पैप्पलाद-संहिता · अध्याय 4.8
अग्नी रक्षोहा तिग्मस् तिग्मशृङ्ग
ऋषिर् आर्षेयः कविः कवितमः ।
अपाघाशंसं नुदतां सहताम् अरातिं
प्रत्यक् प्रतिहरणेन-
-अघायते ऽघं प्रति हरामः ॥
इन्द्रो रक्षोहा (…) ॥
सोमो रक्षोहा (…) ॥
वरुणो रक्षोहा (…) ॥
वायू रक्षोहा (…) ॥
त्वष्टा रक्षोहा (…) ॥
धाता रक्षोहा (…) ॥
सविता रक्षोहा (…) ॥
सूर्यो रक्षोहा (…) ॥
चन्द्रमा रक्षोहा (…) ॥
बृहस्पती रक्षोहा (…) ॥
प्रजापती रक्षोहा (…) ॥
परमेष्ठी रक्षोहा तिग्मस् तिग्मशृङ्ग
ऋषिर् आर्षेयः कविः कवितमः ।
अपाघाशंसं नुदतां सहताम् अरातिं
प्रत्यक् प्रतिहरणेन-
-अघायते ऽघं प्रति हरामः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0