भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 9.20

9.20.1

एकपाच् छन्द एककामं च ।
तद् आप्नोति चाव च रुन्धे
प्रथमया रात्र्या
प्रथमया समिधा ॥

9.20.2

द्विपाच् छन्दो द्विपदश् च पशून् ।
तद् आप्नोति चाव च रुन्धे
द्वितीयया रात्र्या
द्वितीयया समिधा ॥

9.20.3

त्रींल् लोकांस् त्रींल् लोकपतीन् ।
तद् आप्नोति चाव च रुन्धे
तृतियया रात्र्या
तृतीयया समिधा ॥

9.20.4

चतुष्पाच् छन्दश् चतुष्पदश् च पशून् ।
तद् आप्नोति चाव च रुन्धे
चतुर्थ्या रात्र्या
चतुर्थ्या समिधा ॥

9.20.5

पञ्च दिशः पञ्च प्रदिशः ।
तद् आप्नोति चाव च रुन्धे
पञ्चम्या रात्र्या
पञ्चम्या समिधा ॥

9.20.6

त्रैष्टुभं छन्दो विराजं
स्वराजं सम्राजम् ।
तद् आप्नोति चाव च रुन्धे
सष्ठ्या रात्र्या षष्ठ्या समिधा ॥

9.20.7

सप्त प्राणान् सप्तापानान्
सप्त ऋषींश् च ।
तद् आप्नोति चाव च रुन्धे
सप्तम्या रात्र्या सप्तम्या समिधा ॥

9.20.8

ओजश् च तेजश् च सहश् च बलं च ।
तद् आप्नोति चाव च रुन्धे
अष्टम्या रात्र्या अष्टम्या समिधा ॥

9.20.9

अम्भश् च महश् चान्नं चान्नाद्यं च ।
तद् आप्नोति चाव च रुन्धे
नवम्या रात्र्या नवम्या समिधा ॥

9.20.10

ब्रह्म च क्षत्रं चेन्द्रियं
च ब्राह्मणवर्चसं च ।
तद् आप्नोति चाव च रुन्धे
दशम्या रात्र्या दशम्या समिधा ॥

9.20.11

विश्वावसू च सर्ववसू च ।
तद् आप्नोति चाव च रुन्धे
एकादश्या रात्र्या एकादश्या समिधा ॥

9.20.12

पाङ्क्तं छन्दः प्रजापतिं संवत्सरम् ।
तद् आप्नोति चाव च रुन्धे
द्वादश्या रात्र्या द्वादश्या समिधा ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc