पैप्पलाद-संहिता · अध्याय 4.30
देवाः शरणकृतः शरणा मे भवत
प्राच्या दिशो ऽग्निना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत
चारुम् अन्नादं परा द्विषन्तं शृणीत ॥
(…) भवत
दक्षिणाया दिश इन्द्रेण राज्ञा- (…) ॥
(…) भवत
प्रतीच्या दिशो वरुणेन राज्ञा- (…) ॥
(…) भवत-
-उदीच्या दिशः सोमेन राज्ञा- (…) ॥
(…) भवत
ध्रुवाया दिशो विष्णुणा राज्ञा- (…) ॥
(…) भवत-
-ऊर्ध्वाया दिशो बृहस्पतिना राज्ञा- (…) ॥
(…) भवत-
-उत्तमाया दिशः प्रजापतिना राज्ञा- (…) ॥
(…) भवत
परमाया दिशः परमेष्ठिना राज्ञा- (…) ॥
देवाः शरणकृतः शरणा मे भवत
सर्वाभ्यो दिग्भ्य ईशानेन राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत
चारुम् अन्नादं परा द्विषन्तं शृणीत ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0