्नतः ।
महाशान्तिकरं दिव्यं मुक्तिदं विघ्ननाशनम् ॥
पीतै रक्तैः सितैः पुष्पैः कर्पूरादि सुगन्धिभिः ।
फल्गुषं त्रिविधं देयं त्रिभि(त्रिषु)स्थानेषु योजयेत् ॥
धूपं दीपं च नैवेद्यं तर्पणं च यथाविधिः ।
सर्वं संपूर्णतः कृत्वामुद्रयामुद्रितं कुरु ॥
अथातः संप्रवक्ष्यामि मुद्राबंधं च यादृशं ।
सर्वसिद्धिकरं दिव्यं निर्विघ्नं विघ्ननाशनं ॥
करमध्ये मुखं वामं दक्षिणं न भसन्निभम् ।
पृष्ठे पृष्ठयुतङकुर्यात् तर्ज्जनी कन्यसान्तरे ॥
दक्षिणेस्य कृतं वामे वामाख्यां दक्षिणस्य च ।
अन्योन्य ग्रंथितं कुर्यादं गुष्ठेनदानामिकां ॥
गृहीत्वातत्प्रयत्ने न वामेन दक्षिणेन तु ।
ज्येष्ठांगुलीषु कर्त्तव्यं अंकुशं अध ऊर्धतः ॥
एषा सा द्राविणी मुद्रा वाणपूर्वां च दर्शयेत् ।
प्. ४८अ)
तर्ज्जनीवामहस्तस्य ज्येष्ठा तस्योपरिस्थित्ता ॥
नामिकाकन्यसा रुढा अंगुष्ठं तत्र मध्यतः ।
स्पर्शं चैव प्रकुर्वीत तर्ज्जन्या कन्यसाङ्गुली ॥
क्षोभनी चैव विख्याता महाक्षोभकरी विदुः ।
दर्शितव्या प्रयत्नेन द्वितीय वाणसंयुता ॥
महासिद्धिकराज्येषा त्रैलोक्य क्षोभकारिका ।
द्वौहस्तौ संपुटौ कृत्वा अन्योन्यग्रथितांगुली ।
तर्ज्जन्यादक्षहस्तस्य वामेकरे अनामिका ।
ग्रथितव्यं प्रयत्नेन वामस्य तर्ज्जनी तु या ॥
तेनापि सव्यहस्तस्य गृहीत्वा तु अनामिकाम् ।
पुनरेव हि कर्त्तव्यं द्धोर्धौ मध्यमाङ्गुली ॥
अंगुष्ठं वामहस्तस्य हस्तमध्ये नियोजयेत् ।
योनिमुद्रा त्वियं देवि सर्वसिद्धिकरी परा ॥
तृतीयवाणयोगेन योनि स्थाने प्रदर्शयेत् ।
संकोच्य अंगुली त्रिणि अंगुष्ठे न निरोधयेत् ॥
तर्ज्जनि वामहस्तस्य वामकर्णे नियोजयेत् ।
तर्ज्जयन्तीं दिशां सर्वां भ्रामयेन् नेत्र संयुतां ॥
चतुर्थवाणसंयुक्तां महाविघ्नप्रशनीम् ।
मुष्टिबंधं च कर्त्तव्यं करेवामे च दक्षिणे ॥
संयोगं तेषु कर्त्तव्यं तर्ज्जन्यौ च प्रसारयेत् ।
अंगुष्ठयुगलं चैव तेषु मूले नियोजयेत् ॥
निरालंबा महामुद्रा पंचमे वाणसंयुता ।
दर्शितव्या प्रयत्नेन भुक्तिमुक्ति फलप्रदा ॥
कामराजस्य ये देवि पंचवाणव्यवस्थिताः ।
तेषु बीजं द्वितीयं च एकैकस्य पृथक् पृथक् ॥
प्. ४८ब्) तत्पूर्वं दर्शयेन्मुद्रां चतुर्वर्गफलं लभेत् ।
पुष्पं धूपं च नैवेद्यं जाप्यं पूजां तथैव च ॥
तेजं गृह्णन्ति देवेशि भूताश्च राक्षसादयः ।
मुद्रया रहितानाञ्च प्रभवन्ति न संशयः ॥
तस्मात् सर्वप्रयत्नेन मुद्रितं स फलं भवेत् ।
मुद्रितेन स्थितं तेजो मुद्रितं च स्थिरं व्रतम् ॥
मुद्रितेन स्थिरापूजा मुद्रिते न स्थिरं परं ।
मुद्रयासिद्धिमाप्नोति यत्कामं तद्ध्रुवं लभेत् ॥
मुद्रया रहिता देवि त्रिपुराविघ्नदायिका ।
तस्मात् सर्वप्रयत्नेन पूजान्ते मुद्रितं कुरु ॥
येनवैवद्धमात्रेण द्रवते कामिनी जना ।
द्रावणी सा समाख्याता महाप्रीति करी शुभा ॥
स्वर्ग्गे मर्त्ये च पाताले यास्त्रियो मदगर्विताः ।
तासां क्षोभकरीमुद्रा क्षोभणीक्षोभकारिका ॥
सिद्धगन्धर्वकन्यानां देवासुर स पन्नगां ।
आनयेन्नात्रसंदेहो योनिमुद्रा प्रभावतः ॥
दुष्टनारी कुराजानां शत्रूणां च विशेषतः ।
तर्ज्जन्यात्रासित्रास्सर्वे मोहं गच्छन्ति तत्क्षणात् ॥
धर्म्मार्थ काम मोक्षं च राज्यं चैव विशेषतः ।
लभते नात्रसंदेहो वध्वा चैव निरामया ॥
मुद्रित्तस्य गुणा ह्येते कथितानि मया तव ।
द्रावणी योनिमुद्रा च क्षोभणी तर्ज्जनी तथा ॥
मुद्रा चतुष्टयं बद्धा निरालंवा च पंचमी ।
सर्वंसंपूंर्णतः कृत्या पूजान्ते जपमारभेत् ॥
पूर्वं मध्यगतं कुर्ययादुभौ अन्ते नियोजयेत् ।
प्. ४९अ)
नीत्वा त्रीणि परे तत्वे कामस्था त्रिप्रभेदिनी(रेश्वरी) ॥
कूटं दीपशिखाकारं लयं कृत्वा मुहुर्मुहुः ।
पुनस्त्रीणि उभौ ह्येकं स्थाने स्थाने विलोमतः ॥
एष जाप्यविधिः प्रोक्तो रहस्यं प्रकटी कृतम् ।
ब्रह्मचारी जितक्रोधी नक्त भोजी दृढव्रतः ॥
अनेनैवविधानेन लक्षजाप्यं करोति यः ।
होमं चैव दशांशेन त्वामंत्रः स्थिरो भवेत् ॥
ब्रह्मवृक्षोद्भवैः पुष्पै करवीरैर्जातीकादिभिः ।
क्षौद्रं लाक्षारसं क्षीरं अग्निकण्डे तु होमयेत् ॥
सामर्थं तस्य देवेशि यद्भवेत् कथयाम्यहम् ।
ऋग्वेदोथयजुर्वेदः सामवेदो-अथर्वणः ॥
इतिहासपुराणानि तर्कव्याकरणानि च ।
आगमानि अशेषाणि पंचवक्त्रोद्भवानि च ॥
गीतं वाद्यं तथा नृत्यं कवित्वञ्च मनोरमं ।
ये भूता ये भविष्यन्ति विद्यास्यानानि यानि च ॥
प्रत्यक्षं भवते सर्वमस्या विद्या प्रभावतः ।
यस्यकस्यायि मूर्खस्य स्त्रीकुमारस्य कन्यका ॥
वागीशो भवते साक्षाद्भुजाग्रं यावन्मस्तके ।
राजा च राजपत्नी च राजकन्या तथैव च ॥
ब्राह्मणी क्षत्रिणी वैश्या शूद्री वा वरवर्णिनी ।
क्षुभ्यन्ति साधकेन्द्रस्य ददन्ति विपुलं धनम् ॥
आवर्त्त्यसप्तवाराणि यस्य नामविदर्भितम् ।
विंशद्गव्यूतिमानेन आनयेन्नात्रसंशयः ॥
म्रियतेनात्रसंदेहो यदितेन न काम्यते ।
लक्षमेकेन जप्तेन होमं चैव यथाविधि ॥
प्. ४९ब्) वागीशो भवति साक्षाद्रूपेणमकरध्वजः ।
भुंजते विपुलान्भोगानस्या विद्याप्रभावतः ॥
लक्षद्वयेन जप्तेन सिद्धे होमकृतेन च ।
भवते नात्रसंदेहो भूपतिः साधकेश्वरः ॥
यदा जपति चत्वारि लक्षानि साधकेश्वरः ।
आज्ञासिद्धिः प्रवर्त्तेन पातालं स्फोटयेत् तु सः ॥
विलद्वारं समाश्रित्यशतमष्टोत्तरं तु सः ।
सिद्धार्थराजिकानाञ्च विलद्वारं तु ताडयेत् ॥
क्षुभ्यंति नात्रसन्देहः कन्याः पातालवासिनीः ।
नागराक्षसदैत्यानां या स्थितावरयोषितः ॥
आगच्छन्ति न संदेहो यत्रासौ साधकेश्वरः ।
नमस्कारं प्रकुर्वन्ति आदेशं या च यन्ति च ॥
स्वर्गपातालमार्गेण प्रविश्य साधकेश्वरः ।
यदा न रोचते देवि अष्टलक्षजपं कुरु ॥
देवदानव सिद्धानां स्वर्गपातालवासीनां ।
महाक्षोभं प्रकुर्वन्ति ददन्ति कामिकं फलम् ॥
नवलक्षकृते जापे होमेन साधितेन च ।
कोटी चतुर्दशानाञ्च विद्याधरपतिर्भवेत् ॥
इति पारमेश्वरीमतेमेरुमध्ये त्रिपुरोद्धारः पंचत्रिंशतिमः पटलः ॥
देव्युवाच
पूजाजपविधानं च मुद्रासामर्थयादृशं ।
त्रिपुरस्य महादेव निखिलं च श्रूतं मया ॥
या सा संजीवनी विद्या जरामृत्युविनाशनी ।
यत्प्रसादेव(न) देवाश्च(वेश) अमराः परिकीर्तिताः ॥
कथं सा मेरुमध्ये तु वर्णभूताव्यवस्थिता ।
उद्धारं कीदृशं तस्यास्तन्मे वद महाप्रभो ॥
यस्य जाप्येन देवेश अमरत्वं च जायते ।
प्. ५०अ) उथानं मृतकानां च यस्याविद्या प्रभावतः ॥
ऊन्च्लेअर् fरोम् हेरे
(अथातः संप्रवक्ष्यामि वागीशी कालिकाम्पराम् ।
चामुण्डां मोहिनीं नित्यां कृतान्त्री मृत्युनाशनीम् ॥
*? खेचरी मायां तथा देवि सरस्वतीम् ।
त्रिपुरादि द्वयं गृह्य *?ककारेण विना ततः ॥
नान्व मध्यगतं गृह्य पिनाक्यबीज बिन्दुना ।
वागीस्वरी परा देयाभूयो रुद्रादिमं भवेत् ॥?
लकुलि च महाकालि उद्धरेन्द्रो न शोणिनां ।
वाजनिद्धौ तत् प्राणं द्विधा रक्षासन स्थितं ॥?
त्रिमृत्युर्नुग्रहं क्रूरं * * * * * * * * ।
कृयामन्वी देवि मामातलोहितमुद्धरेत् ॥?
तत्*?नु यथा न्यायं नानुवादुति चोद्धरेत् ।
महाकालं * * * * * * * * * * * * ॥
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
* * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥?
ऊन्च्लेअर् उप्तो हेरे
श्रीभैरव उवाच
शृणु देवि परां गुह्यं विद्यापरमदुर्लभां ।
इन्द्राद्या देवताः । सर्वे आगताः पुरतो मम ।
स्तुतोहं विविधैः स्तोत्रैर्दिव्यवर्षशतंपुरा ।
ततो मया सु तुष्ठेन दत्ता अमरसुन्दरी ।
तेषुमध्ये महादेवि शुक्रेणष्ववतारिता ॥
विंशाक्षरी महाविद्या दशदूती समन्विता ।
संजीविनी विविख्याता द्वित्तीयं नामकीर्तितम् ॥
अमरत्वं ददेच्छीघ्रं मेरुमध्ये मयोद्धृता ।
दानवानां हितार्थाय शुक्रेण धारिता तु सा(क्रमेण साधिता पुरा) ॥
देवी सुरे महायुद्धे ये म्रियन्ति महासुराः ।
तेषां जीवप्रदः शुक्रे अस्या विद्या प्रभावतः ॥
तिष्ठते यस्य देहे तु विद्या दूती समन्विता ।
शतमष्टोत्तरं जाप्यं यः करोति दिने दिने ॥
पूजाविधान योगेन तस्य वक्ष्यामि ये गुणाः ।
भूतप्रेतपिशाचानि अपमृत्युर्महाभयं ॥
ज्वरशूलं तथा रोगं अस्त्राणि कुलिशादयः ।
संग्रामे जपमाप्नोति महाविघ्नैर्न्न भूयते ॥
सिंहव्याघ्रभयं नास्ति यन्नगेषु तथैव च ।
तमहं संप्रवक्ष्यामि उद्धारं यादृशं भवेत् ॥
ब्रह्मणे क्षत्रिये वैश्ये शूद्रे वा वरवर्णिनि ।
परीक्षितेषु दातव्यं कुलमार्गोपदेशिके ॥
एकान्ते विजने स्थाने पशु दृष्टि विवर्जिते ।
चतुःशृंगं महामेरु मालिखेद्वरवर्णिनि ॥
इन्द्रेह्यग्निर्यमश्चैव नैर्-ऋत्यं वरुणा निलं ।
प्. ५०ब्) कौबेरमीशपर्यन्तं दिशासु विदिशासु च ॥
पंचरत्नेनसंपूर्णं वर्द्धन्यासहितं घटम् ।
श्रीखण्डचन्दने नैव श्वेतवर्णानि कारयेत् ॥
दिव्यानि पुष्पवस्त्राणि वेष्टयित्वा पुनः पुनः ।
मणिरत्नमयं कुंभं अभावे कांचनं शुभम् ॥
अथवौप्यमयं देवि पुरस्तस्य दापयेत् ।
पुष्पैर्धूपैश्च नैवेद्यैः पूजयित्वा पुनः पुनः ॥
उद्धारं तत्र कुर्वीत विद्यां संजीवनीं पराम् ।
मेरुमध्यगतं यच्च ध्रुवं नाम(घ)प्रतिष्ठितम् ॥
आदिवर्णं समुद्धृत्यवर्णनां जीवनं परम् ।
ध्रुवान्ते वर्णं अर्घीशमधस्तस्यव्यवस्थितम् ॥
एकहस्तान्तसंगृह्य लोकादि भूषितं कुरु ।
द्वितीयं तु समाख्यातं भृगु वर्णं तृतीयकम् ॥
पुनर्भृगुं चतुर्थे च शुक्रवर्णेन भूषितम् ।
मालिनी दक्षिणे पादे धात्रीशं यत्र संस्थितम् ॥
अधस्तस्य(स्यां) स(न)मुद्धृत्य चतुरानन भैरवम् ।
जिह्वाशक्ति समोपेतं पंचमं बीजमुत्तमम् ॥
मालिनी कंठ(मुख)संभूतं महासेन(मोकारस्येव)स्य ऊर्द्धतः ।
ऋतुवर्णं विजानीयान्मालिनी शिखमेव च ॥
विश्वादि वर्णसंयुक्तं सप्तमं बीजमुत्तमम् ।
पुनः क्रूरेणसंयुक्तं जपन्ती अष्टमं भवेत् ॥
ध्रुवादि आसनन्तस्य बीजं काल निवारणं ।
पुनस्तं वर्णमुद्धृत्य जयन्ती यत्र संस्थिता ॥
सोपि विश्वादि वर्णेन त्रिमूर्ति संयुतं कुरु ।
मालिनी कण्ठ(मुख)वर्णं च कूर्मान्ताधो व्यवस्थितम् ॥
सोपि बिन्दु युतं कुर्यात् स्नायु रुद्रालयं परं ।
प्. ५१अ) दशमं च समाख्यातं अमृतं जीवलक्सणम् ॥
लोहित्तं च पुनर्वर्णं रुद्रान्ते पूर्वसंस्थितम् ।
शूलदण्डे समारूढं विश्वान्तेन विभूषितम् ॥
उमाकान्तं पुनर्देवि द्वादशं केवलं(शवं) भवेत् ।
मालिनी या शिवादूती ग्रहमाला व्यवस्थिता ॥
भुजंगं तु समारूढं पञ्चार्थ(प्रचण्ड)भैरवं ।
तस्य बिन्दु शिरे चैव अक्षरं विश्ववर्णकम् ॥
आषाढी भैरवं यत्र तस्यान्तान्ते च व्यवस्थितम् ।
चतुर्दशं समाख्यातं सूक्ष्मरुद्रेण भूषितम् ॥
भृगुरुद्रं समूद्धृत्य नान्तस्थं बिन्दु भूषितम् ।
तस्यान्ते क्रोधवर्णं च पूर्वमेकादशे स्थितम् ॥
अमरीश रुद्रमारूढं बीजं षोडशमं विदुः ।
शूलं दण्डं पुनर्देवि ओंकारादि स्थितं पुनः ॥
पुनस्तं भृगुकं रुद्र लोकान्तेन विभूषितम् ।
शुक्रमध्यगतं वर्णं यत्र भृगुर्व्यवस्थितः ॥
स्नायुवर्णसमारूढं विश्वन्तेन विभूषितम् ।
अंबिका तस्य अग्रे तु लकुली यत्र भैरवः ॥
अनन्ते न समायुक्तं उक्तं विंशाक्षरी भवेत् ।
अस्याङ्गानि पुनर्देवि ये भूता कथयाम्यहम् ॥
नामवर्णादि संगृह्यविद्यामूले तु संस्थिता ।
हृदिन्यासं प्रकुर्वीत नमोन्तं वरवर्णिनि ॥
तस्यान्ते भूतवर्णानि शिरन्या प्रतिष्ठितम् ।
स्वाहान्तं तद्विजानीयाद्वेदवर्णाक्षरी शिखा ॥
वौषडन्तेन संयुक्ता अपमृत्युविनाशनी ।
कवचे त्रीणि(षड्) बीजानि हुंकारान्ते व्यवस्थिता ॥
प्. ५१ब्)
द्वौ वर्णो नेत्रमध्ये तु तस्यान्ते ये प्रतिष्ठितं ।
वषडन्तं विजानीयात् त्रीणि अस्त्रे(ग्रे)व्यवस्थितं ॥
तस्यान्ते च फडित्याहुः षडङ्गं कालवंचनम् ।
अस्यदूती प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ॥
पूजितव्याप्रयत्नेन दशैताः सिद्धिदायिकाः ।
प्राणाद्या वयवः पंच ह्रींकारादि समुद्धरेत् ॥
संजीवनी तदग्रे च नमोन्तं पूजनं कूरु ।
चतुर्दशानि वर्णानि ऐन्द्रभागे प्रपूजयेत् ॥
नागाद्यास्त पुनश्चैव तस्याग्रे वायुमुच्चरेत् ।
संजीवनी च तस्याग्रे दूती चतुर्दशाक्षरी ॥
भक्तियुक्तो महादेवि अग्निकोणेषु पूजयेत् ।
धराद्याः पंचभूतानि अग्रे संजीवनीं कुरु ॥
ह्रींकारादि समुद्धृत्य नमोन्तं दक्षिणे स्थितम् ।
पूजितव्यां प्रयत्नेन दूती चतुर्दशाक्षरी ॥
शब्दादि इन्द्रियाणां च मायाबीजेन मोहितम् ।
संजीवनी च तस्याग्रे नमोन्तं कुरु नैर्-ऋते ॥
नमः संजीवनी चैव मायाबीजादि मुच्चरेत् ।
नमोन्तं नव बीजानि पश्चिमेन प्रपूजयेत् ॥
मायादि बुद्धिरुच्चार्य उक्तसंजीवनीं पुनः ।
नवबीजात्मिका ह्येषा अनिलस्था प्रपूजयेत् ॥
संजीवनीं पुनश्चैव अहंकारादि संभवेत् ।
मायादि पूजनं तस्य कौबेरे रुद्रवर्णगाः ॥
ईशाने सत्व(नव)मित्याहुरग्रे संजीवनीं पुनः ।
पूर्वन्तस्य समुच्चार्य मायाबीजं सुरेश्वरि ॥
अस्यापि नव बीजानि रजोमध्यस्थितं कुरु ।
अग्रे संजीवनीं चैव ह्रींकारादि नमोन्तिकम् ॥
प्. ५२अ) मायाबीजं नमोच्चार्य पुनः संजीवनी युतम् ।
मध्यस्थं पूजनं कुर्यात् पद्मे वृ(सु)दलेषु च ॥
सिते पीढं सितैः पुष्पैर्धूपं दीपं स चन्दनम् ।
नैवेद्यं विविधञ्चैव तस्याग्रे च निवेदयेत् ॥
मुद्राबंधं प्रकुर्वीत जाप्यं च तदनन्तरम् ।
अस्य मुद्रां प्रवक्ष्यामि स्थैर्यी करणमुत्तमम् ॥
पञ्चवक्रोद्भवा विद्या येन कालो वशी कृतः ।
अन्योन्य करपृष्ठानि अंगुली ग्रंथितं कुरु ॥
सव्याङ्गुष्ठेनवामस्य कन्य सा च निरोधयेत् ।
पुनरेव हि कर्तव्यं वामेन दक्सिणस्य च ॥
वामे ज्येष्ठांगुली चैव तर्ज्जन्या दक्षिणेन तु ।
गृहीत्वा तत्प्रयत्नेन दक्षिणस्य तथैव च ॥
मध्ये अनामिके द्वे तु उद्धृतव्यासु यत्नतः ।
कालसंकर्षणी नामपंचवक्त्राव्यवस्थिता ॥
अनेनैव विधानेन पूजितव्या प्रयत्नतः ।
एषा विद्या परागुह्या जीवाख्या मृत्युनाशनी ॥
न तस्या जायते मृत्युर्यदा साधयते तु सः ।
व्रत(ध्रुव)चर्यया समोपेतं ब्रह्मचारी दृढव्रतः ॥
जपते दशलक्षाणि लक्षहोमं तु गुग्गुलुं ।
शरीरस्था भवेद् देवि अमरत्वं प्रयच्छति ॥
दीर्घायुः स(य)सुराः सर्वे अस्या विद्या प्रभावतः ।
इतिपारमेश्वरीमते संजीवनीविद्या उद्धारः षट्त्रिंशतिमः पटलः ।
देव्युवाच
रुरुभेदे महातन्त्रे पूर्वोक्तं यत् त्वया प्रभो ।
उद्धृता तत्र मध्ये तु नित्या च मदनोत्कटा ॥
प्. ५२ब्)
वज्रप्रस्तारभेदेन कुलनित्या तथोद्धृता ।
पुनस्तस्यैव मध्ये तु विद्या च द्वादशाक्षरी ॥
आसनं पंचवाणानि सर्वदूती समन्वितम् ।
करणविज्ञानयोगं समाधीर्यादृशी भवेत् ॥
स्तंभनं कीलनं चैव मारणोच्चाटनन्तथा ।
सुवशी करणंस्त्रीणां सौभाग्यं यादृशं भवेत् ॥
कथं केन प्रकारेण सिद्ध्यते च कदाचन ।
किमर्थं तेन सिद्ध्यन्ति साधकानां सुरेश्वर ॥
महासंदेहमुत्पन्नम्महाभ्रान्ति क्षयं कुरु ।
श्रीभैरव उवाच
शृणु देवि प्रवक्ष्यामि यत् त्वया परिपृच्छितम् ।
वर्णानि बिंदु मात्राणि संप्रदायन्तथैव च ॥
कुलमार्गे स्थितं शुद्धं ज्ञातव्यं मेरु मध्यतः ।
अन्येषु सर्व तन्त्रेषु पंचवक्रोद्भवेषु च ॥
जीववर्णविहीनास्ते सिद्धविद्या अनेकधा ।
स जीवं निखिलं चैव बीजसंकरवर्जितम् ॥
संपूर्णसिद्धिदं चैव मेरुमध्ये व्यवस्थितम् ।
तमहं कथयिष्यामि संपूर्णं च यथा भवेत् ॥
वज्रप्रस्तारभेदेन या विद्या द्वादशाक्षरी ।
त्रिबीजरहिता सास्यादादिमध्यान्तमेव च ॥
तस्योद्धारं प्रवक्ष्यामि यन्मया गोपितं पुरा ।
भारभूति स्थितं रुद्रं यस्य पूर्वे सुरेश्वरि ॥
वामान्तं यद्भवेद्वर्णं तद्बीजं प्रथमं भवेत् ।
उच्चारं बिन्दुयुक्तं च तस्यान्ते अंबिका भवेत् ॥
रक्तवर्णसमारूढं लोकादि शिरसि स्थितम् ।
ध्रुवमालादि संभिन्नं द्वितीयं बीजमुत्तमम् ॥
प्. ५३अ)
उर्द्धे यस्य ऋकारं च स्वेतं रुद्रं पुरःस्तितम् ।
तद्वर्णं गृह्यमेधावी मांसवर्णासनं कुरु ॥
ऋपूर्वं च शिरोदत्तं गुह्यंतमग्रतस्थितम् ।
वामादि शिरसे तस्य ऋ(अ) आदि केवलं विदुः ॥
पंचमञ्च समाख्यातं बीजं वर्णासनं परं ।
पूर्वमेकादशे वर्णं उधृत्य वरवर्णिनि ॥
रुद्रान्तं शिरसे चैव दीपनी आसनस्थितम् ।
ऋ(ऌ)पूर्वं शिरसेदत्तं तत् षष्ठमं कुशाक्षरम् ॥
अस्याविद्यादिमं बीजं अंकुशाग्रे नियोजयेत् ।
सप्तमं च समाख्यातं बीजं परमदुर्ल्लभम् ॥
आषाढी यस्य ऊर्द्धे या? रोमध्ये व्यवस्थितम् ।
तद्वर्णं सूक्ष्मसंयुक्तं अष्टमं चाक्षरं विदुः ॥
मालिनी उरुमधे तु यत्र तारा व्यवस्थिता ।
वागीशमानारूढं ऋपूर्वं च शिरे(व्यव)स्थितम् ॥
नवमं बीजमित्युक्तं नितंबं केवलं पुनः ।
ऋषिमाला तृतीये तु तद्वर्णं संस्थितं विदुः ॥
फान्तं वर्णं समुद्धृत्य छि(त्रि)-ऊर्द्धे संस्थितं च यत् ।
केवलं तद्बिजानीयाद् बीजमेकादशं भवेत् ॥
पुनस्तं रक्तमारूढं द्वादशम्बीजमुत्तमम् ।
ऊर्द्धे च अंबिका देवी वामे मध्ये व्यवस्थिता ॥
त्रयोदशं च इत्युक्तं शिरे(र) यस्य ऋपूर्वकम् ।
अस्याविद्यादि अन्तस्थं तबीजमग्रतस्थितम् ॥
अस्यान्ते च पुनर्देवि आदिमं च नियोजयेत् ।
एषा सा परमा विद्या निखिलासिद्धि दायिका ॥
उत्पन्ना मेरुमध्ये तु विद्यापंचदशाक्षरी ।
प्. ५३ब्) पुनरन्यं प्रवक्ष्यामि आसनस्य यथाविधि ॥
ऋ अन्तं प्रथमं बीजं मालिनी कुसुमा युधम् ।
ल(न)कुलीशं तदग्रे तु ध्रुवान्तमध(ध्य)संस्थितम् ॥
दीपनी आसनारूढं विश्वादि भूषितं कुरु ।
क्रूरेण शिरसाक्रान्तं द्वितीयं बीजमुत्तमम् ॥
ई-अंते अधः संगृह्यपूंतना तस्य आसनम् ।
ऋपूर्वे शिरसिदत्तं सोपि बिन्दुयुतं कुरु ॥
शुक्रमध्योद्धृतं देवं लोकान्ते संस्थितं कुरु ।
चतुर्थं बीजमित्याहुस्तस्या विद्यादि अग्रतः ॥
पंचबीजमयं दिव्यं मूलविद्यासनं भवेत् ।
पंचवाणानि ये प्रोक्ता तेषुभूताक्षराणि च ॥
एकैकमाद-ऊद्धृत्य संपूर्णाश्च भवन्तिते ।
एकादशादि उद्धृत्य भ्रान्तान्तं तस्य दापयेत् ॥
रुद्रादि अन्तं संगृह्य झण्टीशेनसमन्वितम् ।
नवके ऋतुकोष्ठस्य हकारं यस्य ऊर्द्धतः ॥
चतुर्थं तद्विजानीयात् स्नायु रुद्रालयं परम् ।
नवके नाममध्ये तु बिल्वमध्ये व्यवस्थितम् ॥
आसनं वेदवर्णानां ककारादि स्थितास्तु ये ।
तृतीयेन विना देवि त्रिमूर्त्तिं त्रीणि भेदिता ॥
सर्वे बिन्दुयुताः कार्याश्चत्वारि अक्षराणि च ।
पंचमं आदिदातव्यं अन्तं बिंदु संयुतम् ॥
बिन्दुमस्तक योगेन पंचैते सिद्धिदायकाः ।
एतानि पंचबीजानि पंचवाणेषु दीपकाः(नाः) ॥
अनेनरहिता देवि निष्फलानि भवन्ति ते ।
आसनं पंचवाणानि मूलविद्या तु दूतयः ॥
प्. ५४अ)
यत्कर्म्म अत्रमध्ये तु मारणोच्चाटनादयः ।
पूर्वोक्तं यन्मयादेवि रुरुभेदे च मध्यतः ॥
वज्रप्रस्तार भेदेन उद्धृता ये मया पुरा ।
अनेनैव विधानेन सफलानि भवन्ति ते ॥
निर्बीजा नैव जायन्ते संप्रदायविवर्ज्जिताः ।
स विघ्नास्ते समाख्याता निर्बीजन्नैव पूजयेत् ॥
देव्युवाच
या सा विद्या त्वया प्रोक्ता त्रैलोक्य क्षोभ कारिका ।
यस्याविद्या प्रसादेन सिद्धोसौ मकरध्वजः ॥
द्वितीया च ततो देव पुनस्तस्य क्षयंकरी ।
कीदृशं च भवेच्चापं वाणानि कीदृशानि च ॥
कीदृशं च स्वप्रोक्तम्मूलविद्या तु किदृशी ।
सामर्थं कीदृशन्तस्य कथं चैव स सिद्ध्यति ॥
एतत् सर्वं महादेव प्रसादं कुरु भैरव ।
श्रीभैरव उवाच
अत्र मध्ये समुत्पन्ना विद्याकामाङ्गनाशनी ।
अष्टाविंशति वर्णानि कामनिर्नाशनी परा ॥
षड्वर्णरहिता सा तु कामसंजीवनी तु(पु) सा(रा) ।
धनुषं पंच वाणानि मूलविद्या समर्पिता ॥
एतानि क्रमयोगेन त्रैलोक्यं मोहयन्ति ते ।
आराधितोहं पूर्वं तु विष्णु पुत्रेण धीमता ॥
ततो मयासुतुष्टेन कामविद्या समर्पिता ।
शराणि धनुषं चैव मूलविद्या तु यादृशी ॥
एतानि वर्णभेदेन मंत्ररूपा व्यवस्थिता ।
जाप्यहोम मनुष्टानं मुद्रापुष्पाणि यानि च ॥
आसनं विधिसामर्थ्यं तत्सर्वं प्रकटी कृतम् ।
हेमकूटे गता(तदा) देवि गृहीत्वा केशवस्ततः ॥
प्. ५४ब्)
तत्रवर्षसहसार्द्धं विद्याराधनतत्परः ।
वर्णलक्षप्रमाणेन पूर्वं वाणजपं कृतम् ॥
कृतं होमदशांशेन पुष्पैस्तै परिजातकैः ।
घृतेनमधुसंयुक्तं हुतं हव्यं हुतासने ॥
द्वितीयं च पुनर्देवि तस्यापि चे दृशी क्रियां ।
वर्णलक्षप्रमाणेन सोपि जप्तो न संशयः ॥
अशोककुसुमैः क्षीरं होमन्तस्य समर्पितं ।
जाप्यं कृतं चतुर्थ(तृतीय)स्य चतुर्ल्लक्षप्रमाणतः ॥
करवीरकुसुमैरक्तैर्हुतं घृतविमिश्रितम् ।
जातीपुष्पैश्चतुर्थं च जलमध्ये जपं कृतम् ॥
तस्यापि तादृशी संख्या पंचमन्तदनन्तरं ।
सोपि क्षीरसमुद्रस्थं वर्णलक्षप्रमाणतः ॥
कृतं जप्तं विधानेन सिध्यते वरवर्णिनि ।
चापवद्वर्तुलाकारं लताजाति समुद्भवं ॥
सिद्धतस्य न संदेहो मूलविद्या जपं कृतं ।
स्म इत्वंतेन संप्राप्तं अस्याविद्याप्रभावतः ॥
स्वर्गे मर्त्ये च पाताले भूतग्रामे चतुर्विधे ।
द्वि पदे चतुष्पदे चैव अपादे पादसंकुले ॥
अधिकारं मयादत्तं कामदेवस्य सुन्दरि ।
प्रविष्टः सर्व देहेषु सृष्टिरूपाव्यवस्थिता ॥
पुनरन्यं प्रवक्ष्यामि उद्धारं यादृशं भवेत् ।
यादता कामदेवस्य शृणुष्वैकाग्रमानसा ॥
पञ्चप्रणवादि उद्धृत्य क्रोधवर्णं द्वितीयकं ।
सकारस्य अधश्चैव आसनं तस्य दापयेत् ॥
ध्रुवमाला(ना)दिसंयुक्तं अंबिका तस्य मूर्द्धगा ।
लोकादि शिरः संयुक्तं द्वितीयं बीजमुत्तमम् ॥
प्. ५५अ)
नवके वाम ऊर्द्धे तु जुकारस्य अधस्थितम् ।
नागमध्यगतं देवि आसनं तस्य दापयेत् ॥
त्रिमूर्त्ति सहितं कुर्या च्छूलदण्डासनस्थितम् ।
तृतीयं बीजमित्याहुर्बिन्दुमस्तकभूषितम् ॥
अं-आदिवर्णं (स)मुद्धृत्य शिव(र)स्य अधःसंस्थितम् ।
अनन्तेन समायुक्तं बिन्दुमस्तकभूषितम् ॥
अर्घीशस्य अधश्चैव स्नायु वर्णोर्द्धसंयुतम् ।
आसनन्तस्य देवेशि भृगुं च भैरवं कुरु ॥
दीपिनी शक्तिमारूढं क्षे-अंतेन तु भूषितम् ।
पंचमं बिन्दुसंयुक्तं जीवाकृष्टि करंपरम् ॥
पुनस्तं भृगुकं देवि तस्याग्रे केवलं विदुः ।
पुनस्तं शूलदण्डं च स्नायु वर्णासनं कुरु ॥
देवशुक्रसनोद्धृत्य शूक्ष्मरुद्रेणभेदितम् ।
शूलदण्डसमारूढं अष्टमं बीजमुत्तमम् ॥
ककारान्तं समुद्धृत्य कैवल्यवर्णभूषितम् ।
मातरादि समारूढं नवमं सृष्टि दायकम् ॥
चान्तस्य(वान्तं) अव(तस्य)संगृह्य भूतेषु वेदमन्दिरे ।
त्रिमूर्त्तिसहितं कुर्यात् त्रिशूलन्तेषु अग्रतः ॥
अनन्तं पूर्वतः कृत्वा तस्यान्ते क्रोधमालिखेत् ।
क्रोधान्तरक्तमूर्द्धस्थं ककारान्तं नियोजयेत् ॥
तस्याग्रे त्व च बीजं च पूर्णिमायान्ततोद्धरेत्(वयं) ।
विद्यादौ पंचबीजानि अन्ते कुर्याद् विलोमतः ॥
द्वात्रिंशदक्षरी विद्या संभूता मेरू मध्यतः ।
एषा विद्या परागुह्या पंचवाणसमन्विता ॥
अस्याधारणयोगेन सिद्धोसौ मकरध्वजः ।
सिद्धविद्याधरादैत्या यक्षगन्धर्व किन्नराः ॥
प्. ५५ब्)
मानुषापन्नगाश्चैव ये चान्ये सा काः प्रिये ।
विद्याराधनयोगेन कामदेव समास्तुते ॥
यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा ।
संपर्कालापयोगेन विह्वलं भव(ज)ते जगत् ॥
द्रवन्ति दर्शनाअद्देवि त्रैलोक्ये योषितस्तु याः ।
क्षोभयेन्नात्रसंदेहो मुनीनां च मतः प्रिये ॥
पूजनान्तेन देवेशि त्रैलोक्यं वशगं भवेत् ।
स्त्रीणां चैव विशेषेण महासंमोहकारकम् ॥
तिष्ठते यस्य देहस्या विद्यावाणेषु संयुता ।
सततं जपमानस्य शतमष्टोत्तरस्य च ॥
कामदेवः स्वयं साक्षात्मानुषं देहमाश्रितः ।
इतिपारमेश्वरीमते वज्रनित्याकामदेव्या उद्धारे सप्तत्रिंशतिमः पटलः ॥
देव्युवाच
पूर्वोक्तं यत्त्वयादेव गर्भयागं सुदुर्ल्लभं ।
अपुत्रमानुषीणां च सुतोत्पत्तिः कथं भवेत् ॥
तन्मे ब्रूहि महादेव मानुषाणां हिताय वै ।
श्रीभैरव उवाच
या सा विद्या महागुह्या काम देवेन साधिता ।
तेनैव विधियोगेन गर्भद्यागं वदाम्यहम् ॥
सृष्टिर्ब्रह्ममयासापि उत्पन्नामेरुमध्यतः ।
तमहं संप्रवक्ष्यामि विधानं यादृशं भवेत् ॥
सुशुद्धे भूप्रदेशे च कृत(क्ष)वल्मीक वर्ज्जिते ।
प्रविश्यब्राह्मणीं भूमीं श्वेतपीता चर्या भवेत् ॥
क्षत्रिणानृपभयावः(मित्याहुः) पीतवर्णा च केवला ।
किंचिद्रक्तमयापीता वैश्या नामवसुन्धरा ॥
रक्तकृष्णमयी या तु शूद्री सा परिकीर्त्तिता ।
प्. ५६अ) यस्य यस्य हि वर्णस्य गर्भयागं च कारयेत् ॥
तस्यतस्यांशके भूमीं गृहीत्वा फलदा भवेत् ।
अन्यवर्णान्य भूमीषु स विघ्नानि भवन्ति च ॥
आचार्येण कृते देवि यजनं निष्फलं भवेत् ।
तस्माद्भूमीं परीक्षेत यजनं तु सदा कुरु ॥
शोभने भूप्रदेशे च हस्तमुद्धृत्यमृत्तिकां ।
कुटि?तव्यं प्रयत्नेन क्षीरदारुसमुद्भवैः ॥
मुद्गरैः शोभनैश्चैव इष्टं चूर्णेन शोभितम् ।
अष्टहस्तप्रमाणेन तत्रस्थानं सुशोभनं ॥
वेदीं कृत्वा प्रयत्नेन क्षीरदारु समुद्भवम् ।
स्वेतानि कुंभयुक्तानि चत्वारि तोरणानि च ॥
चूतपल्लवसंभूतैर्म्मार्ज्जयित्वा च वेदिकां ।
तत्रमध्यगतं कुण्डं षट्कोणं मण्डलं प्रिये ॥
कोणे कोणेषु कर्त्तव्यं वर्द्धन्या सहितं घटम् ।
पंचरत्नेनसंपूर्णं शुद्ध * *?समन्वितम् ॥
पुष्पवस्त्राक्षतैर्दीपैः परिपूर्णानि कारयेत् ।
माङ्गल्यं गीतवाद्यञ्च चतुर्वेदमयी ध्वनिः ॥
अरस्थं पावकं गृह्यक्षीरदारु समुद्भवम् ।
प्रक्षिप्तं कुण्डमध्ये तु इन्धनं च ततोद्भवम् ॥
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
उक्तं मन्थान भेदेन अमराग्न्धोयं मया पुरा ॥
कुलद्रव्यानि संगृह्य तेषु पिण्डसमुद्भवः ।
षष्टितं दुनप्रस्थं च क्षतलीनं सुनिर्म्मलम् ॥
गवांक्षीरेणसंयुक्तं ताम्रपात्रं सुशोभने ।
कुलाचार्येण कर्त्तव्यं साधनं चरुकस्य च ॥
मुद्रया मुद्रितं कृत्वा चतुर्दिक्षुवलिं हरेत् ।
भूमी कुंभाक्षता दीपाः कुण्डारणिहविस्तथा ॥
प्. ५६ब्)
पंचभूतेषु संभूताः पंचद्रव्यानि यानि च ।
(पात्रं उदकाद्यानि यानि च) मूलविद्या तु देवेशि कुर्यात् सप्ताभि मन्त्रिता ॥
पूजयित्वा प्रयत्नेन अग्निस्थं चरुकं कुरु ।
यावत् तत्सिध्यते देवि तावन्मन्त्रं मनुस्मरेत् ॥
आसनं वामसंयुक्तं मौनं कुर्यात्सुयत्नतः ।
अस्यमन्त्रप्रसादेन सिद्ध्यते नात्रसंशयः ॥
अवतार्यसुयत्नेन यावद्भवति शीतलम् ।
ऋतुकाले तु संप्राप्ते चतुर्थे पंचमे पवा ॥
सुगन्धैः शोभनैर्द्रव्यैः स्नानं कृत्वा सुयत्नतः ।
पीठे चतुष्कमध्ये तु उपविश्य सुखासने ॥
नमस्कारं प्रकुर्वीत भक्षितव्यं प्रयत्नतः ।
दक्षिणाचारयोगेन पुरुषं(पुमान्?) भवनिर्मितम्(भवति निश्चितम्) ॥
वामेकन्या समाख्याता उभये तु नपुंसकम् ।
सर्वेषु दक्षिणान्दद्याद्विप्रेषु साधकेषु च ॥
चारणेषु कुमारीषु ये चान्ये लिङ्गधारिणः ।
आचार्यं पूजयेद् देवि राजाश्च रत्नकांचनैः ॥
गोदानं भूमिदानं च अन्नदानं तथैव च ।
दिव्याभरणवस्त्राणि प्रणिपत्यनिवेदयेत् ॥
गर्भयागमिदं देवि कुलमार्गे व्यवस्थितम् ।
न देयं पशुलोकेषु आगम द्वेषकारके ॥
कौलिकं चरुकं दिव्यं दीक्षितस्य प्रदापयेत् ।
अन्यथा सिद्धिहानिः स्याद्भवते नात्रसंशयः ॥
इति पारमेश्वरीमतेगर्भयागे अष्टत्रिंशतिमः पटलः ।
देव्युवाच
पूर्वे मृगावतारे च अनुष्ठानं त्वया कृतम् ।
युष्मद्देहे समुत्पन्ना योगिन्यः षड्विधानि च ॥
प्. ५७अ)
कोटीमेकं स पादञ्च उग्रतेजा महाबलाः ।
तेषु(तामिस्)त्वं प्रार्थितो देव आत्मपिण्डं ददस्व मे ॥
युस्मत्पिण्डेन भुक्तेन अलिनामिश्रतेन च ।
सर्वास्ता तृप्तिमायान्ति चक्रस्थाः क्रीडयन्ति च ॥
त्वया उक्तं पुनर्देव गृह्णगृह्णेति भाषितम् ।
आत्मरक्षाकृता चैव वज्र चक्रस्य मध्यतः ॥
मयापि ईऽऽदृशी वार्त्ता श्रुता कैलासमध्यतः ।
महाक्रोधसमुत्पन्ना ममदेहाद्विनिर्गता ॥
भासयन्ती जगत्सर्वं द्वादशादित्य सन्निभा ।
भक्षयामि न संदेहो योगिनी चक्रमुत्तमम् ॥
ततो ब्रह्मादयो देवा आगताः पुरतो मत ।
स्तुतोहं विविधैः स्तोत्रैर्योगिनीसंघरक्षितम् ॥
ज्ञात्वा तेजश्च बीजं च वर्ण भूता त्वया कृतं ।
त्रोतलानामविख्याता दशदूती क्षमन्विता ॥
तस्याङ्गानि च चक्रानि आसनं मुद्रया सह ।
युक्ता युक्तानि कर्म्माणि निग्रहानुग्रहाणि च ॥
सप्तकोट्ययुतानां च पूर्ववक्रेण भाषिता ।
तत्र मध्ये समुत्पन्नं तोतलं तंत्रमुत्तमम् ॥
स पादलक्षमानेन या विद्या तत्र संस्थिता ।
कीदृशं तत्र सामर्थ्यं कर्माणि कीदृशानि च ॥
श्रीभैरव उवाच
त्रोतलं च महातन्त्रं पूर्व वक्त्रात्समुद्भवम् ।
अत्रसिद्धो महादेवि सूर्यवंशे प्रजापतिः ॥
तनापि भयभीतेन त्रिभिर्म्मन्त्रैस्तु मुद्रिता ।
आदिमध्यावसानेषु वर्णमात्रादि मेन हि ॥
पुनरेव त्रिभिर्म्मुद्रेरुट्घाटं तस्य कीदृशं ।
प्. ५७ब्) मुद्रास्त्रिस्रः समाख्याता मेरुमध्ये व्यवस्थिता ॥
पारंपर्यक्रमेणैव गुरुवक्त्रात् तु लभ्यते ।
उद्घाटरहिता विद्या सिद्ध्यते न कदाचन ॥
महाविघ्नं च कुरुते सुतदारार्थनाशनं ।
व्याधिश्च शोकसंताप दुःखानि विविधानि च ॥
तस्मात्सर्वप्रयत्नेन सम्यगुद्घाटनं कुरु ।
उद्घाटिता महाविद्या स जीवासफला भवेत् ॥
सिध्यते नात्रसंदेहश्चतुर्वर्ण(र्ग)फलप्रदा ।
मेरुमध्य गता देवि यथा भवति तच्छृणु ॥
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
कुलाचार्येणकर्त्तव्या गुटिकां शुभलक्षणाम् ॥
पुनस्तां मूलविद्याया(द्यया) कुर्याद्विंशाभि मन्त्रिता ।
पादादारभ्यमूर्द्धान्तं विद्या(स्था)नानियानि च ॥
कर्त्तव्यं क्रमयोगेन तिलकं साधकेन तु ।
महारक्षा समाख्याता त्रैलोक्ये स चराचरे ॥
विघ्नं नैवप्रकुर्वन्ति नागाविद्याधरादयः ।
आसनं च ततः कुर्यात् सिंहं च विकृताननम् ॥
तस्योद्धारं प्रवक्ष्यामि मेरुमध्ये यथास्थितम् ।
शिवस्य अर्द्ध(मुख)पूर्वस्थं रुद्रं संवर्त्तकं विदुः ॥
क्रूरानन्देनसंयुक्तं बीजं पञ्चाननस्य च ।
संवर्त्तकस्य पूर्वेण द्वितीयं चाक्षरा भवेत् ॥
तस्य पूर्वे पुनर्देवि तृतीयमक्षरं भवेत् ।
वामे मध्यगतं गृह्य नवके स्नायु भैरवम् ॥
चतुर्थञ्च समाख्यतं जयन्ती पुरतः स्थितम् ।
भुजंगमासनन्तस्य पंचमं बीजमुत्तमम् ॥
रुद्रमध्यगतं गृह्य ज्ञानशक्ति विभूषितम् ।
तस्यन्ते अंबिका देवि सप्तमं च सदालिखेत् ॥
प्. ५८अ)
ऋकारादि समुद्धृत्य ध्रुवादि आसनस्थितम् ।
भुजंगञ्च पुनर्देवि ज अन्ते आसने स्थितम् ॥
पुनरेतानिवर्णानि उभौ अग्रे नियोजयेत् ।
क्रोधरुद्रोद्भवं वर्णं क्षे मध्ये व्यवस्थितम् ॥
त्रिमूर्त्तिभूषितं कुर्याल्लोकादि संयुतं कुरु ।
द्वादशं च महादेवि बीजं पंचाननस्य च ॥
वेनमध्यगतं गृह्यध्रुवं यस्य अधः स्थितम् ।
विश्ववर्णं च विख्यातं तस्यान्ते(त्रे) वालमध्यगं ॥
एतद्वै वर्णयुगलं अस्याग्रे तु पुनर्लिखेत् ।
ततो मध्यगतं देवि खि(आ)कारस्य अधः स्थितम् ॥
केवलं च समुद्धृत्य बीजं सप्तदशाक्षरम् ।
मालिनी वायुवेगा च वामेशिखरसंस्थिता ॥
शिरसि तस्य दातव्यं भुजंगन्नात्रसंशयः ।
पुनरेतानि बीजानि युगल तस्य चाग्रतः ॥
प्राणव(णान्त)र्णं समुद्धृत्य तस्यान्ते पुरतः स्थितम् ।
हुं अन्तं च पुनर्देवि अनन्तेनसमन्वितम् ॥
क्रूरवर्णं शिरेदत्तमासनं समुदाहृतम् ।
पंचाननं समाख्यातं उग्रबीजं महाबलम् ॥
स धर्मं नारसिंहं च विंशद्वर्णं त्रयाधिकम् ।
अस्य जापेन देवेशि लक्षजापेन यद्भवेत् ॥
ये के चिद्ग?जसंघातास्त्रिस्थानमदविह्वलाः ।
तस्य दृष्टि निपातेन मदहीना भवन्ति ते ॥
गन्धेन प्रलयं यांति विद्रवन्ति दिशोदशः ।
सिंहव्याघ्राश्च नागाश्च भूतप्रेताश्च राक्षसाः ॥
असनीर्वज्रसंघातं क्षुद्र कर्माणि यानि च ।
विषयन्त्रं(न्तं) न(त्र) तस्यास्ति महाविघ्नानि यानि च ॥
प्. ५८ब्)
आसनेन तु सिद्धेन महारक्षा च जायते ।
आसनेन विना देवि महाविघ्नैर्विभूयते ॥
अथातः संप्रवक्ष्यामि मूलविद्या तु यादृशी ।
निखिला विघ्नहीना च स जीवा यादृशी भवेत् ॥
प्राणवर्णं समुद्धृत्य सूक्ष्मरुद्रेणसंयुतम् ।
लोकादि शिरसाक्रान्तं त्रिमूर्ति संयुतं कुरु ॥
पुनस्तद्वर्णमुद्धृत्य ध्रुवान्ते आसनस्थितम् ।
नादबिंदु शिरेदत्तं द्वितीयं बीजमुत्तमम् ॥
भारभूतिरधो गृह्य शिखरे उर्द्ध्वसंस्थितम् ।
झण्टीशेनसमायुक्तं देवी वक्त्राक्षरं परम् ॥
मनोमध्यगतं देवी(गृह्य) कूर्मरुद्रालयं परम् ।
रुद्रबीजं समाख्यातं कंठस्थं त्वरितस्य च ॥
सिंहमध्यगतं गृह्य ध्रुवस्य अधः संस्थितम् ।
ज्ञान(क्रिया)शक्ति शिरेदत्तं हृ(त)द्बीजं शक्तिसंस्थितम् ॥
संवर्त्तकं समुद्धृत्य सूक्ष्मरुद्रेणसंयुतम् ।
नाभिवर्णं विजानीयात्त्रोतलस्य न संशयः ॥
भृगुवर्णं पुनर्देविसि पूर्वेयद्व्यवस्थितम् ।
नागमध्यासनारूढं ऌ आदि भेदितं कुरु ॥
ऌपूर्वं च शिरेदत्तं शूलदण्डासन स्थितम् ।
विष्णुबीजमिदं प्रोक्तं तद्गुह्यं त्वरितस्य च ॥
पुनः संहारिणी देवी मालिनी नाभिमण्डले ।
ज्ञानशक्ति समायुक्तं ब्रह्मबीजं सुदुर्ल्लभम् ॥
ऊरुभ्यां संस्थितं देवि त्रोतलस्य वरानने ।
नवकादिरिपूर्वस्थं प्राणान्तस्यो परिस्थितम् ॥
बिंदुमस्तकसंभिन्नं अर्घिशासनसंस्थितम् ।
सूर्यबीजं विजानीयाज्जातुभ्यां देवि संस्थितम् ॥
प्. ५९अ)
भूतादि संस्थितं वर्णं वामपादे च(न) मालिनी ।
तस्याग्रे तु पुनर्देवि वर्णं सोमेश्वरस्य च ॥
ध्रुवादिखण्डमारूढं पादानि त्वरितस्य च ।
एषा देवि समाख्याता विद्या परम दुर्लभा ॥
निखिला च समाख्याता सिद्ध्यंते नात्रसंशयः ।
देव्युवाच
पूर्वं देव त्वयाख्यातं मुद्रितात्व(न्त)रिता स्थिता ।
तेन(तत्र) जानाम्यहं नाथ कीदृशानि भवन्ति ते ॥
श्रीभैरव उवाच
यो सौ प्रजापतिः सिद्धो अस्याविद्या प्रभावतः ।
तेनापि(एतानि)पूर्ववक्त्रे तु गृहीत्वा त्रोतलोत्तरम् ॥
उद्धृत्य त्वरिता विद्या त्रिभिर्मुद्रैस्तु मुद्रिता ।
तेजोहीनं कृतं सूर्यं मात्राहीनं विहंगमम् ॥
शिरेवर्णविहीनं च एभिर्मुद्रैस्तु मुद्रितम् ।
आसनस्य तु देवेशि तस्यापि ईदृशं कृतम् ॥
बीजं बीजं च सामर्थ्यं हुतं पंचाननस्य च ।
आदि मध्या वसाने तु त्रिवर्णरहितं कृतम् ॥
मुद्रिता वर्णहीनाद्य स्ववर्णफलदायकाः ।
उद्घाटमीदृशं तेषां मेरुमध्ये व्यवस्थितम् ॥
अस्यापि नव(दश)दूतीनां वज्रतुण्डादि संस्थितं ।
विद्यादि वर्णसंयुक्ता निखिलानि भवंति ते ॥
विद्याङ्गानि करन्यासं जाप्यं होमं तथैव च ।
उद्घाटसहिता देवी सिध्यते नात्रसंशयः ॥
पूर्वोक्तमन्त्रमध्ये तु यत्कर्मफलदायकम् ।
स्तंभनं कीलनं चैव परराष्ट्रस्य भंजनम् ॥
वेताल साधनं चैव पिशाचराक्षसादयः ।
घटं कन्यावतारञ्च अकाले मेघवर्षणं ॥
प्. ५९ब्)
दैत्यविद्याधरानां च तेषु कन्या प्रसाधनम् ।
खड्गमालाजनं शूलं विवराणां प्रवेश(साध)नम् ॥
गुटिका पादुकानां च परकाय प्रवेशनम् ।
नागानां नागकन्यानां पुष्पद्रव्यानि यानि च ॥
सिध्यन्ति नात्रसंदेहः सर्वाकृष्टिकरं परम् ।
यक्षिणी साधनं चैव खेचरत्वं न संशयः ॥
भूपतेः साधनञ्चैव अदृश्य(मुद्रिसं)पदमुत्तमम् ।
तिलकं पादलेपं च योगिनीनाञ्च मेलकम् ॥
भवेद्विद्याधराणाञ्च चक्रवर्त्तिर्नसंशयः ।
भवेत् सौभाग्यमतुलं त्वरिता यस्य देहगा ॥
पंचोपचारसहितं शुद्धभक्तिसमन्वितम् ।
राजपत्नी विशेषेण या तु पूजयते इमां ॥
शतं सहस्रलक्षं तु नारीणामुत्तमा भवेत् ।
पुरुषोपि लभेद्राज्यं पूजनेन न संशयः ॥
एषा विद्या मयाख्याता उद्घाटसहिता प्रिये ।
अस्याविद्या प्रसादेन सर्वकामार्थसाधकम् ॥
नवलक्षेणजप्तेन होमेन साधितेन च ।
अस्याविद्याः प्रसादेन विद्याधरपतिर्भवेत् ॥
इति पारमेश्वरीमते त्वरितानिखिलोद्धार एकोनचत्वारिंशतिमः पटलः ॥
देव्युवाच
त्वया पूर्वं प्रतिज्ञातं अघोरं मंत्रमुत्तमम् ।
कस्मिन् स्थाने समुत्पन्नं सामर्थ्यं तस्य कीदृशं ॥
श्रीभैरव उवाच
कथयामि न संदेहो यत्त्वयापरिपृच्छितम् ।
द्वात्रिंशदक्षरोपेतं अघोरं नामनामतः ॥
रुरुभेदे महातन्त्रे सिद्धयोगेश्वरी मते ।
स्वच्छन्दललिते घोरे मार्त्तण्डे शिवसाधने ॥
प्. ६०अ)
त्रिखण्डे च निशाचारे योगिनीजालसंवरे ।
प्रचण्ड(पञ्च)मुण्डमालायां मत्स्योदर्यां महार्णवे ॥
एतेषु सर्वतन्त्रेषु जीवहीनं प्रकाशितम् ।
शक्तिप्राणविनिर्म्मुक्तः पंचबीजविवर्ज्जितः ॥
सामर्थ्यरहितो मन्त्रः सिध्यते न कदाचन ।
देव्युवाच
यदा न सिद्ध्यते मन्त्रं प्रत्ययो नैव जायते ।
देवदानवसिद्धानां भ्रामिते किं प्रयोजनम् ॥
श्रीभैरव उवाच
यत्पृष्ठं कथयिष्यामि भ्रान्तिनिर्नाशनं परम् ।
अघोरस्य प्रसादेन दैत्यदानवराक्षसाः ॥
जाप्येन दिव्यहोमेन ते च सिद्धामहाबलाः ।
दिव्य अस्त्रधरादैत्या दिव्य यानैर्व्यवस्थिताः ॥
इन्द्राद्या देवताः सर्वे कृतास्ते हीनशक्तयः ।
स्वर्गे मर्त्ये च पाताले प्रतिमल्लोन दृश्यते ॥
तत्सर्वं(दर्थं) च मया मन्त्रं वर्णकीलैस्तु कीलितं ।
हृ(कृ)तानि पंच बीजानि भकारेण तु पूरितम् ॥
द्वात्रिंशदक्षरं मन्त्रं बीजहीनं प्रकाशितम् ।
भकारसहितं मन्त्रं नमस्ते मध्यसंस्थितम् ॥
अष्टकीलामयादतत्ते नासौ नैव सिध्यति ।
देव्युवाच
अघोरं च महामन्त्रं निखिलं सिद्धिदायकम् ।
प्रसादं कुरुदेवेश यदितुष्टोसि मे प्रभो ॥
श्रीभैरव उवाच
साधुसाधु महाप्राज्ञे साधकानां च वत्सले ।
कथयामि न संदेहो यन्मया गोपितं प्रिये ॥
सुसमे भूप्रदेशे च निम्नोन्नत विवर्ज्जिते ।
प्. ६०ब्) पुष्पप्रकरशोभाढ्ये गंधधूपादि वासिते ॥
तत्र स्थाने शुभे रम्ये कुंभं वारिसमन्वितम् ।
पंचरत्नेनसंपूर्णं दीपाक्षतसमन्वितम् ॥
श्वेतचन्दनलिप्तांगं श्वेतवस्त्रावगुण्ठितम् ।
चतुर्दिक्षु इमां कृत्वा मध्ये मेरुं समालिखेत् ॥
पंचोपचारसंयुक्तं आसवं फल्गुना सह ।
पूजयित्वा विधानेन उद्धरेन् मन्त्रमुत्तमम् ॥
कैलासशिखरासीनं आदौ श्रीकण्ठसंस्थितम् ।
तस्याग्रे विश्वमालायां द्वितीयं बीजमुद्धरेत् ॥
दक्षवाहुसमुद्भूतं शिवस्य कंकणं लिखेत् ।
सद्योजातेनसंयुक्तमकारपूरतः स्थितम् ॥
शूलदण्डं तृतीयं च नवके आदि संस्थितम् ।
झण्टीशेनसमायुक्तं तृतीयं बीजमुत्तमम् ॥
भूतीशं वर्णमुद्धृत्य अक्रूरेण समन्वितम् ।
तस्य बीज प्रभावेन सृष्टिरूपपितामहः ॥
अस्याग्रे ग्रहमालायामष्टमेन(सप्तमे यद्) व्यवस्थितम् ।
पंचमं तद्विजानीयान्मालिनीं आसनोद्भवम् ॥
ऋ-अंतं तस्य दातव्यं पुरतस्तस्य कंकणम् ।
सद्योजातेनसंयुक्तं भुजंगं तस्य अग्रतः ॥
ऋपूर्वेण शिरोभिन्नं सप्तमं बीजमुत्तमम् ।
अंबिका बीजमुद्धृत्य नवादि आसनस्थितम् ॥
लोकादि शिरसाक्रान्तं त्रिमूर्त्तिं भेदितं कुरु ।
विष्णुबीजं विजानीयात् सर्वसिद्धिप्रकाशकम् ॥
प्. ६१अ)
अस्य मन्त्रं द्वितीयं च भुजङ्गं च अतः परं ।
उभौ एतानि बीजानि पुरतस्तस्य दापयेत् ॥
भाग(व)मेध्यं समुद्धृत्य आषाढी रुद्रमुत्तमम् ।
ऋपूर्वेण समायुक्तं नवादि अग्रतस्थितम् ॥
णाधवर्णं(सोह्यादिवर्ण) समुद्धृत्यं व(रे)अन्तं यद्व्यवस्थितम् ।
संवकं रुद्रमित्युक्तं अस्थिमध्ये व्यवस्थितम् ॥
नवादि आसनं दद्यात् जिह्वाशक्ति प्रभेदितम् ।
अंकुरेणशिरोभिन्नं लक्ष्मी बीजं प्रकीर्तितम् ॥
आस्य जाप्येन होमेन अलक्ष्मीर्नैवतिष्ठति ।
इच्छाशक्तिं विजानीयादीप्सितं फलमाप्नुयात् ॥
पुनः संवकमुद्धृत्य चतुर्थ ऋषि आसने ।
मालिनी नेत्रमित्याहुस्तृतीयं यद्व्यवस्थितम् ॥
षोडशं च समाख्यातं नेत्रं कूर्म्मसमुद्भवम् ।
एकादशे चतुर्थञ्च रुद्रं शुक्रसमुद्भवम् ॥
भृगुं नामविजानीयात् षोडशान्ते समालिखेत् ।
भूतमध्य चतुर्थञ्च रुद्रं पृष्ठसमुद्भवम् ॥
नवादिशिरसाक्रान्तं आषाढी तस्य अग्रतः ।
ॡ(ऋ) अन्तेन समायुक्तं तस्याग्रे संवकं भवेत् ॥
विंशवतद्विजानीयान्मंत्र(दान्त) शान्तं(त्रेणान्ते) पुनर्ल्लिखेत् ।
पुनर्भृगोद्भवं वर्णं तस्य पूर्वं पुनर्लिखेत् ॥
झण्टीशेन समायुक्तं अक्षरं परमं विदुः ।
वामाङ्गमालिनी लिख्य भूतादि यद्व्यवस्थितम् ॥
शिखिवाही विजानीयाद् रुद्रं कुक्षिसमुद्भवम् ।
शूलदण्डासनारूढं ऋ-आदिमूर्द्ध्निसंस्थितम् ॥
अंक्रुरेण समायुक्तं चामुण्डा हृदयं परम् ।
प्. ६१ब्)
तच्चघोरतरं बीजं जितकालानलप्रभम् ।
अस्यस्मरणमात्रेण ब्रह्माणं परिकंपति ॥
रक्तभैरवमुद्धृत्य अतिथेश्चैव पश्चिमम् ।
तस्यमूर्द्ध्नि प्रदातव्यं धात्रीशं रुद्रमग्रतः ॥
सोपि रक्तसमारूढं पुनरक्तं समालिखेत् ।
ध्रुवान्तमासनस्थं(न्त) च(स्य) सप्तविंशतिमं विदुः ॥
लोहितं रुद्रमालायां नवमे यद्व्यवस्थितम् ।
झण्टीशेन समायुक्तम्मालिनी हृदयं परम् ॥
एकादशे चतुर्थं च शू(मू)लदण्डासनस्थितम् ।
च्छान्तं मूर्द्ध्निप्रदातव्यं रुद्रानुग्रहभेदितम् ॥
क्रूरेणशिरसाक्रान्तं बीजं चैव परापरम् ।
यस्योच्चारतामात्रेण त्रिकालं च दिवानिशि ॥
विंशज्जन्मकृतं पापं भस्ममायाति तत्क्षणात् ।
सप्तमं रुद्रमालायां मालिनी मूर्द्ध्निसंस्थितम् ॥
केवलन्तं विजानीयाद्वंशं विंशदशाक्षरम् ।
ऋषिमाला तृतीयं च नितंवमालिनीं विदुः ॥
रुद्रं हृदयसंभूतं महाकालन्तदक्षरम् ।
एकादशे चतुर्थञ्च भैरवं शुक्रसम्भवम् ॥
नागमध्यासनारूढं झण्टीशं मूर्द्ध्निदापयेत् ।
एतन्मन्त्रवरं गुह्यं द्वात्रिंशदक्षरं भवेत् ॥
अघोरं च समाख्यातं सिद्धिसान्निध्यकारकम् ।
स्वर्गे मर्त्ये च पाताले ये मंत्रा दिव्यरूपिणः ॥
तान्येवसप्तकोटीनां अयं राजासुरेश्वरि ।
दृश्यते यस्य पार्श्वे तु चतुःशृंगो महानगः ॥
उद्धारं मन्त्र राजस्य नास्त(देयस्रे)कि मतः परम् ।
मणिरन्तैश्च संपूर्णमासमुद्रान्तमेदिनीं ॥
प्. ६२अ)
दक्षिणां गुरवेदद्यान्नतस्य निर्-ऋणी भवेत् ।
तथापि संवृ(भृ)ताचारा गुरुपूजा प्रयत्नतः ॥
गोदानं भूमिदानं च अन्नदानन्तथैव च ।
दिव्याभरणवस्त्राणि प्रणिपत्यनिवेदयेत् ॥
पूजयित्वा प्रयत्नेन आज्ञाप्रार्थयते ततः ।
आज्ञालब्धेन देवेशि कृतार्थं मन्यते तनुं ॥
आदेशं गुरुतो लब्धा ततो यजनमारभेत् ।
संशोध्यभूमिं यत्नेन सर्वलक्षणसंयुतां ॥
आश्रमन्तत्र कुर्वीत क्षेत्रमालंभनं कुरु ।
अश्वस्थकीलकं पूर्वं हस्तमात्रं प्रमाणतः ॥
अष्टोत्तर शतंजप्त्वा दूती मन्त्रेणसाधकः ।
निखनेद्भूमि मध्ये तु अग्निदूतीं ततोर्द्ध्वतः ॥
सोपि तेन विधानेन कीलकः खदिरोद्भवः ।
दक्षिणे देवदारुं च नैर्-ऋते तु विभीत्तकम् ॥
औडुम्बरं तु वारुण्यां वायव्ये शिशयोद्भवम् ।
उत्तरेवटसंभ्हुतमैशान्यां बिल्वसंभवम् ॥
महापूजाप्रकुर्वीत साधको मन्त्र तत्परः ।
पंचमुद्राधरो वीरो रक्त कृष्णाम्वरस्तथा ॥
सिंहचर्मासने चापि अभावे मृगचर्म च ।
भस्मस्नानं प्रकुर्वीत मन्त्रस्नानं ततोर्द्ध्वतः ॥
कृत्वायज्ञोपवीतानि दर्भकार्पाशकेशजां ।
अंगन्यासंप्रकुर्वीत मूलमन्त्रेणसाधकः ॥
एकोच्चार्ं करेशुद्धिः परस्परविमार्जितौ ।
हृदये एकमुच्चारमेकेनैवशिरो भवेत् ॥
शिखा एकेन इत्याहुरेकं कवचसंस्थितम् ।
त्रिनेत्रमेकमुच्चारं षद्विधं मंत्रसंस्थितम् ॥
प्. ६२ब्)
अङ्गन्यासंप्रकुर्वीत जात्पङ्गसहितं प्रिये ।
पूजितव्यं महादेवि पूर्वं गुरुमुखाच्छ्रुतम् ॥
कुंकुमं चन्दनं चैव गोरोचनमधु तथा ।
एतानि सर्वद्रव्याणि रक्तेन सहितानि च ॥
चतुरस्रं मण्डलं कुर्यान्मध्ये पद्मं समालिखेत् ।
मन्त्रादौ वेदवर्णानि अवर्ण सहितानि च ॥
त्रयान्ते च त्रयान्ते च त्रयान्ते च पुनः पुनः ।
मन्त्रबीज प्रभेदेन विदर्भेनसमुच्चरेत् ॥
ब्रह्मेन्द्रसहितादूती अवतर-अवतर नमः ।
अनेन विधिना देवि पूर्वे दिशि प्रपूजयेत् ॥
पुनश्चत्वारि वर्णानि कवर्गेन विदर्भिताः ।
माहेश्वरी अग्नि दूति च अवतर-अवतर नमः ॥
आग्नेयां दिशि पूजयेत् ।
घोरे घोरेति वर्णानि च वर्गेन विदर्भिताः ।
कौमारी यमदूती च अवतर-अवतर नमः ॥
दक्षिणा दिशि पूजयेत् ।
पुनश्चत्वारि वर्णानि टवर्गेण विदर्भिताः ।
वैष्णवी राक्षी दूती अवतर-अवतर नमः ॥
नैर्-ऋत्यां दिशि पूजयेत् ।
पंचमे चतुर्थवर्णानि तवर्गेण विदर्भिताः ।
वाराही वारुणी दूती अवतर अवतर नमः ॥
पश्चिमं दिशि पूजयेत् ।
पुनश्चत्वारि वर्णानि पवर्गेण विदर्भिताः ।
ऐन्द्री वायु दूती च अवतर अवतर नमः ॥
वायव्यां दिशि पूजयेत् ।
सप्तमे चतुर्थवर्णानि यवर्गेन विदर्भिताः ।
चण्डिका यक्ष दूती च अवतर अवतर नमः ॥
उत्तर दिशि पूजयेत् ।
अन्ते चत्वारि वर्णानि सवर्गेन विदर्भिताः ।
प्. ६३अ)
ईशाने च महालक्ष्मी अवतर अवतर नमः ।
ईशान्यां दिशि पूजयेत् ।
मध्ये तु पूजयेद् देवं द्वात्रिंशदक्षरं परम् ।
गुरुपंक्तिं ततः पूज्य क्षेत्रपालं ततोर्द्ध्वतः ॥
पुष्पं धूपं च नैवेद्यं आसवं फल्गुकं ततः ।
सर्वं संपूर्णतः कृत्वा मुद्रया मुद्रितं कुरु ॥
पद्ममुद्राकराली च भैरवी विकृता नना ।
मुद्राबन्धं प्रकुर्वीत पश्चाज्जाप्यं समारभेत् ॥
विधानं संप्रवक्ष्यामि यन्मया गोपितं प्रिये ।
या सा शक्तिर्महामाया कुण्डालाख्या महेश्वरि ॥
तत्स्थानं अस्य मन्त्रस्य एकीभूतं विचिन्तयेत् ।
तमुच्चार्यक्रमेणैव द्वादशादित्यसन्निभं ॥
भासयन्तं स्वतेजेजन आपादतलमस्तकं ।
नाभिभेदक्रमेणैव हृदये चैव तिष्ठति ॥
पुनस्तं विष्णुमार्गेण रुद्रभेदक्रमेण तु ।
माहेशमासन(मीशसं)स्थानं लयं कृत्वा पुनः पुनः ॥
अनेनैव प्रकारेण उच्चारं विधिपूर्वकम् ।
पुनश्चैव विलोमेण उच्चरित्वा प्रवेशयेत् ॥
तेनैव मार्गयोगेन स्वस्थानसहितं कुरु ।
सकृदुच्चारमेतत् तु नव देवि प्रकाशितम् ॥
स्फटिकं मौक्तिकं वाथ मणिकं पुत्रजीवकम् ।
महाशंखोद्भवं चैव अथरुद्राक्षसंभवम् ॥
अक्षमालां प्रकुर्वीत अंगुल्या नामिकोपरि ।
चारयेन्मेरुमार्गेण यथा भूमौ न गच्छति ॥
जपान्ते चरुकं प्राश्य मन्त्राग्रे यद्व्यवस्थितम् ।
यच्छेषं समयीनाञ्च दातव्यं अथवाग्निषु ॥
प्. ६३ब्) ब्रह्मचारी जितक्रोधः पशुसम्पर्कवर्जितः ।
दिनान्ते भोजनं कुर्याद्भूमिशायी जितेन्द्रियः ॥
दशलक्षकृतं जाप्यं होमं चैव समारभेत् ।
शिवशक्तिसमुद्भूतं षट्कोणं शोभनं प्रिये ॥
हस्तमात्रप्रमाणेन आननं चापि कारयेत् ।
अरणिस्थ पावकं गृह्य भूतदारुसमुद्भवम् ॥
तस्य मध्यस्थितं मंत्रं अघोरं घोररूपिणं ।
महास्य महिक(सिव)र्णञ्च तालुपातालदारुणं ॥
चन्द्रसूर्याग्निसंभूतं त्रिनेत्रानि विचिन्तयेत् ।
पंचमीचन्द्ररूपेण दंष्ट्रेणि भाषयन्ति च (संभावयेत् पुनः) ॥
लेलिहानं महाजिह्वं ऊर्द्धवक्त्रं विचिन्तयेत् ।
विशन्ती तस्य मध्ये तु आहुतीं च विचिन्तयेत् ॥
मुद्रामृगमुखी चैव गृहीतानेन आहुतीः ।
एकोच्चारेण कर्तव्यं प्रविशभैरवानने ॥
ततो होमं दशांशेन निश्चले नान्तरात्मना ।
ततः सिद्धिं विजानीयाद्योजयेत् सर्वकर्मसु ॥
अष्टपत्रे शुभे पद्मे एकैकं च समालिखेत् ।
मन्त्रं चत्वारिवर्णनि एकैकस्य पृथक् पृथक् ॥
स्थापितव्यः प्रयत्नेन इन्द्राद्या ईशगोचरे ।
यस्य यस्य स्ववर्गस्य तान्येव हि समालिखेत् ॥
पूर्ववत् प्रथमं गृह्य उत्तरस्य द्वितीयकं ।
तृतीयमग्निदिग्भागे द्वौ पूर्वं वरुणस्य च ॥
राक्षसे पूर्वमन्तस्थ मे तन्मन्त्रं षडक्षरम् ।
शिंशपादारुसंयुक्तं नृमांसमध्यसंस्थितम् ॥
होमयेद् घृतसंयुक्तं सहस्रमष्टसंयुतम् ।
उत्तिष्ठति न संदेहो विमानमग्नि मध्यतः ॥
प्. ६४अ)
तत्रारूढो महावीरो भुवनानि चतुर्दश ।
सप्तब्रह्माण्डपर्यन्तं भ्रमते नात्रसंशयः ॥
या दूतीपूर्वदिग्भागे षोडशाक्षर संयुता ।
होमयेद्ब्रह्मपुष्पाणि ब्रह्मवक्त्रेनसंयुता ॥
स्वाहान्तं कुरु उद्धारं ब्रह्मास्त्रं चैव देहि मे ।
अष्टोत्तरसहस्रेण दीप्तानलसुतेजसं ॥
उत्तिष्टेत्कुण्डमध्ये तु साधकस्य करे स्थितम् ।
ब्रह्माद्या देवताः सर्वाभुवनानि चतुर्दश ॥
मारयेन्नात्रसन्देहो एतन्मन्त्रं सुदुर्जयं ।
या स्थिता अग्नि दिग्भागे माहेशी च नवाक्षरी ॥
लांगली पुष्पमादाय मेषरक्तेनसंयुतम् ।
पावकास्त्रं समुच्चार्य देहि देही विभाषयेत् ॥
अष्टोत्तरसहस्रेण सिध्यते नात्रसंशयः ।
कालानल समं तेजं दुःसहः सर्वदैवतैः ॥
निर्दहेत्साधकः क्रुद्धो भुवनानि चतुर्दशः ।
या स्थिता याम्यदिग्भागे कौमारी नामनामतः ॥
कुंकुमस्य प्रयोगेन माहिषं रक्तसंयुतम् ।
अष्टोत्तरसहस्रं तु होमये कुण्डमध्यतः ॥
स्वाहान्ते शक्तिरुच्चार्य देहि मे शक्ति षण्मुखे ।
उत्तिष्ठति न संदेहो अमोघा?शक्तिदुर्जया ॥
यस्य क्रुद्धो महावीरो मारयेन्नात्रसंशयः ।
विभीतकस्य पत्राणि उलूक(जलौका)रक्तसंयुतम् ॥
वैष्णवीदूतियोगेन सहस्रेण हुतेन च ।
होमान्ते दृश्यते देवि चन्द्रहासं सुदुर्लभम् ॥
तेन खड्गगृहीतेन प्रतिमल्लोन दृश्यते ।
अष्टोत्तरसहस्रन्तु समिधां वरुणोद्भवां ॥
मीनस्नेहसमायुक्तं वाराही मन्त्रमुच्चरेत् ।
प्. ६४ब्) स्वाहान्ते प्रथमं कुर्याद् वरुणास्त्रं तु देहि मे ॥
दृश्यते कुण्डमध्ये तु सोपि संगृह्यपाणिना ।
यदीच्छेत्साधको देवि महावृष्टिस्तु जायते ॥
पुनर्वायव्यदिग्भागे इन्द्राणी नामनामतः ।
वज्रीपत्रस्य होमेन तस्यैव क्षीरसंयुतम् ॥
अष्टोत्तरसहस्त्रेण स्वाहान्ते होमितेन च ।
वज्रं च लभते वीरो अस्या देव्या प्रभावतः ॥
क्रुद्ध च मारयेत् क्षिप्रं यदिशक्रसमो भवेत् ।
उत्तरे चण्डिका देवी अष्टवर्णा व्यवस्थिता ॥
गृहीत्वा वटपत्राणि श्वानशोणितसंयुतम् ।
अष्टोत्तरसहस्रेण गदासिद्धिर्भविष्यति ॥
अनन्तं लभते वित्तं निधानं कुण्डमध्यतः ।
अक्षयं तद्विजानीयादीशान्याञ्च द्युता शृणु ॥
अष्टोत्तरसहस्रं तु बिल्वमादायसाधकः ।
घृतयोगेन होतव्यं निश्चलेनान्तरात्मना ॥
होमान्ते दृश्यते देवि शूलं त्रिदशदुर्जयम् ।
मारयेन्नात्रसंदेहो यदि ब्रह्मास्वयं हरिः ॥
विपरीत प्रयोगेन पूर्वदूती यदा हुनेत् ।
देवदारुसमुद्भूतमश्वरक्तेनसंयुतम् ॥
होमयेद्विधिसंयोगात् सहस्राणि चतुर्दशः ।
रथं मे देहि उच्चाअर्य मन्त्रान्ते साधकोत्तमः ॥
उत्तिष्ठति न संदेहो नन्दिघोषो महारथः ।
श्वेताश्वं श्वेतसंयुक्तं पताका सहितं प्रिये ॥
तत्रारुह्यमहावीरो उत्पत्ते नात्रसंशयः ।
अजेयः सर्वलोकानां हर्ता कर्ता स्वयं प्रभुः ॥
विपरीतोच्चारयोगेन गुग्गुलुं घृतसंयुतम् ।
होममष्टसहस्रं तु कुरुते साधकेश्वरः ॥
प्. ६५अ)
पटं पावक संभूतं लभते नात्रसंशयः ।
पुनस्त्रे नैवमन्त्रेण विपरीतं वरानने ॥
साधितायमदूती च गोपालेन हुतेन तु ।
पटमदृश्य दण्डं च लभते नात्रसंशयः ॥
वैष्णवी च विलोमेन नृमांसं घृतसंयुतम् ।
अष्टादशसहस्रेण राक्षसीं विधिमाप्नुयात् ॥
माया प्रपंच रूपाणि रुपाणि च न संशयः(कुरुते साधकेश्वरः) ।
विपरीतेन योगेन या दूती पश्चिमेन च ॥
मत्स्यमांसस्य होमेनसहस्रेण वरानने ।
सर्वाकृष्टिं विजानीयाल्लबते नात्रसंशयः ॥
इन्द्राणी वायुदिग्भागे गवांक्षीरेणसंयुतम् ।
होमयेत् मृगमांसं च सहस्रं च शताधिकम् ॥
गुटिकासिद्द्धिं जानीयाल्लभते नात्रसंशयः ।
उत्तरे यस्य(क्ष) दूती च विलोमेनसमुच्चरेत् ॥
गवाज्येन(गवां सारेण) समायुक्तं वटपत्राणि होमयेत् ।
अक्षयं लभते वित्तं तस्य ईशान भाषितम् ॥
महालक्ष्मी विलोमेन बिल्वपत्राज्यसंयुतम् ।
अष्टोत्तरसहस्रेण वीर(रस)सिद्धिमवाप्नुयात् ॥
एतत्कर्म अघोरस्य उक्तं च परमेश्वरि ।
यदिच्छेत्साधयेत्कर्म(सर्व) अस्यमंत्र प्रभावतः ॥
(यदि मेरुश्चलेत्स्थानात् सागरं वा महीश्रयेत् ।
सूयञ्चेत्पतितो भूमौ एतान्मिथ्याम * *?वे ॥
सत्यं सत्यं महेशानि ना दूनं कथितं मया ॥ इति पुस्तकान्तरेधिकः
पाठः। एतावान्भागः प्राचीन ताडपत्र पुस्तकात् । क्षर लिखित्वादुद्धृतः ?
इतदुत्तरः षट्पञ्चाशत्पटलान्तोय च १४८८ शब्दालेखिता?न्मध्यदेशी * * * *
* * * * * * *? पुस्तकान्तरा दुद्धृत्य * * *? । तस्मिन्पुस्तकान्तरे पुष्पिकासु
क्वचित् पारमेश्वरीमते * *?त्कुब्जिकामते इत्यु * *? दृश्यते)
इति पारमेश्वरीमते नवकोटिसंहितायां चतुराशीतिसाहस्रे
अघोरनिर्णयोनामचत्वारिंशतिमः पटलः ॥
प्. ६५ब्)
श्रीदेव्युवाच
भगवन्सर्वमाख्यातं मेरुमध्ये यथास्थितं ।
उद्धारं सर्व विद्यानां नाडीसंचारभेदतः ॥
वज्रप्रस्तारिका विद्या ब्रह्मविद्या तथैव च ।
द्वात्रिंशद्वर्ण भेदेन पुराप्रोक्ता त्वया नघ ॥
या विद्या बहुधा तंत्रे पूजामादात्कुलक्रमे ।
व्रतस्योद्धार मात्रेण यथापापैः प्रमुच्यते ॥
उद्धारक्रमयोगेन पूजाध्यान क्रमेणा तु ।
वर्णसंख्या व्रतं कश्चित् कथं होमं च तर्पणं ॥
न्यासं च कीदृशं दयात् साधनं वा कथं भवेत् ।
द्रव्यं च कीदृशं चैव अधिकारि विशेषतः ॥
अयगूढतरं देव प्रयुक्तं यत् सुरेश्वर ।
संज्ञातं च सुरेंद्राणां तत्सर्वं च समासतः ॥
कृपा परम कल्याण यदि मे प्रीतिरूत्तमा ।
अस्ति चेत्कथयस्वात्र मेरुमध्ये सुरेश्वर ॥
ईश्वर उवाच
यन्न कस्य चिदाख्यातं देवि गोप्यं तथापि ते ।
कथयामि यदा विद्या सामर्थ्यं वसुसाधनं ॥
विष्णनाथपुरा देवि दैत्येन्द्र विजयाय च ।
आराधितस्तु शक्रेण तुष्टो लोक पितामहः ॥
मयापि वर्गशो विद्या त्वांशपेश्वर सुन्दरि ।
जानन्नपि महादेवि पृछसे च पुनः पुनः ॥
तथापि कथयिष्यामि सावधानं कुरुष्वथ ।
सुसमे(कान्ते)स्था कुले धूपदीपगंधा स वादिभिः ॥
संभृते संभृताचारो पशुदृष्टि विवर्जितः ।
स्वयं दीक्षां गुरोर्लब्ध्वा नदीपर्वतभूगृहे ॥
स्थित्वैकं विन्यसेन्न्यासं मंत्रन्यासं तथैव च ।
उद्धरेद्धि विमुक्तात्मा एकं मध्यगतं क्रमम् ॥
द्वात्रिंशदक्षरं देवं कार्यकारण रूपतः ।
प्. ६६अ) ध्रुवं नाभिगतं विद्यादादिवर्णं सुरेश्वरि ॥
वाम मध्ये तु कुक्षंतं निवृत्ति क्षत्रसंस्थितं ।
ऌ आदिवर्णयोगेन द्वितीयं बीजमुत्तमम् ॥
एकादशे ऋषिस्थाने अंबिकाप्राणसंस्थिता ।
अक्रूरं च शिवेदत्तं साधिमध्यगतं पुनः ॥
मंदरे ए(ऌ) अंतस्थं चतुर्थं वर्णमुत्तमम् ।
भागमध्यगतं देवि तावंके यत्रसंस्थिता ॥
पावनी हृदयं चाथ नरके रुद्रमंदिरे ।
ध्रुवादि वर्णयोगेन षष्टं बीजं सुरेश्वरम् ॥
नरके आदिवर्णं न? मोहिनी भूषितं कुरु ।
लंबोदरी श्वेतगेहे सामानी गंधमादने ॥
मातृवर्णं विजानीयाद्यासां मध्यं गुरुर्भवेत् ।
कार मध्ये तु देवेशि सूक्ष्मं भैरवभेदितं ॥
दशमंत्रं विजानीयात्कासमध्यं तु कालयुक् ।
एकादशे ऋषिस्थाने झंटीसेन विभेदितम् ॥
रविसंख्याक्षरं देवि मायाबीजं त्रयोदशम् ।
कालामोडी गतं कृत्वा अंबिका च तथा भवेत् ॥
कारमध्ये तु देवेशि झंटीसेनसमन्वितम् ।
वज्रिणी अंबिकाधस्था दनन्तं गंधमादने ॥
याममध्यगतं देवि अष्टादशमुदाहृतम् ।
धेनु मध्यं तु संगृह्य मंदरे सूक्ष्मसंयुतम् ॥
कालोनाम महारुद्रो से? च मध्ये व्यवस्थितः ।
एकादशे ऋषिस्थाने मंदरे सूक्ष्मसंयुतम् ॥
एकविंशं विजानीयाद्वाविंशं वाधमारभेत् ।
अगमध्यं केवलं तु त्रयोविंशाक्षरं पुनः ॥
पलयोर्मध्यगतं देवि रुद्रे तु वसुमंदिरे ।
चतुर्विंशाक्षरं भद्रे ततो रुद्रपदं भवेत् ॥
भूतादि रक्तसंस्थं च पूर्वमूर्द्धनि संस्थितम् ।
प्. ६६ब्) बिंदुभैरवसंभिन्नं एतत्कालानलप्रभम् ॥
अष्टाविंशाक्षरं देवि अत ऊर्द्धं च तच्छृणु ।
हे हे तस्थाधवर्णं च शूलदंडासनस्थितम् ॥
कूर्मोनाम महारुद्रः सद्योनाथविभूषितः ।
अहमध्यं केवलं वधात्रींशो भैरवस्मृतः ॥
याममध्यगतं सूक्ष्मं पालीशं नाम भैरवम् ।
युगमध्यगतं कुर्यादनंताक्रांतमष्टकम् ॥
अंबिकाजीवमध्यस्थं क्षे अंतं स्वर्गभूषितम् ।
द्वात्रिंशदक्षरं देवमेवं वर्णैर्व्यवस्थितम् ॥
स्वर्गे मर्त्ये तथा देवि पाताले पन्नगालये ।
नारदश्चांगिराश्चैव भरद्वाजोथ गौतमः ॥
विश्वामित्र वशिष्ठाद्या ये चान्ये देवदानवाः ।
अस्य विद्या प्रभावेन चंद्रसूर्यादयो ग्रहाः ॥
जगतां स्थित ये देवि संचरंति दिवानिशि ।
मकरध्वजोपि देवेशि आराध्य परमेश्वरम् ॥
सर्वसौभाग्यसंपन्ने स्व? भवत्सुरसत्तमः ।
षडंगन्यासयोगेन वर्णन्यासक्रमेण च ॥
शुद्धात्मने भवेद्यानं तद्धिन्यासादि भिर्भवेत् ।
न्यासंगुरुमुखे नैव ज्ञातव्यं वरवर्णिनि ॥
आज्ञागुरुप्रसादेन सिद्ध्यते नात्रसंशयः ।
विन्यस्य विधिवद्भूयो ध्यायेन्मूर्तिं च चिंतयेत् ॥
कुंदसिंदूरवर्णाभा वागैश्वर्यप्रदां स्मरेत् ।
यास्ता एकधनुर्वाण पाशांकुशवराभयैः ॥
बीजपूरं तथारुक्षे वामे पूर्णकपालकं ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥
वक्त्रैः पीतारुणस्यामश्वेतांजननिभाः प्रिये ।
चतुर्द्धारेषु द्वौ द्वौ च हेतुकादीन् प्रकल्पयेत् ॥
प्. ६७अ)
आणवो रक्तेन शाक्तेन शांभवेनाथ चाखिलैः ।
समया साधका चार्यनिर्वाणे कृतदीक्षया ॥
शांभवी चिन्मयी विद्या शक्तिः स्यात्रिगुणात्मिका ।
गुरूक्तमानवीदीक्षा कर्म्मानेक विधास्त्विह ॥
आवाह्यमंडले देवं अर्घं दद्यात् सुरेश्वरि ।
क्षीरेण ब्रह्मणांस्तावदाज्येन पृथिवी भुजः ॥
वैश्यांस्तु मधुना शूद्रांस्त्वैक्षवेना सवेन च ।
नित्य पूजाभवेन्मुख्या या च पर्वणि पर्वणि ॥
अथवा मा?सिकी पूजा नातो विच्छेदमर्हति ।
योद्भवो मधु हेतुः स्यादासवः परिकीर्त्तितः ॥
चतुर्द्रव्यं समासाद्य चतुर्भिराधका(सवा)दिभिः ।
मुमूक्षूणां फलाधिक्यं अल्पाल्पवृत्ति पूजनात् ॥
अधिका वृत्तिपूजायां उभुक्षोरधिकं फलम् ।
सर्वावृत्तंतिकासाहीं पूजा स्यात् परमेश्वरि ॥
एवमेतन्महामंत्रं भुक्ति मुक्ति प्रदं नृणां ।
अथान्यं संप्रवक्ष्यामि अत्रप्रासंगिका गतम् ॥
इद्वारुक्तं गमोममंखमुख्यलजस्य सविदेधिरवदविदधेहेमविदधे ।
ध्रुवादि वर्णं देवेशि भागमध्य द्वयं पुनः ।
सूक्ष्मभैरवसंभिन्नं का * * * * सं भवेत् ॥
नवरुद्रमालायां ध्रुवाद्यासनसंस्थिता ।
नवके आदिवर्णं तु ध्रुवाद्यासनसंयुतं ॥
श्वेतो नाममहारुद्रो मायादेवी स्वतः * * ॥
झंटीशेनानवोद्भिन्नं वारुणं सूक्ष्म भेदितम् ।
क्रोधीनं गुल्फशक्त्या च विश्वयुक् नवमं स्मृतम् ॥
सासिमध्यगतं देवि सद्धासं नामनामतः ।
वारिमध्यगतं बिन्नं लोहितं सूक्ष्मभेदितम् ॥
लंबोदरी महादेवी गुह्यशक्त्या विभूषिता ।
रवार्तो यदिशब्दः स्याद्वको नामंत्वनंतरम् ॥
प्. ६७ब्)
क्रोधवर्णं पुनर्देवि विधाय वेगासनस्थितः ।
महाकालं केवलं च वकं चाष्टदशं भवेत् ॥
पुनः क्रोधं समुद्धृत्य इंदुयुक् बिन्दुसंभवम् ।
दधमन्यं महादेवि शिवे अक्रूर भूषितम् ॥
भागमध्यस्थितं वर्णं केवलं तु पुनः पुनः ।
भृगुभैरव वर्णं च द्वाविंशं नात्रसंशयः ॥
वारिमध्यगतं देवि वज्रिणी अक्षसंस्थिता ।
शिवे तु दीपनी युक्तं बिंदुभेदित मस्तकम् ॥
वारुणं अंशकं देवि केवलं तु पुनर्भवेत् ।
कालो नाम माहारुद्रों प्रांशुकस्तवभूषितः ॥
गुरोर्मध्ये केवलं तु याम मध्ये तथा पुनः ।
वह्निजाया समायुक्ता द्वात्रिंशाक्षरभूषिता ॥
विद्यापरमकल्पाणि सर्वकामफलप्रदा ।
इमामेवपुरा बोध्य विद्यां त्रैलोक्य मोहिनीं ॥
तारकं नाम दैत्येंद्रं जितवान् रुद्रध्वजः ।
लक्षजापेन देवेशि सिध्यते नात्रसंशयः ॥
ब्रह्मगुहसमिद्धोमाञ्क्षीराज्य मधुवर्द्धनैः ।
सर्वकामेषु देवेशि सर्वकामात्वमागता ॥
हास्वायांत्र इजे याने भंजयतेपधि ।
क्षयपाणसोत्वमतत्तणि मामणि भद्रायद्गतसर्वभद्रा पद्भ्रुवेनि
मालिनेसिविकुंडलिने नरेंद्रा याववेंद्रायषडंगमेवं विन्यस्य
लक्षमेकं स्वसमतः ॥
बिल्वपुष्पसमिदर्क फलहोमे धनप्रदः ।
श्वेतपत्र स्थितो हार कटकेयूरकुंडली ॥
रक्ताकल्पस्मिते दिवः पिंगाक्षस्त्रिमुखस्त्रिपात् ।
पद्मं नामकरं वक्ष्ये चषकं तद्दिनं दधत् ॥
प्. ६८अ)
कृत्वातं मंडलं कृत्वा वस्वरं वेषभूषितम् ।
पूर्वभद्राय पूर्णभद्राय वनमालिने ॥
सनिकुंडलिने नरेन्द्रा यशरेन्द्राय ।
मातृभैरवसंयुक्तामर्चयेदिंदिरा प्रदाम् ॥
एक एवसतन्मंत्रः कालादि गुणभेदतः ।
संपदे विपदश्चैव कुर्याद्यस्य परस्य च ॥
नानारूपप्रभावाः स्युः किन्नकुर्युर्विजानतां ।
शोषयंत्यपिवांभोधीन् ब्रह्मांडं स्फोटयंत्यपि ॥
विवर्णयंति चालोका संहरं यावाखिलम्? ।
मूकं वा वाक्यतिं कुर्युर्मूकं कुर्युश्च वाक्पतिं ॥
दरिद्रं धनदं कुर्युरिक्तीकुर्युश्च वित्तपम् ।
दीर्घायुषं क्षणात्कुर्युर्जीवेयुश्च गतायुषं ॥
स्वुरामानं क्षणात्कुर्युर्बद्धं च मोचयंत्यपि ।
मंत्राक्षराणि यावन्ति तैर्यथासंभवेन तु ॥
परित्कृ?प्तशरीरांगमंत्रतेजस्तु देवता ।
एवं मंत्रमयी यस्माद् देवदेहविरूपता ॥
मंतारं त्रायते यस्मात् तेन मंत्रमिदं स्मृतं ।
अक्षरं क्षरणा भावान्निरंगत्वाञ्च निष्फलम् ॥
मुदकरोति देवानां द्रावयन्त्रिपुराननान् ।
द्रावणान्यासजालस्य तत्परस्य व्यमोहनात् ॥
तनमुद्रेति सा प्रोक्ता तंत्रेस्मिन् परमेश्वरि ।
ना पुत्रायना शिष्या य देव विप्रगुरुद्गुहे ॥
दत्ते च सिद्धिहानिः स्याद्देवता स्यानि आपतेत् ।
एवमेतद् गृहस्यार्थं तवाद्य प्रकटी कृतम् ॥
किमन्य तृपृच्छसे देवि सर्वतद्वदस्व मे ।
श्रीदेव्युवाच
भगवन् भूतभव्येश श्रुतं तत्पुरुषस्य च ।
मेरुमध्ये कथं देवि चंडिका व्यक्तिमागता ॥
प्. ६८ब्)
वर्णसंख्यास्तु देवेश न्यासध्यानं कथं भवेत् ।
एतत् संक्षेपरूपेण वदतस्यास्तु सुव्रत ॥
श्रीभैरव उवाच
तंत्रे चैवागमे सा तु विस्तरेण प्रकाशिता ।
तथापि कथयिष्यामि मेरुद्धार क्रमेण च ॥
सर्वलक्षणसंयुक्तः साधकः स्थिरमानसः ।
एकान्ते विजने स्थित्वा ऋतुलक्षावधिर्जपेत् ॥
तावता युत होमेन सर्वानाप्नोति यत्नतः ।
चरुतंदुलकैराज्यब्रह्मपुष्पसमुद्भवम् ॥
ध्रुवंनाभिगतं देवि देवी बीजं तु अग्रतः ।
कालमध्यगतं गृह्य ध्रुवाद्यासनसंस्थितम् ॥
२(ऌ) आदि वर्णयोगेन तृतीयं बीजमुत्तमम् ।
मोहिनी ध्रुव आदिस्थ केवलं भगयुक्पुनः ॥
गुह्यशक्ति समोपेतं पंचमं तु न संशयः ।
श्वेतभैरवमुद्धृत्य टां तस्थं लोहितं पुनः ॥
मोहिनी वर्णयोगेन सप्तमं तु न संशयः ।
नवादि दीपनी देवी अमरीशेनसंयुता ॥
श्वेतभैरवमुद्धृ स गुह्यशक्त्या विभूषितम् ।
एकादशादि देवेशि मंकु(द)रे गुह्यशक्ति युक् ॥
या सि मध्यं तु संगृह्य वामे मध्येनसंयुतम् ।
लोहितं संगृह्यनिग्मसंख्यं सुरेश्वरि ॥
एकादशे श्वेतरुद्रं मंदरे गुह्यशक्ति युक् ।
भीषणी ऋषिगेहे तु वायुवेगात् तथा भवेत् ॥
महाकालं ते च मध्ये कैलासे भगयुग्भवेत् ।
पाशिमध्यं केवले तु महाकाल ध्रुवादिशं ॥
लोहितं केवलं देवि वामे शक्तिस्तदग्रतः ।
धेनुमध्यसमोपेतं गुह्यशक्ति विभूषितम् ॥
भागमध्ये केवलं तु बिंदुभैरवभूषितम् ।
याममध्यं तु देवेशि धात्रीकं गुह्यशक्तिकम् ॥
प्. ६९अ)
शरकं नरके वाथ क्रोधीशं वायुसंयुतम् ।
भेदमध्ये महाकालि महाकालेनसंयुतम् ॥
कुं अन्तश्चाधसवकं श्वेतपूर्वं करालिनि ।
क्रोधीशस्तत्र देवेशि याममध्येन भेदितम् ॥
लोकादिशिरसाक्रान्तं धर्म्मबीजं तदग्रतः ।
अग्ने विद्यातृतीयं तु बिंदुभैरवसंयुतम् ॥
कुशमध्ये पुनर्देवि तनोर्मध्यं तदग्रतः ।
शंडीशेन ततः कृत्वा दीपनीं मूर्द्ध्नि विन्यसेत् ॥
आदौ तु ऋषिमालायां भीषणी केवलं भवेत् ।
भागमध्यं तथा देवी नावे मध्यं न संशयः ॥
ताराख्याग्रहमालायां सूक्ष्मेशं मेदरं विदुः ।
वेस्वंतं केवलं तद्वद्भे च मध्यगतं पुनः ॥
यामो मध्यं तथा देवि वह्निजाया ततो भवेत् ।
विद्यादौ त्रितयं बीजं मत्ते वै लोमतो भवेत् ॥
शक्त्यन्ते चंडिका या च बीजं मध्यांतसंस्थितम् ।
ग्रहांते हृदयं देविश्छ्रान्ते तु मतिर्भवेत् ॥
ज्ञानशक्तिर्युत देवि अक्षुणं च शोरोन्नितम् ।
वस्वन्तं च शिखा ज्ञेया क्रिया * * तदग्रतः ॥
पुनस्तावद्भिरेवान्ते रौद्रशक्त्या समन्वितम् ।
अभ्यर्त्रैश्च तथा नेत्रं सरस्वत्या च विन्यसेत् ॥
भूतान्तैर्वस्त्रमाख्यातं चामुंडाशक्तियुगनतिः ।
एवमस्त्रपदैः कृत्वा मंडलेतां विचिंतयेत् ॥
शक्तौशक्तिं च संलिख्य षड्वर्णान् विन्यसेद् वहिः ।
चतुरष्टांतसंयुक्तं वहिर्भेदाष्टकं भवेत् ॥
दशाष्टद्वंद्वशोराज्ये सप्तत्रिंशत्तथा भवेत् ।
प्. ६९ब्) चतुःषष्टिभिरावीनामेकैकं तु दशाग्रहे ॥
परिवेष्टसमायुक्तं चतुर्द्वारसमन्वितम् ।
भूबिंबेशक्तिदुर्गां च चक्रं वा शक्तिमालिखेत् ॥
दूर्वादलश्यामलांगी केयूरघंटिकादिभिः ।
विराजमाना चक्रेण * * * सापिपाणिता ॥
भीषयत्य सुरान् सर्वान् त्रिनेत्रान् सेभ्रु?मूर्द्धजान् ।
हृदिब्रह्मसमारुधां ज्वलत्पावकसन्निभाम् ॥
परिचक्रधरं देवं प्रतिवक्त्रं त्रिलोचनम् ।
धवलांवरसंवीतं धवला हि विभूषणं ॥
द्विजा हि कुंडलाभ्यां च वाहूराजन्यसंभवौ ।
विशौ तु मेखलादामपद्भ्यामन्यौनु नूपुरौ ॥
पुस्तकाक्षस्रजं शूलमंकुशं नृकपालकम् ।
सक्तिपाणा हि टंकाख्यं वरदाभयशोभितम् ॥
नीलजीमूतसंकाशं रसनाकल्पमडितम् ।
अनेकवक्त्रनयनं करानेकविखंडितम् ॥
सात्विकं मोक्षदं देवि राजसंकास्य वर्द्धनम् ।
शत्रुक्षयकरं विद्धि तामसं त्रिविध भवेत् ॥
इंद्रगोपनिभंविष्णुं मंडनानेकमंडितं ।
रथांगंकंवुनलिनं गदास्त्रासंख्यमालकम् ॥
पाशांकुशधरं देवं भीमाक्षंशितदण्डिनम् ।
कालमेघनिभप्रख्यं ज्वलत्रगुणान्वितम् ॥
वह्निं वमंतमज्ञायवैनतेयोपरिस्थितम् ।
निवृत्यादिभिरावीनां सद्यप्रिसमावृताम् ॥
अष्टादशं तु परितः उत्पाद्यावर्णशक्तयः ।
वह्निरष्टाष्टकं देवि देवीनां परितो यजेत् ॥
लोकपालांश्च तद्वेती नेती सर्वमर्चयेत् ।
प्.७०अ) आर्यया भद्रा भद्रकाली अंबिकाव्याघ्रमुखि सिंहमिखी जया
नंदा ॥
उमाराकाप्रभासंध्या धारिणी धरणी प्रभाः ।
सिंहिनी वज्रिणी सत्या समाराध्याशाकंभरीति ॥
विश्वरूपा हरिणीविरुपाक्षाधरा उषातीग्मा षष्ठीपुंरूपिणी ।
रुद्रवीर्या यक्षिणी किंकरी सुरापि पासिनी षंडापशुवती मेधा सरस्वती ॥
मिखदिणी पावनी स्थिरा ताराक्षिनी पयस्विनीदिदृक्षा शशिरेखा कालरात्री
माधवी शंखिनी क्रूर्द्धिनी कपर्दिनी ॥
हुंकारी दुर्गा दुर्विसहागगनरेखाभयंकरी गायत्री वागेश्वरी
तिरस्क्रियासती महाकालीधमा हारिणा ओंकारी यामापद्ममुखी
दुष्टसारिणी
काली विकराली तपस्विनी च्छेदिनी किराती कपर्दिनी कराली अनं * गा चंडा
विराणी द्रुर्गासरस्वती व्याधीघ्नी सृष्टिसंहृति स्थिती कान्तिसौ दामिनी
चंडाविणी विनाशिनी ताराक्षी तारिणी कात्यायनी सुभद्रासिद्धानिर्वृती
लक्ष्मी दीप्ती सुमुखी नित्यानिरक्तिनी ॥
आनंदिनी भीमा घोरा देवकी गगनाखड्गीशंखनीट्लिनी वामनी
स्तंभनीत्रासी मोहिनी असुराविनतासु न ता स्मृतिर्धृतिः कनका
अज्ञाशिवाहुंकारी क्षेमंकरी वषट्कारी सूर्यया चंद्रासतिरती दुर्गा
वसुधा वसुदा कनकाखिलवस्त्रा यंत्रेकाखिल कल्प्यते
नवैकपंचाष्टदशसंख्यातस्तु यथा क्रमात् ॥
प्. ७०ब्)
मध्यकुंभे समाबाह्य कलासार्द्धं सुदेवकि ।
कलानाशकनेसेति निगद्यते । भक्षतां प्रजपेत्तत्र यथापूर्वोपचारतः ॥
अलिपंक्त्यादिभिश्चाल्प द्रव्यैर्वा साधु साधयेत् ।
सर्वासां चैव देवानां तथा पंचोपचारतः ॥
वर्णानां व्ययये नाथ पठेत्पाद क्रमेण तु ।
तत्तत्तद्वर्णं देवेशि योजयेदुपदेशतः ॥
एवमाराध्यदेवेशीं साधयेत् सर्वमात्मनः ।
अस्तुल्क्तसिवैलोमाज्ज्ञातव्यं गुरुवक्त्रतः ॥
इति कुब्जिकामतेतत्पुरुषनिर्णयोनाम एकचत्वारिंशतमः पटलः ।
श्रीदेव्युवाच
एवमेतत्त्वया प्रोक्तं पुरुषस्यो क्षमे विधिः ।
सुक्षेपायमहेशान तथान्यान्त्रपि कोटिशः ॥
तृमुंडादि महातंन्त्रे ब्रह्मतंन्त्रे सुरेश्वर ।
नोक्तमा अस्य कुत्रापि विधानं शोभनं शुभंम् ॥
सर्वपापहरोदेवो मोक्षैकफलदे विभुः ।
शिवः स्वच्छन्दभेदेन स्थितः परमकारणः ॥
आब्रह्मस्तं च पर्यन्तं चरेषु स्थावरेषु च ।
व्याप्तं सर्वत्रदेवेशं चराचरगुरुं परं ॥
न जानाशि ग्रहं नाथ कथं केन क्वचिद् विधं ।
मेरुमध्ये यथादेवं तत्सर्वं वक्तुमर्हसि ॥
वर्णानां च यथा रूपं सर्वजयकरंपरम् ।
न्यासध्यानसमायोगं पूजनं सर्वदेवतम् ॥
अन्यच्च * * ट्घातं देवयथा योग्यं च मे वद ।
श्रीभैरव उवाच
साधु भाविनि भद्रन्ते यत्पुरा गोपित मया ।
अकथ्यमपि देवेशि तव स्नेहेन सुंदरि ॥
प्. ७१अ)
क्रूरास्ते मानवाः सर्वे मोहयन्ति परस्परम् ।
त्वयापि सर्वदा गोप्यं यत्समत्वान्नसंशयः ॥
आवयोस्तु विभागं च किंचिन्मात्रं न विद्यते ।
ममात्यंत प्रियासित्वं नान्यः प्रियतमो भवेत् ॥
अद्यमे वदतो वाक्यं शृणुदेवि यथास्थितम् ।
पूर्वोक्त क्रमतो देवि प्रस्तार्यं च परस्परम् ॥
सर्वविद्यालयं साक्षात् पारंपर्यक्रमागतम् ।
सर्वकामदुत्वघं देवं वर्णरूपैर्व्यवस्थितम् ॥
सर्वार्थसाधकं देवमुद्धरे त्वं नगेश्वर ।
विधिहीने भवेद्व्याधिर्विधिहीनेर्मृतिर्भवेत् ॥
विध्यभावे महादेवि सोग्निर्नान्यो भयसपि ।
सर्वथा विधियुक्तं च उद्धरे त्वं नगेश्वरम् ॥
आदौ च विश्वमालायां ध्रूवं नाति प्रतिष्ठितम् ।
ऋजुमध्यं तु संगृह्य ध्रुवाद्यासनसंस्थितम् ॥
क्रूरंतं शिवेदत्तं सापिमध्यं च सुंवक ।
वेदवन्तं विजानीयादुत्तरे निषधालये ॥
नवकेशरकं गृह्य गवावंने?नभूषितम् ।
पंचमंत्र विजानीयाददेन्मध्यस्तु उत्तमम् ॥
सासिमध्यद्वयं देवि केवलं सप्तमं भवेत् ।
दीपनी शूलदण्डे तु चरेन्मध्ये तु वज्रिणी ॥
पुनः सा वज्रिणी देवी सूक्ष्म भैरवसंयुताम् ।
मुद्रीशंकात्व मध्ये तु मुनीनामत्तसंयुतम् ॥
तारगुणोत्तमादाय आमोटीक्षरमध्यतः ।
एकादशं तु देवेशि भौतीशं क्रूरमस्तकं ॥
माया देवीं केसरे तु जहरं निषधालये ।
वेश्यन्तं नवके देवि वज्रिण्यासनसंस्थितम् ॥
नवादि दीपनी देवी दशपंच न संशयः ।
प्. ७१ब्) वसिमध्ये त्वयां चैव दश सप्तसुरेश्वरि ॥
नवके चतुर्वर्णं च दीपन्यासेन संस्थितः ।
भीषनां ऋषिमालायां ध्रुवांतासनसंस्थिताम् ॥
ऋत्ववर्णं गृहमालायां ताराक्षा दीर्घसंस्थिताः ।
गुणोमध्यं तु देवेशि अनन्तासनयुग्भवेत् ॥
रुद्रशक्ति समायोगाद्देवाविंशन्नसंशयः ।
नतोर्षेरुत्तवर्णं च ब्रह्मासार्थपतिर्भवेत् ॥
भिन्नशक्तिश्च संभिन्ना अष्टाविंशन्नसंशयः ।
छगलंडं भूतमध्येन बाह्यासनसंस्थितम् ॥
अका मध्यस्थाने च मध्यासनसंस्थिता ।
गणमध्ये अधश्चैव धेनु मध्येस्तु धेनुकान् ॥
लोहितं नरके देवि केवलं रुद्रमंदिरे ।
वामोरुगांतताराक्षा भगमध्ये व्यवस्थिता ॥
मंदरे सूक्ष्मसंयुक्तं चतुस्त्रिंशाक्षरं भवेत् ।
रुद्रशक्त्या भवन्तौ द्वौ भवेतामविचारतः ॥
भूतादि वर्णं देवेशि नवाद्यासनभूषितम् ।
झटीशेनशिरो लोका शिवादि शिवभूषितम् ॥
शवकं नवके वर्णं गुह्यशक्तिविभूषितम् ।
वांतं न च केसेर्विगाय आदि भेदितं कुरु ॥
मे च मध्ये महाकालं ज्ञानशक्ति विभूषितम् ।
कैलासे मंदिरे देवि देविञ्च कंठकेवलं ॥
एकाः वलवमंदिरस्था भूमीशो ससिमध्यमः ।
ताराक्षासंयुतः सोपि ध्रुवादिस्थासन विदुः ॥
अग्निज्याधश्च धृग्वशीशंके अंतबिंदु भूषितम् ।
सापि मध्यकेवलं तु धात्रीशं कांतु मध्यतः ॥
प्. ७२अ) अनन्तं गंधशिखरे भिन्ना चाथ सुरेश्वरि ।
शरं चैव * के चैव सूक्ष्मभैरवभेदितम् ॥
भावेत्तं चरवरद्भ्याशं सद्योजातेनभेदितम् ।
बिंदुभैरवसंभिन्नं हंसवर्णं ततो यतः ॥
ध्रुवान्तं नैवदेवेशि मातृकासंख्यको भवेत् ।
तारां ते तु महाशक्तिं हंसात् प्राक्संप्रयोजयेत् ॥
एवमेतन् महामंत्रं तवस्नेहो च भाविनि ।
प्रकाशितं रहस्यार्थं न्यासांश्चार्थ नव प्रिये ॥
द्वादशं *?श्च च हृदयनिवृत्तिश्चात्मने ततः ।
नवांतं च शिवोज्ञेया प्रतिष्ठाज्ञानसंयुता ॥
शिखा ततो ग्रहार्णं स्याद्विद्या चैव क्रियाथवा ।
वर्णवद्यक्षरंगांति स्वात्मशक्तिश्च भैरवि ॥
ऋतिवर्णं साद्यतीतानेत्रं संजीवनं पुतः ।
भूतांते वर्णमाख्यातं मोक्षशक्तिं ततः परम् ॥
महालक्ष्मी युतं कृत्वान्यासमेतं समाचरेत् ।
चक्रे त्वेवं प्रयुंजीत यथाशक्ति क्रमेण तु ।
उर्द्धादि क्रमतो देवि पदन्यासं तु कारयेत् ।
विद्यान्यासं मातृकायाः शब्दराशिः मतः परम् ॥
न्यासं कृत्वा पुरेशानि ध्यायेत् तं चक्रमध्यगम् ।
शक्ति द्वं द्वं लिखेत् पूर्वं त्रिपुराशक्तियुग्भवेत् ॥
अन्तरे तु तयायुक्तं नेत्रं भ्रूमंडलं भवेत् ।
अग्नेः शक्तिर्विभिन्नं च अंतेशक्तिं नियोजयेत् ॥
स्वराणामंतरे देवि जीवं प्राणं तु कारयेत् ।
चंद्रबिंबं लिखेद् दन्ते शक्त्याशक्तिं नियोजयेत् ॥
शक्तिं द्वे द्वे न्यसे च्छक्तिं मध्ये शक्तिं द्वितीयकं ।
स्वराणां च महादेवि न्यसेद्वर्णान्विभागशः ॥
आद्यद्वित्वं च शक्तिः स्यात्क्रमादक्रमयोगतः ।
प्.७२ब्)
विन्यसेन्मातृकां देवीं स्वशिरेणाग्निदीर्घयुक् ।
बिंवाष्टके महादेवि चंडिकां विन्यसेत् ततः ॥
अग्निबीजं ततो न्यस्या मध्ये देवं विचिन्तयेत् ।
धवलास्वरसंवीतं धवलाकल्पभूषितम् ॥
धवलं धवलाब्जस्थं धवलावासमध्यगम् ।
धवलैरेवमार्गाद्यैस्तथा पूज्योपकारकैः ॥
शूलटंकाक्षवलयं ज्ञनमुद्रामभीष्टदम् ।
दक्षेवामे तथा देवि अहिपाशांकुशौ तथा ॥
पुस्तकं मकरालं च दधत्पूर्णसमप्रभम् ।
यथा वा देवि देवेशं दक्षिणामूर्तिरूपिणम् ॥
पूर्णामृतघटं चोर्द्धे वामे चाथ सुपुस्तकम् ।
अक्षस्रंजं दक्ष ऊर्द्धे मुद्रां ज्ञानमयीं तथा ॥
एकवक्त्रं त्रिनेत्रं च कुंदसिंदूरभास्वरम् ।
इत्थं विचिन्त्यदेवेशं पूजयेदुपचारतः ॥
अंगमूर्तिनिवृत्यादि मातृभैरवयोगतः ।
विद्येशनित्यमाराध्यतद्वेत्रीन्परितो यजेत् ॥
इन्द्राद्या देवताः सर्वे वाहनैः शस्त्रसंयुताः ।
विस्तरेणाद्य देवेशि तवस्नेहात् प्रकाशितम् ॥
त्वं च देवि स्वराख्या(त्र्या)न्यान्प्रकाशयन चान्यथा ।
अनादि सिद्धिसंसारे अज्ञानेन विमोहिताः ॥
सकृदुच्चारमात्रेण सप्तजन्म कृतं महत् ।
पापानि विलयं यान्ति सत्यं सत्यं न संशयः ॥
लक्षमात्रकृते जापे सिद्धिना मालयो भवेत् ।
नलदुर्गेशि देवेशि त्रैलोक्यं च समालभेत् ॥
लक्षत्रये कृते जापे साक्षाद्वै श्रवणो भवेत् ।
प्. ७३अ) वेदलक्षान्त्रिवेदीशो कर्ताहर्ता स्वयं विभुः ॥
पंचलक्षैर्महादेवि गाणपत्यफलं लभेत् ।
लक्षैरेकादशोर्देवि साधको मत्समो भवेत् ॥
तत्वलक्षाहसौ देवो मया तुल्यः सदाशिवः ।
कुलान्तारयते स्प्त दशपूर्वादशापरेन् ॥
इतो वक्तुं न शक्नोमि सत्यं सत्यं वरानने ।
सूर्यो वा तपते भूमौ सागराता महीश्चरेत् ॥
मंहींगछेच्च पाताले विधुराग्निर्भवेद्यदि ।
भग्नं पर्वतराजस्य एतन्मिथ्या भविस्यति ॥
ब्रह्मपुस्यसमिद्धोमं तिलतंडुलकैः क्रमात् ।
लाजापूपफलानां तु मधुरैः सह भाविनि ॥
ज्ञात्वा भवो विमुक्तोसौ द्वाराये परमेश्वरि ।
सर्वैर्द्रव्यैस्तथा देवि सर्वकामां नवाप्नुयात् ॥
इत्युक्तं च रहस्यार्थं इतः किं कथयाम्य?हम् ।
श्रीदेव्युवाच
भगवन्सर्वमाख्यातं विधानं शोभनं परम् ।
तत्परस्य तथेशस्य देवी सर्वार्थ सिद्धिदं ॥
विधानं परमं गुह्यं देवि सिद्धः सुपूजितः ।
भैरवीति च विख्याता या देवी सर्वसिद्धिदा ॥
तस्यास्तु परमं बीजं मंत्रमंत्रादि संयुतम् ।
न्यासध्यानसमायुक्तं सामर्थ्यं तस्य कीदृशम् ॥
भैरवी समया देवी यथावत् परमेश्वरी ।
कथयस्व प्रसादेन येनजानामि सुव्रतः ॥
श्रीमहादेव उवाच
शृणु देवि यथा सा तु पूज्यते च कुलक्रमान् ।
कुलकुब्जेश्वरी देवी कुलाचारक्रमेण तु ॥
कुलजा योगिनी जाता योगिन्यः सिद्धयोगिनः ।
आराध्यविधिना देवि प्राप्नुयुस्तेन संशयः ॥
प्. ७३ब्)
अन्यैश्च सिद्धिवर्गैश्च भैरवीं भवभक्तिनीं ।
न्यासमात्रे कृते देवि सर्वपापक्षयो भवेत् ॥
तारपंचक माद्यन्तं योजयेत् सर्वसिद्धये ।
हृदिमध्येंडंविका देवी आत्मशक्ति समन्विता ॥
नवादि दीपनी देवी त्रिमूर्त्या भेदितं कुरु ।
लोकादि शिवभिन्नं च देव्याबीजं सुरेश्वरि ॥
हंसविजौ तु दीपन्या वामांते भौतिकेन तु ।
क्रूरभैरवसंभिन्नं द्वितीयं वरवर्णिनि ॥
सहांत्तौ क्रोधसंरुद्धौ विधुमध्यं सुरेश्वरि ।
मेषे नाम महारुद्रो गुणोंतः सूक्ष्मयुग्भवेत् ॥
ताराक्षभावमध्यस्था यामोन्तेन भेदितम् ।
एकादसादि वर्णं च विल्लमध्ये तु पूतना ॥
मंदरे सूक्ष्मरूद्रेण भेदितेनैडयुक्भवेत् ।
महाकालंभे च मध्ये कात्रमध्यं नरा भवेत् ॥
धात्रीशं दीपनी युक्त शरम्ध्ये सुरेश्वरि ।
रुद्रसंख्यां समाख्यातं विद्यांतेग्नहसंयुतम् ॥
प्रथमं हृदयं देवि द्वितीयं शिव उच्यते ।
तृतीयं शिष्यसंज्ञेया ततोर्द्धं च चतुष्टयम् ॥
तस्मात्कारणसंख्यार्णैर्वीक्षणं देवि पूजितम् ।
देवी बीजेन चास्त्रं स्यादुमाज्येष्टां च रौद्रिका ॥
विजया मंगला चैव सिद्धिदा सर्वपूर्वका ।
गुह्यादि पदसंयुक्तां देवतातुलमोत्थिताः ॥
नवाधारेषु नत्वं तु नत्वाभ्यां व्याप्यसमाहिताः ।
भूबिंबे चंद्रबिंबं च मध्यबिंबे सुधाकरः ॥
करेह्य बिंबानि चंद्रस्य चतुर्द्धारोपि कल्पितः ।
प्. ७४अ) साध्यबीजं महादेव्या अष्टावष्टौ तथावहिः ॥
विन्यसेन्मातृकं तत्र देवीबीजं ततो वहिः ।
मध्यविवगतां देवीं वालार्ककिरणारुणाम् ॥
कुरुकुंभलतांगीं च नानाकल्पविभूषितां ।
चापवाणवराभीष्टा करपल्लवशोभिताम् ॥
शोणारधौरक्तपातः सम्यक्किंजल्क सस्वरम् ।
द्विपंच शोभनं देवी ध्वान्तादौ साधकेश्वरि ॥
गुणलक्षकृते जापे होमे त्वेक गुणेन च ।
पललाताक्षहोमेन साधयेत् सर्वमात्मनः ॥
माया हंसि सिद्धासति उमाकालि सरस्वति ।
ग्रामणि भैरवि मुक्ता(देवि) एकवक्त्राः चतुर्भुजाः ॥
कुचलंबिका?दिग्वासाः सावधानाः स दूषणाः ।
लोकशक्तिस्तथासंघाः कुचलंविविभूषणाः ॥
पादुका पंक्तिसाक्षाच्चनमस्कारादि पूर्ववत् ।
एव एवंमभ्यर्च्यनां देवी भैरवीं भवशातनीं ॥
ध्यानयेत्पादसंभिन्नं धूपदीपादिसंयुतम् ।
षण्मासाभ्यासयोगेन साधकः खेचरो भवेत् ॥
इति श्रीकुब्जिकामते शालनिर्णयो नामद्विचत्वारिंशतितमः पटलः ।
श्रीदेव्युवाच
देवदेवजगन्नाथलोकानुग्रहकारकः ।
त्वत्प्रसादेन शास्त्रार्थं श्रुतं विस्तरतः प्रभो ॥
अधुना श्रोतुमिच्छामि भैरव्याः क्रममुत्तमम् ।
कलाकाष्ठादि रूपेणनिमेषान्मेष आग्नतः ॥
पक्षशब्दे कृते तत्र कलिद्वापरयोगतः ।
अन्यान्यपि च या देवि शुक्तितेहसुरेन्यपि ॥
एकद्वित्रिचतुःपंचषट्सप्ताष्टकं नवम् ।
दंशेकद्वादशत्रिंशचतुर्दशषुपंच च ॥
प्. ७४ब्)
दशसप्त तथात्रिंशत्सहस्त्रकः ।
अर्द्धलक्षं तथालक्षं चतुःपंच च पंच च ॥
कोटिभेदेन देवेश अनंतं त्रिविधार्णवम् ।
ज्ञानविज्ञानसंभिन्नं सर्वं सा सूजनि स्फुटम् ॥
न्यास ध्यानं तथा पूजा वक्रंसर्वार्थसिद्धिदं ।
ब्रह्मादिस्तं व पर्यन्तं व्याप्तं देव्यास्तु तेजसा ॥
इति सर्वं सुरेशान विस्तरेण वद प्रभो ।
श्रीभैरव उवाच ॥
देवि गोप्यमिदं ज्ञानं सर्वं यत्परिपृच्छति ।
तथापि स्नेह भावेन वक्ष्यामि सुरसुंदरि ॥
श्रीभैरव उवाच ॥
भैरवींति च या देवी विद्धितां गरुडध्वजम् ।
या देवी हरिरित्युक्ता स देवो भैरवः स्मृतः ॥
नकुलीशी शक्तिश्च रेफोहत्वंवरं पुनः ।
नादबिंद्वात्मकैः सोद्रौत्वं चाहं विद्धि पार्वति ॥
दृग्वलाकुलवांतांतं शिखिज्यातेन भेदितम् ।
नादाअदि संज्ञकं कुलीनदि सर्वेदभूषितम् ॥
सर्वाम्नायक्रमं चैतज्ज्ञातव्यं वरवर्णिनि ।
पूर्ववत् समयं देवी संपूज्य च कुलक्रमम् ॥
पादौ च विश्वमालायां ध्रुवं नामप्रतिष्ठितम् ।
देवी बीजं ततो देवि बहुमध्यं प्रयासिनां ॥
त्रिस्थाने दौ समुद्धृत्य आघौरुतात्त भेदितौ ।
दीपनी शूलदंडं च नवाद्यक्रूरभेदितौ ॥
द्वितीयं तु महाकालं निकरान्यासनस्थितम् ।
पूतनाशूलदंडं च तदधः कारयेद्बुधः ॥
वेदवर्णं पुनर्देवि उत्तरेनिषधालये ।
मंदरे क्रूरसंभिन्नं चतुर्थं तु न संशयः ॥
तृतीयं तु सुरेशानि नवादि क्षेत्रभूषितौ ।
संहारिका ततो देवि द्वेकमध्ये व्यवस्थिता ॥
एकादशं तु दीपन्या भेदितं क्रूरमस्तकम् ।
प्. ७५अ) न सवर्णं पुनर्देवि गुणैतं केवलं भवेत् ॥
भे च मध्ये महाकालं गायत्र्या भिन्नमस्तकम् ।
गुणेंतं नादिनी देवी अनंतं गंधमादने ॥
तद्वल्लवादिमुद्धृत्य चात्ममध्यं तु केवलम् ।
नारायणी महादेवी अनंतेन विभुषिता ॥
वायुवेगा पुनर्देवि चंडिकान्तं समुद्धरेत् ।
पुनर्यागौरियद्राज्यं त्रिषुलोकेषु कथ्यते ॥
मूकोपि वाक्पतिर्भूयाद्व्रतहीनोपि वित्तपः ।
शीतलेनासितुल्पश्च तेजसा तरणि प्रभा ॥
गुर्वाक्षायां नुतैरेव सिध्यते नात्रसंशयः ।
न्यासं तु कारयेद् यत्नान् सर्वंसिद्धिकरं परम् ॥
देवी बीजं महेशानि वाचांते पूर्वपत्रके ।
उल्कं चंद्र प्रभं कृत्वा भैरवी हृदयं हृदि ॥
देवी कामं तथा देवि महा उल्कं तथा पुनः ।
धरा दौ त्रिपदं प्रोक्ष भैरवी हृदयं शिवः ॥
देवी तृतीयसंभिन्नं वीक्षोल्कं भैरवी तथा ।
देवीति प्रथमं बीजं युक्तं तद्वन्नियोजयेत् ॥
कामबीजं महादेवि सहस्रोल्कं च प्रतिमुक् ।
भूयाहुपूर्ववदेवमुद्यनीयानियोजयेत् ॥
महाचक्रं च यद्भिन्नं त्रिपुरायाः सर्वतः प्रिये ।
हृदयं वास्तुसंभिन्नं चंडिकांतं प्रकल्पयेत् ॥
वक्त्रे चाथ प्रयुंजान चंडिका बीजमुत्तमम् ।
अन्ते वाचं ततः कामं तार्तीयं च पुनः पुनः ॥
विष्णुः सदाशिवे शस्य रुद्रो ब्रह्माथवारविः ।
ततोऽष्टाष्टकं देवि न्यास योगं शृणु प्रिये ॥
यासि मध्येसन कुलीदंडेन भेदितं कुरु ।
अष्टादिनि च दीर्घादि शिरोभिन्ननि कारयेत् ॥
अक्रूरेण तथा देवी ब्रह्माणि असिताप्नुकम् ।
प्. ७५ब्) माहेशीरुरुभेदे च कौमारी चंद्रसम्युता ॥
वैष्णवी क्रोधसंभिन्ना वाराह्युन्मत्त भैरवी ।
इन्द्राणी सकपालाख्या चंद्रिकाभीषणेन तु ॥
संहारेण महालक्ष्मी यामलं वै प्रकल्पयेत् ।
बीजं तथा ह्रस्वदीर्घं मातृभैरवयोगतः ॥
केशवं प्रथमं देवि नारायणमनंतरम् ।
माधवं चाथगोविंदं मधुसूदनमेव च ॥
त्रिविक्रमं कुब्जांगवरसंभैरवीति च ।
वासुदेवेनसंभिन्नं विंद्यान्ते एवमेव हि ॥
दुमध्यं दक्षवाहू चेव पार्श्वो पार्श्वाधारके ।
असंपृष्टे परगलेमस्तकेष्वेवमाचरेत् ॥
अष्टां तं च तथायोक्ष अष्टबाहुं च भैरवं ।
आदौ तु मातृकां देवीं प्राग्भवावक्रमेण तु ॥
अष्टाभुवं चाष्टांशो देशे हुत्वा बीजाष्टकं ततः ।
(न्यासमात्रे कृते चात्र सर्वपापक्षयो भवेत् ॥
लक्ष्मीसरस्वती प्रीतिरतिः कातिः सकं ततः ।)
न्यासमात्रेकृतेचात्र सर्वपापक्षयो भवेत् ॥
लक्ष्मीसरस्वती प्रीतिरतिः कांतिः सती जया ।
मंगला सर्व पूर्वा च केशवांते तु पूर्ववत् ॥
ततः कुर्वीत देवेशि मंडलं हस्तमानतः ।
सितकैः कुंकुमैश्चैव सिंदूरमृगनाभिः * * ॥
लिप्त्वा तु पीठे पट्टे वा हेमराजतनाम्रके ।
स सर्वं मोहनं चक्रं न्यासे तत्र समाहितः ॥
शिवं शक्तिं च देवेशं अन्योन्य मथनात्मकम् ।
मध्यसूत्रं प्रकुर्वीतमध्य चक्रं यथा भवेत् ॥
प्राग्योनि च समंभित्वा लिखेच्छक्तिं स लक्षणम् ।
पूर्वोक्त शिवशक्त्यग्रे न्यसेत् सप्तार्णवं वहिः ॥
परिवेशक्रमेणाथ वेष्टयेदग्रमग्नतः ।
अष्टारं चंद्रबिंबं च परिभ्राम्याथ वाक्यतः ॥
टांतमाखंडलं भिन्नमग्रेणगुणमालिखेत् ।
मध्ये बीजं महेशान्याः सकलं विन्यसेद्बहिः ॥
प्. ७६अ)
महाबीजं तु परितः संवर्त्तं शाग्निसंयुतम् ।
क्षेमंतभूम्निसंभिन्नं अंतरान्ते विधानतः ॥
वृंदे पृष्टे अष्टवर्णं यथा पूर्वं न संशयः ।
ठकारान् विन्यसेद् वर्णा नंते विद्यां सुरेश्वरीं ॥
प्रवेटेनसंभिन्ने श्रियासंवर्तकं न्यसेत् ।
तन्मध्ये तु सुरेशानं भैरवी सहितं स्मरेत् ॥
वाक्श्रुती तथातीतौ सदसद्भाववर्जितौ ।
सृष्टिस्थित्यंत रहितै सर्वकारणकारणौ ॥
अर्द्धनारी हितस्तौ च पूज्यौ माध्यं च तौ सदा ।
वामदक्षे अविवदौ दक्षे वामेषु पुस्तकम् ॥
नानारत्नमयैः कॢप्तं स्फाटिकीमक्षमालिकाम् ।
ज्ञानमुद्रामधो देशे वामे पूर्णकपालकम् ॥
वंधकासिरसाभासौ सर्वकल्पविभूषितौ ।
नयासोक्तविधिना देवी पूजनं सर्वदा कुरु ॥
ब्रह्माद्या देवताः सर्वे पादमूले व्यवस्थिताः ।
अंत्ये च ऋषयो देवि ये चान्ये भूतजातयः ॥
रुद्रलक्षजपादीशः स्वयंभू कुसुमैर्हुतः ।
भवेदाचारनियतः पशुदृष्टिविवर्जितः ॥
सर्वजन्मकृतं पापमुद्धारेण क्षयो भवेत् ।
बहुनोक्तेन किं चात्रसर्वं साधयते तु सः ॥
एतद्विद्याद्धिवत्क्लिष्टे शिष्टे देयो न चान्यथा ।
अन्योन्यं संप्रवक्ष्यामि विद्यामंत्रं सुदुर्लभम् ॥
अंबिकाभृगुमध्यस्था शूलदण्डासनस्थिता ।
भौतिकं मूर्द्धिविन्यस्तं आदावंते च मध्यतः ॥
एवं वा चिंतयेद् देवं पाशांकुशदवाविकम् ।
अक्षश्रक्पुस्तकं चान्यौ इक्षुकोदंडसायकां ॥
प्. ७६ब्)
कौमोदकीं च जलजं धवलाकल्पमंडितम् ।
चक्रमध्ये सुरेशान्यामर्क्येदुपदेशतः ॥
प्रजागरं च सुरंबाह्ये ह्रासांते नु षोडशम् ।
तत्वसंख्यं दंतपत्रं पार्थिवं चक्रसंयुतं ॥
तद्बाह्येमंडलं चापि विधिद्वारोपशोभितम् ।
अष्टावरणमेतद्धि चक्रं चैतत्सुरेश्वरि ॥
प्रणवं मध्य देशे तु श्रीबीजेन पुटी कृतम् ।
षडार अंशमंत्राणि अष्टारेश्वरयुग्मशः ॥
मन्मथं द्वादशारे तु द्वादशासुर बिंदुमत् ।
चंडिकां षोडशे न्यस्य चतुर्विंशे मंत्रमालिखेत् ॥
द्वात्रिंशे लिपिवर्णानि वज्रं माहेन्द्रमालिखेत् ।
वारुणं वारुणे चैव वेष्टयेच्छक्तिमंकुशे ॥
पुर्ववत्पूजयेद् देवीं वागुरीं मदनावतीं ।
नारायणीं रमां देवीं यामिनीं नादिनीं तथा ॥
निरवद्यां महादेवीं यमजिह्वां ततोर्चयेत् ।
देवी बीजं महेशानि दीर्घाष्टक विभूषितम् ॥
अक्षस्रक् पुस्तकं तासां पाशांकुशवराभयां ।
वज्रसंख्यादिकातास्तु प्रौढाः सर्वार्थदायिकाः ॥
स्थितास्तदग्नतो देवि सहस्रं चाष्टकं शतं ।
अक्षसूत्रं समादाय आदिक्रातं विभूषितम् ॥
अथबाहुर्लिपिर्वैस्तु मुक्तादि मणिसंभवैः ।
पंचाशतीमोक्षार्थी सप्तविंशति पौष्टिके ॥
त्रिंशतिर्द्धनसंपत्तापंचदश्याभिचारके ।
माध्यं च शांतिके ज्ञेयं अर्थलाभं च नामिके ॥
कनिष्टायां सर्वसिद्धिः स्यादेतैर्जपलक्षणम् ।
चतुरस्रं योनिसंकाशं त्रिरस्रं वर्तुलं सुभम् ॥
अन्यान्यपि च कुंडानि कर्तव्यानि परमेश्वरि ।
होमे मुद्रा त्रयः प्रोक्ता मृगीहंसी च सूकरी ॥
प्. ७७अ)
मुद्राहीनं च यद्धोमं तद्धोमं निष्फलं भवेत् ।
शूकरीकरसंकोची हंसीयुक्तकनिष्टिका ॥
मृगीकनिष्टतर्जन्या मुद्रात्रयमुदाहृतम् ।
एणी च शूकरी देवी ग्रथिनी मुष्टिरंजिनी ॥
अभिचारे शूकरी स्यादितरं शांतिकादिषु ।
कनिष्ठांगुलिमारभ्य प्राग्दक्षिणक्रमेण तु ॥
अनामिकांतं वै देवि तत्कोटिगुणितं भवेत् ।
कमलाक्षे च रुद्रश्च पलाशं च जपार्णवम् ॥
होतव्यं मधुना वाथ फल्गुनी अलिमिश्रितम् ।
एवमाराब्ध देवेशं त्रिभिर्वर्षैः सुसंयतः ॥
श्रीयाधनदतुल्योसौ वाचावागीश्वरो भवेत् ।
कीर्त्या च विष्णुना तुल्यः स्वर्गार्थं स्थितैं ममः ॥
बहुनोक्तेन किं वासौ मया वंद्यो महेश्वरः ।
इति कुब्जिकामतेभैरवीनिर्णयोनामचत्वारिंशतितमः पटलः ॥
श्रीदेव्युवाच ॥
ययातु धर्मकामार्थं कैवल्यं च प्रपद्यते ।
ज्ञातृप्रसादरूपेण सा सदानंदरूपिणी ॥
अणुस्थूलादि भेदेन सर्वं सासृजनिस्फुटम् ।
अमर्त्यः पूर्वदेवोयः अगस्त्याद्याः सुतापसाः ॥
भजंति सुधि यो नित्यमनेकोपायसंकुलैः ।
वर्णविद्यार्थभूयस्त्वाह हत्वाद्ब्रह्मगद्यते ॥
विद्याब्रह्मसमत्वाच्च ब्रह्मविद्या तु सा स्मृता ।
तस्माद् विद्योत्तमां देवीं सर्वसौभाग्यसंपदां ॥
त्वन्तः परमकल्याण नान्यो वेत्ताजगत्त्रये ।
तामरादि महातंत्रे आम्नायैर्वामनादिषु ॥
उक्तं च भवता सर्वं न ज्ञातमेव साध्यतः ।
कथयत्वं समासेन सांगोपांगां त्रयी मयीं ॥
प्. ७७ब्)
श्रीभैरव उवाच ॥
साधु साधु महाप्राज्ञे गूढमेतदतीवतु ।
यामले यामले देवि नवकोटि प्रमाणतः ॥
उमेति कुब्जिका पंच उक्ता सा विस्तरेण हि ।
अत्रापि शृणु देवेशि यथापूर्वं मयोद्धृता ॥
जयद्रथे पंचकीलीत्रिः कीलीयामले मते ।
राजराजेश्वरे पंच षट्कीलास्कंदयामले ॥
कालवेधं च जानद्भिर्वद्धः सत्तश्च निर्मलाः ।
तंत्रे तंत्रे महाविद्या जीवहीनाः प्रकाशिताः ॥
न सिद्ध्यंति वरारोहे कीलिता विघ्नदायिका ।
समयं तु पुरादत्वा श्रीक्रमावलिपूजने ॥
कुलाचार्यः सुसंपन्नः शास्त्रवित्सर्वलक्षणः ।
गंधं पुष्पं सुधूपं च दीपं नैवेद्य कर्म च ॥
अशेषैः संभृता चारः पशुदृष्टि विवर्जितः ।
कस्यतारसहस्रेण पलभारशतैरपि ॥
न तृप्यामि महादेवि पंचकीलाः प्रकीर्तिताः ।
तद्यथा मरणं विद्यात्तरया वर्गरिद्रता ॥
शाशिमध्यगतं देवि कारुण्यं दीपनी युतम् ।
श्रोतुं कात्वमधोरूपे यामे योध्यन्त यानुगम् ॥
पंचान्तकं ततोत्तस्थं मंदरे सूक्ष्मगं पुनः ।
गुणोन्ताद्भु तथा योज्ये फट्कारा दीपनी युता ॥
रूद्यादि वर्णयोगं चरु अंतं बिंदुमस्तकम् ।
विष्णुपद्भ्यां समायोज्य सर्वान्तां सिद्धिमातृकां ॥
चंडिकाराकुमार्देवि नित्योनित्य नंदिता ।
चतुर्थ्यारथसंबुध्या शक्तिबीजं तु केवलम् ॥
करालिकापुतना च कुलचक्रपदं भवेत् ।
नायिका यै भगवती चंडं चाथ करालिनी ॥
अनंतं गंधशिखरे मालिनी च महेश्वरि ।
प्. ७८अ) अंबिकाराजसद्दीर्घतद्वन्मर्त्या विभेदितम् ॥
तदेवषष्टस्वरयुक् चंडिकां चैवमेव हि ।
सिंहादौ तु स चंडा च अंकुशं कामशक्तिदम् ॥
पावनीशूलदंडं च भे च मध्यं तु हंसिनीम् ।
निर्वारणं च दरुणं * * * मंदरेण तु ॥
कांतं सांतं स वलान्तं पूरप्रशम*?नि च ।
शक्तिः क्रोधः पूतना च त्वरिताष्ट क्लेशतः ॥
दहनीकातृमध्ये नरके पूतनानि च ।
सर्वांभोधि शक्तिर्ब्रह्मा शचीपतिः ॥
शक्रप्रथमनी देवी युगेहसल्लयुक् ।
अनमेध्यं केवलं तु शूलं दंडं तथैव हि ॥
अमृगा दुर्बला देवी भक्षिणी कालयुक् पुनः ।
स्वशत्रु युज्ग्राहिरजाभिंदिछिंदि युक्पुनः ॥
असिनातं जपेद्वैद्वं च्छेदयेति तथैव च ।
भैरवो भैरवी देवी चामुंडा चंडसंयुता ॥
महाकालं महाकाल्याः सकलं च मनोरथान् ।
साधयद्वितयं देवि पावनी शूलकालयुक् ॥
कारुणिके भगवति कालहा भैरवं पुनः ।
रूपधारिणि देवेशि त्रिदशं वारुणं भवेत् ॥
शूलदंडागुणों तवमंत्रे शक्तिकमानतः ।
मंत्रस्तु जननी देवी रुद्रान्तेन च मंदिरे ॥
भुजंगभैरवस्थं च राधादिनागमध्यतः ।
बिंदु मध्ये जपत्याख्या गुणोंतं केवलं विदुः ॥
वत्सले देवदेवेशि महाकाली तदग्रतः ।
रुद्राग्निंदिबिल्वमध्यं तु * * पदमुद्धरेत् ॥
विद्यादौ चोद्धृता बीजाः प्रसीदमदनानरी ।
कुबुद्धिं कुरु देवेशि गुरुश्चक्र सुता प्रिये ॥
कुमारीं तु समायोज्य देवी मंकुशभूषितां ।
अंबिकां कुरु मध्यस्था षष्टशूलं स पद्म फट् ॥
प्. ७८ब्)
ततो अर्घ्यात्तपनीस्यात् प्रजानां गतिरव्ययः ।
जगत्यतीतं देवेशि उद्गता सर्वकामदा ॥
एषा प्रत्यंगिरा देवी नाम्ना त्रैलोक्य मोहिनी ।
अनया विद्यया देवी त्रैलोक्यस्य जनार्दनः ॥
सर्गसंस्थिति संदेवी करोत्वेषा जगन्मयी ।
राजविद्या महादेवी राजगुह्या पुरेतमा ॥
राजोत्तमोन्त मासा तु पावनानां च पावनी ।
दवोदावे महादावे अविव्यालाग्नि जनादिषु ॥
आहवे जयमाप्नोति पर्थिवत्सहिभूपति ।
यमादि साधनं देवि अणिमादि गुणाष्टकम् ॥
अंजनंग्रसकल्पा च मंत्राण्यन्यानि मुद्रया ।
रूपबीजा कृशानन्या तपनी प्रमुखा अपि ॥
इत्थं प्रभावो देव्यास्तु सिद्ध्यन्ते ते तु सिद्धयः ।
द्वाविंशदक्षरं देवि कल्पांते तु प्रदापयेत् ॥
अंगनांते पुराकृत्वा अंगे बीजद्वयं लिखेत् ।
शरत्काले तु संप्राप्ते निराहारो जितेंद्रियः ॥
दिनं प्रति यथाख्यातं सहस्रं च दिने दिने ।
नवरात्रे तु संप्राप्ते यथाविभवविस्तरैः ॥
अराध्यपरमेशानीं स भवेत् सामर प्रियः ।
मयापि यद्धतस्तेन सुखमास्यामि नित्यशः ॥
दशग्नीवः पुरादेवि दर्पतो मदनुग्रहात् ।
तस्य ज्येष्टो महाभागो मत्सखस्तु पराजितः ॥
स एवं दन?राज्यं च स तु हीनं सतः * * ।
समुयागत्य शरणं प्रसन्नः स धनेश्वरः ॥
आदिष्ठातां मया तस्य तथासौभाग्यतो भवत् ।
दशकंधो नाललोकान् जितवान् विजितेंद्रियः ॥
प्. ७९अ)
जयद्रथः कामदेवो ब्रह्मा च विनता प्रभुः ।
स वैकुंठोथदुश्चर्य इतराणि अपि वादिराट् ॥
कुर्वन्त्वेते महादेव्या आदेशं सर्वदा प्रिये ।
कृत्वादौ मातृकां देवीं नदिफान्त क्रमेणताम् ॥
श्रीकंठनादिनीं देवीं आदिख्यांत स नादवान् ।
परानाथं च अर्वा च पादुकास्थानपोथिताः ॥
परमात्मा अंबिकां च पातसंदीपनं ततः ।
क आदिभिन्नं देवेशि द्वितीयं तद्व देव हि ॥
जापनीं शूलदंडं च महाकालं स हंसिनिं ।
पुनस्तां दीर्घसंभिन्नं सर्वत्राभिर्नियोजयेत् ॥
सर्वज्ञां चाथदेभिन्नां हृदयं चात्र पार्वति ।
निर्वाणपद्मदे देवीं तृप्तां ये च शिवो भवेत् ॥
वारुण्यसूक्ष्मसंभिन्नं श्वेतं कालं च यांतगम् ।
पावनी प्लवसंभिन्ना नरके पावनी पुनः ॥
नवादि दीपनी युक्तं शवकं कालभैरवम् ।
नारायणी महादेवी मंदरे सूक्ष्मसंयुता ॥
चतुर्थानादि बोधां तु देवी बीजं च कल्पयेत् ।
देवी बीजं समुद्धृत्य क्रोधं च बिल्वमध्यगम् ॥
ततो भवे महेशानि हरिता क्लिष्टके शतः ।
दलनीभिर्महादेवीं स्वतंत्रा पतनच्छदम् ॥
हुंगुर्वा पावनी देवी धात्रीशो दीर्घबिंदुमत् ।
भीषणीं रांतसंभिन्नाजलजं सूक्ष्मभेदितम् ॥
तरणाभिः पुनस्तां च श्रीकंठोलुप्तशक्तिकः ।
निखिलं पदमुद्धृत्य अविप्रशमनीति च ॥
देवेङ्गं व्यस्त्रसमापोक्ष्य पन्नगं शक्तिशास्त्र फट् ।
गुरुणां पादुका पंक्तिं ज्ञातव्यं चोपदेशतः ॥
पदन्यासं वर्णभेदैरन्यैश्चापि सुरेश्वरि ।
न्यासानन्यान्विधातव्या गुरुवक्त्रविनिर्गतान् ॥
प्. ७९ब्)
अनेकवक्त्रनयनामनेकांतु करांबुजाम् ।
अनेक पाणि चरणां नेत्रानेक विभूषिताम् ॥
अनेकभरणसंदीप्तां नीलकुंतलमुर्द्धजाम् ।
ध्यायेन्तामथ देवेशीं निश्चले नांतरात्मना ॥
उदयार्कसमप्रख्यां किरणानेकसंकुलाम् ।
वंधूकपुष्पसंकाशां सिंदूरसदृशोपमाम् ॥
पंचवक्त्रां दशभुजां पीनोन्नतपयोधराम् ।
सर्वाभरणसंभिन्नां सर्वलक्षणलक्षिताम् ॥
त्रिपंचनयनां सौम्यां मुक्तकेशीं हिम प्रभाम् ।
सिद्धलक्ष्मी महादेवीं सिद्धिमुक्तिप्रदायिनीम् ॥
नित्यप्रसिद्धयोगेशीं कुलाकुल महेश्वरीम् ।
अक्षमालां कपालं च * * * खड्गसंयुताम् ॥
मुंडखट्वांग हस्तां च वरदा भय पाणिनीम् ।
पाशांकुर धरां देवीं प्रेतस्योपरिसंस्थिताम् ॥
पाठक्रमगतैर्वर्णैर्विन्यसेदं कुशद्वयम् ।
विष्णुबीजं न्यसेद्देवी दलाग्रे च पुनः क्रमात् ॥
दलपंचकसंयुक्तं रेखासप्तदलावृतम् ।
अष्टादशोर्द्धरेखांकिं भूतिराग्रहमुत्तमम् ॥
शिखाग्रे त्रिशिखां पूज्यमंडलाखंडलस्य च ।
मध्यादि शरपत्रेषु यावत्कोष्ठाश्च बाह्यतः ॥
कंटकादि न्यसेद्विद्यां युवतिः षोडशैः क्रमात् ।
तेषु षोदशकोष्ठेषु माजीनमध्यगै सह ।
मुखाग्रं शरपत्राणि साग्रं राष्टसपत्रकम् ।
षोडशारं महादेवी द्वात्रिंशद्गणशोभितम् ॥
ब्राह्मे षष्टिचतुःपूर्वं पररेखा त्रयान्वितं ।
प्. ८०अ) भूविंवै परिसंयुक्तं वीथी द्वारोपशोभितम् ॥
देवी बीजं वसंलिख्य पत्रेष्वपि पृथक् पृथक् ।
देवी देवौ च देवेशीं मध्यगे पदसंयुते ॥
हाकिन्या तु यथाषट्को अष्टोतरनवात्मकम् ।
वसुभिस्तु शिवोभिन्नं षोडशे तु नवात्मकम् ॥
द्वात्रिंशे तु महादेवीं विद्यार्णां च युथा क्रमात् ।
चतुःषष्टि युतां देवीं विवेकानु विलोमतः ॥
विन्यसेन्मातृकां युक्तां बाह्येतां केवलं भवेत् ।
भूबिंबे चंडिकां देवीं वज्रेभुभा?गुरीमपि ॥
द्वात्रिंशेन तु वर्णानि वाक्ये चत्वारि वानि च ।
ब्राह्मी क्षात्री तथा वैश्वा शूद्रीकंट्टकीनीति च ॥
रजकी मोचकी पश्चाच्चंडाली च यथाक्रमात् ।
वट्काष्टकेतु वट्कीभीर्योजयेन्मातृभैरवात् ॥
बीजाष्टकं तथा चादौ गुरुवक्रोपदेशतः ।
कामरूपी कोलगिरिः सौवाराव्यालकौ तथा ॥
मलयं श्रीकुलांतं च जालंधं देवि कोटकम् ।
पीठेश्वर्यो महादेव्यः कामाक्षां च या तथा ॥
देवी पूर्वं तु कोला यै सौवारायां तथा पुनः ।
तज्जायं तु तथा देवी समलांगं तु पूर्ववत् ॥
कुलायां च तथा वापीं जलायां तद्वदेव हि ।
देवकायां निवांगे पूजाअपायाति भूय च ॥
त्वङ्मांसे रक्तपित्तास्थि मज्जाशुक्र स जीवकाः ।
पीठादौ योजयेदेतत्त्वगाद्याबीजपूर्विकाः ॥
एवमष्टाष्टकं देवि पूर्वन्यासक्रमेण च ।
सद्योजातं तु पूर्वेण वामदेवं तु दक्षिणे ॥
अघोरं पश्चिमे न्यस्य पुरुषं चोत्तरे विदुः ।
ज्ञानापूर्वे प्रविन्यस्य तत्कालाभिश्च तां त्यज्येत् ॥
प्. ८०ब्) इकारं प्रथमं पूज्यज्ञाकारं व द्वितीयकम् ।
क्रियाख्यां च देवीति पात्वेकामांससंयुताम् ॥
ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ।
प्रेतमध्ये महेशान्या आसनं मुंडसंयुतम् ॥
धर्मज्ञानं च वैराग्यमैश्वर्यं दिक्पुनः पुनः ।
आकारं प्रथमं देवी मुडविश्वेति संज्ञितम् ॥
रुदं च वलमध्ये तु अर्चयेत् सुरपादपान् ।
कंदनालं तथापर्णं मातृकां पूर्ववत् प्रिये ॥
गुणरुष्कं न धर्मादीन् तत्र प्रेतासनं भवेत् ।
चंडिकाद्यंत मध्ये च चतुर्भ्यां च परा परा ॥
अपरा तु तथा देवी महाप्रेतं च तंयुतम् ।
पद्मासनं महादेव्या उमामाचलनिर्भवेत् ॥
सिद्धिलक्ष्म्यादि मूर्त्यन्ते देवी युगे तु युक्पुनः ।
मंडलेस्मिन् महादेवी सान्निध्यं कुरुयुग्मकम् ॥
आरंभानि महेशानिमर्चयेदुपदेशतः ।
सपर्यासाधनं वक्ष्ये वामे त्वर्य स हेतुकम् ॥
यथाविधानं संशोध्य रूपसंख्योप चारतः ।
चंडिकाशक्तिमत्पूर्वं तुकारपीठये सह ॥
न चंडिका बीजमुद्धृत्य वसे हेति च चंडिका ।
चंडं च भैरवं देवं पादुका पंक्तिसंयुता ॥
आनंदं च निवृत्तिति कलादेवी पुनः पुनः ।
जकारं पीठं श्रीपूर्वं उमां तां च करालिनीम् ॥
पद्मपूर्वं तु चामुंडां ब्रह्मानंदं तथैव हि ।
प्रतिष्ठाप्यसमाख्याता त्रिबीजं पुनरेव हि ॥
पूर्णपीठं तु देवेशि गिरि चामुंडचांडच ।
नाथेतिं संवरांते स्यामांतां चाथ च चंड्रकम् ॥
प्. ८१अ) विद्याकलादि देवीति पादुकां पूर्ववत्पुनः ।
बीजानिमानि देवेशि चंडेशं पुरशंवके ॥
सफेशक्ति महाबीज त्रिमलामत द्विसंयुतः ।
फेश्रीरुद्रनाथान्ते गालं तथा यांतिका देवी ॥
कलादि पूर्वोक्तेन यथावत् * संप्रयोजयेत् ।
आरपूर्वेषु पादेषु ब्रह्मविष्ण्वंश भेदतः ॥
ज्येष्ठा वामा च रौद्री च देवीनां पुरतः क्रमात् ।
षट्पंचाशत्पदं ज्ञेयं द्वादशंतं द्वितीयकम् ॥
तृतीयं शिशुवर्णानि यथा देवी पुरार्चिता ।
सुराणामंतरे देव्याः पूज्याः षट्सुयथा क्रमात् ॥
षड्दीर्घभेदितां कृत्वा प्राणजीवं च मादनम् ।
ततो भवेन् महेशानि ऐद्रो रेफं स दारुकम् ॥
क्षकारं कालमारूढ मधस्था चैंद्रवारुणम् ।
दीपनी शूलदंडं च ध्रुवांतेनविभूषितम् ॥
बीजमेनं महेशानि सर्वत्रैवा पराजितम् ।
नमोदिक्षु चतुर्थ्यन्ता महापूर्णितलोचना ॥
टंकक्षोणिकाः सर्वावरदाभय शोभिताः ।
आत्मानमसूतांनुक्तं भूधरं मदनावती ॥
शूलिनं धृतिसंयुक्तं विद्यात्मानं स भूषया ।
सितिकंठं चेंदिरां युक्तमपरं च कपर्दिनम् ॥
विषापललितां देवीं सर्वज्ञं प्रजनां प्रिये ।
नीपट्युक् सती देवी पिनाकी सहजाद्गवीम् ॥
वरदाय विरूपाक्षं वरेण्यायसुभद्रिकाम् ।
शूराया थसतीं देवीं स्मराय प्रिय दर्शिनीं ॥
अघोराय सुभीमाय कुमाराय पराज्ञया ।
पाशांकुशधरानेत्रा रक्षसूत्रकमंडलून् ॥
प्. ८१ब्) देव्यस्ता अंगपीठस्था जायाकल्पविभूषणाः ।
पानपात्रं च सर्वासां वामे दक्षे च मृण्मये ॥
श्रीकंठादेः पदं देवी हेतुकं त्रिपुरांतकम् ।
अग्निवेतालसंगं च कृतानां च करालकम् ॥
एकपादं महादेवी भीमाकृति स भीमकम् ।
अघोरे परौरुद्रौ स्यातां भैरवाय स भीमकम् ॥
एते रुद्रा महावीर्या घृतशूलकपालकाः ।
अक्षसूत्रं सुधाकृष्टं मदप्रौठेंद्र शेखरः ॥
एतारुद्रांगपीठस्थाः सिंदूरारुणविग्रहाः ।
रक्तोत्पलाभ्या * * * मलंकृतकरांबुजाः ॥
दक्षेणाग्निष्टरमणा वामे शूणिमदालसाः ।
स्तंनारनतावालाः कृतचंद्रावतंसकाः ॥
मुक्तकेश्या महोद्भूताः सर्वायौवनगर्विताः ।
ककुदश्च महादेव्यः पूजनीयाः प्रयत्नतः ॥
आदित्ययोगिनी देवी श्रीमहायोगिनी तथा ।
श्रीसिद्धयोगिनी चैव श्रीगणेश्वर योगिनी ॥
निशाचरी च प्रेताशी वागीशी कालरात्रिका ।
ठंकार योगिनी देवी रौद्री वेतालिका तथा ॥
हंकारयोगिनी चैव रक्तवर्णासुवर्तुला ।
ऊर्द्धकेशी विरूपाक्षी सूक्ष्मांगी ऊर्धनेत्रगा ॥
नवभोजनी च फट्कारी वीरभद्रांति मुख्यका ।
कलहप्रिया महायोग्या राक्षसी घोरनेत्रिका ॥
सिद्धेश्वरी च फेट्कारी चामुण्डा वीरभासुरा ।
रौद्री हूंकारीणी कृष्णा भीषणा च सुर प्रिया ॥
दुर्मुखा भोगिनी चैव खर्वांगी पादुकां तथा ।
दीर्घालंवौष्विका चैव मारिणी मंत्रयोगिनी ॥
प्. ८२अ)
कलहाक्षी ग्रामणी च चक्रीकंकालिका तथा ।
भुवनेशी कटंकारी डाटकी पादुकी तथा ॥
कामाथदूतिका चैव काकदृष्टिरधो मुखी ।
धूर्जटा विकटा चैव ईश्वरी विषकंठिनी ॥
द्वि षोडशा महादेवी पूज्यापुष्पशराशनम् ।
कोदंडपूनयावरद विभ्राणामदमंदगा ॥
रतायारुषमारिष्टा अश्लिष्टान्य करोत्पला ।
कामदेवा पराद्यन्ते कामिनी प्रीति मे? पुनः ॥
कामहा यथा देवेशि कमलांतेनतिर्भवेत् ।
कामचारविलासिन्यः कर्मणः कल्पकं पुनः ॥
कामकेश्याववर्णायै काममर्द्धे शुचि स्मिते ।
रामाय विस्मितां देवीं विशालाक्षीं च कामकम् ॥
रमकं लेलिहायुक् रतीनाथं दिगंवराम् ।
रतिप्रियां प्रियायुक्तं रात्रिनाथं स कुब्जिकाम् ॥
रतिकांतां धरायै च रमणं च प्रणिंसकाम् ।
निषाचरंकषद्यासौ लग्नापथविमोहिनीम् ॥
नंदकायमहायैत्रनंदनायसुरोत्तमाम् ।
नंदेतायसुलावण्यं निशाचाराय मर्दिनीं ॥
कलहप्रियारति सुखमेकाक्षं पुष्पधन्वने ।
सुमुखे तु महाध * * भ्रामरापाटन्यथ ॥
भ्रममाणसुमालिन्यां भ्रमा * * शिखा भवेत् ।
भ्रान्तायाथसुसुश्रापैराश्रम वासिने ॥
भृगस्याथभ्रमायै च मोहनं दीर्घजिह्विकाम् ।
एकपाशाय वारायै नमोंता बीजपूर्विकाः ॥
सक्रंदनाग्नि परमा * पितुं च निशाचरम् ।
प्. ८२ब्) पुरेतेरं च शाखाग्रं ज्ञानपद्मं च चक्रिणम् ॥
ईशाग्ने च विधातव्या यथायोगा सुरेश्वरि ।
ग्रहराशि तथा होमैर्मातृका कर्णयोगतः ॥
क्रोधिनी स्तंभिनी चैव शंखया मुनिधी पुनः ।
गणेशं क्षेत्रपालं च दुर्गां चैव सरस्वतीम् ॥
ऐरावतः पुंडरीको वामनः कुमुदों जनः ।
पुष्पदंत्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥
नक्षत्रयात्परं षष्टि योगिन्यः परिवारिकाः ।
नानारूपधराः सर्वाः कामनम्रांगयष्टयः ॥
कंठलंवितदिग्वासा मदाघूर्णितलोचनाः ।
दीपखड्गधराः केचिन्नासापानरताः पराः ॥
करंकदंवकाठिन्यश्चामरा दलशोभिताः ।
तालवृंतं तथाच्छत्रं विविधा युध भूषणाः ॥
दंभोली शक्तिदंडं च खड्गपाशं शूलीमपि ।
कौमोदकी गदांभोज सुदर्शनमनुक्रमात् ॥
ऋग्वेदोथयजुर्वेदः सामवेदोप्यथर्वणः ।
पुराणं धर्मशास्त्रं च मींमासान्यपि वास्कलम् ॥
ला?स्यैर्गानैः स वाद्यैश्च वेणुवीणा मनोरमैः ।
प्रीणयन्तो महादेवी गंधर्वाक्षरकिन्नराः ॥
नागासुरामनुष्याश्च स्वमूर्त्याः सिद्धचारणाः ।
ऋषयश्च वशिष्टाद्या नारदोंगिरसस्तथा ॥
अत्रिर्वशिष्टो भगवान् पुलस्त्यः पुलहः क्रतुः ।
विश्वामित्रभरद्वाज भृगुगौतमकश्यपाः ॥
अन्ये वाल्मीकि प्रमुखाः प्रीणयंतो महेश्वरीं ।
सूक्तिभिः प्रस्तुतिभिश्च शास्त्रैर्वेदांगसम्मितैः ॥
प्. ८३)
एवमाराध्यविधिवज्जपे स्थित्वा तदग्रतः ।
शतंवाथशतार्द्धं वा सहस्रं वा तदर्द्धकम् ॥
लक्षं तदर्द्धकं वापि रुद्रलक्षे शिवो भवेत् ।
कलुषं त्रिविधं देवी होतव्यं कस्य सम्मतम् ॥
मध्वक्तः मधुभिः पंकै रवैरुत्पलैरपि ।
ब्रीहितिस्मचरुः सिद्धं पनसं नारिकेलकम् ॥
देवी मंत्रे च रौद्रे च स्वयंभुः कुसुमैः सह ।
तर्पणादौ च होमे च विधेयमविशंकितम् ॥
समासेनात्र देवेशि तवस्नेहेन भाषितम् ।
प्रकाशितं रहस्यार्थं सत्यमे तत्र चान्यथा ॥
इति श्रीकुब्जिकामते चतुश्चत्वारिंशतितमः पटलः ।
श्रीदेव्युवाच ॥
सर्वमेतद्भवानाह तत्त्वयामे व भाषितम् ।
सूचिता विस्तरेणात्र विद्या प्रत्यंगिरा सुभा ॥
ना कुलः शिवभेदेन उपास्यः शिवयोगिनाम ।
मंत्रपक्षाभिधानं च योगध्यानं सुसिद्धयः ॥
यथावेद्मि सुरेशान विश्वमाख्या हि यत्नतः ।
श्रीभैरव उवाच ॥
विश्वामित्रः पुरादेवि वाशिष्ठेन तिरस्कृतः ।
तपस्तेपेतदाभीम्ममरुविक्रम चेतसा ॥
वर्षाणां द्वादशैर्दिव्यैर्निराहारो जितेंद्रियः ।
तुष्टोह तपसा देवि भस्माद्भगमनुस्मरेत् ॥
आदिष्टौ तु महामंत्रौ दिकसंख्या चाक्षतौ भवेत् ।
ताभ्यां ब्रह्मत्वमापन्न गुप्ते वक्ष्यामि सुंदरि ॥
शैवना कुलतंत्रेभ्यो यमौ दूष्टौ सनातनौ ।
पूर्वोक्तं समयं देवि विज्ञातव्यं गुरुवक्त्रतः ॥
रसभूतांतमध्यस्थं केवलं प्रथमं भ * त् ।
प्. ८३ब्) मेषोनाम महारुद्रः प्राणांतं बीजमुत्तमम् ॥
महाकालं पुनर्देवि मंदरेसेन भूषितम् ।
वान्तोन्तेर्द्धच्छमध्यस्थत्तस्याधोनुंतमालिखेत् ॥
त्रिमूर्त्या शिवया भिन्नं तृतीयं सप्तशून्यकम् ।
तदग्रे च महादेवि विष्णोर्जायं समालिखेत् ॥
तात्तीपरसवं भिन्नमस्तिरुद्रं पुनर्भवेत् ।
गुह्यशक्त्या च मूर्द्ध्निस्थं वक्त्रवर्णं चकं लिखेत् ॥
तस्यमूर्द्ध्नि प्रदातव्यमनंतं गंधमादने ।
वांतांतं न पुरेशावयामोमध्यं न संशयः ॥
अस्य जापेन होमेन साधकः सर्वमाप्नुयात् ।
शृणु देवि प्रवक्ष्यामि अन्यथा संप्रदायकः ॥
पूर्वोक्तमंत्रबीजा नामादौ वर्णत्रयं लिखेत् ।
बीजं च वनिता शंभो ना लिखेति पुषेणहम् ॥
अधस्तावत्पदुक्तं गंधनेक्रूरमस्तकम् ।
चतुरानना त्रिमध्यस्था वागीश्वर्या च भेदितः ॥
सापि मध्यगतं शुक्रं गुह्यवर्णेन भूषितम् ।
धूह्यारुदन्तं सूक्ष्मेशं कारणे वरवर्णिनि ॥
सेनोनाम महारुद्रो विष्णोः शययासनस्थितः ।
सव्यबाहुस्थशिखरे मद्वर्णं केवलं भवेत् ॥
अर्द्धनिश्यां महादेवि सुसुप्ते पाशबीजने ।
द्रव्याणि विधिवत्साध्य मंडलं हस्तमानतः ॥
त्रिपुरां साधकस्तत्र ध्यायेदीपशितमंत्रतः ।
रक्ताभरणसंदीप्तमरुणं विश्वविग्रहम् ॥
संदिग्धो दंडसंभिन्नं पीतरक्ताशिलाशितैः ।
आस्यैश्चंद्रांशुसंकाशैस्तद्विंवेनविनिर्मितैः ॥
चंद्रार्कवह्निनेत्राब्जैराशीनं पद्मविष्टरेः ।
वर्गपादस्य मूले तु देवसिद्धैरूपस्थितम् ॥
अक्षस्रक्पुस्तकं पाशमंकुशं वरदा भयम् ।
प्. ८४अ) मृगं रत्नसंहृष्टं देव्यावामोक?सिष्टया ॥
पानपात्रं महेशान देव्यालोकन तत्परं ।
ईशानमीशतुल्याभं ध्यायेत् कुंकुमसन्निभं ॥
ध्रुवंनासि गतं कृत्वा मध्ये देवं विधानतः ।
पात्रेष्वर्णान्वसुमितान्सुरान् केशरसंधिषु ॥
व?ट्कंतदुह्यसेद्बाह्ये कुगेहं न च्छिपेत् पुनः ।
विपत्सां मातृकां देवी यथोक्तन्यसने पुरा ॥
विनान्यासेन देवेशि यो मंत्रान् जपते पुनः ।
जपन्तन्निष्फलं तस्य वधिरे कर्णजापवत् ॥
शब्दराशिविधाने च समाहित फलप्रदम् ।
सर्वशक्तिसमंयुक्तमाद्यत्रयमनंतरम् ॥
हृदिन्यासं च देवेशि कर्तव्यं च विधानतः ।
नियां शक्तियुतां देवीं शिरन्यासे प्रकीर्तितम् ॥
प्ंचपंच महादेवी शक्त्यादि न शिवा स्मृता ।
शक्तिस्तु तत्र संभिन्नं षष्ठ * * तनुच्छदम् ॥
सप्तमे वीक्षणे देवि श्रीकंठं लुप्तशक्तितः ।
बीजत्रयं तथा चान्यमनंतं शक्तिसंयुतम् ॥
न्यसेत्सशब्दं देवेशि अस्त्रं सर्वत्र रक्षितम् ।
नवाधारेषु तद्वर्णान्दशमं मूर्ति विन्न्यसेत् ॥
संपुटि कृत्यमंत्रेण मातृकं स नवात्मजम् ।
जपादौ तु विशेषेण तेन निष्कलतो भवेत् ॥
देवी मंत्रेण देवेन तत्वया द्रव्य लक्षणम् ।
ततः संपूजयेद् देवि निश्चलेनांतरात्मना ॥
आत्मयागं पुराकृत्वा गंधपुष्परसादिभिः ।
उमावाक्प्रथमं देवि व्रवीद्दीर्घं तु देशिकः ॥
वित्तादि विश्वदिक्संस्था देवताः पूजये क्रमात् ।
प्. ८४ब्) मातरो दिग्विदिक्संस्था भैरवाः पूर्ववत्प्रिये ॥
वासुदेवाः कुगेहस्ताः शतधा च सुखान् पुनः ।
कराली वसती देवी सुमुखा दुर्मुखा पुनः ।
क्रोधिनी स्तंभिनी चैव सरस्वत्या च धूर्जटी ।
चापबाणधराश्चैता अरुणारुणभूषणाः ॥
य * * विषिवद्देवि श्रीबीजेनवदीर्घकैः ॥
व्याघ्राजिनादि विष्टरे विष्टोलक्षचंद्रं जपेद्वशी ।
जुहुवः स्वरसाहस्रं मधुभिः क्षीरसंभवैः ॥
समिद्भिश्च गलक्षाक्षैः साधकः खेचरो भवेत् ।
अथान्यं संप्रवक्ष्यामि शृणु देवि प्रयत्नतः ॥
प्रत्यंगिरेति विख्याता नाम्ना त्रैलोक्य मोहिनी ।
साधकानां हितार्थाय त्वयि स्नेहात् सुरेश्वरि ॥
सुनी कृती समाभिन्नामादावंते च कारयेत् ।
भुजैरष्टादशैर्भिन्नामेकवक्त्रां त्रिलोचनाम् ॥
अर्जुनोवाथ देवेशि उदितार्क समप्रभाम् ।
चापवाणौखड्गखट्टौ शंखासिनलिनंगदाम् ॥
सूणिपाशा हि घंटां च वरदा भय शोभिताम् ।
दंडाशनि कपालं च मातुलुंगं च विभ्रतीं ॥
त्रिशूलं मुंडसंयुक्तं मुडस्रङ्नंडितां शिवाम् ।
ध्यात्वैनां प्रजपेद् विद्यां लक्षमात्रं सुरेश्वरि ॥
व्रीहीभिः पुंडरीकैश्च लाजाभिः केशरोद्भवैः ।
सांप्रतं शृणु देवेशि विद्यारूपाभिगर्भिताम् ॥
शून्यादौ वा च मोक्ष अंतेवारं नियोजयेत् ।
नमसानंतरं देवि हृष्टांते वा समुद्धरेत् ॥
शशिमध्यगतं देवि ज्वालशक्तिविभूषितम् ।
वेद्यन्तं डागमध्यतत्यासि मध्यं सहांत युक् ॥
प्. ८५अ)
परमात्मिकां महादेवीं भुजंगासनसंस्थिताम् ।
करालिकां समुद्धृत्य रुद्रां तेन विभूषिताम् ॥
कपालिनीं मातृगेहे मंदरे सूक्ष्मभूषिताम् ।
दक्षे * च ततो देवि चक्रिणी गंधसंयुताम् ॥
एकादशे ऋषिस्थाने केवलं नादिनी पुनः ।
वामादि वर्णयोगेन सासिमध्यं पुनस्तथा ॥
एकादशे द्वि गं बीजं पन्नगासनभूषितम् ।
वदने च महादेवि रत्न श्रीकंठयुक्पुनः ॥
रुद्रसमुत्यनरकं राशिनेर्णान् पुनर्लिखेत् ।
अष्टादशभुजैर्देवि तथा प्रत्यंगिरे पदम् ॥
परसैन्यं परकर्मविध्यंसिनि पदं पुनः ।
मंत्रविच्छेदिनी पश्चा सर्वशत्रुच्चाटनी पुनः ॥
सर्वभूतश्च दमनी सर्वदेवाश्च वंधयुक् ।
सर्वविघ्नांश्च च्छिंधियुगं गुणोन्तं सूक्ष्ममूर्द्ध्निषु ॥
क्रोधं च अविवर्णेन भागमध्यं तु केवलम् ।
सर्वदुष्टान् भक्षयुग ज्वाला जिह्वे करालयुक् ॥
वक्रे च सर्वपात्राणि स्फोटयं द्वितयं भवेत् ।
शृंखलां त्रोटयद्वंद्वं वाधां चैव सुरेश्वरि ॥
महावारं समुद्धृत्य नो अंतं पन्नगासनम् ।
तरुमध्ये च तारा * यामो मध्येन भेदितम् ॥
पंचान्तकं तनोन्तस्यं सूक्ष्मभैरवभूषितम् ।
नवादि वर्णमुद्धृत्य वामादि वर्णके कुरु ॥
द्वा विंशत्यक्षरैर्देवि आत्मशक्त्या हृदि न्यसेत् ।
दशभूता सुरैश्चैव ज्ञानशक्त्या शिवोन्नतम् ॥
त्रिंशद्भिस्तु शिखा प्रोक्तमिच्छाशक्त्या च विन्यसेत् ।
चतुर्दशैकवर्णैस्तु रौद्र शक्त्या तनुच्छिदम् ॥
विदशैस्तु महादेवि क्रियाशक्त्या च लोचनैः ।
दशाष्टसंख्यकं चैव शस्त्रशक्त्या च विन्यसेत् ॥
प्. ८५ब्) मूर्द्ध्निभ्रूमध्ये नयने श्रोत्रयोः कर्णयोर्न्नसोः ।
आस्येकंठे च दोर्मूले कूर्परे हृदि विन्यसेत् ॥
नाभिपार्श्वद्वयोर्मूले कघांतालु द्वये पुनः ।
पादयोश्च महादेवि विन्यसेदुपदेशतः ॥
पूजां कृत्वा विधानेन पूर्वोक्तांगारमान्तः ।
इति सर्वं सुरेशानि समानिलगमस्यतः ॥
पादौप्रसार्ज्यन जपेदुत्कटासनवर्जितः ।
पश्चार्द्धेशमने वापि रथ्यायां नीचसंनिधौ ॥
न जपेद्रिक्तभूम्यां च खट्वायां हर्म्म्यमध्यतः ।
अवीखरमार्जार अंगारोष्ट्रे तु रेणकम् ॥
केशध्वजनखानां च स्नानवस्त्रगतोदकम् ।
अश्रीकरं मनुष्याणां अशुद्धं संस्पृशेद्यदि ॥
एतेषां संभवे वापि कुर्यात्सुर्ययाग्नि दर्शनम् ।
आचम्य वाजपेच्छेषं कृत्वा वा प्राणसंयमम् ॥
तुष्टीरवीकं च कीलग्नो मुक्तकेशो गणैर्वृतः ।
अपवित्रो निषिद्धश्च वाचां विग्लांपनं नव ।
क्रोधोमदः क्षुधातंद्रीनिष्टीवनविजृंभनम् ॥
हंसवागेश्वरीबीजं सर्वत्रैवात्रसंपुटं ।
विन्यस्तवेदिका मध्ये शंकुस्तत्रावलंबनम् ॥
शंकुसूत्राग्रसमिति सूत्रयोगादितः क्रमात् ।
प्राक्प्रत्यक्संस्थितं सूत्रं दक्षिणोन्तरगं तथा ॥
वर्त्तुलाग्रं तु संस्थाप्य लांकयेत् कोणमत्स्यकम् ।
षट्सूत्रन्यासमार्गेण तत्सूत्रं चतुराश्रितम् ॥
सूत्राण्या स्फालयेत् तत्र अष्टाविंशतिसंख्यया ।
प्रागग्राणि उदग्राणि सूत्राण्यं गुलमानतः ॥
कोष्ठ सप्तशतं नूनं नवविंशतिकोत्तरम् ।
ऐंद्रमडलमध्यस्थं बाह्ये पंक्ति द्वयं न्यसेत् ॥
प्. ८६अ)
द्वारशोभोपशोभा च चतुःपंक्ति चतुष्टकम् ।
महावींथ्या चतुष्कं स्यात् पार्श्वयोरुभयोरपि ॥
तन्मध्येरोपवीथ्यंतं पंक्तिद्वयमुदाहृतम् ।
तन्मध्ये पंचदशभिः पंक्तिभिः कमलं भवेत् ॥
नवपद्ममिदं प्रोक्तं नववीथि विभूषितम् ।
षड्भिः षड्भिः पदैर्द्वारं द्वाराष्टकसमुज्वलम् ॥
चतुर्भिश्च चतुर्भिश्च शोभाश्चैवोपशोभया ।
कोणेकोणपदैः षड्भिः पंक्तिद्वयसमाकृतिः ॥
उक्तमार्गमनेनैव बाह्येवलयमालिखेत् ।
चतुर्भिर्वहुलैर्भागां च्छित्वाच्छित्वाथ वर्तयेत् ॥
प्रथमं कर्णिका क्षेत्रं द्वितीयं केशराश्रियम् ।
तृतीयं दलसंधी स्यात् पत्राणि च चतुर्थके ॥
तत्राष्टसूत्रयोगेन वर्तयेदष्टपत्रकम् ।
चतुष्कोणेषु सर्वेषु वज्राष्टकं समालिखेत् ॥
मातृणामपि सर्वां सां देवभद्रगणेशयोः ।
नवपीठमिदं प्रोक्तं सद्यः प्रत्ययकारकम् ॥
व्योमरेखाभवेत्तासां पद्मानां वायुसंस्थिताः ।
एवं लिखित्वा पत्रेण रजसा पूरयेच्छुभाम् ॥
कर्णिकापीतवर्णेन रेखा सर्वाः सितेन च ।
रक्त पीत बहिः शुक्लं केशराणि प्रपूरयेत् ॥
पत्राणि रक्तवर्णेन श्यामवर्णेनसंषिकम् ।
पद्मबाह्यं तु यत्क्षेत्रं तत्कृष्णेन प्रपूरयेत् ॥
द्वाराणि शुक्लवर्णेन शोभां रक्तेन पूरयेत् ।
उपशोभाञ्च शुक्लेन कोणान् श्यामेन पूरयेत् ॥
बलिभिश्चलिताभिश्च वीथिकां परिभूषयेत् ।
पीतवर्णेन रजसा ऐंद्रं तु परिपूरयेत् ॥
रजसा कृष्णवर्णेन अन्ते श्वेतेन पूरयेत् ।
एवं मंडलमाख्यातं सर्वाम्नाय क्रमागतम् ॥
प्. ८६ब्)
मंडलेस्म्न् महादेवी पूजयेत् सर्व देवताः ।
तस्यमायार्चिताः सर्वा तार्चिता साधकेन तु ॥
अभिषेकं प्रकुर्वीत पारंपर्यक्रमागतम् ।
तावत्सेकं प्रकुर्वीत यावत्प्रत्ययतां ब्रजेत् ॥
प्रत्ययस्तु महादेवी गुरोराजा प्रभावतः ।
मधुलुब्धो यथाभृंगः पुष्पात्पुष्पांतरं व्रजेत् ॥
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ।
शक्तिहीनम् गुरुं प्राप्य शिष्ये मुक्तिः कुतः प्रिये ॥
मूलच्छिन्ने कृते वृक्षे कुतः पुष्पफलादिकम् ।
एकानेकविभिन्नेन कलशाद्यैर्मकारजैः ॥
मकार रहिते देवि न तृप्तिं यातिताः क्रमात् ।
कुंडे द्वयस्तु सम्मिश्रं मयादौ विनियोजयेत् ॥
तेनसर्वत्र संप्रोक्ष्यसंतर्प्य च कुलक्रमम् ।
संतर्प्यभैरवं भक्त्या भैरवी भवशातनी ॥
तद्रूपधारको देवि स्वयं स्वीकृत्य यत्नतः ।
भैरवोहमिति ज्ञात्वा मुद्रां बध्वा तु दक्षिणे ॥
वामे चोक्तितं कृत्वा मंत्रं कुरु शिवात्मकम् ।
चक्रमेलपकं तत्र नमस्कृत्य विधानतः ॥
स्नापयेद्योगिनी चक्रं यथा देवी जयं कुरु ।
अब्दैर्द्वादशभिर्देवि सर्वदा सिद्धिमाप्नुयात् ॥
इत्येतद्विश्वमाख्यातं विधानं सुरपूजितम् ।
पश्चिमाम्नाय हीनैश्च अप्राप्यं देशिकोत्तमैः ॥
इति श्रीकुब्जिकामतेनवकोटिसंहितायां चतुरशीतिसाहस्रे
भैरवीनिर्णयोनामपंचचत्वारिंशतितमः पटलः
श्रीभैरव उवाच ॥
एकानेकविभिन्नस्ताः पूर्वोक्ता वरवर्णिनि ।
वर्णमभ्यासतः पूर्वानवकोट्यासमाश्रितान् ॥
प्. ८७अ)
संहिताध्याय कल्पं च तंत्रं त्रिविधमुच्यते ।
संहिता चोत्तमं देवि तथा ध्यायं मध्यसंस्मृतम् ॥
कल्पं तु कल्पसंज्ञोयं संहिता विस्मृतं भवेत् ।
ततो ध्यायं समाख्यातं संहिता तु प्रतिष्ठया ॥
अध्याये नार्चने देवि कल्पे मंत्र जपादियम् ।
गुणान्दोषान्परा मृष्यमेष तेषु विशेषतः ॥
वर्गवर्णात्मकं पिंडं प्राकृतं देवसंभवम् ।
नव प्रणवसंभिन्नमयशानि च वर्जयेत् ॥
वाराह नृसिंहाक ध्रूवप्रासादमेव च ।
अदौ मध्ये तथा चांते भारयुक्ताः क्रमेण तु ॥
स्त्रीपुं नपुंसका ज्ञेया वौषडन्ताः स्त्रियो मताः ।
षट्फडंताः पुरुषास्त्रितत्त्वा नपुंसकाः ॥
मातृकासर्वविद्यानां मंत्राणां जननी परा ।
उद्धारस्तत्र कुर्वीत यस्रासद्धतो नरः ॥
कुहूमध्ये कडध्वं च जीवं प्राणं समुद्धरेत् ।
कैलासमंदिरे देवि यद्वर्णं कर्णपूरकम् ॥
तदंनाधः स्थितं वर्णं तृतीयं चंडनायकम् ।
मालिनीवामपादे च शिखासंभूतमंदिरे ॥
भुजंग भैरवीं देवीं किअलासे वाममंदिरे ।
अक्रूरं च शिवेदत्तं बीजं कीलानलप्रभम् ॥
अस्यजापनहोमेन दैत्य दानव राक्षसाः ।
सिद्धांशेनात्रसंदेहो देवाश्चापि तपोधनाः ॥
अघोरस्य प्रभावेन देवि किं खथयामिते ।
अस्य बीजप्रभावेन पद्मनाभः प्रतापवान् ॥
सुती सुती च वर्तेति प्राणायामं नियोजयेत् ।
ततो न्यसं प्रवक्ष्यामि अस्यघोरस्य सुंदरि ॥
आदौ तु विश्वमालाया मनंतं गंधमादने ।
प्. ८७ब्) शिवे अक्रूरसंभिन्नं उत्तरे निषधालये ॥
माया देवी समापेक्ष्य ध्रुवांतं क्रूरमस्तकम् ।
द्वितीयं च तृतीयं च अनंतं प्रथमं विदुः ॥
बीजान्येतानि देवेशि त्रिस्थाने घोरमस्तके ।
ब्रह्मविष्णुशिवाश्चैता इच्छाज्ञान क्रियाश्च ते ॥
एवं तु तत्समायोज्य जप्तकं चोपदेशतः ।
मालिनी स्वांतमध्यस्थं मंडरे सूक्ष्मगं पुनः ॥
कैलासमंदिरे देवि झंटीशं मूर्द्ध्नि दापयेत् ।
पुनरेव महेशानि हू अंतं मूर्ध तद्भवेत् ॥
कराली तृचयादिस्ता वज्रिणी * * मध्यगा ।
क्रोधरुद्रं समुद्धृत्य झंटीशेनविभूषितम् ॥
त्रिस्थानं बीजमुद्धृत्य अनंता क्रूरमध्यगम् ।
प्रथमं मद्ध्यमं देवि त्रिमूर्तिन्निषधे स्थितम् ॥
प्रज्ञां च वामकर्णस्था मधो देशे प्रतिष्टितां ।
पंचवर्गान्य वर्णानि तेषामग्रे प्रदापयेत् ॥
ततः पूर्वोक्त विद्याया वर्णाश्च त्रिदशा स्मृताः ।
मानिन्या भावनेत्रां तु दारुकं मातृमंदिरे ॥
द्विबिंदुमस्तके देवि चंडिशं वाममंदिरे ।
अग्ने चत्वारि वर्णानि पूर्वोक्ताया यथा क्रमात् ॥
दक्षजानुस्थितं वर्णं लोकादि शिरसि स्थितम् ।
तदधः कारयेद् देवि प्राणं जीवं च मादनी ॥
यैद्भानं तेन संभिन्नं द्वितीयं च ततः शृणु ।
आदि बीज द्वये देवि वामान्तं मूर्द्ध्निविन्यसेत् ॥
गुणवर्णं पुनर्लिख्य त्रिबीजं पूर्वमेव हि ।
कैलासमंदिरे देवि श्रीकंठं चात्रसंस्थितम् ॥
एकादशं चैव गायत्र्या * * भूषितं कुरु ।
नवके दीपकां देवि ईशेनाथविभूषितां ॥
प्. ८८अ)
पुनरेव महेशानि उभौवर्णौतदग्रतः ।
भूयश्च वर्णयुगलमुद्धरेदुपदेशतः ॥
अनंतानन्तसंभिन्नं ठठमध्यं तदग्रतः ।
एकनेत्रभवं देवि दीपन्यानंतभेदितम् ॥
अग्नेतं तु पुनर्लिख्य जिह्वाग्रेणोर्द्धतः स्थितम् ।
तेन मूर्द्ध्नि गतं कृत्वा तद्वत्क्रोधं सकांतकम् ॥
भूयस्तौ अश्वदेवेश वारुणं सूक्ष्म भेदितम् ।
ऋषिमध्ये तु चाअमुडां वामादि मस्तकं व्रजेत् ॥
एवमेषा महाविद्या देवी मूर्द्धा च सिद्धिदा ।
ब्रह्माणं पादयोर्देवि गुह्यदेशंकयामतम् ॥
उदरे च तथा रुद्रं कंठे वै ईश्वरं न्यसेत् ।
सा शिवं च भ्रुवोर्म्मध्ये तदूर्द्धं च परंपरम् ॥
द्विरंडभैरवं देवि ऋषिमध्ये तु केवलम् ।
शिवायां तु तनोंतश्च वामे मध्ये च चक्रिणं ॥
उरुमध्येंतरालं च मेरोर्द्धे संव्यवस्थितम् ।
मूर्द्ध्नि तस्यास्तु देवेशि कलां देवीं प्रविन्यसेत् ॥
संध्ये चंडे तथा अंबे नित्ये क्लिन्ने दुरेश्वरि ।
रक्ते घोरे विशालाक्षी सर्वत्रैवं नियोजयेत् ॥
विद्ये भद्रे च आद्यन्ते अंते आदौ च मध्यतः ।
मद्यादौ आदि मध्यान्ते बीजानां व्यत्य येन तु ॥
अंतरानंतमात्मानमन्ते अंते च नात्मिकीम् ।
वीणापंचकमेवादौ रममे तु विलोमतः ॥
मानिनीग्रथनं देवि गुणोन्तकालमग्रतः ।
लोकांतं मूर्द्ध्नि विन्यस्य पुनश्चत्वारि अग्रतः ॥
पद्मोद्भवं हसानंतं लोकादिं मस्तकं न्यसेत् ।
ग्रहो तु मग्रतः कृत्वा चतुर्थ्यां चतुरो भवेत् ॥
प्. ८८ब्) मायादेवी त्रिधान्योर्क्व वारं चापि नवात्मकम् ।
ततोप्येवं समुद्धृत्य क्रूर्मेशांतं सुरेश्वरि ॥
प्रथमं कृतुवर्णानि नकुलीशं दीपनं युतम् ।
भागमध्यं च क्रोधीशं कालं च कृतुमध्यगम् ॥
अनंतं गंध शिखरे यामो मध्यं च पद्मजम् ।
हृदिन्यासं प्रकुर्वीत बीजपंचक मेलनात् ॥
करालिकं समुद्धृत्य ध्रुवाद्ये नासनं कुरु ।
पूतनामग्रतः स्थाप्य मुद्रीशं कातकोहजम् ॥
मंदरस्थं विजानीयात् पावन्या मूर्द्ध्निसूक्ष्मजं ।
अत्रीशं मंदिरादौ च पापायवं पद्मयोनिना ॥
शिवन्यासं प्रकर्त्तव्यं गुणवंतं तदग्रतः ।
वज्रिणा च द्विधा कृत्वा भुजंगं मूर्द्ध्नि दापयेत् ॥
भुजंगं भैरवं देवि अग्रतः केवलं लिखेत् ।
शिखादूतीं प्रविन्यस्ये च्छिखायां च न संशयः ॥
भूतयुग्मांतकैर्देवि दूत्याअ च कवचं न्यसेत् ।
लोकादि वर्णं च यद्बीजं भूतमंदिरे * * ॥
केवलं तत्समादाय हत्यात्तं अग्रतो न्यसेत् ।
रक्तभैरवमुद्धृत्य वामांगुलिषुमध्यतः ॥
वेदाद्यमक्षरं देवि अमरीशं पुरतः स्थितम् ।
पावन्या हृदि यंतस्थं तं * * * * * * * ॥
नासाग्रे संस्थितं देवि मूर्द्ध्नि तस्यास्तु दापयेत् ।
रुद्रादित्यपद्मयोनिश्च वायव्ये विनियोजयेत् ॥
उर्द्ध्वं चत्वारि वर्णानि कालं प्राणस्थ बिंदुकम् ।
तारिका हेतुमुच्चार्य नेत्र दृत्यासविन्यसेत् ॥
करालीभिपातसंभिन्ना हृद्यंत स्यास्तु दापयेत् ।
क्रोधभैरवमुद्धृत्य उमाकांतं तदग्रतः ॥
लोकादि मंदिरे देवि पुरतो बिंदुभैरवम् ।
प्. ८९अ) अनंतेनाथचक्रि ङेत्तं चास्त्रं समुद्धरेत् ॥
सर्वत्रैवं प्रयुक्तानि विद्याप्राणा न संशयः ।
वक्त्रन्यासे यथापूर्वं विद्यां चाथसुरेश्वरीम् ॥
कलान्यासं प्रकर्तव्यं शिखाग्राच्चरणावधिः ।
चा उं दैत्ये भगवतिंग्य कुलेश्वरीं क्रीं ह्रीं हूं हूं आं क्षीं हं
क्षें हौं उं इं ण न मेक्षः श्वं श्रीं प्रौं प्रींत्यघोरामुखि मुक्तिका
पंचां अघोरे अघोरे यं रं लं वं हं सं क्लि लोकिनि महाकिलि विद्धे ॥
चतुःषष्टिक्रमे विद्ये मूर्द्ध्नि देश विधानतः ।
कलान्ते वैस्तु सा ज्ञेया पूजायां च विशेषतः ॥
सान्निध्यं कुरुते सात्र नित्या देवि कुलार्णवे ।
शक्तयोनंगरूपाः स्युश्चापेसु नमितं कुशम् ॥
वेणी वज्रा विशालाक्षा वामावर्त परिभ्रमात् ।
अक्षोडं च शिखाग्रे तु पश्चिमेन तु वाग्भवम् ॥
ऋक्षकर्णीं शिखामध्ये शिखामूलेषु वा न्यसेत् ।
क्षणदां च शिरो देशे वेष्टनेक्षयतां पुनः ॥
पिंगाक्षीं तालुमध्ये च कोदंडेषु क्षयावतीं ।
क्षमां दक्षिनसोग्रे च वामाग्रे च इडा स्मृता ॥
नीला दक्षिणनेत्रस्था वामनेत्रेलुपं न्यसेत् ।
लोलां दक्षिणगंडेचलेकां वामे च विन्यसेत् ॥
लंकेश्वरीं ऊर्द्ध ओष्ठे नालसामधरोष्ठके ।
विमलां दक्षिणगले ऋतेशीं वामभागतः ॥
विशालां चिबुके न्यस्य तारायां दक्षकर्णगम् ।
वडवां वामकर्णे च तारवां श्री च कर्णगां ॥
महाक्रूरं कंठदेशे क्रोधांगांकुक्षकक्षगाम् ।
भयानकां वामकक्षे बीजानां मेलनं यथा ॥
प्. ८९ब्)
सर्वज्ञां च करालीं च स्तनयोर्वामदक्षयोः ।
हृदये तारकां न्यस्य ऋग्वेदन्नाभिमंडले ॥
मेदोन्ते सा ननां देवीं सारां लिगस्य मूलतः ।
तदग्रे रससंग्राहिमुभयोर्दक्षवामयोः ॥
शवरां तालजंघां च रक्ताक्षं गुदसूत्रके ।
गुदमध्येसु प्रसिद्धां बिन्दुं जिह्वा च विन्यसेत् ॥
कर्णे दक्षे विन्यस्येद् बाहौ दक्षस्य मध्यतः ।
हस्ते च मेघनादां च चंडाग्रेष्ठंगुलीषु च ॥
दक्षहस्तनखाग्रेषु कालकंठं तु विन्यसेत् ।
नवप्रसादी विन्यस्येद्वामकंठे विलोचने ॥
बाहौ हस्ते चांगुलीषु चंद्रां चन्द्रावतीं पुनः ।
प्रपंचं विन्यसेद् देवि वामहस्त नखेषु च ॥
प्रलायांतां पिचुवक्त्र द्वये पार्श्वे प्रविन्यसेत् ।
पिशाचीं वामपार्श्वे च पिशिताशीं दक्षपृष्वतः ॥
वक्षौ च लोल्वयाज्ञेया वमणां दक्षजानुनि ।
तपनीं दक्षजंघायां वामनीं दक्षमूलके ॥
विकृताननां दक्षयाणि अंगुलीषु प्रविन्यसेत् ।
वायुवेगां पुनर्देवि दक्षद्वारि प्रविन्यसेत् ॥
वृहत्कुक्षिं दक्षपादतले पादस्य मध्यतः ।
विकृतं विन्यसेद् देवि वामोरौ विश्वरूपिणीम् ॥
तदग्रे यमजिह्वां च वामजानुस्थले स्थिताम् ।
जपंतीं वामजंघायां दुर्जरां कामगुल्फके ॥
पादांगुलीषु देवेशि यमांति कांचनसंशयः ।
यमद्वारे विडालीं च वेगगांवामपादगाम् ॥
वामपादतले देवि पूजनां स वर्णां न्यत् ।
प्. ९०अ) एवं न्यासे कृते देवि योगिनीनां प्रियो भवेत् ॥
सर्वसिद्धिकरं देवि सर्वाद्यविनिवारणम् ।
एवमेता महाधिप देवी सर्वार्थसिद्धिदा ॥
अर्चिताः साधकस्यैताः प्रकुर्वंति यथेप्सितम् ।
सर्वस्माद्देवि कुर्वीत जपं नित्यविधानतः ॥
जपान्ते तु गुरुंध्यायेद् ध्यानान्ते तु पुनर्जपेत् ।
जपध्यानपरिश्रांतो श्रावयेत् तदहानपि ॥
जपं विना न सिद्ध्येत न कुतः फलदायका ।
न ध्यातो मोक्षमाप्नोति देवि कार्यं त्रिधा मताः ॥
चक्रे चक्रेष्ट योगिन्यः परितः परितः स्थिताः ।
तद्ध्यानेन समाः प्रोक्ताः पूजायां च विशेषतः ॥
जपेन कलुषं हंति पूजाभोगप्रदा भवेत् ।
केवलं च भवेद् देवि ध्यान योगेन देहिनाम् ॥
तिष्ठन् गच्छन् शयानो वा मैथुने भोजनेपि च ।
मूषां वा च विना जाप्यं विधातव्यं प्रयत्नतः ॥
इति श्रीकुब्जिकामतेषट्चत्वारिंशतितमः पटलः
देव्युवाच ॥
पुरानारायणो देवो देवानां प्रभुरव्ययः ।
तेनादिष्टं रहस्यं वै इत्युक्तं भवता मया ॥
पुरामध्ये महावीर्या दर्पितादितिजासुराः ।
तेषां नाशयते नोक्तं सर्वंसंवदस्व मे ॥
श्रीभैरव उवाच ॥
पुरस्ताद्दानवा देवि लोकानां हिंसका भवन् ।
देवाः स ऋषस्यो नागा ब्रह्मालोकपितामहः ॥
आदित्या द्वादशरुद्राः पंचाशति वा गुणाः ।
विष्टरश्रवसंप्राप्य यत्रास्ते स महोदधौ ॥
प्. ९०ब्)
ब्रह्मादयस्तु शक्रेण मुक्तिभिस्तस्य तुष्टुवुः ।
तया संप्रीतमनसो उवाच भगवान् प्रभुः ॥
स्तोत्रेणानेन तुष्टोहं व्रियतामिति केशवः ।
श्रुत्वातद्वचनं देवा यथावृत्तंन्यवेदयन् ॥
तस्मान्तेन सहप्राप्य शैलरूप्पु मयाशुभम् ।
अत्रापि तुष्टुवुस्तेपि यदस्मत्तोभिवांछितम् ॥
इत्याकर्णावचोविष्णुर्देवि दैत्यनिवर्हणम् ।
क्रियतामिति तेनोक्तमुपायं ब्रूहिमे नघ ॥
लिंगार्चन रता दैत्याः कथं वध्या भवंतिते ।
इत्याकर्ण्यसदैत्यारिरनया हन्यतामिति ॥
द्वात्रिंशदक्षरं देवमस्त्रं नारायणा ह्वयम् ।
एकत्रेदं परं शस्त्रमघोरं चापरं महत् ॥
तत्ते वक्ष्यामि देवेशि पुरावृत्तं यथा तव ।
अक्षराणां स्वरूपं च विधानं चाद्भुतं शुभम् ॥
लोकानां रक्षणार्थाय देवदेवेन भाषितम् ।
विश्वदेवे महादेवि रस भूतां तु मध्यगाम् ॥
वामांतामग्रतो लिख्य क्रियाख्यं वामजानुनि ।
द्वितीयं च तृतीयं च महादेवी समुद्भवम् ॥
रुद्राणां मंदरे चाथ उतनोर्द्धतसंस्थितम् ।
तस्यमूर्द्ध्नि प्रदातव्यं गत्वानंतं न संशयः ॥
पन्नगंपनसे नैव चर्मरूक्षं तदग्रतः ।
नारायणीं वामनेत्रे डां तां तं ग्रहगेहिगाम् ॥
तस्य मूर्द्ध्नि न्यसेन्नागमादनस्थं न संशयः ।
वामवाहुस्थ शिखरो वां तां तं वामसंभवम् ॥
मंदरे सूक्ष्मरुद्रं च तस्याधो वज्रिणीं कुरु ।
विनतां गांत्तमुद्धृत्य तस्याधः कालमालिखेत् ॥
प्. ९१अ)
प्राणरुद्रं समुद्धृत्य मध्ये च अंबिकाम् ।
सादिवर्णं तस्यार्द्धे लिखेत्तां पुष्करालयां ॥
तद्वद्ग्रहान्तं देवेशि यत्र प्रागुद्धृतं मया ।
वज्रबीजं समुद्धृत्य वामेन्तमन्तभूषितम् ॥
स्नातु मध्यगतां देवी सद्यादिं तस्य अग्रतः ।
अत्री रुद्रं कामत्व मध्ये ऊर्द्ध. झंटीशमालिखेत् ॥
पुनर्तान्यं तमग्रे च पुरतस्तस्य दापयेत् ।
यामो अंतगतं लिख्य धे * * शांतमंदिरे ॥
नासाग्रे गुह्यशक्त्या च शिरोदेशे प्रदापयेत् ।
कालोनाम महारुद्रो भे च मध्ये व्यवस्थितः ॥
कृय?प्तं प्राणं पुनर्लिख्य गुह्यं शक्तिं समूर्द्धनि ।
तद्वर्ण योगं देवि अस्यामध्यं तदग्रतः ॥
मेषाद्याद्वर्णनाकासां उरुमध्ये तु केवलं ।
तस्य मूर्द्ध्नि प्रदातव्यं स्थाणु रुद्रादि अक्षरम् ॥
गुणोन्तं च शिरोवर्णं रुद्रान्ते न विभूषितम् ।
मोहांतं नवकं देवि वज्रिणी * नुमंदिरे ॥
मंदरस्थं विजानीयात् तदग्रे कांति मालिखेत् ।
तस्याधः कांतसंभूतं ध्रुवांतेन विभूषितम् ॥
चंडिकां विन्यसेद् देवि पुरतां क्रूरभूषितम् ।
मेषांतलोहितं देवि दीपन्यासनसंस्थितम् ॥
क्षेलांतं पुरतो लिख्य गायत्र्या तु भूषितम् ।
अत्रीशंकात्व मध्ये तु केवलं पुरतः स्थितम् ॥
मुनिगेहांतमादाय भागांतं पुरतः स्थितम् ।
प्रणवान्तं तु परस्तात् त्रिदशत्वं यमुदाहृतम् ॥
रुद्रांतं हृदि विन्यस्य तदूर्द्धे च शिरो द्वयम् ।
प्. ९१ब्) वसुभिश्च शिखां देवि शक्त्या चैव तनुच्छदं ॥
रुद्रानलैस्तु विन्यस्येत् तावदस्त्रं प्रकीर्तितम् ।
पृथिव्या याननेवं च व्योमो तंतात्मने कृतम् ॥
कल्पान्तानांतगानं तं पंचस्वरविभूषितम् ।
अनेनैवं प्रयुंजीतदशैकेन महेश्वरि ॥
वर्णत्रयेन परतो नवार्णैश्च तदग्रतः ।
तत्परस्तु रसाः प्रोक्ता भूतार्णैरेवमेव हि ॥
ऊर्द्धास्ये वामदेवं तु ईषानं पूर्वदक्षिणे ।
अघोरं दक्षिणे देवि सद्यं वामस्य मंडले ॥
पुरुषं पश्चिमे वक्रे वामोर्द्धे च परापरम् ।
न देयं दुष्टसत्वानां पारंपर्यविवर्जितम् ॥
अज्ञान् शास्त्रविनिर्मुक्तान् क्रूरसत्वान्नदापयेत् ।
अथदत्तं प्रमादेन ज्ञानकोषं स्वसंपुटम् ॥
आचार्यो नरकं याति यावदिंद्राश्चतुर्दश ।
कैलासमंदिरे देवि केशवं शिरसि स्थितम् ॥
तस्योर्द्ध वा च शिवे आस्य वृत्ते च विन्यसेत् ।
नारायणं दक्षनेत्रे मंदरे माधवं विदुः ॥
वामनेत्रे च गोविंदमुत्तरे निषधालयं ।
दक्षकर्णे तथा वामे ध्रुवादि श्रांतसंयुतम् ॥
विष्णुंश्च सूदनं चैव वामानां वेदमध्यगम् ।
प्राङ्मुखेश्च वामनं देवि श्रीधरं हृषिकेशवम् ॥
नासागंडयुगे चैवं देव्याबीजेनविन्यसेत् ।
पद्मनाभं च आद्येन तदंते रोमसंभवे ॥
ओष्ठयोर्दत्तयुगले कराघंतं न संशयः ।
वासुदेवं संकर्षणं २ आदिश्चैव पश्चिमम् ॥
मूर्द्धांतो विन्यसेत् पश्चात् प्रद्युम्नं चा निरुद्धकं ।
एकादशादि मुद्धृत्य चक्रिणं बाहुमूलगम् ॥
प्. ९२अ)
तदग्रादग्रपर्यन्तमंगुलीमूलमग्नगे ।
गादिनं शार्ङ्गी खड्गी च शंखिनीं विन्यसेत् पुनः ॥
संतांतं नादि मेघं ततडादिश्च सुरेश्वरि ।
कालांतं प्राणपूर्वं च मध्यभैरवचालने ॥
आदिश्च खांतमुद्धृत्य हलिं युगनिशूलिनम् ।
पाशिमंकुशिनं देवि तथापदक्षवामके ॥
मातृणां मंदिरे पूर्वं यद्वर्णं चांतसंभवम् ।
चडुमध्यं ग्रहाणाम् च आदौ तु गुणमस्तकम् ॥
तत्पूर्वं पश्चिमे देवि रुणां मंदिरे पुनः ।
काद्वर्णं धेनुमध्ये च गुणोत्तं देवि पूजितम् ॥
मुकुंदं नंदजम् देवी क्रूरं नरक अर्द्धरिम् ।
हृष्टः सद्यः सात्वतश्च शौरिश्चेति दश स्मृताः ॥
दक्षे पार्श्वे परिन्यस्येन् यानोन्तं शुभसंभवम् ।
भूतादि वर्णमुद्धृत्य जपेच्चैव जनार्दनं ॥
भूधरं क्रूर उर्द्धेन षष्ठे वै भूतमंदिरे ।
मुनिपूर्वगुणं नाभौ उदरे चाथविन्यसेत् ॥
विश्वमूर्तिं च वैकुंठे देवी बीजं च सर्वतः ।
देवमध्ये तु पुरुषं हृदये च विसंभवम् ॥
वलिनं नरकेवाह्वोर्मूले वै रक्तसंभवम् ।
आमिषं ककुदन्तं च हृदिमध्ये वलानुजं ॥
वृषद्यरं? वामकक्षे च आवेष्टं मेदसंभवम् ।
वामे दक्षे वदोर्भ्यां च वृतं सौममाश्रितौ ॥
अक्षन्ते नरके चेत्तं कांतं मज्जासमन्वितम् ।
श्वासमध्यगतं शुक्रं दक्षपादे च बाहुगे ॥
छंदमध्यागतं प्राणं विमलं वामपादगम् ।
क्षेत्रज्ञमध्ये आत्मानं नारसिंहं हृदिन्यसेत् ॥
प्. ९२ब्)
एवं भूते समाख्यातो न्यासे शुभमतं प्रिये ।
कृत्वादौ कंठंतेस्यः ययादूष्टं स्वदेशिकैः ॥
विष्णपत्न्याः समायुक्ता एते रुद्राश्च विस्तरः ।
जगत्त्रये च संहर्ता पालने चाति गर्विताः ॥
सूक्ष्मासोमातृणां सार्द्धं विष्णवोरुद्रमातरः ।
यथोद्धृतं मयापूर्वं श्रीकंठाद्याः सुरेश्वरि ॥
भेदाभेदौ न चास्त्यत्र समर्थाः सर्वदेवताः ।
देवानामप्ययं देवोममाप्येषः सनातनः ॥
सिद्धनाथादि ब्राह्म्यतं यथापूर्वं प्रपूजयेत् ।
चक्रासिशूलखड्गं च परशुंपाशनंदकम् ॥
कंबु त्रिशिखि वज्रं च विशिखं शार्ङ्गमेव च ।
द्वादशार्कसमप्रख्यानायुधानिति चिंतयेत् ॥
प्रधानमूर्ति प्रतिमाभ्रह्माण्याद्याः स भैरवाः ।
अथविष्णुसमुद्भूता मूर्तयः सर्वदिग्गजाः ॥
आराध्य च महेशानं पूर्ववत्सर्वमाप्नुयात् ।
अमरेशांतमादाय यत्रासौ शिवमंदिरे ॥
विष्णुबीजं महेशानि यत्रोत्पन्नं चराचरम् ।
द्वितीयं बीजराजेशं ज्वलनार्कसमप्रभम् ॥
स्वन्तमध्यगतं देवी प्राणरुद्रं त्वधोगतम् ।
भुजंगभैरवं देवि तस्याधो देशभागतः ॥
मूर्द्ध्नि तेषां प्रदातव्यं कगांतं बिंदुभैरवम् ।
एषा विश्वस्य जननी वागुरी तु प्रभास्यते ॥
तुरीयमेकादशे देवी तदादिश्चैव मादनम् ।
तस्यादि संस्थितं मासं ते ऊर्द्धे चक्रमध्यतः ॥
प्राणं च नवकेनं तु अधस्तस्य प्रदापयेत् ।
त्रिमूर्त्या च शिवे दत्तं २२ पूर्वं निषधालये ॥
प्. ९३अ)
२ अपूर्वं मंदरे देवि बिंदुभैरवभूषितम् ।
मया विश्वमिदं व्याप्तं द्विपंचनवधादश ॥
ऊर्द्धं मे प्रोर्द्धगं बीजं क्रूरांतं लोकमध्यतः ।
तदादि मंदिरे देवि नासिकाग्रे व्यवस्थितम् ॥
अधस्तस्या लिखेद्वर्णं भुज * * * * * * ।
निलीय हृदये देवि षानें तै?नुजमध्यगम् ॥
पुरतस्तस्य दातव्यो नवके च विलेशयः ।
द्विरंडभैरवञ्चादौ ऋषिणां मंदिरे स्थितम् ॥
ऋ-अम्तं शिवमाक्रांतं चक्षुश्रवमधो लिखेत् ।
छागलं भैरवं यत्र क्रूरस्योर्द्धे च संस्थितम् ॥
तस्यमूर्ध्निप्रदाअतव्यं वामजानुस्तमक्षरम् ।
वामवाहुस्य शिखरे वायव्यं विनियोजयेत् ॥
मालिनी प्रथमं बीजं गुणोन्तं केवलं विदुः ।
निःस्ववर्णं समुद्धृत्य धावन्ते ऋषिमन्दिरे ॥
बिंदुभैरवसंभिन्नं विद्या चैव परापरा ।
जप्तव्या परमा देवी देवि सर्वार्थसिद्धिदा ॥
अतिगुप्ततरासेयं जप्तामृत्युविनाशिनी ।
ध्याता सा मोक्षदा देवी अर्चिता विश्वकामदा ॥
सर्वार्थसाधकीयं हि अनया सर्वविद्यया ।
रक्षां कृत्वा विधानेन जपेन हरणेन च ॥
जितोहं सकलान् लोकान् पुरस्तानपि दानवान् ।
एक एव महादेव्यो विद्याराजस्य चेश्वरी ॥
पृथुकठिनभरावरांग यष्टेसास्मर शरविकुलिताभियस्य ।
घनघर्मजबिंदुनिः सरद्योवि * श्लथमानदर्प्याः ॥??????????
गुणाष्टकं तस्य करे समेत्य यावन्ती सत्तीहजगत्त्रयेषु ।
प्. ९३ब्) विद्यासमस्ताः सकलासने वा दैत्याः स यक्षोरगराक्षसाश्च ॥
मृगादयोनंगशराभिद्याता वशे भवेत् तस्य यथामरेशः ।
शृणु देवि यथा सा तु पूज्यते साधकेन तु ॥
अवर्गे विमना देवी कवर्गे मंगला स्मृता ।
सर्वेश्वरी च वर्गे च टवर्गेती विनाति च ॥
तवर्गे मानिनी देवी सर्वज्ञा च पवर्गगा ।
पवर्गेण सत्ताहंसी ईश्वरी विनियोजयेत् ॥
बीजानि मानिविन्यस्य वर्गान्ते सृष्टिमाकुलम् ।
विष्णोर्बीजं श्रियाकामं हरं च वनवा युतम् ॥
अंगनाकामवग्निश्च व्यापकं च नियोजयेत् ।
वारुणं रूमध्यस्थं ध्रुवान्तां गुरभूषितम् ॥
रक्तभैरवमुद्धृत्य तस्योर्द्धे कालपूतनां ।
तेषां मूर्द्ध्नि प्रदातव्यमुत्तरस्थं न शंसयः ॥
वामान्तं प्रथमं मूर्ध्नि अक्रूरभाषितम् ।
क्रोधीशं भूतनाथं च त्रिमूर्त्यां बिंदुभैरवम् ॥
यासि मध्ये सृष्टि देवि सद्यान्तं बिंदु भूषितम् ।
एषा विद्या महादेवी अंगन्यासं करी शुभा ॥
कुलविद्या महेशानि इयं साक्षात् कुलेश्वरि ।
नवाधारेषु तदंडान् शंखयोश्चिबुके न्यसेत् ॥
श्यामांगीराशिरांत्रिनयनामारक्त चंद्रांशुकां ।
विद्यामक्षगुणां वराभयधरां पाशांकुशाव्द्यां शिवाम् ॥
विद्यां तत्सकलां समर्थ निचयं सौदामिनी संनिभां ।
वंदे धर्मसुखार्थ मोक्षफलदां कुशासना ध्यासिनीम् ॥
कंदर्प्य मंदिरे देवीं यत्रोत्पन्नं चराचरम् ।
प्. ९४अ) मूर्द्ध्निहृत्सु तथावक्त्रे मेढ्रन्तं कल्पयेत् तनुं ॥
चतुःषष्टिप्रकारेण विभजेच्च पुनः पुनः ।
द्वात्रिंशदक्षरं देविं त्रिपुरां च सुरेश्वरीम् ॥
मातरोदिग्विदिक्संस्था भैरवानंग(त)मूर्तयः ।
अन्य(ङ्ग)संपूज्ययत्नेन प्रागुल्केनैववर्त्मना ॥
इति श्रीकुब्जिकामते सप्तचत्वारिंशतितमः पटलः
श्रीदेव्युवाच ॥
भगवन्मेरुसन्ताने उद्धृताश्च कुलक्रमाः ।
पीठानां चैव उद्धारं शब्दनामनियानि च ॥
पुष्पं च कीदृशं देव कथमुद्धारनिर्णयम् ।
एतन्मे संशयं नाथ यथावेत्ति वद प्रभो ॥
श्रीभैरव उवाच ॥
संताने द्वितीयं पुष्पमेकाविज्ञान भैरवी ।
नादिफान्तं स्मृतं वर्गं अये देवतापती ॥
निर्गतं द्वादशं रुद्रं खमपुष्प तु द्वयेन तु ।
सूत्रं संतानकं प्रज्ञा गूढार्थेन व्रवीम्यहम् ॥
संवर्तमंदलोद्यानं शून्यग्रहविनिर्मितम् ।
इति सिद्धद्वयं तत्व गुहां तुष्णीं समाधिषु ॥
प्रत्ययाज्ञा भवेत् तत्र वृक्षं चैव कदंबकम् ।
सप्ताविंशतिभिश्च्छेदैर्भिन्नं मंथान भैरवम् ॥
शिवशक्तिसमाचारमद्वैता चारगोत्रकम् ।
पीठनामद्वयं देवि यथोक्तं तव गह्वरे ॥
न्यास योगं च उद्धारं तथा यदपि शंकरम् ।
पिठादौ वर्णमालिख्य पंचकै श्लोकं नवात्मकम् ॥
कामरूपं हाकडोकं नेपालं पौंड्रवर्द्धनम् ।
पुरस्थिरं कान्यकुब्जं पूर्णांगिर्यं तदार्बुदम् ॥
प्. ९४ब्)
आम्नातकेश्वरं कास्त्रं त्रिश्रोतं कामकोटरम् ।
कैलासं भृगु नगरं केदारं चंद्रसूर्यकम् ॥
श्रीकंठं काकिणीजालं कलुतं च पुनः पुनः ।
हेरिकोटं च गोकर्णं विन्यसेन् मेरुकेश्वरम् ॥
अट्टहासं च विरजं राजवेण्यं महापथं ।
कोल्लगिर्यं कोल्लगिरियं सौराजं च जयंतिकां ॥
उज्जयिन्याख्यां चरित्रंकिरि हस्तिनापुरं ।
इंदुकेशं प्रयागाख्यं पुष्टं मायापुरीं तथा ॥
जरसां कलयं चैव शैलभेकंडमेव च ।
माद्रेंद्रं वारुकं चैवं हिरण्यपुरमेव च ॥
महालक्ष्मीतनोद्यान च्छायाच्छत्रमतः परम् ।
एते पीठाः समाख्याताः पंचाशत् परिकीर्तिताः ॥
सृष्टिन्यायेन संजाता वामावर्त्तपरिभ्रमात् ।
वामाद्या च शक्तीनां मध्यग्रे कूटमंडले ॥
उदयं स्वरवर्णाना मुक्तं वै पीठविग्रहम् ।
मुद्रामंडलमध्ये तु माययागहनी कृतम् ॥
स्वरवर्णविभागं च मेरु श्रीशंकर क्रमम् ।
आद्यप्रस्तावमाख्यातं संतानं सिद्धिसाधनम् ॥
आनंदविमलं ज्योतिः शक्तिः कुंडलिनी कला ।
उमाविस्मृति तप्ता वा मुख्यैकश्चैक पादकम् ॥
वागुरंपद्ययोनिश्च त्रिपादे ब्रह्मसागरः ।
वार्णे द्वयं महारत्नं गलितस्तप्त चामरम् ॥
तांडवं च महाहारं स्थलमुन्मत्तसिंहकम् ।
जपानश्चैव संवर्त्तिः कंकालश्च त्रिलोचना ॥
वासुदेवो विरूपश्च कमलोदरवाहनः ।
धनुर्द्धरो जिह्वजश्च द्विजोवारस्तथैव च ॥
प्. ९५अ)
अमृतं भद्रकालश्च मारुतो ह्यग्निपार्थिवः ।
वरुणः शक्तिपालश्च पवनामा तथैव च ॥
सृष्टिश्च भैरवी देवी कुब्जिकेति प्रकीर्तिता ।
अनुलोमेन विन्यासं विलोमेनसमुद्धरेत् ॥
एते वै शब्दनामानि घण्टादौ प्रतिरोपिताः ।
चतुःशृंगो महामेरुः पूर्वोक्तविधियुक्तितः ॥
कालिका तु यथाप्रोक्ता तदूर्द्धेन वदाम्यहम् ।
अधः कालाग्निरुद्रं च तदूर्द्धं तु त्रयोदश ॥
दंडयश्च समाख्यातारुगाद्या ऊर्द्धं गात्रधः ।
पुनरुर्द्धैकादशारुद्रा मंथाने अधिकारिणः ॥
नवसिद्धास्तदूर्द्धे तु पुनरुर्द्द्धे सप्तयोगिनी ।
पंचमंडल ऊर्द्धे तु अः षडाद्या क्रमेण तु ॥
शक्तित्रयं तदूर्द्धे तु तत्रोर्द्दे नाथचिंचिनि ।
कालाग्न्यादि हि नाथान्तं उक्तन्ते कुरुत्रयम् ॥
गह्वरार्थस्य च देहे तु सिद्धसंतानवर्जितम् ।
न पूर्वं पश्चिमाचार्यं इत्युक्तं कादि भेदि हि ॥
वर्णन्यासं महेशानि शृणु प्रस्तारमुत्तमम् ।
अकारं चादिनाथं च मेरुर्द्धेशंव्यवस्थितम् ॥
अकारश्च जकारश्च ओलित्रितय देवताः ।
भकारं च मकारञ्च तकारं च इकारकम् ॥
यथैते संस्मृताभूता देवदेवो महेश्वरः ।
चवकारसकारं च हेयहाकारमेव च ॥
सप्तैत मातरो देवि लोकानुग्रह कारकाः ।
जफकारपकारश्च शवलाग्निश्च लांगलिः ॥
टकारं च महेशानि ग्रहास्ते च न संशयः ।
न्यपकारं च नधकादकारं रथकारकम् ॥
तनकारं च दकारं च टतकारं तथैव च ।
प्. ९५ब्) एते रुद्राः समाख्याताः सन्तानेनाधिकारिणः ॥
ऋ ॠ ऌ ॡ कारं ए ओं तुकारमेव च ।
ओंकारं बिंदुसर्गं च कखगांतान् महेश्वरि ॥
आज्ञासिद्धास्तु विख्याता एते रुद्राः प्रकीर्तिताः ।
चिंचिनी नाथनामानं कथाख्यामि महेश्वरि ॥
सर्वशून्यं तु मध्ये तु कार्मुकोपरिसंस्थितम् ।
एवमेतन् मयाख्यातं पूर्वसंकेतकं द्विधम् ॥
त्रितये च महादेवि पुष्पं त्रिपुरवाचकम् ।
येन विज्ञानमात्रेण संतान क्रमिणो भवेत् ॥
साध ऊर्द्धगतं पिंडमादावंतविभूषितम् ।
आद्या यावद्भवे स्थाने पर्णात्मासनरूपिणी ॥
आद्यामेव हि विद्याया मदिमधो च योजयेत् ।
ऊर्द्धे बीजत्रयस्यास्य विद्यामंत्रासनस्थिता ॥
गृहीत्वा वर्णमेकैकमाद्यामाद्या तृतीययोः ।
अप्ये तु मूर्द्ध्नि साधेन विद्या चक्रासन स्थिता ॥
विपरीतस्तु तौरारौ सोर्द्ध ऊर्द्धं त्वना दृतौ ।
दत्वा तृतीयविद्यायां कामजावास्तु देशतः ॥
सा तु सिद्धासनगता सप्त विद्या प्रकाशिता ।
धर्माधर्मगतिं ज्ञात्वा शिवशक्तिं नियोजयेत् ॥
वह्निना दीपिता विद्या स्फुरन्तीम् स्फुरा भवेत् ।
दत्वा च बीजत्रयस्योर्द्धे वर्ण्ये या साधयं अंतगौ ॥
यांतस्था आद्यविघ्नौ च आचाहनविधौ परा ।
कर्पूरांतं महाबीजं शांतांतं दधो न्यसेत् ॥
मुद्रया शिरसा क्रान्तं साधके नोर्द्धभूषितम् ।
एष नेत्रो महामंत्रः सर्वकामफलप्रदः ॥
उत्तमांगं शुनाशीरं अधः श्वासा नियोजयेत् ।
प्. ९६अ) आद्यं चतुर्थसंयुक्तं बिंदुनोर्द्धविभूषितम् ॥
तृतीयमक्षरं चैव देव्या वै परिकीर्तितम् ।
नांतेरामिंद्रसंयुक्तमाद्यातुर्येणभेदितम् ॥
नवेनशिरसायुक्तं तृतीयं बीजमुत्तमम् ।
एषा कुलेश्वरी विद्या समयाचारपालिनी ॥
जपपूजाविधानेन अक्षरः सर्वसिद्धिदः ।
अथातः संप्रवक्ष्यामि मूलविद्यां वरानने ॥
य या विज्ञातया सम्यक् सर्वमेतत् प्रसिद्ध्यति ।
अथमध्यगतं गुह्यग्रौमध्यगतं कुरु ॥
तस्या मध्ये न्यसेत् पश्चादकारोर्द्धं व्यवस्थितम् ।
कांतसाधनयकारांत माया बिंदु निरोधनः ॥
वागुरोयं समाख्यातः सम्यक् प्रत्ययकारकः ।
त्रयाणां सार्द्ववर्णनामेकैकस्यासने न्यसेत् ॥
आद्ययोर्द्ध्नं पकारांतमेवाद्वर्णनांवितम् ।
कामबीजं महेशानि स रहस्यं प्रकाशितम् ॥
यस्योच्चारणमात्रेण जगत्क्षोभः प्रजायते ।
तृतीयं संप्रवक्ष्यामि शक्तिबीजं महाद्भुतम् ॥
थाधं नाधं समायुक्तं गाद्यं नाध स यो चिरधः ।
अःपूज्यदूर्द्धं संयुक्तं शक्तिबीजं समुद्धृतम् ॥
अनेनज्ञानमात्रेण कुर्यात्सप्तविषक्षयम् ।
एषाविद्यासमाख्याता सर्वाश्चर्य करीवरा ॥
(एषाविद्यासमाख्यातार्प्यकरीवरा ।)?????
अनया विद्यया सम्यक् नास्ति नद्यतसाधयेत् ।
काकरो मोदनो ज्ञेयः संकेतो बिंदु मालिनी ।
शक्तिबीजं सकारश्च शेषावर्णायथा स्थिताः ।
हकारो भगवान्कालः सुरापे चैव वाहिता ॥
प्. ९६ब्) अकारः प्रणवः साक्षात् सोमसूर्यात्मकः प्रभुः ।
संकोचश्च विकारश्च हस इत्यक्षरद्वयम् ॥
प्रथमं च ककाराख्य हकारं च द्वितीयकम् ।
शक्तिबीजं तृतीयं तु ओं इ ओं व्यत्ययेन तु ॥
ततोपरि महायोनि कुंडलाख्या विसर्पिणी ।
महामाया महाघोरा चतुर्था च सुरेण तु ॥
गुह्यशक्तिः स्वरूपेण ज्ञाकाराख्यं महाज्वलं ।
रुद्रशक्तिः ककाराख्या कुंडलाख्या हरेंद्रुकम् ॥
तन्मध्ये होमयेच्चिंत्तं कुसुमं ब्रह्मवृक्षकम् ।
ब्रह्मस्थाने तु यत्पुष्पमुदितं विश्वमायया ॥
तत्पुष्पं होमयेत्कुंडे न पुष्पैरन्यजानिभिः ।
मज्जामेदस्तथा रेतो यथैतान्मधुरत्रयम् ॥
रक्तं मेदस्तथा रेतो शिव एकारनिर्गतम् ।
शतमष्टदले देवि जपेदथ प्रतर्पयेत् ॥
वेद्यासेन्पात्रयत्प्रोक्तं गुरुवक्त्रात् तु लभ्यते ।
चतुरस्रं ततो दत्वा कुर्याद्वारचतुष्टयम् ॥
चतुष्कोणसमायुक्तं एवं स्यान्मंडलोत्तमम् ।
अष्टापदे चाष्टाशीति गेनाचासु सर्वदा ॥
अष्टाष्टकपदस्यापि सगुरुर्भैरवा गमे ।
अष्टानामधुरारूढः पदव्यक्तिक्रमेण यः ॥
अष्टधा कुरुते साधु सगुरुर्भैरवः शिवे ।
षोडशाधार चक्रेण षोडशः स्वरपालकः ॥
षोडशांतकनाधारि * * * * * * * * ।
चतुर्दशपदान्तस्तु चतुर्दशविधायतः ॥
चतुर्दशभिहीनः सर्गादशकौलेश्वरो धीमान् दशदिग्जनभैरवः ॥
पाशाश्वमेधमध्यस्थः शस्ता चतुर्द्धा क्रम विज्ञानि चतुर्धासंततो
यथा ॥
प्. ९७अ) यः सदाद्रोधचंडेश समूर्तिस्तान्बिंदु लक्षस्था त्रिहोमान्ते च
चारकः ।
त्रिनाभिश्चक्रकुंडस्य सग्ना एकाकी विनयत्थं यश्चैकपदः नायकः ॥
एकाक्षरैक चक्रस्थः स गुरुर्भैरवागमे ।
षष्टि षष्टिर्भवेत् सूत्रैः सप्तसप्तक्रयोजितम् ॥
चतुरस्रं पुरःकृत्वा चतुर्विंशांगुलं शुभम् ।
जापात्पश्चिमगं सूत्रंमग्निपश्चिमगं पुनः ॥
पूर्वसूत्रं तु संस्थाप्य शेषाणि त्रीणि कोपयेत् ।
तृदंडा तु स्मृता योनिस्त्रियामासा त्रिदेवता ॥
एकैकंदंडके प्राहुः षट्षट्सूत्राणि पादयेत् ।
योनयो येनया चंते समस्ताः समसंधयः ॥
कोष्ठकान्पूनपंचाशद्भगरूपाणि तानि च ।
ईशादकारमारभ्य वारुणांतं प्रविन्यसेत् ॥
विन्यस्येन् मातृकान् सर्वान् विष्णोर्दिशि च पश्चिमाम् ।
एतच्चक्राणि लिखेत्पट्टैस्तद्भेदारुमये दृते ॥
त्रिकोणे च त्रिपादे च वर्णै काणि च लक्षणे ।
षण्मासाज्जायते सिद्धिः पूजाजपपरायणे ॥
अतो मंत्रसमुद्धारो यथादेवि तथा शृणु ।
उजमध्यगतं वर्णं ऊर्द्ध्वेन शिरसाजतम् ॥
अथमध्यगतं वर्णं परमध्यासनस्थितम् ।
द्वितीयमेतत्कथितमातमध्यसबिंदुकम् ॥
रहं मध्यं अधिस्थं अंकमध्येन ना * तं ।
प्रथमा अक्षरी विद्या करशुद्धि करी स्मृता ॥
सकलं च कलाख्यं च केवला ह्लादनं प्रिये ।
द्वयोः कृत्वा विपर्यासं पूर्वबीजेन वैरिणा ॥
अंगन्यास विधौविद्या द्वितीया च कृशोदरी ।
तत्र प्रकट योगिन्यश्चक्रे त्रैलोक्यमोहने ॥
प्. ९७ब्)
अणिमाद्या महादेवि सिद्धयोष्टौ व्यवस्थिताः ।
तथैव गुप्तयोगिन्यः सर्वाशापरिपूरके ॥
कामाकर्षणरूपाद्या देवताः परिकीर्तिताः ।
गुप्तगुप्ततराशौरिसर्वसंक्षोभकारके ॥
अनंगकुसुमाद्याश्च शक्रदेव्या व्यवस्थिताः ।
संप्रदायक्रमायाता चक्रे सौभाग्यकारके ॥
सर्वसंक्षोभिणी पूर्वासंस्थिता पुरसुंदरी ।
कुलकौलिनयोगिन्यः सर्वसिद्धिः प्रदायकाः ॥
सर्वसिद्धिप्रदाद्यास्तु चक्रे सर्वार्थसाधके ।
अष्टसिद्धिक्रमेणैव सर्वसिद्धिफलप्रदा ॥
निगर्भदेवताश्चक्रे सर्वरक्षाकरे परे ।
सर्वज्ञाद्या महादेवि संस्थिता वीरवंदिते ॥
रहस्य देवताश्चक्रे सर्वरोगहरे प्रिये ।
वशिन्याद्या महादेव्यः संस्थिता परमार्थतः ॥
सर्वसिद्धिमये चक्रे परमाभि रहस्यकाः ।
स्थिता कामेश्वरी पूर्वा मृतयुः पीठदेवताः ॥
सर्वानंदमये चक्रे परिपूर्णे सुरेश्वरी ।
संस्थिताद्या मंत्रमयी महात्रिपुरसुंदरि ॥
कौलातीत स्वभावान्तप्रान्तक्रमसमन्विता ।
परमा द्वैतं भावस्था महापूजा परा प्रिये ॥
परायाप्यपरागौरी त्रितया च परापरः ।
तस्या नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता ॥
तत्रादि भेदस्त्रिपुरा द्वितीया त्रिपुरेश्वरी ।
तृतीयापुरसुंदर्या चतुर्थापुरवासिनी ॥
पंचमे त्रिपुरसिद्धाश्च षष्टे त्रिपुरवासिनी ।
सप्तमे त्रिपुरासिद्धिरष्टमे त्रिपुरांबिका ॥
नवमे तु महेशानि महात्रिपुरसुंदरी ।
अथाप्यनंतादिकपीठमध्ये मध्ये गुदक्षोदगुदप्रकोणे ॥
षडादिकानपि पराणि चतुष्टयं च ।
प्. ९८अ) तन्मध्ययोनेरपि चाष्टयोनेः सन्तर्पयेत् श्रीरुरुपांदुकां च ॥
विश्वमध्ये च भ्रांतं धर्ममायेन्दुसंयुतम् ।
सददर्शशिवं प्राराभगेवह्नि देदीप्य सर्वसं ॥
मालिनी प्रथमं कालं शिवं * न्त विभूषितम् ।
चतुर्थान्ते च हृदयं महाशी भवमूर्ति युक् ॥
अनेन देवि कुर्वीत भैरव्याः पीठमर्दनम् ।
ततो रक्ष्याम्यशेषेण तस्तुभं चक्रमुत्तमम् ॥
सृष्टिरूपं स्थितिस्थं च संहारक्रमतो मतम् ।
त्रिधायस्थं त्रिकर्दाख्यं विप्रवाहं त्रिवेतनम् ॥
पंचाशद्बीजखनिता त्रिधाहिन्ता महानये ।
येन ज्ञायेत वै सम्यक् सर्वमंत्र स्वभावतः ॥
परमार्थत्वे सारभूत * * * मिदं मम ।
कथयामासमासेन चक्रस्य परमे विधिः ॥
चक्राचारं तु कर्तव्यं तस्मिन् पिन्यवसे प्रिये ।
ततो नित्योदितातीम मंत्र * * * * * * * * ॥
आद्यं कर्णं वहिः कार्यं प्रणम्य च मुहुर्मुहुः ।
उत्तराभिमुखो भूत्वा आलिखेच्चक्रमुत्तमम् ॥
षोडशारे महादीपं सृष्टिरूपं स्वतेजसाम् ।
कर्णिकारे श्वत्थयुक्तं महातीक्ष्णं सुशोभनम् ॥
तस्य ब्राह्मे तु वै रुद्रं निमिं दत्वा विशेषतः ।
आलिखेत् तु परं दिव्यं चक्रं च परमं महत् ॥
तत्वान्नित्यपरं देवी निमिं दत्वा प्रयत्नतः ।
आलिखेत् तु तृतीयं वै चक्रं संसाररूपकम् ॥
एतच्चक्रत्रयं घोरं सृष्टिस्थितिलयं करम् ।
तत्रस्था मातृका देवी त्रिधा कुर्याद् द्विधा तथा ॥
कारयेत् सर्वथा नाधे पारंपर्यव्यवस्थितम् ।
जन्यदा तु परित्यज्यवर्णौ द्वौ घोरदर्पितौ ॥
प्. ९८ब्)
अनच्छाद्या तु देवेशि वागुराद्यहरत्पयान् ।
सृष्टिचक्रस्य आदौ तु षोडशानि समं ततः ॥
वर्णानि कीलकादीनि पुर्वादीशानिकंतमम् ।
अथवा विन्यसेत् प्राज्ञः शून्यं कुर्याणि वै ततः ॥
ततस्तिष्ठति चक्रस्य वर्णान्यन्यानि षोडश ।
पूर्वादीनिगजाकांत माशान्यां तु मनु क्रमात् ॥
ततो न्यानि तु वर्णानि षोडशानि वरानने ।
संहारचक्र भावज्ञो सुरासुरनियोजयेत् ॥
पूर्वादीशानकं यावद् वा गुरां तानि सुव्रते ।
अचलस्योदरस्तूर्णं कुर्याच्चक्रेश्वरीं शुभाम् ॥
एतच्चक्र सा विन्यासं कारयेच्चक्रसंक्रमम् ।
सृष्टिचक्रस्य यद्वर्णं प्रथमं शक्तिरूपकं ॥
स्थितिन्नवरसैर्युक्तं प्रथमं वर्णनायकं ।
विद्धि भैरव तत्वेन सर्वसौभाग्यदायकम् ॥
स्थिति चक्रस्य भावज्ञा द्वितीयं चानु भावकम् ।
सृष्टि द्वादशसंयुक्तं कुरुतेंद्रेननायकम् ॥
द्वितीयं वर्णसंयोगं विद्धिसर्वविभावकम् ।
लक्ष्मीबीजं ततो देवि तृतीयं परिकीर्तितम् ॥
स्थिति चक्रस्य देवेशि दशमस्तु समुद्धरेत् ।
चतुर्थं तु विजानीयात् सर्वैस्वर्यप्रकीर्तितम् ॥
सृष्टिप्रथमकं ग्राह्यं संहारस्याष्टमेनतम् ।
पंचमं तद्विजानीयाद् विद्या पंचाक्षरा भवेत् ॥
एषा विद्या तु मूर्तीनां सर्वथा कालिका क्रमे ।
एतत् ते कथितं रुद्रमंत्रोद्धारं परं शुभम् ॥
चतुर्थं तु परं ज्ञेयं क्रमसन्तानपुष्पकम् ।
उत्तरस्थं महादेवि यदुक्तं कालिकाक्रमे ॥
अत्र ते दर्शितं मार्गं समासात्पश्चिमक्रमं ॥
प्. ९९अ)
इति श्रीकुब्जिकामते अष्टचत्वारिंशतितमः पटलः
श्रीदेव्युवाच ॥
चक्रसंकेतकं देवमुद्रासंकेतमेव च ।
पीठसंकेतकं चान्यद्विस्तरेणवदप्रभो ॥
श्रीभैरव उवाच ॥
यदुक्तं सर्वसंकेतं सर्वाम्नाय क्रमागतम् ।
गुह्यजं कथितं देवि पराशक्तिस्तु मातृका ॥
मातृणां पूर्वतः सार तेन सा मातृका स्मृता ।
रुद्रशक्तिस्तु सा प्रोक्ता रुद्राणां मातृका यतः ॥
अष्टौ गणेश्वरा ह्यत्र वर्गस्ताते तवाख्यते ।
अष्टौ ता मातरो देव्यो योगिन्यो भूयशस्तथा ॥
स्थिताश्च सर्वदा सर्वे दृष्टा दृष्टफलप्रदाः ।
तेजोबलं प्रसादश्च रूपं ज्ञानं विशुद्धिता ॥
परामुमुद्यमश्चेति सप्त सर्वोत्तमा गुणाः ।
इदमत्रोतमं कृत्स्नं जायेत भुवनत्रयम् ॥
यदि शब्दा द्वयं ज्योतिरासं सारं न दीयते ।
एवं क्रमात् समुद्दिष्टं रुद्राणां लक्षणं महत् ॥
ते नुग्रहकराः सर्वे पराद्येते कराः स्फुटाः ।
तैर्व्याप्तं च जगत् सर्वं शब्दार्थज्ञानरूपकम् ॥
योनिरुष्मा तथा लब्धं षट्कोणं कुंडली कुलम् ।
मयवणो यशो हंसो अष्टधा वाग्भवे स्मृतम् ॥
प्रथमं वाग्भवं चाथ सुवर्णं लोकविश्रुतम् ।
द्वितीयं हंसदेवं तु तृतीयं वह्निरोमणम् ॥
चतुर्थं विश्रुतं माया पंचमं प्रणवं भवेत् ।
चतुष्कलं भवेत् सष्ठं सप्तमं चेश्वर प्रियम् ॥
तदत्र समवायेन वह्निसंयोगजं परम् ।
दीपकं कुलसारं यत् तत् प्रोक्तं वकूरं सदा ॥
कटाहस्तु ब्रह्मविलं कटाहः शक्तिमंदिरम् ।
कालरुद्रेति संयोज्य संहारस्तु महात्मनि ॥
प्. ९९ब्)
स शिवो भूतले साक्षात् स विजानी स मोचकः ।
सुदीप्तं मंडलाकारं बिंदुद्वयसमंकितम् ॥
ईकारेदेतिमारूढ महाशिखि शिखासना ।
ईषत्वं हि यदांतस्था परमानंदरूपिणी ॥
आनंदरससंप्रोक्ता नित्यानंद यथोदिता ।
वागुरं प्रथमं तत् तु पवर्णं चांवरं यतः ॥
इमा या वैकतां प्राप्ता प्रकाशार्काग्निसोमगा ।
तदा त्रिकोणगो यत्र मकारं लोकविश्रुतम् ॥
सोमार्कानलरूपं हि स्वरोच्चारमकारजम् ।
यस्मादिदकारमेकारं चैकोच्चारणसंस्थितम् ॥
ओजापूकक्रमेणैवं कापूजा-ओक्रमेण तु ।
एष क्रमः समाख्यातः सृष्टिसंहारगोचरः ॥
प्रकाशयति मार्गो ऽयं व्यक्ताव्यक्तपदे स्थितम् ।
धर्मार्थकाममोक्षाणां ज्ञानतो दंडधारकाः ।
क्रुद्धत्यर्थग्रही सिद्धा प्रेर्यप्रेरकरूपतः ।
चर्याधर्मे च पिंडस्थं षट्पादस्वाकृतो भवेत् ॥
रूपस्थं काममोकारमवनीमत्र मंडलम् ।
चतुष्कं गुरुवक्त्रस्थं माषावधिमनुक्रमात् ॥
देव्यादियुगदं चाथमूर्द्ध्नि मध्या च * * * ।
तेषु वा गुरुपंक्तिस्तु येषां जन्म तु कारते ॥
ते पूज्याः पूर्णगिरिपीठे कामरूपांतमध्यतः ।
मोक्षाज्ञायां प्रथमो नाथ कामाज्ञायां द्वितीयकः ॥
तृतीयं चाथसंपत्तौ धर्माज्ञायां चतुर्थकम् ।
लिंगमेकं त्रिधाभिन्नं त्रिग्योति द्वादशानिमान् ॥
स्वरचक्रं स्वरे चैकं द्वितीयं कादितान्तकम् ।
पथादिमान्तं तृतीयं तु लिंगे तानि त्रय स्मृताः ॥
लिंगत्रयसमायोगाच्छ्लोकानि द्वादशानि तु ।
प्. १००अ) स्थितानि ज्ञानरूपेण कर्णात् कर्णगतानि तु ॥
अकारादिविसर्गान्तं ज्योतिकास्वरवेष्टितम् ।
त्रिकूटस्थं महल्लिगं स्वरवर्णं स्वयंभुवत् ॥
कंदस्थानस्थितं तिष्ठेत् तत्रस्थं वागुरं जपेत् ।
तत्पश्चादादिकांतस्तु आवृतस्तु त्रिकूटगम् ॥
परमांतरगताभासैर्हृदये च विराजते ।
एतत् ते वाणलिंगाख्ये नित्यानंदोदितं परम् ॥
तत्रस्थं कामराजानं लक्षमेकेन तिष्ठति ।
तदूर्द्धे तुर्यसंस्थानं एकारं भुवनांतरे ॥
धादि सा ता वृत्ते सकार मूर्द्धान्ते इतरं स्मृतम् ।
तत्रस्थं गोलकं तिष्ठेल्लक्षमेकेन निश्चलम् ॥
स्वयंभुर्वाणलिंगं च इतरं? चापि सुव्रते ।
तेषु लक्षत्रयं कृत्वा बीजत्रितयमभ्यसेत् ॥
पीठं तु मातृका प्रोक्ता तदीशो ऽहं स उच्यते ।
नादाख्यं तु परं रूपं विसर्गाख्यं परापरम् ॥
क्रमेण कुलमावेश क्रमेणैव तु कालिकम् ।
निःशेषजं तु चक्रेण त्यक्तादोषपलालवत् ॥
परसौभाग्यमाधत्ते तेनः नित्या प्रकीर्तिता ।
त्रिकोणमेकं दशमं वह्निगेहं च योनिकम् ॥
शृंगाटकं च एकारं नामभिः परिकीर्तितम् ।
यदत्र समवायेन नरसंयोगजं परम् ॥
दीपं च कुलसारं च तत् प्रोक्तं वागुरं सदा ।
पदानि चैव वर्णानि सत्यासत्यानि सुंदरि ॥
व्यक्तध्यानादिभूतं हि पात्रामस्मिन् व्यवस्थितम् ।
ज्वलनेः संस्थितस्तस्मिन्नधो देवो वरानने ॥
तावती यज्ञस्वध्य संपाशमस्मिन् व्यवस्थितम् ।
सावाद्यास्कपरित्यक्तमुच्यते देहसंक्षयात् ॥
प्. १००ब्) अत्राप्यधिपतिर्ज्ञेयो रुद्रो देवो हुतासनः ।
तदिच्छया महेशनि भारतीयं प्रवर्तते ॥
वामित्रि ये तथा वह्नि धाता वाग्बुद्धिदायकः ।
अथातः संप्रवक्ष्यामि चक्रसंकेतनिर्णयम् ॥
तदर्थं देवि कुर्वीत त्रिहस्तं मंडलोत्तमम् ।
तस्य कुर्यात् त्रिभिर्भागे कर्णिकां चक्रचिह्निताम् ॥
पद्मद्वयं तदर्द्धेन द्वारक्षेत्रं च तत्समम् ।
ब्रह्मसूत्रं पुरा दत्वा कर्णिकात्रयमध्यतः ॥
याम्यां सौम्यायतं दद्यात् तत्रस्थं सप्तसूत्रकम् ।
तुरीयसूत्रं ततो लुप्त्वा मध्यांशश्च विभागशः ॥
तृतीयं च समैर्भागैः कृत्वा अंशविवर्जितैः ।
तेन मार्गेण च पुनर्मध्यभागं विवर्द्धयेत् ॥
तृतीयस्य द्वितीयस्य * * * * * * * * ।
प्रसारयेत् त्वधोदस्तं तत् तत् सूत्रं द्वयं द्वयम् ॥
तमेव सप्तके सूत्रे ब्रह्मसानेवशंगतम् ।
(आपंचमादधस्थानां प्रणवांतां नम योजयेत् ॥
तमेव सप्तके सूत्रे ब्रह्मसानेव संगतम् ।)
आपं च माधस्थानां प्रणवान्तां तम योजयेत् ॥
तमेव सप्तके सूत्रे विशांतिश्च तृतीयके ।
सूत्रद्वयं द्वयं चान्यत् सुत्राण्ये चं भवंति षट् ॥
चतुर्दशारमित्येवं दशारं च प्रसिद्ध्यति ।
तत्कोटिसंगतं पश्चात् सूत्रयुग्मं प्रसारितम् ॥
दशारमेकं कथितमेतद्वक्त्र चतुष्टयम् ।
सूत्रा द्वितीयकात् षष्टाद्ब्रह्मसूत्रस्य पार्श्वयोः ॥
सूत्रद्वयं द्वयं देवि मध ऊर्द्धं प्रसारितम् ।
सूत्रात्पंचमादूर्वा दद्यात् सूत्रद्वयं नयेत् ॥
ऊर्द्धं चाधोमुखमध्यस्थ अशमर्मद्वितीया वधि ।
दद्यात् सूत्र तृतीयं च तयो रन्योन्यसंगतम् ॥
प्. १०१)
एवं चतुर्थमष्टारमेकारं वात्रपंचमम् ।
इति संसिध्यते चक्र कान्तिफान्ति कृतं समे ॥
तच्छक्ति पंचकं सृष्ट्यानयं नामि चतुष्टये ।
पंचशक्तिश्चतुर्वह्निसंयोगच्चक्रसंगमम् ॥
तत्र एकाष्टकं मध्ये द्विशांते च चतुर्दश ।
चतुर्दश दशद्वंद्वमष्टारैकं महेश्वरि ॥
सृष्टिसंहारयोगे च शक्तिस्थानान्यनु क्रमात् ।
वह्न्ः पद्मद्वयं कुर्यादष्टषोडश सच्छदम् ॥
चतुरस्रं ततो दत्वा कुर्याद् द्वारचतुष्टयम् ।
चतुष्कोणसमायुक्तमेवं स्यान्मंडलोत्तमम् ॥
रक्तेन रजासा सूर्यंश्चक्रं(चन्द्र) शुक्लैर्द्वार चतुर्थकम् ।
अभिन्ना परमेशस्य शक्तिर्विश्वस्य संभवा ॥
नवामारूपसंपन्ना रूपकायमयी शिवा ।
मंडनेसान संयुक्तं शिव व्योम तथा ॥
रूपधारनिराधारा सर्वदामूर्द्ध्निविग्रहा ।
नाभिभूतात्रजगति जन्मस्थानोर्द्ध गामिनी ॥
जननी सर्वभूतानाम भेदस्थितिकारिणि ।
जगतः प्रलयो देवि अप्रणीनां स्वरूपतः ॥
सर्वेषां तु क्षयं देवि स्वांकेनाक्षरविग्रहा ।
वद्धा चतुर्विधां योनि पूजां कुर्यादनंतरम् ।
अस्यामंतरतावोष्टौ वक्त्रजैः कवचैः सुधीः ।
जिह्वाग्रे वहि निष्क्रामेद्यावदेकं गुणोच्छ्रिता ॥
चक्रयोनिरयं देवि कवचं शृणुसांप्रतम् ।
कनिष्ठानामयोर्मध्ये वामहस्तस्य पार्वति ॥
प्रवेश्य दक्षिणाः सर्वा अंगुष्ठाजामलौ वृतौ ।
तयोर्मध्ये तु वध्नीयाद्वामहस्तकनिष्टिकम् ॥
मुद्रेयं हस्ति योनि सर्वकामफलपरदा ।
प्. १०१ब्) अन्योन्याभि मुखौ पादौ स्वस्तिकासनसंस्थितौ ॥
तयोर्मध्ये भगाकारा चासने नैव चिंतयेत् ।
एषापादासने योनि ज्ञातव्या साधकोत्तमैः ॥
एवं चतुर्विधा योनिं वध्वा ध्यायेज्जगत्विकाम् ।
त्रिकोणाष्टकसंविकुं?शरीरं परिचिंतयेत् ॥
आधारबीजसंविष्टो ध्यायेत् त्रिपुरसुंदरीं ।
चक्रे च तारिते देवि साधकोस्योद्धरेत्करम् ॥
यावन् मध्यगता पूजामणिमुक्ताप्रवालकैः ।
अभावकुसुमैश्चापि मूलमंत्रेण चार्चयेत् ॥
असून्यं सर्वदाकुर्यात् कुर्याद्विघ्ना भ्यनेकशः ।
त्रिअंशसशिखामध्येललाटेचकात्न्यसेत् ॥
भ्रुवोर्मध्ये दशारं च कंठदेशे द्वितीयकम् ।
चतुर्द्वारं स्वांतस्थं नाभौचाष्टदलं न्यसेत् ॥
आधारे षोडशदलं पादयोर्द्वारचक्रकम् ।
अथातः संप्रवक्ष्यामि महासमयसंस्थिताम् ॥
मूलारूढस्य योगेन विषेदकुलविग्रहे ।
प्रविध्वास्रंक्षिपत्यंतं कृत्वामुष्करं * * * ॥
नत्वं तत्वेन संरुद्धं ज्ञात्वा योगी विचक्षणः ।
कर्णे कर्णे गतां देवीं चक्षुश्चक्षुर्गतां पुनः ॥
यत्र यत्र च श्रोतः * साधनं कुरुसर्वदा ।
सा तत्र स्नेह मायाति ज्ञानसूत्रप्रभावतः ॥
खेचरीब्यो नमस्तेस्तु भूचरीभ्यो नमो नमः ।
अंतरीक्स चरिभ्यस्तु सर्वयोगि गणेषु च ॥
जंभेमेहितथा क्षे क्षीं स्त्रीं क्षे क्षः फट् तथैव च ।
स्वाहांतः प्रणवाद्याय वलिमंत्र उदाहृतः ॥
यागादुअ यागमध्ये च यागांते दिग्वलिं हरेत् ।
प्. १०२अ) चक्रसंकेतको मानो मुद्रासंकेतकस्तथा ॥
त्रिविधास्त्रिपुरादेव्याः संकेतः परमेश्वरि ।
एकादशादिकं देवि कराली क्रोधसंयुता ॥
सासिमध्यगतं तंतु तदूर्द्धे आसनस्थितम् ।
यानेवर्ण चतुर्द्धे च नकुलीशूलदं युक् ॥
पूतना दिवि मध्यस्था मृत्यन्तं प्राणदूर्द्धगम् ।
वाममध्यं महादेवि रक्तस्थं नरके स्थितम् ॥
अधस्तस्य प्रदातव्यं शूलदंडं न संशयः ।
पूष्ट्याथभैरवं देवं नरके यन्नगे स्थितम् ॥
पूतनां बिंबमध्ये च क्रोधदंडासन स्थिताम् ।
मायादेवीं च तस्यार्द्धे मूर्ध्नि अक्रूरभेदितम् ॥
त्रैलोक्यक्षोभने देवि स्वयं राजसुरद्रुमः ।
विंश * * नाशने देवी अत्ययं * * यत्नतः ॥
रक्तभैरव ऊर्द्धे च भैरवं रक्तसंयुतम् ।
पुनस्तं रक्तसद्भूत्या कोर्द्धवर्णं च स्पष्टे ।
बिंदुमालिनी ऊर्द्धे च योत्पत्तं पूर्वसेनकम् ।
एषा विद्या सुरेशानि त्रैलोक्योत्पत्तिमातृका ॥
असृष्ट्या स्वमाया मायास्वमाधवर्णविभूषितम् ।
आदिबीजं च शिरसिवा स्वत्तं चोर्द्धभेदितम् ॥
मायया संस्थिति मध्यं कामचक्रभगास्मिताः ।
कन्दरूपाष्टका देवैः सिद्धसंतानपूर्वकम् ॥
नक्षत्रदेवता युक्तं न्यासपूजादि साधने ।
कृत्तिकाख्ये च नक्षत्रे देवताग्नि रुदीरिता ॥
प्रजापतिश्च रोहिण्यां सोमोमृगशिरे स्मृतः ।
आर्द्रे रुद्रः समाख्यातः पुनर्वसुश्चादितिर्भवेत् ॥
पुष्पे तु गुरु देवत्यमाश्लेषा सर्व देवता ।
मघा च पितरो देवि फल्गुणी अर्यमा भेवेत् ॥
फल्गुण्यां च भगः प्रोक्तो हस्तेन सवितामता ।
प्. १०२ब्) चित्रा इन्द्रा स्वाती या विशाखेन्द्राग्निरीरिता ॥
अनुराधे च मित्रं स्यात् ज्येष्ट इंद्र उदाहृतः ।
पितरो मूलनक्षत्रे आषाढे अस्य देवता ॥
विश्वे देवास्तु आषाढे श्रवणे विष्णुदेवता ।
धनिष्ठाश्चाथवसवाः शक्रः शतभिषे विदुः ॥
प्रोष्ठपदे महादेवि अत्रैकपदसंज्ञितः ।
पुनः प्रोष्ठपदे चापि अहिर्बुध्ननुदीरितः ॥
पूषा च रेवती ज्ञेया अश्विनी अश्विनीं विदुः ।
भरण्यं चैवकी नाशं देवी देवेन वर्णकान् ।
जयंति देव्यो हरपाद पंकजं प्रसन्नवामामृतमोक्षदायकम् ।
अनंतसिद्धांतगतिप्रबोधकं नमामि चाष्टाष्टकरोहिणी कुलं ॥
योगिनी चक्रमध्यस्थं मातृमंडल वेष्टितम् ।
नमामि शिरसानाथं भैरवं भैरवी प्रियम् ।
अनादि घोरसंसार व्याधिध्वंसैक हेतवे ।
नमः श्रीनाथवैद्याय कुलौषधविधायिने ॥
आपादान् दुरितान् रोगान् समयाचारलंघनात् ।
सर्वाणि मे व्ययोहंतु दिव्यचक्रस्य मेलनात् ॥
संपूजकाअनां प्रतिपादकानां जितेंदिर्याणाञ्च तपोधनानां ।
देशस्य राष्ट्रस्य पुरस्य राज्ञः करोति शांतिं भगवान् कुलेशः ॥
नंदं तु सड्विध समस्तज्वलदलनायो हिंसासनाख्ये चतुः
सार्ङ्गमहार्णवाये ।
नंदं तु सिद्धकुलकौलिकता परायेप्प?न्ये विशेषपदभेदकशांभवाये
॥
नंद तु सिद्धगुरवस्तदनु क्रमौघा ज्येष्ठा युगाः समायिनो वटुकाः
कुमार्यः ।
प्. १०३अ) संयोगिनी प्रवरवीरकुले प्रसूतानंदन्तु भूमि पतयो
द्विजसाधुवर्गाः ॥
नंदं तु नीतिनिपुणा निरवद्यनिष्ठानिर्मत्सरानिरूपमानि
रूपद्रवाश्चानित्यं निरञ्जन रता निरवोनिरंशाः शान्ताश्च शांतसो
कृतशोकशंक्यः ॥
नंद?तु योगनिरता कुलयोग युक्ता मुख्यार्यमेक साधकपुत्रकाश्च ।
गावो द्विजा युवतयो यतयः कुमार्योधर्मेरनंतविघ्ना गुरुभक्तिरस्तु ॥
नंदं तु कुलयोगीजा नंदं तु कुलपुत्रकाः ।
नंदं तु तेजसा चार्या ये चान्ये कुलदीक्षिताः ॥
नंदं तु साधक कुला अणिमादि सिद्धिसाधकाः ।
पतं तु समय द्विषद्योगिनीना सास्माद्भवी स्फुटनुकारिषमाधारस्था
यस्य गुरोश्चरण पंकज एवलभ्यः ॥
याश्चक्रक्रमभूमिका च सतशो नाडीषु याः संस्थिता याः
कायाभ्यंतररोमकूपनिलया या संस्थिता धातुषु ।
उच्छ्रासोर्मिमहत्तरंग शलिले या नीत्वाशयानाश्च ये ता देव्यः
परिपंथितक्षणपरास्तू यां नु केनार्जिताः ॥
यस्या आज्ञाप्रभावेन स्वस्तितं भुवनत्रयम् ।
नमस्ताभ्यः समस्ताभ्यो योगिनीक्षो निरंतरम् ॥
श्रीमच्चंद्रपुरं विहारभुवनं तूर्णीकृता लीलया ।
शिष्यं सापादलगणितं नीतपदं क्षेचरम् ॥
तन्मध्ये नरकं च भूमि पतिना स्वाज्ञासमाकर्षिता ।
तं देवं भववोदुःखदोषशमनं श्री आदिनाथं प्रभुं ॥
श्रीमान्मित्रीशनाथः कृतयुगचरितस्त्रेतया ओढ्रनाथः ।
प्. १०३) षष्टीशद्वापरेशः कलियुगचरिताश्चिंचिणी विरनाथः ॥
सा देवी मित्रदेवी कुलकमलमुखी सिद्धिदा मंगला वा तेषां
पादाब्जयुग्मं क्षितितलचरणामस्तकस्तां नमामि ॥
सतत बिंदुश्चक्र भासावितानिश्रमसमोहिनीभिः ।
प्रलयघननिभाभिर्भाविता भूतभावा भुवनभुवितभंगो भैरवो नः
पुनातु ॥
षेयं भुजास्यानवसिद्धिरोधमधानसंचारितदिव्यम् ।
निरस्त्रशास्त्रार्थविकल्पजाना देवा श्मशानेकरवीरकाख्ये ॥
जयतु परमतत्वः प्रातसोप्रादानसंक्षक्षः परमपदविकाशेल्लासि
तत्वाधिरुढाः ।
सकलभुवनलीलामंगलोद्दामदृष्टिर्विकसतुभुविलक्ष्मीः
पीठजामंगलश्रीः ॥
श्रीः पीठकैलासनिवासिनीभ्यो दिव्यासुरप्रावरणप्रियेभ्यः ।
योगींद्र चूडामणि चुंविताभ्यो नमः स्वसंवित् कुलयोगिनीभ्यः ॥
प्रभूतभूतेहनिरवेद्यनामामासाग्रा मदोत्कटाभ्यः ।
दिग्वारसंचारितचर्विकाभ्यो वक्त्रोक्तिकं प्राश्यसुखी भवेयम् ॥
दूरस्थाश्च ये ये च सामयिका जनाः ।
नंदं तु सकलास्तेजो दिव्य चक्रस्य मेलनात् ॥
ये ये सामयिका लोकाः परलोकमितोगताः ।
तेषां खेचरिणां पानममृतां यो य कल्पतां ॥
कामाः फलं तु वीराणां योगिनीं योगसिद्धये ।
राजानो धर्मिकाः संतु काले वर्षं तु वारिदाः ॥
मे दिव्यक्रम भूसमयिनां मानं दकामत्सरा द्वेष्टारः कुलयोगिनी
जनमनः पापंकुलद्वेषिणः ।
प्. १०४अ) वीरद्रव्यविनिंदकाकुलवधू वै हास्यका पूजनो हाधीन धियः
पततु त इमे षद्योगिनिमंडले ॥
रक्षां पर्व न हाकिनी त्वरिगता कृस्थिता काकिनीलाकिन्या मिषसंश्रिता
हिततया मेदस्थिता काकिनी डाकिनी ।
पूर्णासुस्थित काकिनी परिवृतं हाकिन्यतो मजया गुह्यं पर्वतयाकिना
परिधृतं श्रीभैरवो जीवितम् ॥
दिव्यादि गुरुपर्यन्तं ब्रह्मादिस्थ सुखं मतम् ।
कालाग्न्यादि शिवांतं च जगत्स्वर्गेण तृप्यतु ॥
नित्यमे तत्पठेत्सूत्रं शुभसौभाग्यभुग्भवेत् ।
शांतिश्च सर्वपापेभ्यः सर्वपापनिकृन्तनम् ॥
व्याधयस्तस्य नश्यंति जीवेट् * शतसुखी ।
इति देवी समाख्यातं मेरुमार्गविनिर्गतम् ॥
इति कुब्जिकामते पंचाशतितमः पटलः
भगवन्पुष्पसंकेतं संतानक्रमसंभवम् ।
श्रुतं च कालिका प्रोक्तं त्रिपुरश्च सुरेश्वर ।
या विद्या परमेशानि देवाअनामुपकारिणी ॥
मेरुमध्ये कथं देवि विद्या महिषवर्धिनी ।
विद्याहरेर्विद्या विद्याचार्य सुरेश्वर ॥
एतत् सर्वं गणाध्यक्ष वदमे विस्तरं प्रभो ।
यस्याः कटाक्षमात्रेण दैत्यदानवराक्षसाः ॥
विद्रवंति महादेवि सिंहतस्तु यथामृगाः ।
क्रमेण शृणु देवेशि विद्यामंतपदार्णवम् ॥
कैलासमंदिरे देवि वामांतं सृष्टिभैरवम् ।
मध्यमपंचाक्ष्वं विल्वमध्यासने स्थितम् ॥
खवर्णं च शिरसिनोर्वेन स विभूषितम् ।
रुववर्ते ध्रुवांतस्थं पुनस्तौ शूलदंड युक् ॥
प्. १०४ब्)
वज्रिणी होर्द्धमालिख्य सर्गमध्येन नाच्छिदम् ।
लब्द्धं ध्रुवादि संस्थं च केवलं वज्रिणीं पुनः ॥
शूलदंडं समालिख्यमूर्द्ध्निशक्ति विभेदितम् ।
बिंदुमध्ये * * * * पुत्रानांतविभूषिताः ॥
तद्वत्कालं समालिख्यविल्यमध्येथमूर्द्धनि ।
मेषं गुणोन्तमादाय ज्ञानशक्त्या च भूषितम् ॥
योर्द्धदंडासना दांतं क्रूरं तस्या समालिखेत् ।
अखिलं भूसंभारे कारिके शक्तिमग्रतः ॥
वज्रिणादंडतेजातवेदशे प्राणशूल युक् ।
सूक्ष्मातं निषधं क्रूरं ज्वलद्वद्रू प्रकीर्तितम् ॥
उद्वद्धर्षपुनर्वाप्यसिंहक्रोधाग्निकुब्जकम् ।
पथिजाने महादेवि योष्टुं वाकूरमस्तकम् ॥
एषा विद्या महाजाता महिषस्यातिगंधिनः ।
नाशायभगवती देवी विद्या महादिव्यनिवासिनी ॥
हृदयं भुवनार्स्मैश्च रुद्रार्णैश्च शिरोरुंतम् ।
ग्रहार्णैश्च शिखाभूत्या भूतार्णैः कवच संस्थितम् ॥
नेत्रसारसार्णैश्च रस्त्रार्णैक्षरस्त्रकं न्यसेत् ।
रकाशिमुषलं शूलं कपालं टंकमेव च ॥
कोदण्डं खेटकां चापि विभ्राणां नीरद प्रभां ।
नखदंष्ट्रामुधाभीष्मां पार्श्वस्थां पंचाननां ॥
सुमुखिं दुर्मुखीं चैव न्यान्या सिंहमुखीं तथा ।
सिंहासनस्थितां चैतानिहासर्वादितो यजेत् ॥
स्वभूतिभिः समायुक्तां लोकात्रिभिरावृताम् ।
भूतलक्षजपेनाथलक्षैकहरणेन च ॥
जपतर्पणपूजाद्यैः सिद्धोसौनात्रसंशयः ।
अथान्यं शृणु देवेशि ममवाक्यं प्रयत्नतः ॥
प्. १०५अ)
पंचांतके भगोन्तस्थं वायव्यं तस्य दापयेत् ।
अस्याग्नेजांतमालिख्य सृष्टिवर्णं स्वयं लिखेत् ॥
स्वनन्तं गंधशिखरे तस्य मूर्ध्नि प्रदापयेत् ।
भे च मध्ये महाकालं दंडादीनि तदग्रतः ॥
पावकीपांशुभाभिन्ना वायव्यां च नियोजयेत् ।
वांतमग्रे तदन्या च मूर्द्ध्निमध्ये गवाकरम् ॥
न्यसे तु भैरवं प्राणे पुरतस्तस्य दीपनम् ।
उमाकांतस्य अग्ने च क्रोधवर्णं च कारयेत् ॥
कालिकातोर्द्धकं ढीशं कलार्द्धे दण्डमालिखेत् ।
भैरवं दीपनं युक्तं त्रिमूर्ति विषये स्थितम् ॥
लोकादिशिरसंभिन्नं देवी बीजमुदाहृतम् ।
लोहितमूर्द्धजं देवि पानोन्तं दंडसंस्थितम् ॥
कांतवर्त्मं केवलं तु डेवुमध्यं च छागलम् ।
यांतं गान्तं मुदं देवि गोन्तं सूक्ष्मविभूषितम् ॥
देहमध्ये तदग्रे च वामे मध्यं तु केवलम् ।
पानोत्माजुसंस्थ च कान्तमेकादसंस्थितम् ॥
वामादि शिरसंभिन्न धरो अर्द्धं च पांसु युक् ।
या च वज्रिणी युक्तं पुनस्तं सूक्ष्मभेदितम् ॥
भुजंगभैरवं देवि नरके शांति शक्ति युक् ।
ताधनांतांधसर्गं च वामास्तं गोध्वसोश्रितम् ।
क्षेतमेकादशं क्रूरं त्रिंशद्वर्णं स पंचकम् ॥
नवार्णैर्वसुभिश्चैक दिग्भिश्च ग्रहसंख्यकैः ।
ब्रह्माद्याः संस्थिता देवि पदे स्वस्थानपंचके ॥
नागैश्वर्य पदं देवं भोगमोक्षकरं यजेत् ।
पुस्तकं चाक्षमालां च ज्ञानमुद्रा पदं पुनः ॥
शंखादि नलिनं देवि गदाकौशेय वाससं ।
प्. १०५ब्) जीमूतसंनिभं चाथधवलात्मा महेश्वरम् ॥
निवृत्याद्याः कलादिक्षु वेदानदिकान् यजेत् ।
ब्रह्माण्याद्यास्तग्रे च इंद्राग्निः पितृपतिः पुनः ॥
क्षपाचरः स वरुणो वायुश्च धनदो हरः ।
ब्रह्मानंतगमे पूज्या स्ववाहनाः स भूषणाः ॥
ठकारपंचके देवि किमिदत्वा प्रयत्नतः ।
क्रमिस्वेन समावेश्य तद्वर्णं चक्रमध्यगम् ॥
कर्णिकायां तु तन्मध्या देवं तद्बाह्यतो न्यसेत् ।
वर्गाष्टकं सुरेनाथ मातृकां बाह्यतो न्यसेत् ॥
एतत् सर्वं महेशानि प्रवर्पेण सुरांकितम् ।
पुरज्ञस्य सहायोग्निस्त्रिपादः स शिरस्तथा ॥
यत्रेदं तिष्ठते देवि लिखितं गेहमध्यगम् ।
तस्य सर्वाणि सिध्यन्ति यावंतीह महीतले ॥
सिद्धयः सर्वदा देवि यथोक्तं परमेष्ठिना ।
अस्य स्वरूपं वक्ष्यामि सुरासुरनमस्कृतम् ॥
अनया देवि चंद्रत्वं प्राप्तवान् सशतक्रतुः ।
ब्रह्मत्वं च तथा रुद्रक् ईश्वरत्वं मखेश्वरः ॥
गुह्याद्गुह्यतराविद्या इतः पूर्वं सुरेश्वरि ।
नोक्ताकुत्रापि सा विद्या सांरतं शृणु चक्रमम् ॥
क्षोर्द्धान्नौक्रूरशिरसौ महारावं च सूतिकम् ।
आषाढी यत्र देवेशि तस्याधो वर्णमालिखेत् ॥
मुरतस्तस्य देवेशि याधं धांतांतमूर्द्धगम् ।
वामनांकस्तशिखरे यामोंतर वलं लिखेत् ॥
नारायीकांत हस्तायामीशस्योपरितो न्यसेत् ।
वागुरं मूर्द्धि देवेशि ध्रुवांतोर्द्धं समालिखेत् ॥
परमध्यं तदग्रे च मेषशूलार्णंकैः पुनः ।
गत्वानंतेन संभिन्नो धर्मरुद्रंदग्रतः ॥
प्. १०६अ) सोमेश्वरस्थितं कांतं वायुसंभवम् ।
संवर्त्तको महादेवि तस्याधः शवकं स्थितम् ॥
स्वस्तिनस्तु विजानीयाद्रक्तं तस्यासनं ददेत् ।
शक्तिवर्णं शिवे न्यस्य शून्यनादसमन्वितम् ॥
पुरोभागे न्यसेद्दूती वर्गाष्टकसमन्विता ।
विद्यापरमकल्याणि सर्वापद्विनीवारिणी ॥
प्रभावमस्या देवेशि वक्तुं कल्पशतैरपि ।
न शक्यते वरारोहे श्रोतुं वाकेन चित्फलम् ॥
विद्यादौ वर्णयगणं मुहालक्ष्मीं च वैष्णवम् ।
हृदिन्यासं प्रकर्तव्यं शिरोदेशेथवारकम् ॥
सदाशिवेनसंयुक्तमंशुमानिलपूर्वकम् ।
देव्यारुद्रेण वागीश शिखामध्ये च विन्यसेत् ॥
तदग्रे वर्त्मनि ईश्वरेण च तां पुनः ।
युग्मन्तु ब्रह्मगायत्र्या नेत्राणां कुरुणे स्थितम् ॥
गणां * मभ्यसं शास्त्रय पदं संवत् ।
फेट्कारी सर्वतो देवि न्यसेत् सर्व * * * * * ॥
एकैकं च ततो गेहे शिरोभागे भ्रुवौ पुनः ।
दूषणासागंडकंठेषु वाहु हृन्नाभिशूवके ॥
कघांजानु द्वये गुल्फे पादाग्रे च प्रविन्यसेत् ।
व्यापकं शिष्टवर्णानां नवात्माचादि संयुतम् ॥
पूर्वोक्तेकारमध्ये तु स्मरेन्नारायणे प्रति ।
शयान महिभोगेषु कमलालिंगितस्तनुम् ॥
दुग्धाब्धि द्विपनिचये ऋषिब्रह्मादि सेविते ।
नानाद्रुमलताकीर्णे नानाजनसमावृते ॥
स्थितं वा देवदेवेशं शंखचक्रकपालिनम् ।
विद्यामक्षगुणंकंवु गदां पूर्णघटा मृतम् ॥
किरीटहारकेयूर कटकाद्यैरुपस्थितम् ।
स्वांकस्थ पद्मकरया सर्वलक्षणलक्षितम् ॥
प्. १०६ब्) दैत्यावलोकनरतं देवदेवं महेश्वरम् ।
उपचारैः समाराध्य गायत्रीं ब्रह्मणः सुतां ॥
सावित्री विष्णुना देवि वागीशं वाक्यमावृतम् ।
धनदं च श्रियायुक्तं योनावेवं प्रपूजयेत् ॥
मातरोष्टौ दलाग्रेषु वासुदेवं च मध्यतः ।
संकर्षणं दक्षभागे प्रद्युस्नं पश्चिमे यजेत् ॥
उत्तरे चानिरुद्धं च आग्नेयादि प्रपूजयेत् ।
शांति श्रीसरस्वत्यौ च त्रिभिर्बहु विभूषिताः ॥
जप्त्वालक्षगुणं देवि किल्विषैश्च विमुच्यते ।
रसलाक्षा भवेदोशो स्वयं ब्रह्मसदाशिवः ॥
इति श्रीकुब्जिकामतेनवकोटिसंहितायां चतुरशीतिसाहस्रेपंचाशतितमः
पटलः
देव्युवाच ॥
त्रिपुरानामविख्याता रक्तांगं न्याससंयुता ।
नित्याकामदुघानामसंवर्त्ता मंडलक्रमम् ॥
लिंगं च कीदृशं ज्ञेयं यथान्यदपिशंकर ।
कथयस्व प्रसादेन पूजाहोमं च तर्प्पणम् ॥
श्रीभैरव उवाच ॥
उद्भूतं च पुरादेवि यन्मया त्रिपुरार्णवे ।
तदद्यसंग्रहेणात्र सुसृष्टं यादृशं भवेत् ॥
सर्वागमानां सारं हि उद्भूतं मेरुसंग्रहे ।
तस्मान्मेरुं पदापश्येत् स्वहृष्टे नांतरात्मना ॥
कस्यगोमयगंधेन कुंकुमागुरुसंभवेः ।
लिप्त्वा भूमौ पटेवाथ श्रीद्रुमं मेरुमेव च ॥
नाभिमध्यास्थितं बीजं तस्याग्रेष्टभिसंभवम् ।
पुरतस्तस्य दातव्यं रुद्रबीजं तृतीयकम् ॥
चतुराननमुद्धृत्य तुरीयं नाभिमंदिरे ।
रक्तं रुद्रस्थितं कुर्याद्विद्याबीजं शिवे स्थितम् ॥
शृपूर्वं शिरसाक्रांतं स्थेणो मध्यं तथाग्रतः ।
दक्षशूलं समुद्धृत्य केवलं वायुसंभवम् ॥
प्. १०७अ)
उभावेतौ पुनर्लिख्य करालीबीजमग्रतः ।
भारभूतिस्थितिं कुर्यात्मज्जारुद्रसमा लिखेत् ॥
देणोमध्यगतं कृत्वा विद्याधारेकुंठमग्रतः ।
निरंतरपदं भूयः श्वेतपूर्वं स भैरवम् ॥
तस्याधो रक्तरुद्रं तु मंदरस्यं शिवेस्थितम् ।
अस्याग्रे दारुकं बीजं मूलंतं तदनन्तरम् ॥
मालिनी हृदयं देवि पूर्वोपरिसंस्थितम् ।
तयोर्मूर्ध्निशतं कुर्यान्मालिनी योगमुत्तमम् ॥
ऋषि माला तु मुद्धृत्य तदादिश्चैवमग्रतः ।
पूर्वोक्त मानदं देवि तत्पुरस्तात्वलोहितम् ॥
शूलदंडासनारूढं नवादिमुपविन्यसेत् ।
मंदरस्थं विजानीयाद्रुद्रंधात्रिशमग्रतः ॥
मेषोर्द्धे केवलं बीजं वामादि शिरसा न्यसेत् ।
कूर्मरुद्रस्य पुरतस्तत् पूर्वं केवलं लेखेत् ॥
ज्ञानशक्ति समोपेतं शुक्ररुहे महेश्वरि ।
लक्ष्मीबीजं समुद्धृत्य नित्यं भीमासमग्रतः ॥
उरुमध्यस्थितं कुर्याद्भैरवं क्रोधसंभवं ।
लोकांतेन प्रिया पातैः पंचमं प्रणवं भवेत् ॥
मालिनी परथमं बीजमस्याग्रे कालमालिखेत् ।
लोकांतं शिरसाक्रांतं कारणानि पुनर्भवेत् ॥
एषा विद्या पुराजाना मूलांडक्षोभकारिका ।
स्वर्गा पवर्गफलदा सद्यः प्रत्ययकारिका ॥
इयं सा भैरवी नित्या सिद्धोसौ मकरध्वजः ।
कंदर्पमंदिरे भीमा कथादीन क्रमान्न्यसेत् ॥
कंदर्प्याद्यंतपुरगमंते संवर्त्तकं न्यसेत् ।
विषं स विसद्वित्वेति निवर्तक्रमरोधिता ॥
एष संवर्त्तनामानं मंडलं सुरसुंदरि ।
प्. १०७ब्) संवर्त्तान्ते स्मृतं तद्धि संवर्त्तक्षयकारकम् ॥
संवर्त्ते निस्फले भूते विंदत्यात्मनियत्सुखं ।
निर्विकल्पं च संचिंत्य हेतु दृष्टाअंत वर्जितम् ॥
तत्सुखं परमं देवि यत्रेदं स चराचरम् ।
उत्पत्ति व्यापकं तस्मात् तत्तद्विश्वं प्रतिष्ठितम् ॥
क्रियायाः शक्तयस्तेषु त्रिषुस्थानेषु भैरवाः ।
वामज्येष्ठे च रौद्री च मध्ये वा नभसंभवाः ॥
शक्तिर्विश्वस्य जननी मूलाद्भिद्यमातृका ।
वमनी यथाचारेण कल्पार्क भयग्गं विदुः ॥
संवर्त्तक्रमयोगोयं देवि गोप्यं प्रकाशितम् ।
आनंदं विमलं ज्योति शक्तिरात्मफलप्रदम् ॥
सर्वात्मपदयोगं च इतरत्वान्तु दिक्पुनः ।
तद्वद्रूप ऋषिप्रोक्तो तथा देवी प्रयत्नतः ॥
मातृकावर्णयोगेन गुरुपिंडस्य मध्यगम् ।
भैरवी पिंडमध्यस्था दुःखराशि विमोचिनी ॥
द्वात्रिंशल्लक्षणोपेतां भैरवीं विष्णुना सह ।
गायत्रीं वा तथालक्ष्मीं सर्वलोकैकमातरम् ॥
या लक्ष्मीभैरवी देवी रूपं च रससंनिभा ।
पंच दीर्घे चतुर्ह्रस्वं पंच सूक्ष्मं षड्भुतम् ॥
सप्तरक्तं त्रिगंभीरं द्विविस्तीर्णं यथोच्यते ।
बाहुनेत्रद्वयं कुक्षि जानुनी चस्तनांतरम् ॥
पंचदीर्घं समाख्यातमथश्रीवाच जंघिका ।
पृष्टं गेहं च चत्वारि ह्रस्वान्युक्तानि चेश्वरि ॥
सूक्ष्माण्यंगुलि पर्वाणि केशास्त्वक् दशनानखाः ।
कक्षं कुक्षिश्च वक्षश्च घ्राणस्कंधौ ललाटिका ॥
षडैवमुल्लतं ज्ञेयमत ऊर्द्धं च यत्पशुः ।
पाणिपादतलेरक्ते नेत्रौ पाणितलानि च ॥
प्. १०८अ) तालुजिह्वाधरौष्टा च सप्तरक्ताः प्रकीर्तिताः ।
स्वरः सत्वं च नाभिश्च त्रिगंभीरं प्रकीर्तितम् ॥
उरोललाटिका चैव द्विविस्तार्णं महेश्वरि ।
द्वात्रिंशल्लक्षणो पेतैर्देवदेवं चलापति ॥
विद्यामक्षगुणं द्वाभ्यामितराभ्यां चक्रकंबुकम् ।
अन्योन्या लिंगनकरौ * * * * शिवांकगां ॥
मुखेसंयोज्यवेणु च गायंतं कृष्णमच्युतम् ।
आसंसंप्रेक्षवास्येन तारहारविभूषितौ ॥
रथांगशंखविद्या च अक्षदामाहिशून्यपि ।
भूतपुंद्रुकयुक्ताख्यामभयं विभ्रती गिराम् ॥
भैरवासनमारुढां मुण्डस्रग्बिन्दु लोचना ।
परमानंदसंदोहसंपूरितविलोचनाम् ॥
गुणंसर्गमितिप्रोक्तं सूक्ष्मविंनां मयं भवेत् ।
संवर्त्तकनिरालंबे तत्कटिसमन्विते ॥
महापद्मरत्नरश्मिधवलांग सुशीतले ।
तत्रावेश्मनिजं भावं देवंतं लक्षणान्वितम् ॥
शिवांशिवासनारूढां बंधूककुसुमारुणम् ।
परितः शक्तयश्चाष्टौ दिक्षुशक्त्याग्रिमूर्तयः ॥
लक्ष्मी कमलमुच्चार्य वसिनीमंकुशं पुनः ।
रक्तभैरवमारूढां पूतनाप्रग्नहान्वितां ॥
पंचात्मिकं च देवेशिं वरणामग्रतः कुरु ।
धरे धरणि शब्दं च भावयेदग्नि दिग्गतम् ॥
शुक्रबीजं समुद्धृत्य वर्गमध्ये च नाकुलं ।
एकं दशादि पुरतो नवके च तृतीयकम् ॥
तदा दिक्षुसमाक्रांतं बीजं लोकादि मस्तकम् ।
अनंतादि क्रमेणैवं वर्णानां पुरतो लिखेत् ॥
न निश्च भागवत्यंते स्वष्ठम्ना ध्यानसाम्यतः ।
प्. १०८ब्) कालिंदी सत्यभामा भूयो मित्रविंदासु नंदिनी ॥
लक्षणानग्नजित्याख्या मूर्तयः क्रमतो भवन् ।
अपरा देवि कुर्वीत त्रिपुरस्य यथा परा ॥
अस्य जापेनहोमेनलक्षमानेनयद्भवेत् ।
मृतपाषाणेन दारुण्य दृष्ट्या तच्चेतनं भवेत् ॥
दिविमर्त्यजनेचाथ पाताले पन्नगालये ।
स्वच्छंदचरितो वीरो यथासौ देवकी सुतः ॥
ततोन्यांसंप्रवक्ष्यामि विद्यां त्रैलोक्य मोहिनीं ।
त्रैलोक्य मोहने तंत्रे पुराते प्रकटी कृता ॥
ध्रुवं नाभिगतं भूयो मारांकं क्रूरमस्तकम् ।
मोदकंशुक्रमस्तं च मादनं शुक्रमूर्द्धनि ॥
अधस्तात्कारयेच्छक्तिं गुणोंतं शिरसि स्थितम् ।
पंचसमोपेतं गर्थानं तेन नादिनी ॥
दीपनी च तथा विद्या माया मध्यं तदग्रतः ।
मानिनीं वामनेत्रे तु रम्यं रुद्रं समावनम् ॥
विष्णुं वामस्तने न्यस्य पूर्ववत् परितो लिखेत् ।
पुनः समुद्धरेदन्यं देवि गोप्यं प्रकाशितम् ॥
एषा विष्णुसमुद्भूता विद्यापंचाक्षरी शुभा ।
एवं वा भैरवीं देवीं कंठकं च नवाक्षराम् ॥
पूर्वोक्ते चंडिका मध्येहं वासंवाधनां कुरु ।
विष्णवे भगवन् भूयस्तथा शंभुश्च पार्वति ॥
दक्षिणामूर्तियोगेन सैव विद्या महेश्वरि ।
माया वागीश्वरी सैसाहं स वागीश्वरीं शृणु ॥
हंसस्य पुरतो देवी समांतं हंस शक्तिकम् ।
भूयः सरस्वतीमग्रे नति स्वाहा वषट् अपि ॥
वागुरं विष्णु देवीं च वायुरुद्रं समग्रतः ।
कामं सोहं समुद्धृत्य अद्य स्याहा समन्वितम् ॥
प्. १०९अ)
प्रपंचमुंडमालायां गदितं त्रिपुरार्णवे ।
एष विष्णुः शिवः प्रोक्तो ब्रह्मावाक् तरणि भैरवी ॥
पुनस्ते ध्वं?बिका देवी मोजमध्ये व्यवस्थितम् ।
मंदारावस्थितं कुर्यान् मालिन्या उरुसंभवम् ॥
कांतमेकादशे श्वेतमधस्तद्विल्वसंभवम् ।
श्रीकरं च समाख्यातं दर्पिता पावकस्य च ॥
दुग्धाब्धिमध्यसंभूतं नलिनोत्तरतार्क्षगम् ।
अष्टबाहुं समासीनं भैरवाधिष्ठितोऽच्युतः ॥
तप्तकांचनसंकाशं बंधूकारुणवच्छिराम् ।
नलिनासिगदाचक्रं कंबुपाशांकुशं पुनः ॥
विद्याकपालमनिशं मनसंस्थामनोलयम् ।
अंगानि विन्यसेत् पंच भीभीसत्रासमदा ॥
पृथुंसवक्षबीजाद्यैः सर्वज्ञादि भिरन्वितैः ।
पदैरष्टा युधैर्वीजैर्दशस्थानेषु तद्दश ॥
ब्राह्मणोस्य मुखमासीद्वाहूराजन्यमेव च ।
उरूतदस्य यद्वैश्यः पद्भ्यां शूद्र इति क्रमात् ॥
आपादस्वतलं देवि पादोर्द्धं वितलं पुनः ।
जंघापादतलं भूयो नितलं जानसर्वगम् ॥
तलातलञ्च उरुभ्यां शुभस्थाने रसातलम् ।
पातालं कटिसंधिस्थं तद्वद्दूर्द्धविचिंतयेत् ॥
भूर्ल्लोकं नाभिमध्ये च भूवर्लोकं हृदिसंस्थितम् ।
स्वर्ल्लोकं ह्युरसिज्ञेयं महर्ल्लोकं तु कंठकम् ॥
जनलोकं तालुमध्ये तपोलोकं ललाटके ।
सत्यलोकं ब्रह्मरन्ध्रे भुवनानि चतुर्दशः ॥
पूर्वोक्त विधिमानेन पूजाद्रव्याणि साधयेत् ।
प्. १०९ब्) मृतीबीजत्रयं भूयो मानिनीं शिरसंभवम् ॥
कूर्मरुद्रस्य पुरतोन्यद्वर्णं ऋषिमंदिरे ।
अग्न्यादि बीजमुद्धृत्य गर्थानंतं शिवे न्यसेत् ॥
वसनानंतपुरतो वेचु मध्ये समालिखेत् ।
संवर्तको महादेवि महाकात्यासनस्थितः ॥
अस्य द्वारप्रदेशे च नरके दीपनीं न्यसेत् ।
अर्घाशमासनारूढा वायवे चासने न्यसेत् ॥
क्षेपंचमक्षरं देवि नामादि मस्तकेंगजः ।
वर्णानि पुरतो भूयस्त्री बीजं पुनरे वहि ॥
यथा विद्येयमाख्याता विद्यापंचाक्षरी मता ।
बीजानि तानि चोद्धृत्यरुद्राणां ऋषिमंदिरे ॥
कालोनाममहारुद्रो वामान्तेन विभूषितः ।
मादनं भूतवर्णानि गुणवर्णानि पूर्ववत् ॥
एवमेता महाविद्या तद्वद्भूताक्षरी मता ।
सर्वजापेषु संख्यातमंत्रार्थगुणरूपतः ॥
विधेयं सर्वयत्नेन लक्षत्रयमथा विधेः ।
भ्रूणहा शुध्यते देवि नरः कालेनपीडितः ॥
लक्षद्वादशकैर्विप्रो राज्ञः षोडशसंख्यकैः ।
वैश्यस्तु विंशतिः प्रोक्तो यथास्त्री सुद्रजातिभिः ॥
पूर्ववन्मंडले वत्समनिषिच्यसहस्रधा ।
विमुक्तः सर्वपापेभ्यो स्वेहया च रते मही ॥
ज्येष्ठं कनिष्ठमन्येषां सर्वेषां संयतात्मनाम् ।
तप एवगरीयो भूत्स्वभावश्चात्रकारणम् ॥
ब्रह्मक्षत्रविषस्त्रीषु दीक्षा संस्कारभेदतः ।
जायते शुद्धभावस्तु न धर्मं लिंगसाधनम् ॥
द्विजत्वं न भवेत्वाज्ञा यतः पराशरो मुनिः ।
प्. ११०अ) गर्दभे गर्दभो भूतो व्यासः कैवर्तकी सुतः ॥
मडव्योमांडकी गर्भो ऋषिशृंगो मृगोद्भवः ।
वसिष्ठो गणिकाज्जातो मातंगोपि महामुनिः ॥
हस्तिन्यामवलोजातः कौशिक्यां केशवो बलः ।
कुशापश्च मुरोद्भूतः कौशिकश्च महामुनिः ॥
तैत्रीसुतस्तु तैत्रीयस्तथागस्यो घटोद्भवः ।
विश्वामित्रस्तु चांडाल्यां वाल्मीको म्लेच्छसंभवः ॥
अन्येपि ऋषयः सर्वे द्विजाती भेदगोत्रिणः ।
तेषां यावत् कुलं नास्ति द्विजानां च कुलं गतः ॥
जातिहीनापिते सर्वे तपसा द्विजतां गताः ।
तस्माज्जाति कुलेनैव नमन्ये द्विजतां गताः ॥
न विप्रो विप्रवार्येन शूद्री गर्भोयदान हि ।
प्रातः संध्यादिभिश्चापि मातातद्ब्राह्मणी कथम् ॥
शूद्रोपि शुद्धतां याति विप्रश्चांडाअलतां व्रजेत् ।
संस्कारभाविता सर्वे तपसाधौतकल्मषाः ॥
तस्माद्दीक्षादि संस्कारैः कुर्ययाच्चमथा विधि ।
विधिहीनं न कर्तव्यं विधिना पूर्वचोदितम् ॥
दीक्षितस्यापि दोषेण सापिता विधिना भवेत् ।
भक्तिः शांभवभेदेन चतुर्द्धा परिपठ्यते ॥
निवृत्याद्यन्यबीजाभ्यां पादादि स्थान पंचके ।
ब्रह्माण्डव्यापका रुद्रा संवर्त्तके स्थिताः ॥
तत्वबोध * * * * धा भिन्ने मतपार्वति ।
क्रियामयी च पूर्वोक्त्य कुंडमंडलपुत्रिकाः ॥
चैत्रे दुःखाय दीक्षास्याद्वैशाखे सर्वसिद्धिदा ।
ज्येष्ठे मृत्यु प्रदासास्यादाषाटेवं धुनाशिनी ॥
प्. ११०ब्)
श्रावणे वृद्धिदा नॄणां नभस्ये दुःखदा मता ।
आश्विने सर्वसिद्ध्यैस्या कार्तिकें ज्ञानवृद्धिदा ॥
शुभकृन्मार्गशीर्षे या पौषे ज्ञानविनाशिनी ।
माघे मेधा विवृद्धा स्यात् फाल्गुणे सर्ववश्य कृत् ॥
हैमराजतताम्रादीन् कलशात्रवशोभनान् ।
तद्बहिः षोडशाद्वापि द्वात्रिंशद्विगुणं पुनः ॥
स्वस्तिकं सर्वतोभद्रञ्चक्राब्जं प्राक्समीरितम् ।
दूकूल वेष्टितान् सर्वान् तंतुना त्रिगुणात्मना ॥
हैमरत्नादि गंधाड्यैः पंचामृतपवित्रितान् ।
चक्रमभ्यर्च्य विधिवदष्ट षोडशसंख्यकैः ॥
द्वात्रिंशच्चतुः षष्टिभैरव्यो भैरवागमात् ।
भक्षभोज्यानि सर्वाणि प्रदद्यात्तर्पणानि च ॥
यथोपचारविभवैः संपूज्यानामपूर्वकम् ।
वैकुंठं परशंभुं च परापरमथेश्वरीं ॥
दिव्यादिव्यक्रमं ज्ञात्वा गुरुतः संक्रम क्रमात् ।
क्रमसिद्धेः परंज्योतिर्नित्याने सान्निध्यतां भवेत् ॥
निर्वाणपदसिद्धिः स्याद् देवैरपि सुदुर्लभा ॥
इति श्रीकुब्जिकामते एकपंचाशतितमः पटलः
श्रीभैरव उवाच ॥
शृणु देवि परंगुह्यं विद्याशंकेतसंज्ञितम् ।
ब्रह्माण्डे क्षोभका रुद्रास्तथा विष्णु समुद्भवाः ॥
मालिनी तद्ग्रहग्रंथि चतुःषष्टि क्रमेण हि ।
मातृका सर्वविद्यानामुद्धृतानसुरासुरान् ॥
परापरादि क्रमतः सापिनाना विधा भवेत् ।
देवानां पुरतो देवी नवात्मानं नवात्मिकाम् ॥
श्रीकंठं विन्यसेन् मूर्द्ध्नि संवर्तात्मानमेव हि ।
प्. १११अ) अमृताकर्षिणीन्द्राणी ऐशानीं चंद्रमा पुनः ॥
ऊर्द्धकेशी ऋद्द्धिदारारूषाष्टा न्यसेत् पुनः ।
एकायामथैश्वर्यमोकारीमौषधात्मिकाम् ॥
अंबिकामक्षयां ज्ञानं धात्रीश्चातीमेव हि ।
गायत्रीं घंटधात्रीं च जीर्णात्मा न विन्यसेत् तनौ ॥
चंडाच्छाया जयाभूमौ कंकारी ज्ञानरूपया ।
टंकरस्राथटंकारी डामरी टंकारिणी पुनः ॥
शाकिनी तामसी स्थास्ये दाक्षायण्यथ रात्रिका ।
नादा च पार्वती चैव फट्कारी वंघनीति च ॥
भद्रकाली महामाया यशस्विन्यथवा मया ।
लंबौष्ठि वरदाश्री च घंटा चैव सरस्वती ॥
ताकिनी दसवत्या च क्षयाभूयो इमाः कलाः ।
अन्ते च नमसा देवि देवी वासा च चंडिका ॥
तत्वतो भैरवं देवं सर्वत्रैवं प्रविन्यसेत् ।
धवलामृतसंकाशा न्यस्तव्याः पिडितः ॥
मात्रादंडधरादेव्यो विद्याक्षस्रक्कपालकाः ।
कपर्दकलितामौलौ वलेंदुकृतशेखराः ॥
अथवा देवि कुर्वीत तत्तन्नाम पुरस्सरम् ।
ततः क्रमेणवर्णानि भौतकानि विनिष्क्रमात् ॥
पुनरेव महेशानि ज्ञात्वा विद्याक्ष सूत्रकाम् ।
कैलासमंदिरे देवि आदिवर्णं समालिखेत् ॥
क्रूरवर्णं शिवे न्यस्तं वामांतं भूतिसंभवम् ।
लोकादिमस्तकाश्रांतं शिवेन्यस्तं प्रकीर्तितम् ॥
अनंतंगंधशिखरे श्वेतपूर्वं समुद्धरेत् ।
मध्यासनासीनं निषधे वदसंभवम् ॥
एषा शिरसि विन्यस्येत् पूर्वलोकसंभवम् ।
प्. १११ब्) मुखवृत्तं विजानीयात् मंदरे सूक्ष्ममग्रतः ॥
एकादशे तुरीयांतु तदंते तु ग्रहं न्यसेत् ।
लोकांतं शिरसिक्रांतं विन्यसेद् दक्ष चक्षुसी ॥
पुनःस्त्रिमूर्तिं भौतीशं वामनेत्रे प्रविन्यसेत् ।
दक्षिणश्रवणे देवि अमरीशं समन्मथं ॥
भ्रूवान्ते क्षयं चान्यं श्रवणे वामके विदुः ।
स्थानानि क्रमयोगेन मातृकासुरसुंदरीम् ॥
पुनरन्यं प्रवक्ष्यामि भौतिकं चादिसंभवम् ।
मकरध्वजस्य पुरतोऽनंतागर्थस्य मंदिरे ॥
अन्यस्य पुरतो भूयः सूक्ष्माग्रं बिंदु भैरवम् ।
एवमभ्यस्यतः पुंसः अहन्यहनि भक्तितः ॥
अघौघं क्षीयते वर्षात् तेजसाभास्करो भवेत् ।
शीतले चंद्र तुल्यासौ ब्रह्मविष्णुशिवात्मकः ॥
एवमन्यं सुरेशानि शृणुगुह्यं सनातनम् ।
सुराणामंतरे देवि त्राणं जीवं स भौतिकम् ॥
अक्रूरं मूर्द्ध्नि विन्यस्तं सुरस्थानेषु विन्यसेत् ।
तद्वदच्छेवकरवत् संध्यानेषु तथा पुनः ॥
वेदवर्णाः शिरो देवि त्वत्त्वनालं कृतं भवेत् ।
पांचनामवलांता नामं ते हंसं प्रकीर्तितम् ॥
क्षेत्रमनुग्रहं मूर्द्ध्नि बिंदुनालं कृतं कुरु ।
विंशत्सहस्रभेदेन विद्यैषा परिकीर्तिता ॥
इंद्रगोपनिभां बालां बालेन्दुकृतशेखराम् ।
कुंकुमारुणमुंडस्र ङमंडितामुत्ततस्तनीम् ॥
श्वेतपद्मासनासीनामष्टौकामसरोरुहे ।
अथवा भौतिकीं देवीं संवर्त्तान्तं विन्यसेत् ॥
द्वितीयन्तत्वदेवेह तृतीयमपि पार्वति ।
एतत्कामकलारूपमक्षरं शिरसि स्थितम् ॥
प्. ११२अ)
माया बीजं महेशानि अस्याग्रे रुद्रसंभवम् ।
आदिवर्णान्तभौतीशं रुद्रं चैववरात्मकम् ॥
मालिनी वक्त्रवर्णस्य सूक्ष्मरुद्रं समूर्द्धनि ।
मालिन्यो देवमुद्धृत्य उमाकान्तं तदग्रतः ॥
वशमध्यगतं देवि नरके ऋषिमंदिरे ।
मेषो नाम महारुद्रो रुद्राणामब्धि शंकरे ॥
कालं तेष्वंतमालिख्य लोकांतं चान्तदेशतः ।
एवं ब्रह्मा च रुद्रश्च दुर्गावागन्य देवता ॥
तत्तद्बीजयुतांगानि फट्कारां पंचमीं न्यसेत् ।
अस्त्रान्तनेवमंत्राणि न्यस्तव्या वैष्णवेषु च ॥
मातृ ब्रह्मादि लोकांतं पूजनीयाः पृथक् क्रमात् ।
देवी गोप्यं प्रवक्ष्यामि यन्मया गोपितं पुरा ॥
बीजानीतमसोद्धृत्य हंसाप्तौ सोहमेव च ।
आदि वर्णस्य शिरसि लोकादि मस्तके न्यसेत् ॥
द्विरंडभैरवी देवीं भीषणीं ऋषिमंदिरे ।
ध्रूवांतमासनं दद्यात् अन्तं वान्त देशतः ॥
गुणोंतमक्षरं देवि गृहाण ऋषिमंदिरे ।
अर्द्धमात्रा समायुक्तं देवी बीजं तु केवलम् ॥
वारेन्तं वज्रिणी देवी सूक्ष्मरुद्रविभूषिता ।
ताराक्षग्रहमालायां मोजमध्यासनप्रभाम् ॥
मालिनी चक्रवर्णस्य वाराही रक्तमूर्द्धनि ।
पुनरस्या विदेशे तु मायादि मस्तकं कुरु ॥
कांतरुद्रस्य पुरतो न्यस्तव्या वायुसंभवम् ।
अमरीशांसनारुढा महाकालीनु पूर्विका ॥
भुवोभगो भवेद्भूयो देवस्य पुरतो धनम् ।
ग्रहशक्तिस्तु देवेशि नकुलीशासनान्विता ॥
ऋषिमध्यपुरतो चामुंडा पुरतः स्थिता ।
अंतरे बिंदुरुद्रं हि सिद्धिजोनस्तदग्रतः ॥
प्रचोदयादितिक्षेपा व्यवस्थिता * * * * ।
एषा विद्या पुराजाता ब्रह्म * * * * * * ॥
प्. ११२ब्)
किं चाशाग्रे विधातव्या सारात्सारभवं पुनः ।
ध्रुवान्ते कालमालिख्य अस्याग्रे गंधसंभवम् ॥
पावनी पातु संभिन्ना तेजवर्णो रसो मृतम् ।
ब्रह्मभूत्या तृतीया नामते वै नाम्तो भवत् ॥
ब्रह्मक्षेत्रविशानां हि आद्या ब्रह्मप्रदर्शिनी ।
ब्रह्मविप्रे मुदितानां देवानामपि दुर्लभा ॥
ब्रह्माद्याशांत्यतीता देवतावक्त्रपंचके ।
ते सर्वात्मने सक्त्यं तं स वक्त्राद्यंगषट्सु च ॥
पादादि पिंडमध्येपि विन्यसेत् तत्व चिंतकैः ।
आदि वर्णादि पीतांतं पद्भ्यां लोके पितामहम् ॥
आजानु गुह्यपर्यन्तं विष्णुस्वैं क्रमसंभवम् ।
हृदयाद्ब्रह्मपर्यन्तं रुद्रं कृष्ण प्रभं यजेत् ॥
ईशं विष्णुप्रभं ध्यायेदाकचाद्धृदयावधि ।
धवला मृतसंकाशं तदूर्द्धेशं सदाशिवं ॥
ते तत्रैव समाराध्य फलानीह प्रपेदिरे ।
बीजानि मध्यकोणे च भानुं बिंदुलके न्यसेत् ॥
पादानि तत्वसंख्यानि निंबेचानुगतेन च ।
कुंजरं हंसवर्णेन उद्भवेनैव विष्णुना ॥
रुद्रेणवेष्टितं सर्वं विष्णुनालं कृतं कुरु ।
तन्मध्ये भावयेद्देवीं तन्तु रूपां त्रयी मयीं ॥
त्रिपदां त्र्यक्षरं ब्रह्मविष्णुरुद्रत्रिशक्तिकम् ।
मुखवाहरुपादेषु ब्रह्मक्षत्रविशेतराः ॥
अभयष्टां कुशापाश कपाल त्रिशिखा कुलां ।
शंस्वारं नलिनी भोजमंडनाने कमंडिताम् ॥
कुंकुमारुणमुंडस्रङ्मंडितां पद्मगां शिवाम् ।
सूर्यकोटिसमप्रख्या चंद्रकोटि समप्रभाम् ॥
प्. ११३अ)
कपर्दकलितां मौलौ अतिचंडविसर्जिताम् ।
सर्वज्ञक्रतुमया सूत्रगुणरेखा मनोहराम् ॥
मेखला गुणसंलग्नां कांचीरत्ननितंबिनीम् ।
तर्कवेदागमाश्चापि रणन्मंजीरहंसिनीं ॥
रोमराजी लताविद्युद्वलयांगदकुंडलां ।
देव्यासुरमनुष्याणां ऋषिणां च महौजसां ॥
वानेतरत्कुशाकीर्णं मौलिमालाभिरक्षिताम् ।
भास्वरां प्रियगां देवीं वर्तुलां युगमंथराम् ॥
जितकंदर्पलावण्यवंधुरामृतवर्षिणीम् ।
कुट्टिमे हैमरत्नाघे लताकल्पमहीरुहे ॥
आसीनां शंभवेशानीमर्चयेदीक्षितो निशम् ।
शक्तिं वसने त्यादि भगवती पादुके पुनः ॥
ऋग्यजुः सामरूपायै तत्स्था भरणमुक्तये ।
ज्ञानशक्ति नमस्तुभ्यं वराशिरमे शिवे ॥
आदित्यं भास्करं भानुं देविं प्रागादि दिक्षु च ।
उमाच्छाया प्रभा नित्या प्रमातृ वर्गदेवताः ॥
तामसी च सरस्वत्या वरदा भावका ह्वया ।
वरेण्या वा मया भूयो शाकिनी भद्रकालिकां ॥
गायत्री देवकीरामा शाकिनी रात्रिकां पुनः ।
महाकाली हिरण्या च श्रीमही च यशस्विनी ॥
योगात्मिका तनुस्था च वर्णाद्या रुद्रपूर्विकाः ।
नारायण्या प्रभावद्या चंडादाक्षायणी यमाः ॥
मातृका वर्णबीजाद्या ब्रह्माताश्च सुरेश्वराः ।
कषाफलादिनीग्माद्यैः पूर्वोक्त क्रमतः क्रमात् ॥
पलाशारग्वधो शीर्षपुष्पं काश्मनमेव च ।
वर्णपूतजपो पाथतल्लक्षात्सर्वमाप्नुयात् ॥
विश्वामित्रः पुरादेवी अस्या विद्या प्रभावतः ।
प्. ११३ब्) ब्रह्मत्वत्तपसाजग्मुः अन्ये चापि तपो धनाः ॥
जनाभा सेयं मया तस्य सर्वपापनिकृन्तनी ।
अथ गुह्यं प्रवक्ष्यामि शृणु देवि प्रयत्नतः ॥
आदि विद्या विभेदेन विभजेत्तत्वसंख्यया ।
द्वितीयां ते तृतीयादौ विन्यसेदष्टमाक्षरी ॥
विष्णुं समुद्धरें ङेन्तं पदेषु त्रिपदानि च ।
द्वितीयं विष्णुरुद्राद्यौ आदौर्चानंतमेव च ॥
अवादेवि प्रकुर्वीत स्रजं विष्णुहरं त्रिषु ।
श्लोकानि तानि विन्यस्य पंचस्थानेषु वा पुनः ॥
एवमेव तथातां हि लभ्यंते गुरुतोऽनिशं ।
वामान्तं भौतिकं क्रूरमाह्निकं दशशक्तिकम् ॥
कामाज्ञानं च तस्याग्रे पंचांगं बिंदुमस्तकम् ।
महीने च पुनं ते च मानिनी वामनेत्रज ॥
यानोंतमुद्धृत्य मध्यस्थं समादिं मस्तके न्यसेत् ।
दीपनीं मूर्द्धि दातव्या प्राणजीवसि भौतिकम् ॥
लोकांत्तं शिरसाक्रातं च्छगलंडं स दीपनीं ।
पुनरेतौ स वाजीशं मादनं सर्वलोकतः ॥
कलसा मस्तके देवि वामादि मूर्द्ध्नि विन्यसेत् ।
खड्गीशं नवके देवि चारेंतं शवकं भवेत् ॥
मानवाद्य वधूर्वर्गे चंडिकां मानवाक्षराम् ।
आदौ चांते स देविभ्यामंते वै पार्थिवं न्यसेत् ॥
पदानि पदविन्यस्य मातृका वर्गसंख्यया ।
अंगानि दशषट्कं वैकं बाहुमध्य पादयोः ॥
भूतवर्णं समुच्चार्य हृदयेथगणाधिपम् ।
गणेशं कुतुवर्णेन शिवे न्यासंसदा * * ॥
तपेरस्तु तथादेवि गणनाथं प्रकीर्तितम् ।
तद्वक्त चयमित्युक्तमेकदंताय वै पुनः ॥
पंचाक्षरं लंबकर्णं नेत्रेषु पुरतो न्यसेत् ।
प्. ११४अ) रक्ततुंडाय बीजानि हूं फट् स्वाहास्त्र दिङ्मतम् ॥
न्यस्त्वा देहस्य सन्नाहं मूर्तिशक्त्यादि शक्तिकीम् ।
पंचाशन्रागचक्रं च भूतवर्णसमप्रभम् ॥
नागयज्ञोपवीतं च पुष्पासंपुष्टविग्रहम् ।
निविष्टपुष्करं तत्र पुष्पामदनमंदिरे ॥
उदकं विष्णुरासीनां शिरस्य शर्करांबुजाम् ।
शंखचक्रशरंशूलं बीजपूरं विषाणकम् ॥
गदाब्जमुत्पलाशं च त यत्क्रूरपंकजम् ।
शक्त्यादि वममूद्धृत्य शक्त्यन्तं गणपतिं न्यसेत् ॥
मातृकोक्त विधानेन गणेशान् शक्तिका न्यसेत् ।
सम्यगभ्यर्च्य विद्यानां प्राप्नुयादक्षयं फलम् ॥
नाभिमध्येस्य पुरतो देवी बीइजं तदग्रतः ।
आकाशमंदिराधस्थं पूजनासनमालिखेत् ॥
संवर्तान्ते स्थितं बीजमक्रूरं शिरसि न्यसेत् ।
पंचांतको महारुद्रोर्थिमुमध्ये व्यवस्थितः ॥
महत्तत्व * * देवि गणपतिसमन्वितम् ।
क्षेत्रमध्ये महेशानि मानिन्यामाहशंकरम् ॥
मंदरस्थं विजानीयाल्लोहितं रक्तमूर्द्धगम् ।
पुनस्तं बीजमादाय शुक्लं सतभूषितम् ॥
धात्रीशं पुरतो देवि मानिन्या शिवसंभवम् ।
तस्याग्रे गंधशिखरे अनंतं मूर्ध्निविन्यसेत् ॥
त्रिस्थाने स्वादिबीजं हि न्यस्त्वाधस्थं वधूं पुरः ।
हूं फट् नमश्च वौषड्व त्रिविधं न्यस्त वर्तुलः ॥
चंडिकारा च मा बीजं स्थाने स्थाने नियोजयेत् ।
अथान्यं संप्रवक्ष्यामि शृणु देवि यथाक्रमम् ॥
विष्णुरुद्रश्च पुरतो स्वर्घांडं विष्णुसंभवम् ।
प्. ११४ब्) धारांते निस्तरे देवि ङोवु मध्ये वरानने ॥
अपनीवरकेदंतमंबिकां पूर्ववत् पुनः ।
रुद्रान्तं सद्यमालिख्य धर्मरुद्रस्य अग्रतः ॥
भाषणी रुक्षषि गेहे वज्रमध्यं तु भूषिता ।
पुनरेवमहेशनि दीपनीमेवसंभवं ॥
याते उरुमध्यस्थ र ऊर्द्धे योनिमालिखेत् ।
अभूपतित्वं च * * महाकालस्य मूर्द्धनि ॥
कामादि विन्यसेत् तद्वद् धात्रीशं प्राणसंभवम् ।
गुह्यशक्तिसमोपेतं ददापय स चंडिकां ॥
सूतिबीजद्वयं भूयो व्यत्पयेनापि चोद्धरेत् ।
वर्मरुद्रस्य पुरतो लोहितं गंधमादने ॥
रुतांतमग्नतः कृत्वा द्विस्थाने धात्रिसंभवम् ।
सूक्ष्मो नाममहारुद्रो अंबिकासनसंस्थितः ॥
दहनीबीजमुद्धृत्य रागादिं मस्तके न्यसेत् ।
तद्वद्देवीं महाकालीमग्नतः क्रूरसंभवम् ॥
वाअरुणेर्द्धे तु ताराक्षीं पुनस्तां सूक्ष्मभेदितम् ।
रुद्राणीं नवके भूयोरु अन्तं गंधसंभवम् ॥
लोहितास्तरुहार्णं च वरायते समालिखेत् ।
पानोमेध्यगतं देवि व्याकृतंत्वविलोमतः ॥
धर्माग्रेण तमालिख्य चणो मध्यं तु केवलम् ।
पुनरस्यादि बीजं हि अनंतं रक्तसंभवम् ॥
आमोडीक्षीरमध्ये च मेषांते चांतचर्म च ।
रक्तरुद्रासने देवि अनन्तं विन्यसेत् पुनः ॥
मूलदंडासनारूढं शुक्लप्राणं समुद्धरेत् ।
शुभवर्णं महाकालं रुद्राणां ऋषिमंदिरे ॥
वाराहं पार्थिवं रुद्रं विष्णं ब्राह्मणमेव च ।
एवमेव क्रमं देवि तथान्यदपि पूर्ववत् ॥
प्रथमं हृदयं देवि विष्णवे हृदयं न्यसेत् ।
प्. ११५अ) द्वादशार्द्धं शिवाज्ञेया भूयो धर्मस्तथा भवेत् ॥
अस्त्रं हरति सर्वत्र दशचैकं प्रकल्पयेत् ।
ब्रह्माद्याशाश्वतीनान्ता भूतार्णाः पूर्वसंभवाः ॥
पादानि दशभूतानि तत्तत्स्थाने स्रुतानि च ।
पंचभूतसमप्रख्यमयुतार्कप्रभामिव ॥
आयुधानि विचित्राणि विचित्रा भरणानि च ।
सर्वक्रतुमयं सौम्यमष्टमेस चतुर्दले ॥
निबंद्धे च त्रिकोणे च सिंहादिमंत्रं विन्यसेत् ।
षोडशे मातृक्वावर्ण योगोवैदर्भ एव च ॥
वर्णान्तत्रगतोर्द्धं वै पार्थिवान्तं सुरेश्वरि ।
कोलवक्त्रं विशालाक्षं मर्त्यलोका वधिस्थितम् ॥
तस्यार्द्धं वक्त्रदेशे तु पद्भ्यां लोके पितामहम् ।
योगीश्वरीं चकुकारे श्वासे प्राणं समर्चयेत् ॥
ककुटस्य पथे देवि संपूज्यौदिति चाश्विनौ ।
हृदये च महाविष्णुं रविशशि दक्षवामके ॥
भुजेकुक्षौ च वशखौ दंष्ट्राग्रे च वसुधरा ।
सर्वदेवमयं देवं साक्षाद्ब्रह्मस्वरूपिणम् ।
शंखानि खेटखड्गं च पाशांकुशगदाधनुः ।
अथवा नीलजीमूतप्रभार्का युतभास्करम् ॥
धवलामृतशोभाढ्यमानंदभरितं हरिम् ।
अस्य सव्यापसव्ये तु अहं ब्रह्माग्रतो विषं ॥
अनन्तं पश्चिमे यस्मान् मूर्ताद्या अंगपूर्विकाः ।
प्रागुक्तविधिना चाथ वर्जयित्वा वसुंधराम् ॥
पद्मापद्मकरामंकविष्टरं पीतभास्वरम् ।
तत्तन्मंत्रेण संपूज्य नारसिंहं महाबलम् ॥
जितषड्वर्गशुद्धात्मा स्वधर्मनिरतो जनः ।
ऋजुमध्यगतं देवि नभोमध्यगतां शिवाम् ॥
प्. ११५ब्)
रक्तभैरवमारूढां तस्याग्रे वेदभैरवम् ।
शुभशक्ति समोपेतं भुजंगक्रूरमग्रतः ॥
महाविष्णुं तमुच्चार्य ज्वलन्तं शक्तिमग्रतः ।
मेदंरक्तसमारूढं ताराक्षी पातु भेदिता ॥
आस्यते संपदं भूयो सहस्रारज्ञमस्तकम् ।
नारायणं चतुर्थं च तस्याग्रे यादृशं शृणु ॥
नारसिंहं पुनर्देवि भीषणं भीषणं पुनः ।
कात्वमध्यं तु धात्रीशं रक्तरुद्रं स बिंदुकम् ॥
मृत्युं च पुरतो देवि गुणोंतं मेषसंभवम् ।
भे च मध्ये समुद्धृत्य गंधानंतं शिवे न्यसेत् ॥
महाकालं समुद्धृत्य वे वु मध्यसने स्थितम् ।
अस्याग्रे अंबिकाबीजं वामांतं च त्रिबीजकम् ॥
एवमन्यानि बीजानि बाह्या येन यथा भवेत् ।
द्वात्रिंशति प्रभेदेन अस्या देव्या यथा क्रमात् ॥
ज्ञातव्यं पुरतो देवि रहस्यन्ते वदाम्यहम् ।
न च भागविभागं च देवानामपि दुर्ल्लभम् ॥
आदि विद्या विभेदेन एवं देवि नवानवी ।
द्वात्रिंशदक्षरी विद्या आदि प्रस्तावसंयुता ॥
इति श्रीकुब्जिकामतेत्रिपंचाशतितमः पटलः
श्रीदेव्युवाच ॥
वंद्यास्मि देवदेवस्य सफलं जीवितं मम ।
पूर्वोक्ता या महादेवी सर्वपाशनिकृन्तनि ॥
न तदस्या क्रमेदेव यथावेद्मि पुनः पुनः ।
सर्वागमेषु तंत्रेषु गोपिता सर्वकामदा ॥
मार्तण्डभैरवे देव तथा च त्रिपुरार्णवे ।
सर्वसंमोहने तंत्रे रुरुभेदे च यत्नतः ॥
इदानीं श्रोतुमिच्छामि सा विद्या संप्रदायतः ।
आपुरपत्नीसामाया दृष्टादृष्टफलप्रदा ॥
प्. ११६अ)
वक्तुमर्हसि देवेश यदि तुष्टोसि मे प्रभो ।
अघवामक्रमेणैव गेहमध्येसु विस्तरम् ॥
श्रीभैरव उवाच ॥
साधुपृष्टं महादेवि पुरा वै श्रवणेन तु ।
ब्रह्मणा वासवे नाथ विष्णुना च महात्मना ॥
वागीशेन तु शुक्रेण सम्यगाराधिता सती ।
सा विद्या परमा देवि विष्णवे प्रोक्तवानडं ॥
सांप्रतं कथयामीयं शृणुष्वायतलोचने ।
पूर्वोक्तक्रमतो विद्वान् स पूज्यश्रीक्रमं गुरुः ॥
गोरोचनादिभिर्द्रव्यैर्लिखित्वा शुद्धभूतले ।
मेरुं तत्र महादेवी मातृका संयुतं तथा ॥
पंचप्रणवयोगेन तद्ग्रहेण च मातृकाम् ।
विन्यस्य विधिवद्भूय उद्धरेन्मंत्रमुत्तमम् ॥
पंचप्रणवसंयुक्तं तदुद्धारं पुरोक्तवत् ।
नवात्मान्तरितं कृत्वा जपकाले जपेन्नरः ॥
प्रणमामि महादेवीं सर्वविद्यात्मरूपिणीम् ।
व्योमगां गजमध्यस्थां योन्याकारां नवांविकाम् ॥
मांकुर्वे? तु योगिन्यो भुवस्थान्म?घषिष्ठिताः ।
उद्धरिष्यामि तां विद्यां शृणु तत्र प्रयत्नतः ॥
कैलासमंदिरे देवि श्रीकंठो नामनामतः ।
आदिवर्णं विजानीयात् त्रैपुरे भवत्विदं ॥
क्रूरवर्णं शिवेदत्तं मंदरे तु ततः परम् ।
भूतमध्ये चतुर्थं तु शंखिनी यत्र संस्थिता ॥
तमाधाय च मेधावीरुपूर्वेण समन्वितम् ।
द्वितीयं तु वरारोहे तृतीयं तु ततः परम् ॥
मंदरे ऋषिमालायां ते पूर्वं केवलं भवेत् ।
ततोर्मध्यगतं देवी पंचातं यत्र भैरवम् ॥
चतुर्थं केवलं विद्याच्चतुर्थं वारुणं भवेत् ।
भगमध्यगतं गुह्यं मंदरे सूक्ष्मसंयुतम् ॥
प्. ११६ब्)
षष्ठं तं तद्विजानीयात् सप्तमं चाष्टमं शृणु ।
त्रिस्थाने हंसवर्णौ तुकांभवान्ताग्नि बिंदुमत् ॥
प्रथमे वर्णसांकल्पे ज्ञानशक्ति विभूषितम् ।
द्वितीये वर्णसकले शवारुढं सुरेश्वरि ॥
करालीवर्णमुद्धृत्य पूर्वं यंत्रसंस्थितम् ।
ध्रुवादिवर्णसंयुक्तं नवमंदशमं ततः ॥
मंदरे भूतमालायां च्छागलं शिखिवाहिनीं ।
बिंदुमध्यासनारूढं सूक्ष्मरुद्रेणसंयुतम् ॥
क्रोधवर्णं समुद्धृत्य नूपुरेणसमन्वितम् ।
एकादशं महादेवी हंसवर्णौ पुनः पुनः ॥
त्रिस्थानेषु समुद्धृत्य क्रूरवर्णविभूषितम् ।
प्रथमेनतमंयुक्तं द्वितीये मूर्तिसंयुतम् ॥
तृतीये तु ध्रुवांतं च त्रिस्थाने दीपनी युतम् ।
पुनः श्रीकंठनामानं देवी पंचदशाक्षरी ॥
विश्वमध्ये शिवस्थाने रु पूर्वं गंधमादने ।
रुद्रवे च रुद्रमालायां गायत्र्या च समन्वितम् ॥
भुजंगभैरवी देवी दीपनी यत्र संस्थिता ।
कैलासे वाममध्ये तु आदिवर्णेनसंयुतम् ॥
पुनरेव महेशानी घोरेति पदसंभवेत् ।
पुनः श्रीकंठमुद्धृत्य घोराशब्दं न संशयः ॥
कालो नाम महारुद्रो भे च मध्ये व्यवस्थितः ।
ध्रुवादिवर्णयोगेन त्रयोविंशं न संशयः ॥
ठठि मध्यगतं देवि चतुर्विंशाक्षरो भवेत् ।
एकादशे ऋतुस्थाने च्छागली यत्र संस्थिता ॥
भुजंगभैरवारूढा दीपनी यत्र संस्थिता ।
प्. ११७अ) अनंता क्रूरसंयुक्तं तत्त्वसंख्या न संशयः ॥
शूलश्च च्छागली देवी दीपन्या सूक्ष्म बिंदुका ।
एकादशादि वर्णं च मायादेवी युतं कुरु ॥
नारायणी मर्त्यदेवी सूक्ष्मरुद्रेण मंडिता ।
अष्टाविंशति वर्णोयं क्रोधसूक्ष्मविभूषितम् ॥
पुनर्नारायणी देवी सूक्ष्मरुद्रविभूषिता ।
वाममध्यगतं देवी वज्रिणी यत्रसंस्थिता ॥
सूक्ष्मरुद्रेण संयुक्तारायुक्ता च द्विधा कुरु ।
कैलासे ऋतुपूर्वेण युक्तं रा * सुरेश्वरी ॥
द्वात्रिंशदक्षरी देवी वर्णरूपा व्यवस्थिता ।
एवं देवि मयाख्यातं आम्नाये पश्चिमे तरे ॥
करांगन्याससंनद्धं वक्त्रन्यासमतः परम् ।
वर्णन्यासं ततो देहे मातृका शब्दवत् ॥
त्रिविद्याद्योर्याष्टकं तु षोढान्यसासं तु देशिकः ।
यथा देवी पुराप्रोक्ता विस्तरेण शुविद्यया ॥
पीठन्यासं ततो देवी सप्तविंशतिसंख्यया ।
संपूज्यश्रीक्रमान्नाथान् पादुकापङ्क्ति संयुतान् ॥
यथोपचारसंयुक्तपुष्पगंधाक्षतादिभिः ।
पीठाष्टकं ततो देवी बाह्येष्टकं क्रमात् ॥
समयाचारयोगेन दत्वा कर्णसमुत्तमम् ।
मुद्रां बधानिरालंबां क्षमस्वेति विसर्जयेत् ॥
स्थित्वा तदग्रतः सम्यक् सहस्रं चाष्टकं शतम् ।
एवं ज्ञात्वा वरारोहे ध्यानगम्यामतींद्रियाम् ॥
ध्यात्वातामिंदुसंपूर्ण वदनां भोजमंडलाम् ।
पंचवक्त्रां दशभुजां पिनोन्नतपयोधराम् ॥
रहस्यानां रहस्यं तु गोप्यानां गोप्यमुत्तमम् ।
पावनः पावनीनां च मंगलानां च मंगलम् ॥
प्. ११७ब्)
इत्युक्तं क्रमयोगेन कथितं च सुरेश्वरि ।
अथान्यं संप्रवक्ष्यामि स्वगोप्यं देवि दुर्लभम् ॥
विद्याद्यभेदभिन्नस्तु संक्षेपात् कथयामिते ।
पूर्वं देवासुरे देवि मध्यमाने महार्णवे ॥
असुरैर्निर्जिता देवा रविशक्र पुरोगमाः ।
तस्मादागत्यसर्वे ते यत्राहं स्थितवान् प्रिये ॥
प्रणम्यकायवागभिस्तु यथा वृत्तं न्यवेदयत् ।
इंद्रस्तु गुरुणासार्द्धं वेपमानः सुदुःखितः ॥
ततः प्रसन्नचित्तोहं वीरश्रीविजयप्रदम् ।
भोगदं मोक्षदं चैव वाक्प्रदं शिवदं शिवम् ॥
ज्ञानदं राज्यदं देवि खड्गपातालसिद्धिदम् ।
अष्टैश्वर्यखेचरत्वं स्वर्गकामफलप्रदम् ॥
बहुनोक्तेन किं देवि सर्वकामफलप्रदम् ।
इदं विचिंत्य बहुशः सर्वदेवमयात्मकम् ॥
मनुमंत्रं द्वात्रिंशदर्णघं कौले पश्चिम दिक्यते ।
अथविद्यामयाख्याता कृत्तिकाकुलनायिका ॥
परापरविभागेन विद्यात्रैलोक्य मोहिनी ।
प्रोक्ता सा तु महेंद्राय गुरवे देशिकोत्तमः ॥
पारंपर्यक्रमायाता त्रिप्रभेदा महेश्वरी ।
पर्यः शक्ति समुद्दिष्टा पारं शिवमिहोच्यते ॥
परौघं प्रथमं देवि दिव्यौघं तदनंतरम् ।
दिव्यादि तृतीयं च गुरुः सर्वत्रमागताम् ॥
ब्रह्माणं कायशुद्ध्यर्थं वाक्शुद्ध्यर्थं जनार्दनम् ।
मनः शुद्ध्यर्थकं रुद्रं त्रिशुद्धिं सर्वदा यजेत् ॥
उलक्रमं तु विज्ञेयं मध्यज्येष्ठं शेखरम् ।
भक्तानामेव रक्षार्थं यथावत्कथयामिते ॥
अपि सर्वागमज्ञस्य पूर्वाचार परस्य च ।
प्. ११८अ) ओलित्वा न विहीनस्य प्रणामं नैवकारयेत् ॥
प्रणमामि महादेविं ब्रह्माविष्णीश सेवितां ।
सिद्धचारणसंघैश्च पन्नगैः स सुरासुरैः ॥
सृष्टिस्थिति लयं अस्यां वंदेतां कुलकुब्जिकाम् ।
एवं भूतां तु तां विद्यामुद्धरेन्मेरुमध्यतः ॥
पूर्ववत्समयं देवि संपूज्य च कुलक्रमम् ।
मंदरे ऋषिमालायां यत्र संस्थिताम् ॥
प्रथमं देवि विज्ञेयं तनोर्मध्यं द्वितीयकम् ।
वाममध्यं तृतीयं तु भागमध्यगतं पुनः ॥
माया देवि समायुक्तं मेदरे च चतुर्थकम् ।
वागीश्वरी वलोकांते पंचपंच न संशयः ॥
च्छागलीं भूतमध्ये तु शिखिनीं कर्णमध्यतः ।
कैलासं मंदरे देवि सपूर्वेण समन्वितम् ॥
सष्ठं तं च विजानीयात् सप्तमं चाष्टमं शृणु ।
नवात्मानं ततोद्धृत्य भूयस्त्वं परमेश्वरि ॥
सासिमद्यगतं बीजमंविकास्थानगं कुरु ।
त्रिमूर्तिभैरवं देवि पूर्वनिषधालये ॥
शिवप्रदेशसंभिन्नं कुब्जिकेति सुरेश्वरि ।
हंसवर्णं त्रिधा कृत्वा सृष्टिस्थितिलय क्रमात् ॥
त्रिविधोपि समायुक्त कांतधार्णाग्नि बिंदुकम् ।
अनंतेन शिवोभिन्नं सृष्टिबीजं तु मध्यमे ॥
पूर्वं निषदार्णेनभिन्नं संहारकं पुनः ।
ध्रुवांतं देवि संयुक्तं दशगौकं न संशयः ॥
कर्मरुद्रं ततो देवि चामुंडा ऋषिमंदिरे ।
केवलंतं समादाय विलमध्य गतं प्रिये ॥
महाकालं केवलं तु भे च मध्ये व्यवस्थितम् ।
एकादशे क्रोधवर्णं कलाली तत्र संस्थितम् ॥
प्. ११८ब्)
ध्रुवादि वर्णसंयुक्तं बिल्वमध्यगतं पुनः ।
ज्ञानशक्तियुतं देवि कैलासे रत्नमंदिरे ॥
कूर्मरुद्रं समारभ्य कुलपंचाक्षरी युतम् ।
पुनरेव महेशानि आदि उद्धारयोगतः ॥
एकोनविंशद्यर्णोयं श्रीकंठस्त्वत्रविंशतिः ।
एकादशे तु घोराख्या स पूर्वं गंधमादने ॥
सद्योजातेनसंयुक्ता गायत्री यत्र पार्वति ।
नरके शूलदंडं च भुजंगो नाम भैरवः ॥
अनंतेन शिवोभिन्नं द्वात्रिंशद्गंधमादने ।
महाकालं पुनर्देवि ध्रुवाद्यासनसंस्थितम् ॥
ठ्विमध्यगतं गृह्य गायत्री संख्यकोक्षरं ।
हंसवर्णं द्विधादेव सृष्टिस्थिति विभेदतः ॥
ध्रुवाद्यवर्णं देवेशि च्छागलीनामनामतः ।
शूलदंडासनारूढं अनंतंगंधमादने ॥
अक्रूरेण शिरोभिन्नं आद्यहंसे सुरेश्वरि ।
द्वितीये च्छागली देवी शूलडंडं त्रिमूर्तिना ॥
वर्णावेतौ सुरेशानि त्रैलोक्य वशमानयत् ।
करालि वर्णमुद्धृत्य ध्रुवादीति पदं भवेत् ॥
वर्णावेतौ पुनर्दीप्ता तारमध्यं तु सूक्ष्मकम् ।
मंदरे ऋषिमध्यौ च चामुंडा कूर्मभैरवः ॥
द्विधा च प्रोच्चरेद्देवि कैलासे वाममंदिरे ।
ज्ञानशक्तिसमोपेतं रु पूर्वं तं न संशयः ॥
सारात्सारतरं चैव गुह्याद्गुह्यं मयोदितम् ।
पूतप्रवणकं चाथक्रमोत्क्रमगतं भवेत् ॥
प्राग्भवं हंसवर्णं च शक्तिबीजे तथा भवेत् ।
मा बीजेव तथा देवि हंसाधः क्रमयोगतः ॥
मंडिशो भैरवस्तत्र कांतपाताग्नि बिंदु युक् ।
पुनश्चान्याथ देवेशि वारुणं विनियोजयेत् ॥
एवं भेदैः क्रमैर्वापि मातृकामंत्रसंपुटैः ।
प्. ११९अ) न्यस्वादौ तद्गृहिन्यासादूर्द्धप्राग्दक्षपश्चिमम् ॥
उत्तरं वक्त्रकं चाथ अर्द्धवर्णं ततो न्यसेत् ।
पूजा ध्यानं च संदिष्टं यथापूर्वं न संशयः ॥
षण्मासाभ्यास योगेन साधकोमत्समो भवेत् ।
इद्रमग्निं यमं रक्षं वरुणं विश्वगं शशिम् ॥
ईशानं पूजयेन् मध्ये देवी सप्ताष्टकं ततः ।
धर्मादि प्रेत पर्यन्तं पंचपंचेति भेदतः ॥
पुनः षोढाप्रभिन्नेन अष्टाविंशक्रमेण तु ।
योनिमध्यगतं लिंगं योन्यो देव पुटी कृतम् ॥
तन्मध्ये वामनो रूपं लक्षयेच्च पुनः पुनः ।
मध्ये मंथानयोगेन कालाग्नि ज्वलिते किल ॥
मधनाच्छिवशक्तिस्तु तदानंदः प्रजायते ।
निश्चलत्वं भवेद् देवि शिवशक्त्यो भवेदतः ॥
तेनामृतेन चात्मानं प्लाव्यमानं विचिंतयेत् ।
एतत् तु परमं दिव्यं परमानंदलक्षणम् ॥
एतत् ते माणिपूरस्य रहस्यं प्रकटीं कृतम् ।
गोपितं तं च मंत्रेषु लक्ष्मी तुल्यं प्रकाशितम् ॥
दुर्लभं सिद्धमार्गस्य किंपुनस्त्वितरेषु च ।
उक्तकालेन सिद्ध्यन्ते अवश्यं नादृतं वचः ॥
किंतु ज्योतिर्लताकारं चक्रमार्गस्य मध्यगम् ।
यद्वा महात्रदेवानां वंदेतां शांभरी मजाम् ॥
दध्राप्रेमाणतायाभिः प्रयक्षफलदं यतः ।
सर्वागम विरोधेन न नित्यं योगिनी महम् ॥
प्रवृत्ते भैरवी तंत्रे सर्वे वर्णा द्विजातयः ।
निंवृत्ते भैरवी तंत्रे सर्वे वर्णाः पृथक् पृथक् ॥
इत्येवमेव देवेशि रहस्यं प्रकटी कृतम् ।
भक्तियुक्ता यदातव्यं त्वया सर्वत्र नंदिनि ॥
प्. ११९ब्)
लक्षं यतो जपस्तेन तदर्द्धस्तु हतक्रिया ।
मनसो वीश्वरोर्द्धेसि वसुदेव * * * * ॥
विद्येयं परमेशानि सर्वकामदुद्या भवे ।
सप्तकोटीश्चरी देवी त्रिलक्षात् सिद्धिभाग्भवेत् ॥
स्वाहा शीर्षके सञ्जिते ङे वाहसंक्ष्रें ह्रीं ह्रां जुहातेजसंकर्षणी
नामा विद्या सघ फलप्रदा ॥
हास्वामनां क्रटोक्षु वोप्रचोहंकं ह्रीं ओं ऐं जुः सः हवीश्वनयेत्व
मनाकशीर्षकं स्वः यनोहंसं ह्रीं रुः स्वं उ
इति श्रीकुब्जिकामतेत्रिपंचाशतितमः पटलः
श्रीदेव्युवाच ॥
भगवत्सर्वधर्मज्ञ विश्वकारणकारण ।
नवकोटिप्रमाणेन यदुक्तं कुब्जिका मते ॥
उत्पन्नं मम विज्ञानं निर्वाण पदसिद्धिदं ।
अनेको वासनाख्येहं भवतामेद्य विस्तरात् ॥
पुनः पृच्छामि तज्ज्ञानं व्रजेन्मुक्तिं च शास्वनीम् ।
शैवे च नाकुले पंचकल्पवेदादि निर्गतम् ॥
पंचरात्रादिराद्धांतं ज्ञानं निर्वाणदं परम् ।
ब्रह्मत्वं तपसाजग्मुर्ये नैते च तपोधनाः ॥
अत्र ते दर्शयिष्यामि तेभ्य उद्धृत्यसंवनात् ।
देवा अपि न जानंति किं पुनस्त्वितरे जनाः ॥
सदाशिवान्ता वर्णाद्यास्तनु स्थानेषु विन्यसेत् ।
शिवं हकारमित्युक्तमौंकारः शक्तिरुच्यते ॥
बिंदुनादात्मकौतद्वदुकारं बिंदुमस्तकम् ।
श्रीकंठं पुरतो न्यस्य अस्यादिश्चांत देवताः ॥
वामांतं विन्यसेन्मूर्द्ध्नि मालिनी शिरसंभवान् ।
आदधेत्तं मध्यमं च मानिनी प्रथमं पुनः ॥
दीप्ताय पुरतो देवि श्रीकंठस्यांत देशतः ।
मेरुरुद्रस्य अग्रे तु रुतांतं गंधसंभवम् ॥
खिंनमध्यं समुद्धृत्य एष तस्या सनं भवेत् ।
प्. १२०अ) देववर्णं शिवेदत्तं चिह्नमध्यं समेदकम् ॥
गंधानंतेनसंभिन्नं मांसं तस्या ततो ददेत् ।
रूपिणे च पुनर्देवि अत ऊर्द्धं च यच्छृणु ॥
आनंदा ह्यपदं भूयः प्राणरुद्रं तु केवलं ।
मेदोनाममहारुद्रः शुभे भक्त्यासमन्वितः ॥
रुद्राणां नरके रक्तं रक्तरुद्रासनस्थितम् ।
तयोर्मूर्द्धि प्रदातव्यं मंदरे सूक्ष्मसंभवम् ॥
भागमध्यगतं देवि ताराक्षीं केवलं विदुः ।
सासिमध्यगतं शुक्ल कालं वापं च मं पुनः ॥
ज्ञानं च पुरतो देवि रक्तस्योपरि लोहितम् ।
सूक्ष्मरुद्रस्थितं कुर्ययाच्छक्रस्योपरि पार्वति ॥
धात्रीशं कांतमध्ये तु कालं वामानु मूर्द्धगम् ।
ब्रह्मचारी जितक्रोधी व्रतचर्या समन्वितः ॥
स्वच्छः स्वच्छांवरः स्रग्वी नन्क्ताशी सुदृढव्रतः ।
ध्यानं कुर्यात् त्रिषुस्थाने ध्यानः शुक्लविस्तरे ॥
इदुं गोक्षारकुंदाभं देवदेवं जगद्गुरुम् ।
अनन्तेन समवावद्ध कक्षैकविचरं शिवम् ॥
अहं वद्धजटामौली शरच्चंद्रविराजितः ।
अनंता वेष्टितं वामे न कुटं सुमनोहरम् ॥
नानामालागणैः कॢप्तां दक्षिणे वर्णमालिकाम् ।
पंकसूत्रमनंतं हि पुंडरीकाजिनां चरम् ॥
पद्माशनं शिवं शांतं स्वच्छंदगतिरीश्वरम् ।
स्वचोक्तानि षडंगानि षट्पदानीहतन्तया ॥
द्वात्रिंशदक्षरां देवि पिडमध्ये च विन्यसेत् ।
उमादुर्गाप्रभासत्या चामुंडाहंस्यापि पासिनी ॥
विजया विरजा विश्वा जया च सुमुखेश्वरी ।
वामाज्येष्ठा च रौद्री च अंबिकेच्छा भयप्रदा ॥
प्. १२०ब्)
दाक्षायणी सुरानंदा भद्रकाली कुलांगना ।
कुलशाभा महादेवी हृल्लेखा गगनासती ॥
रक्ताकरालिकाभूयो महासूक्ष्मा सरस्वती ।
संहारवो नाम महाकालासनस्थितः ॥
पावकेनार्द्धसंयुक्तो वायुवेगासुसंयुतः ।
अनुग्रहशिवेपेतः स्वयं पूर्वापरे तु गम् ॥
तत्तत्स्थानेषु तक्षेत्र विद्याबीजानि संस्थितः ।
पूर्वपंचार्णवत्कुर्यां शेषमन्ये सुरेश्वरि ॥
दूतीशस्याग्रतो देवि चात्मनि समालिखेत् ।
आकाशमंदिरे घोरे ग्रहाणामुत्तमं शिवे ॥
मूर्द्ध्निबिंदुपुतं कुर्यान् मानिन्या उरुसंभवम् ।
शुक्लं हृदयमध्यस्थं मध्यभागं तदग्रतः ॥
वागीशमासनं दृद्यादक्रूरं शिरसि न्यसेत् ।
परंब्रह्मपदं देवि पुरुषं कृष्णमेव च ॥
पामो मध्यगतं भूयः शुष्मं क्रूरस्य मूर्धगम् ।
शिवां च विलमध्यान्त भैरवं बिंदुमग्रतः ॥
ध्रुवांतं कात्वमध्यस्य धेनुमध्यासनं भवेत् ।
खंडपावकमारुढं वेतंसनकरे पुनः ॥
सूक्ष्मरुद्रा स्थितं कुर्यान् मानिन्या चक्रमुत्तमम् ।
स पूर्वं नवके पूर्वं ध्रुवान्तासनसंस्थितम् ॥
रुद्राणां मंदिरे सद्यः पूर्वं चास्याग्रतो लिखेत् ।
नाभिवर्णं समुद्धृत्य ह मध्ये स बिंदुकम् ॥
कटकं विश्वरूपाय वज्रिणी भौतिकेन च ।
प्रणामं चाद्यबीजं हि प्रणुक्त क्रमतोद्धरेत् ॥
अघोरवसुनर्द्देवि पूजाहोमं च तर्पणम् ।
बीजानि भूतवर्णानि चतुर्युक्तं सुरेश्वरि ॥
यजामहे तु देवीं तु मृत्योर्मुक्षीयवर्द्धनम् ।
बीजंसन्तं संभूयश्चानंतंचिंतमेव च ॥
सर्वं वर्द्धये संते पुनरेवसमुद्धरेत् ।
प्. १२१अ) अमरीशादिमं बीजं स्थाणु रुद्रादि संयुतम् ॥
अग्रे तस्यात उद्धृत्य तस्यां तं पुरतः स्थितम् ।
त्रिस्थानात्तौसमुद्धृत्य स्थाने स्वंगान षट्पदैः ॥
रक्षोहनो वलहन सुमुखः कालरूपकः ।
विजयो जयंतः प्रजयो मनोन्मनाय बलाय च ॥
भूतशक्त्याक्षरैर्मूर्त्तिं पदैः संक्रंदनादिभिः ।
अर्चयित्वा पुनस्तस्य रुद्रलक्षं यतव्रतः ॥
मृत्युर्विलासकैर्देवि मंत्रोऽभीष्टफलप्रदः ।
विष्णुबीजं समुद्धृत्य रु अंतं हस्य अग्रतः ॥
लोकोपि शिरसाक्रांतं एकरुद्रं तृतीयकम् ।
आकाशमंदरांतस्थमात्मादी बिंदुसन्निभम् ॥
स्थापितव्यं प्रयत्नेन शिवं तस्यार्द्धसंभवम् ।
मानिन्यासक्रवर्णस्य शिवेरुद्रं तृतीयकम् ॥
धात्रीशस्यासनं दयाद्दृषीणामंतरे स्थितम् ।
दीपनी त?ग्र देशे च साधने तं समालिखेत् ॥
नासिकाग्रे पुनर्देवि अस्थिरुद्रासनं भवेत् ।
सहस्रांशे स्फुरत्यंते दधमध्यं ध्रुवांतकम् ॥
काकानामं महारुद्रा दीपनी सूक्ष्ममूर्द्धगाः ।
एकादशादि पुरतो कांतं गांतं प्रविन्यसेत् ॥
तुरीयं भूतमध्ये तु कांतं वैरोजमध्यतः ।
महाकाल्यासनत्वेन आलिंगं गंधमादने ॥
शाकमन्ये शरीराय प्रणामास्तु परं पदम् ।
आत्मानं युते देवि विजानीहि पुरोक्तवत् ॥
अप्रकृत्यात्मकं नाम संभूतं परमार्थतः ।
बीजानीमानि भूयश्च शंकरं लोकशंकरम् ॥
नारायणं चौर्थ्यन्तं नवात्मानं पुरस्थितं ।
चत्वारि देववसूर्णैस्तथा वह्निः स्वभूतकैः ॥
प्. १२१ब्)
न्यस्तव्या विधियोगेन कायमध्ये सुरेश्वरि ।
अर्द्धनारीश्वरं देवं न सर्वत्रावतंसकम् ॥
सोमार्कमश्चित्रै श्वनानाकल्पमनोहरम् ।
द्वात्रिंशल्लक्षणैर्वाद्यं देवदेवमुमापतिम् ॥
पाशांकुशं वामदक्षे अक्षस्रक् नृकपालकम् ।
तप्तहाटकसंकाशं सोमंसिंदूरसंप्रतम् ॥
सिंहास्तु विष्ट्यवे देवि पूर्ववत् परितोषयेत् ।
अंबुजं पश्चिमे पूज्यं बाणं धनददियगतं ॥
रुद्रमाखंडलेयष्टा ईश्वरं स्वरसन्निभम् ।
अननादि चतुष्केषु हृल्लेखां च गदां पुनः ॥
रक्तां करालिकां देवं महत्सूक्ष्मं महेश्वरम् ।
वंदसूत्पलधारिण्यो वेणीबद्धास्वलंकृताः ॥
षष्टमेदष्टपूर्वादिरुतं वसूं चरं नवम् ।
रुतेजामग्नि दिग्भावे गोजलेशो वरे यजेत् ॥
अवजामर्चयेद्वाजौ अत्रिजामैशकोणके ।
ब्राह्मण्यादि चतुःषष्टि विधानेन प्रयत्नतः ॥
होमंदक्षिणकुंडे तु लाजातिलसतंदुलैः ।
स्वयंभूकुसुमैश्चापि नृप बिल्वमहीरुहैः ॥
चंद्रकस्तूरिकोन्मिश्र गुडक्षौद्रघृतप्लुतम् ।
अर्द्धलक्षं जपेत् पूर्वं तथाहोमं स तर्पणम् ॥
तर्पणानि पुनर्दद्यान्नवं स्वाघं मनोहरम् ।
त्रिभिर्वर्घैर्यताहारो व्रतचर्यासमन्वितः ॥
पलमथा श्वाभिस्तृप्तौ परममीश्वरौ ।
प्रदद्यादीप्सितं सर्वं खेचरत्वा पवर्गकम् ॥
भूप्रदेशं समं कृत्वा चंदनागुरु चर्चितं ।
कृत्वामंडलकं तत्र चतुष्पत्रं त्रियोनिकम् ॥
ततः क्रमेणवर्णानि विन्यसे तिस्रबाह्यतः ।
प्. १२२अ) आदीक्षांत अकारोतौ विन्यसेज्जगदीश्वरीं ॥
तन्मध्ये पूर्ववद्रूपं संविचिन्त्य हृदंबुजे ।
मनसावर्तते योगी यावद्ब्रह्मा स जीवति ॥
हरंहरिं दक्षवामे वा दक्षे हरंहरिम् ।
त्रिशूलंकंबुकं देवि देवं चक्रं शिवं हरिः ॥
तारं स बिंदुकं देवी हृदोल्कं प्रथमं हृदि ।
सर्वान्तपदभूयो मेषं तद्वच्छिरसि न्यसेत् ॥
महोल्क नित्यतृप्तांते वीरं वीरोल्कमेव च ।
शिखायामनादि बोधं तृतीयं परमेश्वरीम् ॥
आदि वर्णतृतीयान्ते ह्युक्तं स्वातं अमेव च ।
मदोगंधेन सहसा सर्वं स पंचमं पुनः ॥
निद्यगन्तेश्च प्रशक्ती नेत्राणां रक्षणे न्यसेत् ।
वागीशं च सहस्रोल्क अनंतशक्तिस्तु कंटकम् ॥
पूजयेत् पूर्ववद्भक्त्या भेदाभेदं न कारयेत् ।
संशयात्मा प्रणश्यति न सुखं न परांगतिम् ॥
विश्वसेत् परमं धर्मे अधर्मे नैव विश्वसेत् ।
धर्मेण क्रतुविश्वापि यथा भोज्यंति देवताः ॥
तस्मान्मंत्रमयं लोकं धर्मं मंत्रमयं विदुः ।
धर्मेण पृथिवीं जित्वा दिव्ययानैर्मनोहरैः ॥
क्रीडन्तेद्यापि दृश्यन्ते देवाश्चापि तपोधनाः ।
तेनधर्मात्मके मंत्रे येषां प्रज्ञा न वर्तते ।
तेषां स्वर्गं च मोक्षं च इहमूत्र न हि क्वचित् ।
उत्तरं दक्षिणां चैव द्वावेतौ सर्वदेहिनाम् ॥
पंथानौ तौ परिभ्रष्टे अधर्मं वर्द्धते निशम् ।
दर्द्धरीदंदशूकादि योनिस्तर्जयते खलु ॥
तेषु दुःखान्यनेकानि भुज्यंते दुःखसंभवम् ।
न तत्र सुखले शोस्तिहाकष्टं परमेश्वरि ॥
गर्भवासेति दुःखार्तो वाल्ये अज्ञानमोहितः ।
प्. १२२ब्) यौवने विषयापन्नो वार्द्धके मरणोन्मुखः ॥
मृतस्य जन्मस्या देवं घटियंत्र भ्रमो यथा ।
तस्माच्चस्त्वजनोलोके श्रुतिवाक्यैर्नियम्यते ॥
अपदादि दोषेण मध्यमो विनिविन्यसेत् ।
कषाय चर्मवन्मदोहठेनायातिमार्दवम् ॥
तस्मादुर्गमये यंत्रे मंत्रवित्पंडितो जनः ।
संधायविधिना देवि विधानेन पुरोक्तवत् ।
खेचरी आदि सिद्धिनामधिपो जायते नरः ।
अथान्यं संप्रवक्ष्यामि सुगोप्यं भूविदुर्लभम् ॥
येनविजानमात्रेण क्षुभ्यते भुवनत्रयम् ।
देवी बीजद्वयं देवी अंते एति द्वयं पुनः ॥
यद्वार्णग्रहमालायामाषाटीभुविंसंस्थितम् ।
तृतीयं तद्विजानीयाद् यवध्ये * चतुर्थकम् ॥
यस्य वर्णस्य बिंदुर्द्धेखिकारस्य अधः स्थितम् ।
मालिनी वक्त्रवर्णं च नवके पद्मवस्थितम् ॥
ताराक्षीग्रहमालायां वमोंतं मस्तकं न्यसेत् ।
अस्यांते गंधशिखरे अनंतं क्रूरसंयुतम् ॥
नारायणं सनेयुक्तं कामं रक्तासनं भवेत् ।
रुद्रांतं क्रूरशिखरं पिनाकी तस्य ऊर्द्धतः ।
एकादशे ऋषिस्थाने अर्घीशो यस्य ऊर्द्धतः ।
पुनरस्यादि रक्तस्थं गंधांकुरसमन्वितम् ॥
ननादि वर्णमुद्धृत्य मालिनी दक्षमूलकम् ।
दंडव्यमासनं तस्य मालिनी वक्त्रसंभवम् ॥
रु अंतं पुरतो न्यस्य विटेमध्यं तथा पुनः ।
मेदोनाम महारुद्रोशो उर्द्धे केवलं विदुः ॥
यद्वर्णमेष ऊर्द्धे च मालिन्या तरुयुक्पुनः ।
रक्तरुद्रासनत्वेन सूक्ष्मरुद्रं शिवे न्यसेत् ॥
प्. १२३अ) मालिनी प्रथमं बीजं झंटीशेनसमन्वितम् ।
संवर्तकं महारुद्रमस्तिरुद्रोस्थितम् भवम् ।
रक्तंरुदन्तमक्रूरं प्राणं मेषं पुनर्भवेत् ।
एकादशे च स्वस्थाने यद्वर्णं बिंदुमस्तकम् ॥
अस्याग्रे च स फेत्कारी खंडसोमेश्वरान्वितम् ।
इतीदं परमं गुह्यं पवित्रं सर्वकामदम् ॥
तस्य संस्मरणाद्देवि दैत्यदानवराक्षसाः ।
विद्रवंति महावीर्याः सिंहत्रस्तामृगा इव ॥
अस्य जापेन होमेन भुक्तिमुक्ति करेस्थित ।
स्त्रीषु विद्यासुपठति स्वसाध्य कृते हरिः ॥
तेषु वैरं न कर्तव्यमपराधशतैरपि ।
वीथीद्वारसमायुक्तं चतुरस्रं समालिखेत् ॥
ग्रण?डपुष्करं क्षेन्तमंकुशं सर्वतो मुखम् ।
वर्णानु क्रमयोगेन षोडसारं कलान्वितम् ॥
विन्यसेद् वर्णसोन्मध्ये मध्ये द्वात्रिंशदक्षरम् ।
व्यंजनाति चतुर्बाह्ये पद्ममष्टदलं पुनः ॥
तद्वद्वर्णानि विन्यस्य वर्गिणाह षडक्षरम् ।
भूतच्छदेषु सर्वत्र ब्रह्मा अनंत देवताः ॥
पुनरग्नि स्थितं कुर्ययान्नारसिंहं शिवान्वितम् ।
तत्रसंलिख्यकार्याणि साधयेद्वरवर्णिनि ॥
सौदर्शनं महासिंहं तत्र विन्यस्य पार्वति ।
पिंगाक्षं दंष्ट्रिणं भीमं भद्रकायं सुदुर्जयम् ॥
तत्र शंखासिखेटं च तोमरं मुद्गरं पुनः ।
पाशांकुशौ यदापद्म शरासशरमेव च ॥
क्रनुदंडाग्नि वरदं देवदेवं जगद्गुरुम् ।
कौशेयवाससं रक्तं रक्ताभरणमंडितम् ॥
वीक्षणं चैक वक्त्रं च भास्करा युत सुप्रभम् ।
तस्याहं वक्त्रशे * च ब्रह्मपादद्वये स्थितः ।
प्. १२३ब्) सिंहिकामं कुशं देवीं कुक्षौ स च स्मृतः ।
नेत्रेष्वग्नि दुस्तुराश्च शक्रेसैवाहमंडले ॥
सर्वज्ञादि पदाद्यन्ते प्रथमं सप्तवर्णकम् ।
द्वितीयं ऋतुवर्णेन द्वितीयं सांकुशं भवेत् ॥
देवी बीजं परेन्यस्य नवभिश्च तनुच्छदम् ।
गुणवदक्षरैर्देवि नेत्रमंत्र पदे पुनः ॥
विष्णवे ईश्वरायमोदाय गगनाय वसवेतपसे अनंताय नारायणाय
रामाय यमाय यज्ञपुरुषाय सर्वक्रियाय हराय सर्वकांतापरति प्रिया
यजनाय लक्ष्मीश्वराय वरुणाय नृसिंहाय स्कंदाय हलिनेनंदाय
हयग्रीवाय नंदकाय ओंकाराय फट्काराय स्वाहा पतये हरिहराय
शंखचक्रा भयाभीष्ट पाशांकुशशराधनुः ।
प्रधानमूर्ति प्रतिमाः पिंडमध्ये व्यवस्थिताः ॥
स्वरानुक्रमयोगेन वीजानामुत्तरे विभुः ।
शक्तयोन्यं जिनास्तास्तु मूर्तयः प्रथिता इमाः ॥
रमाराका प्रभा सत्या चित्रक्षोम्ने हिरण्यगा ।
धामाज्येष्टा सुरारौद्री उमासंध्या वा निशा ॥
शिवा विजया सर्वदा नित्या सर्वाणी सर्वमंगला ।
लक्ष्मी श्रीरतिः कांतिर्मेधा प्रज्ञासरस्वती ॥
आह्लादिनी भगानंदा विजया सर्वमंगला ।
चित्रन्यस्ता विधिवद्यंत्र मध्ये पुरोर्चयेत् ॥
केशवाद्या स्वरस्थाने शक्तिमूर्तेष्ट पत्रके ।
षडंगान् विन्यसेत् कोणे पत्रे विष्ट्यादिवेवताः ॥
मध्ये त्रिकोणकोणेषु अहंब्रह्मा स्वयं हरिः ।
विष्टरेनंतभोगाख्ये आसने योगविष्टरे ॥
प्. १२४अ)
पश्चिमेर्क यताभाति फणेभिश्यान यत्रयत् ।
ऋषिभिः सिद्धसंघैश्च सेव्यमानं मुदान्वितम् ॥
शाद्वलाभिः सुरेशाश्च वेणी बद्धाः स्वभूषणाः ।
एकेणश्लिष्टरमणाः पाशांकुशकपालकाः ॥
भूप्रदेऽसेषु विजने लक्षद्वंद्वदृढव्रताः ।
तदर्द्धहोमयो देवि किंसुक प्रसवेन च ॥
पद्मक्षीरमथोलाजा तिलतंडुलविल्वजैः ।
एवं कृते भवेदीशः स्वयं ब्रह्माहरिः स्वयम् ॥
इतोवक्रं न शक्नोमि किमन्यैः क्षुद्रसिद्धिभिः ।
यदि मेरुश्चलोस्थानात् स्थानाच्चलति भास्करः ॥
महीमध्येर्वयतानैतन्मिथ्या न भवेद्ध्रुवम् ।
ध्रुवं विष्णुं च रुद्रं च मन्मथं देव वर्ण युक् ॥
शिवादि बीजमारभ्य षोडशानि समालिखेत् ।
शूद्रीबीजेरमाबीजमथवामन्मथद्वये ॥
त्रिस्थाने वा गतं मंत्रं रमाबीजे स सूनि युक् ।
षोडशांते विलोमेन भूतवर्णाः करेस्थिताः ॥
केशजालधरः सौम्यः शुक्रशंखखलमद्वयम् ।
ओतप्तहेमशंकाशं लक्ष्मीशंशासनस्थितम् ॥
निस्तारुणाज्ञा हस्तान्तां कुंडली भूतपन्नगे ।
* * तात पत्रैव आसीनं सुमनोहरम् ॥
कन्या हि वद्धविलसद्धैमद्वीपे पयोदधौ ।
सुरपादतलाकीर्णे वसुच्छद स कर्णिके ॥
ध्यात्वा तु तं पुरोक्तेन धर्मेणा सुप्रसिद्ध्यति ।
शृणुदेवि परं चान्यद्विष्णुंरुद्रपितामहम् ॥
असाधनं सवर्णं तु श्वेतपूर्वं तु कारयेत् ।
रूतांतादि स्थितं कुर्याल्लोकादिं मस्तके न्यसेत् ॥
कांतं रक्तासनारूढं उ ओंमध्यांतभेदिनौ ।
प्. १२४ब्) ङोवुमध्योर्द्धकैर्देवि भाषणीं ऋषिमंदिरे ॥
खि ऊर्द्धचक्रिणी बीजमन्ते आषाढीसंसवम् ।
मूर्द्ध्नि तस्य प्रदातव्यं रुतांतं वाममंदिरे ॥
विद्या त्रितयमुद्धृत्य भौतीशं लोप्यमूर्द्धनि ।
वेदवर्णस्य शिरसिबिंदुं धात्रीशमेव च ।
कुमंतमक्षरं देवि नासिकाग्रासनस्थितम् ।
मिनरुद्रोर्द्धगंकान्तं गंधानं तेन संयुतम् ॥
तृतीयं ऋषिगेहे च एकरुद्रादि भूषितम् ।
नवादि दीपनी देवी आषाढीशासनस्थिता ॥
वागीशो भैरवी नामवामान्तस्याशने स्थिता ।
अस्यांते नरकं तत्वन्सहाशीनं तु केवलम् ॥
अस्याग्रे अंबिकाबीजं यामो मध्यासनस्थितम् ।
मेधा पुनः प्रयत्नश्च दूतीबीजद्वयं पुनः ॥
लोकांतं मस्तका क्रान्तं द्वितीयार्थ हान्विताम् ।
सूतीबीजद्वयं भूयो भौतीशं तेजमध्यतः ॥
वर्णानि पुरतो देवीमन्तः संख्याव्यवस्थिताः ।
मादनं पुरतोभूयः शुक्रंलोकांतसंयुतम् ॥
अस्यान्तं रुवर्णानि अन्यं प्राणं स बिंदुकम् ।
तस्यान्ते अब्द्धिवर्णानि शुक्लतत्वं नियोजयेत् ॥
भूतातितांनि चोद्धृत्य ऋतुवर्णान्तमूर्द्धनि ।
नामादि मस्तकोऽधस्ताद्वायव्ये विनियोजयेत् ॥
हंसाक्षरस्य पुरतो तद्बीजं वाचसंयुतम् ।
पूर्ववदृतुसंख्यानि नवात्मान्ते च मेव हि ॥
मेषरुद्रादितो देवीं नवात्मीमंतरे न्यसेत् ।
ब्रह्मणावासवेनेयं साधिता च प्रयत्नतः ॥
सव्यादि पंचवक्त्रेषु हयबीजादि बीजकैः ।
न्यस्तव्या विधियोगेन अंशायं तु पदैः क्रमात् ॥
हृदयं भूतवर्णेन शिवोपि स्यात् षडक्षरम् ।
प्. १२५अ) बीजद्वयेन च शिखा तद्वदेव तनुच्छदम् ॥
ग्रहार्णैः पुरतो देवि नेत्राणां रक्षणे पुनः ।
दिक्रुतानि समाख्याता भूतवर्णा यथाक्रमात् ॥
वागीश्वरी महामाया शिवदूती शिवांगना ।
सैवाराध्यशिवानंदा शिवाज्ञा शिवरूपिणी ॥
गायत्रीं चैव सावित्रीमर्चयेच्च सरस्वतीं ।
वैरिंचाधोक्षजोरुद्रो वह्नेर्विश्व द्वये पुनः ॥
वामां ज्येष्ठां च रौद्रीं च मध्यकोणे सरस्वती ।
वाचयन्तीं शिवामग्रे पशुमेदसमप्रभाम् ॥
अरुणां मंगलां तन्वीं स्मेरवक्त्रां सुतप्रभाम् ।
गोवी?वधवलप्रख्यां पदाकुंकुमसंनिभाम् ॥
वेदामृतकुंभे द्वे मुद्रामक्षगुणं करे ।
अनेका हि समावद्ध भुजंगमौलि विराजितम् ॥
चंद्रखंडधरं देवं नागयज्ञो पवीतिनम् ।
रुरुचर्मांवरं देव पद्मविष्टरे कल्पपादके ॥
पन्नगासनमारब्द्ध कक्षैक विचरं शुभम् ।
ध्यात्वासंपूजयेद्देवं लक्षमेकं यतव्रतः ॥
होमयेद्विजपुष्पाणि लक्षमेकं तिलैः शुभैः ।
अब्दत्रयेण देवेशि वागीशो नापरो भुवि ॥
इति श्रीकुब्जिकामतेनवकोटिसंहितायां चतुःपंचाशतितमः पटलः
श्रीभैरव उवाच ॥
गुह्यगुह्यं सुरेशानि विस्तरेण वदाम्यहम् ।
न्यस्ता देहस्य सन्नाहं ग्रामे वामन्तनेपि वा ॥
भूतसंघे महादावेऽसंघे प्रेतबूमिषु ।
यक्षराक्षसदुष्टोघौस्तृणे इव च दृश्यते ॥
आपो श्रीकंठपुरतो रुद्रान्तबिंदु भैरवम् ।
प्. १२५ब्) ओजमध्येस्य शिरसि जपन्ति क्रूरसंयुता ॥
यमेशमंदिरा बीजा वा लिखेत् पूर्वमेव हि ।
भूतवर्णानि शिरसि विन्यसे देवमेव हि ॥
द्वितीयं च द्वितीयेन षडर्द्धेन षडर्द्धकम् ।
चतुर्थं च चतुर्थेन दशार्द्धेन दशार्द्धकम् ॥
द्वादशार्द्धं तथादेवि सप्तमे सप्तमं विदुः ।
विद्याष्टमष्टमं योज्य अशतार्द्धं प्रविन्यसेत् ॥
शब्दराशि षडंगेषु न्यस्तव्यं सुप्रयत्नतः ।
यथाह अग्निना विद्या विद्या पंचाक्षरी तथा ॥
षृणु देवि विधानं हि यत्सुरैरपि दुर्ल्लभम् ।
येनानुष्ठितमात्रेण पाशं विच्छिद्यतेखिलम् ॥
सर्वशंकरदोषश्च ग्राम्योमूर्खः शठोपि वा ।
सोपि शक्तायते सद्यः सुरेद्रं इवभूतले ॥
मानिनीदक्षजंघस्थं रुद्रांतं बिंदुभूषितम् ।
पुरतः केशवी देवी मानिनी शिवसंभवे ॥
यवमध्यं समुद्धृत्य नावर्णं चर्मभैरवम् ।
मीनरुद्रोर्द्धगं यस्य मानिनीक्षीरसंभवा ॥
वेचुमध्यं पुनर्देवि प्राणरुद्रं शिवान्वितम् ।
तत्पूर्वतस्तृतीयं हि लोकान्तं शिरशि स्थितम् ॥
रु आदिवर्णयोगेन तद्वीजं पुरतो न्यसेत् ।
मेरुभैरव ऊर्द्धे तु लोकादिं शिरसि न्यसेत् ॥
एवमेषा महाविद्या अस्याग्रे भक्षिणीं पुनः ।
बीजानि तानि चोद्धृत्य नारायण मनं ततः ॥
नतिपूर्वकदेवेयं विद्यासर्वार्थसाधिकी ।
रसबूतार्णमध्यस्थं मानिनीशिरसंभवम् ॥
यवमध्यगतंतंतु नारायणमनंतयुक् ।
वागीशस्याग्रतोहंसं वैलोमेनसमुद्धरेत् ॥
नाभिमध्यं समुद्धृत्य व्याहृतिनामनंतकः ।
प्. १२६अ) प्राणरुद्रस्य पुरतः शुल्वरेफसमन्वितम् ॥
रु अंतं नवके दण्डं हंफर्णानासमन्वितम् ।
वर्ण(र्म)णापनतिश्चांते हृद्या वामानामुद्धरेत् ॥
व्यंजनादि क्रमेणाथ मध्यगानि सुरैःसह ।
क्रुद्धादि पदयुक्तैश्च तारशक्त्यर्णमेव च ॥
गुरुवक्रोपदेशेन सर्वाज्ञादि पदैः क्रमात् ।
वर्णः कलाद्विजातीनां पूर्ववत्सुरसुंदरि ॥
आलिखेत् प्रथमं चक्रं वाग्भवं वाग्भवेन तु ।
तन्मध्ये शक्तिगं देवी वसुवर्णं नृपान्वितम् ॥
हंसशक्तिसमावेष्ट्यवर्णान् तारगतान् पुनः ।
शक्त्यष्टकं लिखेनेमि वेदांतसंजितम् ॥
षोडशः षोडशानि स्युर्यदान्यैकैकचाष्टके ।
हरिस्तत्कोणमध्ये च ध्रुवं उत्तरसंभवम् ॥
तन्मध्ये चिंतयेन्तील जीमूतरणि प्रभम् ।
प्रागुक्तलक्षणैर्युक्तमष्टकांडन्तनर्दिनम् ॥
शंखचक्रगदापद्मपाशांकुशसमन्वितम् ।
धवलामृतसंकाशमरुणोब्जसमप्रभम् ॥
विद्यामक्षगुणं कृत्वा रथांगं च चतुर्भुजम् ।
शरेक्षुपुंड्रकं देवं पाशांकुशसमन्वितम् ॥
तदहंविष्टरासीनां पूर्णेन्दु सदृशाननाम् ।
दक्षिणा श्लिष्टरमणां पद्ममन्येन सुस्थिताम् ॥
तप्तकांचनसंकाशां सर्वामंडनमडिताम् ।
कंटकं वाममायां च मन्मथं परमेश्वरीं ॥
तद्बीजं मंत्रदेभूप वेतातंरक्तभैरवम् ।
तयोर्मूर्द्ध्नि स्थितं कुर्यात् काममध्यांतमक्षरम् ॥
मालिनीशुक्लवर्णस्य शिवे वामादि भेदितम् ।
शुक्लं रक्तं समुद्धृत्य मालिन्या हृदि केवलम् ॥
मालिनी शिव ऊर्द्धे च कूर्माद्यासनसंस्थितम् ।
प्. १२६ब्) देवादिमस्तकेदेवि खंडासाठी तु अग्रतः ॥
ऋषिमालादि बीजं हि स्वस्तिकात्रादि संयुतम् ।
विजयेति महादेवि प्रसीदपदमेव च ॥
बीजानि तानि चोद्धृत्य ऋषिमध्यादि केवलम् ।
अनंतमासनं दद्यादेकरुद्रांतदेशतः ॥
ते ऊर्द्धं नरके मांसं केवलं तु तदग्रतः ।
एकादशादि वीजस्य दातव्यं पुरतः स्थितम् ॥
करालीमग्रतो न्यस्य वागीशं भौतिकेन तु ।
गुणोंतं केवलं बीजं कालीशेनासनस्थिता ॥
लक्ष्मीविद्या सुरेशानि बहुभोगकरी स्मृता ।
आयुः कांतिर्यशः कीर्तिर्ल्लक्ष्मी सौभाग्यमेव च ॥
अस्य जापेन होमेन लभते शाश्वतं पदम् ।
अर्घं स हेतुकं वह्नि ओं नमोमांतु मंडलम् ॥
संपूज्य सकली कृत्य भावयेच्च सुधापलम् ।
मूलविद्यामनुस्मृत्य शुक्लंशुक्लामृतस्रवम् ॥
तेनात्मानं यागवस्तूनि प्रोक्षयेत्सुसमाहितः ।
विद्यया पूजयेन्नित्यमुक्तमार्गेण सुंदरि ॥
जयीधीरो देवता हृदयं गमः ।
इत्याचारपरः शान्तः सत्यवादी दृढव्रतः ।
भिक्षाशी चाथनक्ताशी पयः शक्तु फलानि च ॥
आसनं च शुचौ देशे चैलकृष्णां वरान्विते ।
उपविश्यनिजंपिंडं वसुलक्षं यथाविधि ॥
न्यग्रोधपिप्पलप्लक्षनुदुंवर तिलानि च ।
ब्रीहिभिः कमलैरत्नैर्होमयेत्तर्कसंख्यया ॥
होमयेद्ब्रह्मवृक्षेण संसारभयभीरुणा ।
अनुलोमविलोमस्तु कर्माणि विविधानि च ॥
जपहोमार्च्चनाभिस्तु सिद्धिनामधिपो भवेत् ।
मूर्तिशक्तित्रयं देवि अंगपूजा च नामतः ॥
प्राग्दले वा च्युतं वह्नै कामिनी भानु याम्यके ।
प्. १२७अ) निशाचरे मनोज्ञं च जलेविश्वतनुर्भवेत् ॥
विमलां चापौ समारोप्य हरिंचोत्तरके दले ।
ऐशेभद्रामलंगानि गतमं वादिपूर्ववत् ॥
यं यं कामयते नित्यं स्वर्गे मर्त्ये च पन्नगे ।
सोपि तल्लभते सम्यक् सत्यं सत्यं न चान्यथा ॥
ततोन्यं संप्रवक्ष्यामि दुर्ल्लभं शंभुमुत्तमम् ।
येनसंस्मरणाद्देवि भवध्वान्तं विनाशयेत् ॥
ध्रुवसूतीं समुद्धृत्य क्षे अंतं अंबिकां शिवम् ।
मालिनी प्रथमं बीजं तृतीयं ऋषिमंदिरे ॥
नवकेशवकं देवि द्विधासूक्ष्मेशमूर्द्ध्निशम् ।
मालिनीरक्तबीजस्य पुरतोनंतमालिखेत् ॥
धर्मरुद्रस्य पुरतोहंसं तत्प्रतिलोमतः ।
वह्निदूतीसमायुक्तं त्रिबीजं नवके हरिः ॥
शिवायमेषरुद्रांते नृद्वर्णं ते च मध्यगम् ।
हंसान्ते तद्वदेवेह उद्धरेदपरं शिवम् ॥
नाभिमध्यं समुद्धृत्य वालिनी शिवमग्रतः ।
ऋषिमध्यादि शवकं क्षेयस्योर्द्धे च सूक्ष्मजम् ॥
खड्गीश भैरवस्यांते रुतांतं गंधमादने ।
वामबाहुस्थ शिखरे हंसं वै लोमतो भवेत् ॥
अर्घीशमंदरार्द्धे च काललोकांतभूषितः ।
बीजानि तानि पुरतो ध्रुवांते चाथवा भवेत् ॥
अंबिकांते अनंतं च क्षेनंतं पुरतस्तथा ।
स्यातामादी पते देवी नवात्मानौ ध्रुवां ततः ॥
चंडिकाभ्यां समापोक्नं पुनरन्यानि तच्छणु ।
प्रासादसारभूतं तु अष्टधा शृणुसुंदरि ॥
तावदामिष्टदे कृत्वा रक्तस्यो परिमारुतम् ।
लोकादि मस्तकाक्रांतं क्षयंतं शुक्लभैरवम् ॥
धात्रीशं गंधसंयुक्तं शिवं ज्ञेयं तमेव च ।
प्. १२७ब्) लभ्यते हि प्रथमं यासि मध्यं च मारुतम् ॥
अनुग्रहः समायुक्तं बिंदुनोपरिभूषितम् ।
द्वितीयमुद्धरे देवं शिवायेनतिपश्चिमम् ॥
तृतीयं विष्णुबीजांते महेश्वरायेति तत्पथ ।
चतुर्थं चास्ति वा क्रूरं स्वान्तः स्वगः शिवान्पथ ॥
चरमेनतिरुद्दिष्टं मंत्रं गौरीशिवात्मकम् ।
शिवमर्त्यं पुनर्देवि विद्धिसर्वं पुरोवृतम् ॥
कैलासमंदिरे देवि श्रीकंठं प्रथमं विदुः ।
विष्णुंरुद्रंध्रुवं हंसं ध्रुवाय तु विजोमतः ॥
पुरावृत्तनि मंत्राणि न कुलादि विभेदतः ।
शुद्धस्फटिकसंकाशमक्षंदशभुजं शिवम् ॥
पंच वक्रधरं देवी पंचमूर्त्तिसमन्वितम् ।
पद्मासनोपसंविष्टं स्फुरंतं दीप्ततेजसम् ॥
जटामुकुटधरंशांतं सर्वाभरणभूषितम् ।
अक्षयं च दशोपेतं मालया च परिस्कृतम् ॥
दिव्यांवरधरं देवं विद्यावाहनमथोज्वलम् ।
परशुव्रज * * * अभयं च * क्षेत्रिकम् ॥
घंटां नागं च वह्निं च वामे पाशांकुशं तथा ।
समजंघोरुचरणौ प्रमदाजितकूर्मकौ ॥
ध्यात्वैवं पूजयेन्नित्यं देवं चैवार्द्धनारिशम् ।
आधारमासनं प्रोक्तमापश्च परमः शिवः ॥
लांगलिंकमिति प्रोक्तं बिंदुंपीठमिति स्मृतं ।
न शिवेनविनाशक्तिर्न शक्तिरहितः शिवः ॥
पुष्पेषुगंधवज्ञेयस्तिलेषु तैलवत्तथा ।
देहे च प्राणवच्छक्तिस्तस्माच्छक्तिं प्रपूजयेत् ॥
शक्तिरेवासनं प्रोक्तं पंचानंतादयः क्रमात् ।
पार्थिवांडमवस्कंध नालं वद्ध्यंतमेव च ॥
तनोनत्यसनं पूर्वं सिंहासन द्वितीयकम् ।
प्. १२८अ) योगासनं तृतीयं तु चतुर्थं पद्मासनं भवेत् ॥
पंचमं विमलाख्यं च पंचभूतात्म्कं च ते ।
वृत्ताकारमनं तस्तु सूर्यकोटि प्रभान्वितम् ॥
पादाश्चतुष्क कोणेषु सिंहरूपेण कल्पयेत् ।
दंष्टाकरालवदनास्त्रिनेत्राभीमरूपिणः ॥
कोटिकोटिभिः संघैश्च प्रत्येकं परिपुरितम् ।
भूतरूपेण कोणेषु पादाकृतयुगादयः ॥
श्वेतं रक्तं पीतकृष्णं सिंहरूपेण भावयेत् ।
अव्यक्तो नियतिः फलः कालश्चेत चतुष्टयम् ॥
अव्यक्तस्फठिका भासो नियतिः कालांजनद्युतिः ।
फलेडाडिममुष्पाभाः कालाभिन्नां जनप्रभाः ॥
* * * विभ्यः प्रोक्तोमव्ययादेन्मनोन्मनी ।
एवं योगासनं प्रोक्तं पद्मासनमतः परम् ॥
मायातत्वं वृत्तं ग्रंथिं सूत्रविद्यान्नशोभितम् ।
विद्येश्वरदलच्छत्रं शक्ति केशरसंयुतम् ॥
विद्यातत्व समंतत्वं कांतकायां प्रकल्पते ।
बीजं प्रधानवर्णाभ मंकुरं रजतप्रभम् ॥
तस्य नालं तु वै रूप्यं कंटकं रक्तपिंगलम् ।
शंखवर्णदलाग्रस्य मूला वा पदला स्मृताः ॥
किंजल्के नीलपीतानि मध्येस्युः केशराणि तु ।
नवबीजानि तन्मध्ये हेमाभानिबिंदुः क्रमात् ॥
वामादि शक्तयो देवि केशरेषु प्रकल्पयेत् ।
इंद्रादीशानपर्यन्तं न्यसेन्मध्ये मनोन्मनीम् ॥
आत्मतत्यं न्यसेदग्रे विद्यातद्वर्णसौम्यके ।
दक्षिणे शिवतत्वं च मध्ये सर्वात्मतत्वकम् ॥
एवं पद्मासनं प्रोक्तं तस्योर्द्धे विमलासनम् ।
मंडलत्रयमत्रैव कल्पैवं विमलासनम् ॥
आत्मानं चतुरोभ्यर्च्य शेषमन्यं पुरोक्तवत् ।
प्. १२८ब्) लिंगमंडलमध्ये वा कार्णकोदररंजिके ॥
सोमसूर्याग्नि विंबानां कालानां तत्र संजपेत् ।
अष्टवर्गकलाभिस्तु मंत्राष्टक दलाष्टकम् ॥
भूतयंत्रस्य मध्ये च सत्यादि चतुरो न्यसेत् ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरोहादिदीर्घ युक् ॥
पूर्वोक्ते नक्षणोपेतमुपचारैः प्रपूजयेत् ।
चिंतयेद् देवमीसानं शाश्वतं शिवमव्ययम् ॥
जटामुकुटसंकाशं चद्रार्द्धकृतशेखरम् ।
वृषध्वज समारुढो भवानी सहितो विभुः ॥
वामादि शक्तिपूजश्च आसीनः पद्मविष्टरे ।
स ईश्वर इति प्रोक्तः सर्वकारणकारणः ॥
ईश्वराद्दक्षिणां शेतु ब्रह्माविष्णं तमुद्भवः ।
ईश्वराद्वामपार्श्वे तु विष्णुच्छिघंतमुद्भवः ॥
आदित्यो दक्षिणे वक्षौ चंद्रो वै वामलोचने ।
जातवेदाललाटाक्षे आस्ये वेदाः समुद्भवाः ॥
घ्राणोवायुः समुत्पन्नः श्रोत्रेखिल दिशोद्भवः ।
गणेशोगणसमुद्भूतो हृदये सण्मुखोद्भवः ॥
नाभौ वै द्वादशा दित्याः सर्वलोकश्च कुक्षिजः ।
सर्वे चैकादशा रुद्रा अधरेषु समुद्भवाः ॥
कटिदेशेषु वशवो मेढ्रे चैव प्रजापतिः ।
उरुभ्यामश्विनौ जातौ पादाभ्यां गंधगस्तथा ॥
देवयक्षमंदरसिद्धविद्या धरादयः ।
गंधर्वोप्सरसः सर्वे पादमूले समुद्भवाः ॥
अष्टाविंशद्देंवकोट्यः सर्वेरोमेषु चोद्भवाः ।
रूपस्य च तथाकोट्यो कोत्यो रोमाश्च संभवाः ॥
ईदृग्भूतो महादेव ईश्वरस्त्रीदशेश्वरः ।
भवानी सामवर्णाभां द्विनेत्रां द्विभुजान्वितां ॥
दक्षिकुक्षिकरां देवीं प्रसार्यैक करान्वितां ।
प्. १२९अ) सौक्ष्म्यमूलेवलां देवि किंचित्प्रहसिताननां ॥
सर्वाभरणसंपूर्णां मुकुटाद्युपशोभितां ।
दुकूलवसनां देवीं पीनोरुजवनस्तनीं ॥
चंद्रमंडल चक्राभामादिशक्तिमलं पराम् ।
सर्वाकारेषु वामांशे गौरीमेवं विचिंतयेत् ॥
पुलिंगं सर्वमीशानं स्त्रीलिंगं भगवल्लभः ।
उमारुद्रात्मजाः सर्वे प्रजाः स्थावरजंगमाः ॥
लक्ष्मीधात्री महाधात्री सावित्री च सरस्वती ।
गायत्री रसकोणेषु देवी बीजादि बीज युक् ॥
दुर्गादेवी महादेवी योगिनी डाकिनी पुनः ।
ज्येष्ठायास्तु पराशक्तिः पुण्यसौर्याः समुद्भवाः ॥
गुह्यं चाधुत अंतेषु निर्णीतं हि मयापुरा ।
सारभूतं परं गुह्यं शृणु देवि वदामिते ॥
पिंडस्थं पिंडमध्यस्थं पिंडेन प्रकटी कृतम् ।
पिंडेन पिंडितं पिण्डं पिंडेषु च विनिक्षिपेत् ॥
पिंडेन पिंडितं कृत्वा पिंडरूपमुदाहृतम् ।
एतच्छिव मयं पिंडं सर्वतत्व? मयं विदुः ॥
दलाष्टकेषु वित्तेशान्तदग्रेषु उमादिकान् ।
पूजयित्वा विधानेन मंत्रैरेतैः सदाशिवम् ॥
ओं हां शिवासनाय नमः ॥
ओं महा?शिवमूर्त्तये नमः ॥
ओं हौं विद्या देहाय नमः ॥
ओं हां हौं शिवाय नमः ॥
ऋत्वगैर्भूतमंत्रार्णैर्भूतमंत्राक्षरं पृथक् ।
अथवाष्टाक्षरैर्देवि अष्टांशानि प्रकल्पयेत् ॥
प्रत्येकमक्षराक्षैश्च तथाष्टाक्षरान्वितैः ।
वियद्वायुरग्निजललक्षामये शरव्यमृतमुख्यात्मने चंडेशदुर्गाशुनी
दिग्घ्राणपयोनसैन्यो वृषभः क्रमेण ॥
पूजयेद्भुक्तमार्गेण लोकेशकुलिशादिभिः ।
प्. १२९ब्) वज्रिकायं ततः कुर्यात् कुंडेषु दलेषु क्रमात् ॥
हस्तमात्रं खनेद्भूमौ विस्तारं तावदेव तु ।
मानांगुलेन कर्तव्य मल्यंनैवनु कारयेत् ॥
एकांगुलप्रमाणेन परितो विष्टरं न्यसेत् ।
तद्वाह्ये मेखलाकायां विस्तारेणनवांगुला ॥
अधस्तात्मेखलाकाया विस्तारेण दशांगुला ।
उत्सेधस्तत्समोज्ञेयः अंगुष्टं मध्यमेखला ॥
त्रिरंगुलसमुत्सेध विस्तारे तावदेव हि ।
चतुरंगुलं तदूर्द्धस्तु विस्तारोत्सेधतत्समः ॥
योनिः पंचांगुला ज्ञेयामानमष्टांगुलं भवेत् ।
गोमयेनोप लिम्पेत प्रोक्षयेदर्घवारिणा ॥
रेखाषट्कान्तषट्कोणं पंगवं योनिमालिखेत् ।
वह्निमथनसंभूतं सर्वाथर्वणिसंभवम् ॥
कुंडमध्ये तु संस्कुर्यादीक्षणप्रोक्षाणादिभिः ।
गर्भाधानादिकावह्नेरघोरेण पृथग् भवेत् ॥
ध्यात्वैवमग्निं विधिवदक्षमानेन चात्मना ।
आदौ पश्चिमतः स्थानमूर्द्धतः शिव उच्यते ॥
दक्षिणोत्तरबाहुभ्यां पार्श्वे चक्षुश्च कर्णयोः ।
मुखमध्यगतं यस्तु जिह्वाग्रे च प्रकीर्तितम् ॥
यत्रकाष्ठास्ततः श्रोत्रास्तत्र भूमेन नायिका ।
काष्ठादग्नि ज्वला नेत्रा मूर्द्धिस्थानेन संशयः ॥
मूर्द्ध्निस्थाने कृतं कश्चिद्रजोराज्यं विनश्यति ।
प्रज्वलग्निं तथा वह्निं वर्द्धमानमाचरेत् ॥
शांडिल्यगोत्रस्य जमदग्नि ऋषिर्जीतवेदाग्निर्देवता त्रिष्टुव्रछंदः ।
कालीकरालीलो द्वीपीतीश्वेती ध्रूम्र पिंगसप्त जिह्वा अरुणमाता वरुणपिता
पावकनामाग्रमावाहयेत् ॥
एकहृदयं द्विवच्क्रं द्विनासिकर्म त्रिमेखलं त्रिपादं च
सप्तजिह्वाभिराचितम् ।
प्. १३०अ) मेषारूढं चतुःशृगं जटामुकुटमंडितम् ॥
दक्सिणे च चतुर्हस्ते वामभागे त्रिहस्तकम् ।
शक्त्यष्टकं तथा चैव श्रुक्श्रुवं दक्षिणे करे ॥
तोमरं व्यजनं वामे घृतपात्रं विशेषतः ।
सुदीप्तं स्वर्ण वपुषं जयपिंगललोचनम् ॥
एवं रूपमिमं ध्यात्वा सर्वकामार्थसाधनम् ।
संपूज्यविधिवद्वह्निं वह्निमंत्रेण होमयेत् ॥
व्याहृतीनामंत्रभूयस्वाहा वै संज्ञपूर्वकम् ।
जलेनजपहोमेन वह्निः प्रीणाति नित्यशः ॥
अष्टोत्तरसहस्रं वा तदर्द्धं चाष्टशतं तु वा ।
न्यग्रोधोदुंबरशमतिलराजीहविर्यवैः ॥
यद्यत्प्रार्थयते मंत्री तत्तल्लभ्येत वै चिरात् ।
मंत्रानां साधने देवि त्रिधो पायाः प्रकीर्तिताः ॥
जपतः फलपूजा च वैकल्पं ध्यानतो भवेत् ।
बुधप्रसादनत्वे च प्रसादः सर्वदेहिणांम् ॥
सर्वदाजपते जीवो यथागौरी तथा शृणु ।
हंसस्य पुरतस्ता वद्गुणानिमति पश्चिमम् ॥
ब्रह्महा शुद्ध्यते नित्यं जपहोमार्चनादिभिः ।
नतस्य दुष्कृतं किंचिद्ग्रहणदेवमुच्यते ॥
ध्रुवादि ऋतु वर्णानि सर्वज्ञानि पदानि च ।
स्थानेषु षट्सु विन्यस्य पुरोक्त ध्यान पूर्वकम् ॥
तेत्रांतं च शिवं ज्ञानं शेषोन्ते कालभैरवम् ।
ध्रूवादि परमं मंत्रं ध्रुवं प्रानं रु अंतगम् ॥
बिंदुभैरवसंभिन्नं शिवायांत ध्रुवांतकम् ।
मानिनी शिववर्णं च ऋषिमध्यादि बिजकम् ॥
ततोन्यं संप्रवक्ष्यामि विश्वमध्यस्य अग्रतः ।
देवी बीजं समुद्धृत्य नावांते धर्मभैरवम् ॥
प्. १३०ब्)
तृतीयं ग्रहमालायां अनंतंगंधमादने ।
यामोमध्यं केवलं तु विष्णोरनति पश्चिमम् ॥
पूर्ववन्साध्यतं मंत्रं बिंदुसर्वार्थसिद्धिदम् ।
रसभूतां तु मध्यस्थं मीनरुद्रार्थबिंदुकम् ॥
नारायणं चतुर्थ्यन्तं देवी बीजं तदग्रतः ।
लोकांतं शिरसाक्रान्तं गुणोंतं कालसेनयुक् ॥
एवमेतत्परं विद्धि नेत्रांते एवमेव हि ।
तद्वदीशं तथान्या हि सत्यं लोकादिसंभवम् ॥
ज्ञानं रक्तासनं क्षेन्तमस्तकं बिंदुभैरवम् ।
अस्याग्रे पूतवर्णानि यद्वासप्ताक्षरी भवेत् ॥
नराणां नयनं तस्मान्ते न नारायणः स्मृतः ।
नतिश्च तस्मै देवीय ध्रुवंः सोहंस ॥
पंचभूतमयं विश्वं शरीरं पंचभौतिकम् ।
तन्मयं च शिवः प्रोक्तः शिवोहमिति भावयेत् ॥
तेननिर्वाणमेवेति सत्यं सत्यं वरानने ।
ध्रुवं विष्णुं समुद्धृत्य वह्निं चैवसमादनम् ॥
एकनेत्रस्य पुरतो यद्वर्णं क्षेत्रबिंदुकम् ।
अस्याग्रे तु शिवं जेतुमाषाठीसांमग्रतः ॥
ऋष्यादि ऋषिगेहे चलुकादि मस्तकं कुरु ।
अपरं मन्मथार्द्धे च विन्तारत्नं प्रविन्यसेत् ॥
बीजानितानि पुरतः संकरायनमोरितम् ।
अष्टवर्णस्तथादेवि द्वादशांतमतः शृणु ॥
बीजानि भगवद्भूयो तादर्थेनापि संयुतम् ।
यस्योर्द्धे प्राणवर्णं च ऋष्यंतं गंधसंभवम् ॥
पूतना यस्य ऊर्द्धे च ध्रुवादि आसनं कुरु ।
कात्त्वमध्यस्य शिरसि वामादिं मस्तके न्यसेत् ॥
वामे मध्यस्य पुरतो मानिनीस्तनमालिखेत् ।
वागीशभैरवस्याग्रे रुद्राणां ऋषिसंभवम् ॥
प्. १३१अ) कूर्मादिवर्णयोगेन बीजानां च विलोमतः ।
केशवादि विभेदेन मूर्त्तिनां द्वादश क्रमत् ॥
आदित्यरविभेदेन गायत्री मूर्तानां द्वादश क्रमात् ।
आदित्यरविभेदेन गायत्री संयुतेन च ॥
न्यासांगमूर्तिमंत्राश्च जपपूजादि तर्पणैः ।
पूर्वोक्तेन विधानेन आत्मयोगपुरस्सरम् ॥
लिप्त्वा भूमौसमं कल्प्य तत्वेधर्मनिहेतरौ ।
मातृकान्तं स शक्तिञ्च तत्रध्यायेत अच्युतम् ॥
कौमोदकीं रथांगं च शंखंपद्मपरिस्कृतम् ।
कुंडले वनमालां च सर्वकल्पविमंडितम् ॥
लवंगेन समावेश्य विष्ट्वादिष्टादि बोधितम् ।
केशवाद्या दलाग्रेषु वायु देवादि वासवान् ॥
कबंधनियमे सूक्ष्मे शून्ये बिंदु विवर्जिते ।
निरालंबे च सा वेश्यमूला देवं विचिंतयेत् ॥
तेनमुक्तिपदं गच्छेन्नपुनर्गभसंभवम् ॥
इति श्रीकुब्जिकामते पंचाशतितमः पटलः
श्रीभैरव उवाच ॥
अथात्यंतरहस्यं तु वक्ष्याम्यत्रसुदुर्ल्लभम् ।
देवा अपि न जानंति किं पुनर्मानुषादयः ॥
साधितव्य प्रयत्नेन जपपूजाअदि तर्पणैः ।
नाभिमध्यस्थितस्याग्रे देवी बीजं स खेटकम् ॥
शुक्रं रक्तासनारूढं अस्याग्रे गजबिंदुकम् ।
कराली बीजमुद्धृत्य स्वयं रक्तं स बिंदुकम् ॥
क्षीरवर्णस्य शिरसिकेकादिं मस्तके न्यसेत् ।
अस्याग्रे मादनं बीजं वामांतं क्रूरमस्तकम् ॥
मानिनीक्रूरवर्णस्य पुरतोघातमालिखेत् ।
अधस्तात्कारयेदैंद्रलोकादिं शिरसि न्यसेत् ॥
नित्यकालीं च धात्रीशं पुनस्तं रक्तमासनम् ।
शरमध्यं तदंते च धर्मं वै वस्तुकंठकम् ॥
प्. १३१ब्)
विष्णुबीजं समुद्धृत्य अपितद्दयितां पुनः ।
विद्यानीनयताकेयं सर्वसत्वरशंकरी ॥
सर्वसंपत्प्रदाकीर्ति रथस्वर्गा प वर्गदा ।
एषाविद्या महादेवि ब्रह्मविष्णीशभेदतः ॥
साधिता शक्तिबीजं च सर्वज्ञादि पदान्विना ।
मदद्रवेति नामाग्रे योजयेत् परमेश्वरी ॥
इंद्रगोपनिभां देवी गोक्षीरसदृशोपमाम् ।
पाशांकुशवराभीतिं पद्मगां शशिशेखराम् ॥
ओंकारी ह्रीं च फेत्कारी सर्वानंदा च अंकुशा ।
पापाशा ह्रींकाररुपा च ऐंकारी वज्ररूपिणी ॥
निद्राचक्रा भयाभीतिमददाक्षायणी हरा ।
वेदावहु कृती चैव षोडशाद्याः समर्चयेत् ॥
मध्य षट्केटकाराद्या आदिब्रह्माष्टके * * ।
जप्तव्ये द्वेष्टपुरतः लक्षमेकं पला * तः ॥
तर्पणानि निवेद्याह होमयेद् बिंदुसंभवं ।
कुसुमैश्च ब्रह्मजानीनामोंकारादिषु होमयेत् ॥
त्रिभिर्वर्षैर्जितात्मानः सिद्धानामधिपो भवेत् ।
देवी बीजस्य पुरतो ध्रुवेंदुश्चतुराननः ॥
पुनस्तं बीजमुद्धृत्य प्रापवर्णं सपूर्वकम् ।
अस्याग्रे विष्णुरुद्रं च ग्रसच्चंद्रहसं तथा ॥
हेषयद्वितयं धर्म त्रैलोक्य पदमेव च ।
नाशिनी सिंहरूपेण निमेकं च त्रिधा कुरु ।
अंते प्राग्व हिर्वर्णं च त्रिधाधर्माग्नि च द्वयम् ।
एषा सा सिंहिकानामं सिंहांते च दशांसतः ॥
जप्येयमथवा सिंहमनंतं देवि पूर्वकम् ।
कृत्वान्यासं च पूर्वोक्तं संदेहादि यथा क्रमात् ॥
अस्य जापेन होमेन पूर्वोक्त सिद्धिभाग्भवेत् ।
प्. १३२अ) सावित्रीं विष्णुं रुद्रं चानुपूर्वं पुरतो न्यसेत् ॥
अधस्तात्कारयेद्रक्ताद्रक्तिन्तद्बिंदु भैरवम् ।
ऌपूर्वं देववर्णं च सुरेनंतंस्रबिंदुकम् ॥
लिखतो देववर्णस्य ऌपूर्वं नंतिमग्रतः ।
भगवती रक्तगंधेन प्राणास्थश्चतुराननः ॥
दहनी चोर्द्धसंयुक्त राजवेलैस्तनांतर ।
मालिन्या नाभिवर्णस्य मूर्द्ध्नि पूर्वकानगम् ॥
प्राणो बीज स विष्णुश्चमाबीजं सत्यबिंदुकम् ।
लक्ष्मीशरीतिविख्याता बहुभोगहरावसा ॥
कामदेवः स्वयं देवि चिन्तयन्सोमभास्करं ।
मानुषी रूपमाश्रित्य यथासौ चरते महीम् ॥
तेनाग्नि ऋतु वर्णानि गुणाद्विगुणमेव च ।
त्रिपुरावत्समाराध्य न्यासयोगसमन्वितम् ॥
वार्रिपूर्णं घटं चक्रे संपूज्यचक्रमादितः ।
तर्पयेदुक्तमार्गेण मासमेकं यतव्रतः ॥
अहोरात्रं जपेद्विद्यां होमयेत् पद्मविल्लकैः ।
मधूक्षितं तिलंवाथ सर्वथालभते वसु ॥
खिकारावस्थितं बीजं पूतनासनसंस्थितम् ।
नवादिमूलदंडस्तु रु अंतं मऌपूर्वकम् ॥
एषविष्णुः शिवोब्रह्मा गणेशोवाक्सरस्वती ।
अथवा देवि कुर्वीत वेदवर्णं शिवे पुनः ॥
मापूर्वामृतदूती च भूतवर्णाव्यवस्थिताः ।
ध्रुवं वित्तं समुद्धृत्यपिंडं च नाति पश्चिमम् ॥
अपरं भूतवर्णं च शक्तिबीजं समादनम् ।
माबीजांत्यक्षरं देवि अपरं अक्षरं शृणु ॥
धृतिबीजस्य पुरतः कराली तत्र संस्थिता ।
लोकान्तं शिरसा क्रान्तं रुद्रबीजं च शक्ति युक् ॥
लक्ष्मी बीजस्य पुरविष्णु पिंडद्वयं लिखेत् ।
अथबीजं महेशानि पिंडवेदविभूषितम् ॥
यद्वा सिधान्तसंभिन्न सिद्धांते भूमिमालिखेत् ।
प्. १३२ब्) दूतीबीजस्य पुरतो लोकं केशविणोपितम् ॥
बीजानी मानि देवेशि ऋतुवर्णमुदाहृतम् ।
मादनं शक्तिपुरतो माबीजं भूतिसंयुतम् ॥
नेत्रमध्यस्थितं पिंडं ध्रुवांते शक्तिमालिखेत् ।
अनंतं प्रथमं देवीं सुदर्शनसुरान्वितः ॥
शिवान्वितं शिरसो भूयो विचक्रं ङेयुतं न्यसेत् ।
सुचक्रं स्वसादेवि त्रिलोक्यं मर्मणि स्थितम् ॥
अस्त्रेशिवान्वितं भूयश्चक्रं शैवासुरांतकम् ।
अंगानि पंचविन्यस्य वर्णानि पृथगेववा ॥
विरणत्किंकिणीजालनवजं घातमंडितम् ।
नीलसरोजनिलयं अरुणाब्ज विलोचनम् ॥
नवनीतं पायसं च दोर्भ्यां गोपवधू कृतम् ।
पूजयेदुक्तमार्गेण लक्षहोमं स तर्पणम् ॥
इंद्रतुल्यसमोलक्षं तत्समश्च पराक्रमे ।
पुनरन्यं प्रवक्ष्यामि तारशक्तिश्च मादनम् ॥
मानिनी प्रथमं देवि * * * प्रथमो भवेत् ।
विष्णुर्मां भगवन् ङेन्तं रक्तरुद्रं ध्रुवादिगम् ॥
सूक्ष्मं मज्जादि वा दिष्टं देशो मध्यं समालिखेत् ।
चक्रं मासयुगं भास्त्रपिंडंदूतीमनंतरम् ॥
बीजानि हृदयं देवी ऋतुवर्णं शिवान्वितम् ।
एषु सखा विवर्णानि वर्णयुग्मांतरक्षणे ॥
रुक्मिणीञ्च दलाग्रेषु वासुदेवादि वासवाः ।
पंकजारुणमध्यस्थं विपक्षस्कंदासने स्थितम् ॥
पुष्टरंजनसंचारं गदीहैमादि संनिभम् ।
अंतेनिविष्टं कांतायागात्रशक्तमदान्वितं ॥
होमं दशायुतं लक्षं दशविद्यापारिजैः ।
दूतीरुद्रं समुद्धृत्य ऋषिमालांतदेशतः ॥
तदादिगंधसंभिन्नं मासचक्रं गुणान्वितम् ।
प्. १३३अ) अजंवक्त्रस्थितं सूक्ष्मं तनोतं जंघभेदितम् ॥
अंगुलीदक्षमालिन्या नवादि आसनं कुरु ।
वागीसं वामकर्णेन अनंतं क्रूरमस्तकम् ॥
पितामहस्य मध्ये तु वसुरुद्रं समालिखेत् ।
धात्रीशं बिदुगंधेनमेदंसूक्ष्मासने न्यसेत् ॥
रुद्रांतमासनं देवि शिवामग्रे प्रदापयेत् ।
पिंडं च वर्मरुद्रं तु कांतस्थं गंधसंभवम् ॥
एकादशादिमुद्धृत्य आकाशार्द्धेन भेदितम् ।
मादनं दान्तचक्रस्थं रक्तं देवं स बिन्दुकम् ॥
देवीबीजं ध्रुवं देवि उद्धृतव्यं प्रयत्नतः ।
लोकानां स्थिति कर्ता च कृष्णोसौ दैत्यमर्दनः ॥
यदाहानिर्भवे लोके धर्मस्य परमेश्वरी ।
मायाजालं च कुरुते रूपाणि तु वहून्यपि ॥
स्वयं स्वच्छंदचरितः अजः सत्यः सनातनः ।
चत्वारि वेदवर्णानि अग्राद्विस्थान पंचके ॥
अंगानि पंचषड्चक्र विन्यसेत् पंचपंचकम् ।
पूर्वोक्ताष्टाष्टकं भूयोरुक्मिण्यादि तथा वसून् ॥
केशवाद्यादिनीजन्पाशक्तिः क्षेंशुमेव च ।
शिखिपिच्छसमावद्ध नीलनीलालकुंतलम् ॥
ईसवस्मितमुखं रक्त चंद्ररेखा विभूषितम् ।
द्वात्रिंशल्लक्षणैर्युक्तं सर्वगं सर्वगं प्रभम् ॥
नानाभरणसंदीप्तं चक्रशंखसुवेणुकम् ।
नितम्बबिंबविलसत् पीतांवरधरं हरिं ॥
भ्राजमानं श्रियाभूम्या श्रीवत्साद्युपशोभितम् ।
केतुचक्रांबुजः शंखः स्वस्तिकांकित पदद्वयम् ॥
गोपीगोपशराणां हि वृंदवृंदारकावृतम् ।
वसिष्टनारदाद्यैश्च वृत्तं देवां गनाजनैः ॥
प्. १३३ब्)
इति संचिन्त्यमनसा यजेदिष्ट्वा स्वशक्तिभिः ।
वासुदेवादि नाद्यन्तं मूर्तिभिः केशवादिकैः ॥
दधिहैयंगवीनाशैः कृशरान्तं निवेदयेत् ।
नूपोपवारसंयुक्तं यथा प्रागीरितक्रमै ॥
ब्रह्माविष्णुश्च रुद्रश्च गायत्रीं त्वग्निकोणके ।
तद्बीजपूर्वकं देवि सावित्रीं च सरस्वतीम् ॥
एवं लक्षचतुष्कं हि जुहुयाच्च दशांशतः ।
साधुक्षितं पंकजं पंकजविल्लमथवातिलपायसम् ॥
वर्षैस्त्रिभिः सुरेशानि जपतर्पणहोमतः ।
एतैस्त्रिभिरुपायैस्तु आज्ञयासौ प्रसीदति ॥
पुनरावृत्तिहीनं च वक्ष्येहं शृणुसुंदरि ।
देवीबीजं महेशानि बिंदुमध्यस्थसूक्ष्मगः ॥
स एवगंधसंयुक्तं कात्वम्मध्यं स दंडवत् ।
ग्रहमध्यस्थितं कुर्याद्यन्तिपानोंतसूक्ष्मगम् ॥
मानिनीदंडमूलं च प्रथमं तत्तग्रतः ।
शुक्ल आदिसंभिन्नः पुनस्तं केवलं भवेत् ॥
एकादशांतं पुरतो उरुमध्यांतकारयेत् ।
दोर्दंडमं चैविंदूर्द्धेगंधानं तेनसंयुतं ॥
मांसरूपपदं देवि घनश्यामं च दासकम् ।
भगवन्विष्णु ङेजन्ते चलांगली चारुशासनः ॥
उत्तरक्तौ स्थितौ भूयो वेदवर्णे शिवे न्यसेत् ।
लोकादिशिरसाक्रांत मायांतंदयिताग्रतः ॥
अंगानिमनुभूतार्णैः पुनस्त्रिभिस्त्रिभिः क्रमात् ।
रंध्रेषु प्रतिवर्णानि दशस्थानेषु षड्दश ॥
पंश्च श्लोकसमायुक्तं प्राणेमानं नियोजयेत् ।
तापिकं भास्करं देवं नेपदामदिभूषितम् ॥
जालालकवरास्निग्ध शिखिपिच्छावतंसकम् ।
प्. १३४अ) पीतकौषेय वसनं मंदस्मेरोपशोभितम् ॥
पादुकेरत्न खचिते पद्भ्यां वान्यस्त शकृतैः ।
स्थितं निक्तप्रियासक्त वामपादस्तनादधः ॥
अनेनपशुयष्टिं च लोकानां रक्षणानि च ।
पूर्ववत्पूजितं जुष्टं हुतं मंत्रं स्वसिद्धिदं ॥
सितमाल्यानुलेपश्च सितं वस्त्रविभूषितः ।
सितपद्मस्थितो मौनी दूरयुक्तमनो भुवः ॥
सितद्रव्याणि संपाद्यविष्टरे मृगचर्मणि ।
स्थित्वानु प्रत्यहं देवं धनदं वा विचिन्तयेत् ॥
कैवल्यपदमाप्नोति सत्यमेवं वरानने ।
सर्वमंत्र प्रसिद्धांतं मातृकामस्त्रयोगतः ॥
मंत्रेषु जप्यमानेषु यत्रमानोपतद्धतः ।
व्रतानि विविधान्येवमाचरेद्भक्ति तत्परः ॥
भक्तिहीने नरे देवि भस्मनी बहुतं हविः ।
अथान्यं संप्रवक्ष्यामि तवस्नेहेन सुंदरि ॥
क्रूरास्तु मानवाः सर्वे मोहयंति परस्परम् ।
न प्रकाश्यमियं विद्या देवानामपि दुर्लभा ॥
अमर्त्यादानवायुक्ता मनुष्याश्च तपोधनाः ।
सोमविद्या प्रभावेन स्वेच्छया चरते महीं ॥
अस्यप्रभावमतुलं कंपते स चराचरम् ।
तर्पयित्वा क्रमंसर्वं सहस्रं प्रत्यहं जपेत् ॥
दीक्षयित्वा शिशुं शुद्धं विद्या तस्मैददेकः * ।
उद्धारं तत्र कुर्वीत अत्रमेरौ सुशोभने ॥
कैलासमंदरे देवि वामांतं क्रूरमस्तकम् ।
अस्यसंग्रंथितं रुद्रं मानवत्वं समालिखेत् ॥
आसनं चक्रचोर्द्धं च दीपनी क्रूरमालिखेत् ।
निषधे वेदवर्णे तु शिवोभिन्नं तु कारयेत् ॥
शिवशक्तिं ससंयोग्य जपंती क्षज्जमध्यगः ।
भैरवे अजरद्रस्य अ * सत्वेन दीपनी ॥
प्. १३४ब्)
यामोमध्यं तु वागिशं ध्रुवांतं आमनं दहेत् ।
एकादशांतसंभिन्नं लोकादि मस्तके न्यसेत् ॥
एतद्वीरवराभद्रें सृष्टिं संहारकारिका ।
दक्षांगुलिसमूह * मक्षरं भैरवानने ॥
तस्याथदेशसंभिन्नं देवी बीजं तु कारयेत् ।
पुनरेवमहेशानि रुद्रं विष्णुं पितामहं ॥
सोमविद्यां समादाय सद्यः संस्तुत्पदायिकम् ।
महादारिद्र्यदौर्भाग्यनिशनादि विमोक्षणी ॥
चक्रमभ्यर्च्यविधिवदजरामरतां लभेत् ।
वसुवृत्तं लिखेन्मध्ये त्वष्ट पत्रं शरोरुहम् ॥
कालारंकर्णिकायां च पिंडरूपं तु विन्यसेत् ।
कलास्तु विन्यसेदादौ षोडशारे स बिंदुकम् ॥
द्वितीयं हृदयस्थं च तृतीयं च दलं प्रति ।
चतुर्थं तृतीये तु चतुर्थदलपंक्तिके ॥
लांगली पंचमे वृत्ते मेदरुद्रं स बिंदुकम् ।
षष्ठे तु शुक्लं विन्यस्य सप्तमे अंबिका भवेत् ॥
कामक्रूरशिरस्था तु तद्वहिः साक्षराणि तु ।
षोडसान्यथ वृत्तानि बिंदुयुक्तानि विन्यसेत् ॥
तद्दले वसुवृत्तस्य नृधादि पतिं लिखेत् ।
छदाग्रेषु शशिज्वालं सुधाबीजान्वितं लिखेत् ॥
लिखित्वैवं महाचक्रं अर्चयेत् सोममीश्वरीम् ।
सुसमे भूमिभागे तु निम्नोन्तत विवर्जिते ॥
गोमया लेपिते शुद्धे दर्पणोदरसन्निभे ।
विताने शुभ्रशोभाढ्ये चामरादिसुशोभिते ॥
सुगंधि चंदना लिप्ते मालती कुसुमान्विते ।
प्. १३५अ) पुष्पमासे सुभेलग्ने पौर्णमास्यां तु साधकः ॥
गुरोर्दिक्षां च संपाद्य मंत्री संयतमानसः ।
अपांवामंडलं कृत्वा तन्मध्ये स्थंडिलं लिखेत् ॥
अक्षकैः स चतुष्कोणैर्मडलं पूर्ववत् पुनः ।
चक्रमस्मिन्समालिख्य मध्ये कुंडं सुशोभनम् ॥
अर्कलक्षं दृढं शुद्धं तं तु त्रिगुणवेष्टितम् ।
नवरत्नानि निःक्षिप्य द्रोणतोयप्रपूरितम् ॥
हयाद्वीनि चांगानानकशानाढकोदकम् ।
अष्टौ बाह्यस्य वृत्तस्थां निष्कोर्द्वादशकं मितम् ॥
तदर्द्धार्द्धसंख्याभिस्तु षोडशाबाह्यमंडले ।
रौप्येणनिर्मितं रूपं मध्यकुंभे विनिक्षिपेत् ॥
कलशेषु न्येषु चाक्षिप्यरत्नानां नवकं क्रमात् ।
दुकूलयुग्मैः संवेष्ट्य तत्रुद्धौतन वै क्रमात् ॥
कृत्वाक्षता सुगंधाद्यैः पुष्पाणि सकलान्यपि ।
मध्यकुंभे समाबाह्य सोमंसंपूज्यसादरम् ॥
स्मृत्वा कुंभं जपेद् विद्यां सहस्रं चाष्टशतं तु वा ।
मंत्राग्निं च समाधाय सोमकुंडे चतुर्ष्वपि ॥
चत्वारो ऋत्विजस्तत्र पुण्याहं वाचयेत् तथा ।
समाप्यशिखिनः पूजां जुहूयान्मधुरोक्षितैः ॥
सर्पिषापायसे नापि शालितंडुलकैस्तिलैः ।
तावद्भिस्तर्पणं देवि जनैः शुद्धैश्च संयुतः ॥
न्यासत्रयं पुराकृत्वा आत्मानं मन्त्रविग्रहम् ।
खपंकजे पिंडमापूरितं र तथा वै शिष्यविग्रहम् ॥
संहृत्योत्पाद्यनिरिभिः शुद्धायै मंत्रं समादिशेत् ।
कृत्वाभिषेकं विधिवज्जपेन्मंत्रमथा युतम् ॥
अष्टोत्तरसहस्रं वा कृत्वा वागवशाज्जपम् ।
मालती जाति पुन्नागं राजापद्मं मधुक्षितैः ॥
प्. १३६अ)
एवं कृते महाविद्या सिद्धौसौ वत्सरांतरे ।
मासत्रयविधानेन सर्वसिद्धिमवाप्नुयात् ॥
गुरुवर्गो हि लभ्यं हि देवता मंत्रसंहिताः ।
तेनदत्तेनगुरवः पूजनीयाः प्रयत्नतः
इति श्रीकुब्जिकामतेषट्पंचाशतितमः पटलः समाप्तः
मूल पाठ: pārameśvarīmatatantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0