भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 9.2

9.2.1

यजूंषि यज्ञे समिधः स्वाहा-
-अग्निः प्रविद्वान् इह वो युनक्तु ।
युनक्तु देवः सविता प्रजानन्न्
अस्मिन् यज्ञे सुयुजः स्वाहा ॥

9.2.2

इन्द्र उक्थामदानि यज्ञे अस्मिन्
प्रविद्वान् युनक्तु सुयुजः स्वाहा ।
छन्दांसि यज्ञं मरुतः स्वाहा
मातेव पुत्रं पिपृतेह युक्ताः ॥

9.2.3

प्रैषा निविद आप्रियो यजूंषि
शिष्टाः पत्नीभिर् वहतेह युक्ताः ।
एयम् अगन् बर्हिषा प्रोक्षणीभिर्
यज्ञं तन्वाना अदितिः स्वाहा ॥

9.2.4

विष्णुर् युनक्तु बहुधा तपांस्य्
अस्मिन् यज्ञे सुयुजः स्वाहा ॥

9.2.5

त्वष्टा युनक्तु बहुधा नु रूपाण्य्
अस्मिन् यज्ञे (…) ॥

9.2.6

इन्द्रो युनक्तु बहुधा वीर्यान्य्
अस्मिन् (…) ॥

9.2.7

सोमो युनक्तु बहुधा पयांस्य्
अस्मिन् (…) ॥

9.2.8

भगो युनक्त्व् आशिषो न्व् अस्मा
अस्मिन् यज्ञे सुयुजः स्वाहा ॥

9.2.9

अश्विना ब्रह्मणेतम् अर्वाग्
वषट्कारेण यज्ञं वर्धयन्तौ स्वाहा ॥

9.2.10

बृहस्पते ब्रह्मणेह्य् अर्वाङ्
यज्ञो ऽयं स्वर् इदं यजमानाय धेहि स्वाहा ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc