पैप्पलाद-संहिता · अध्याय 8.17
मित्रः पृथिव्योद् अक्रामत्
तां पुरं प्र णयामि वः ।
ताम् आ विशत तां प्र विशत
सा वः शर्म च वर्म च यच्छतु ॥
वायुर् अन्तरिक्षेणोद् (…) ॥
सूर्यो दिवोद् (…) ॥
चन्द्रमा नक्षत्रैर् उद् (…) ॥
सोम ओषधीभिर् उद् (…) ॥
यज्ञो दक्षिणाभिर् उद् (…) ॥
समुद्रो नदीभिर् उद् (…) ॥
ब्रह्म ब्रह्मचारिभिर् उद् ((…) ॥
इन्द्रो वीर्येणोद् अक्रामत्
तां (…) ॥
देवा अमृतेनोद् अक्रामन्
तां (…) ॥
प्रजापतिः प्रजाभिर् उद् अक्रामत्
तां पुरं प्र णयामि वः ।
ताम् आ विशत तां प्र विशत
सा वः शर्म च वर्म च यच्छतु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0