पैप्पलाद-संहिता · अध्याय 3.31
देवा मरुतः पृश्निमातरो
ऽपो दत्तोदधिं भिन्त ।
दिवस् पृथिव्या उरोर् अन्तरिक्षाद्
अस्मै क्षत्रायानेन ब्रह्मणाभ्यः
प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ॥
देवा अग्न इन्द्र सूर्य -
-अपः (…) ॥
देवाः सयुजो मित्र वरुणार्यमन्न्
अपः (…) ॥
देवाः पितरो ऽवमा आयवः क्राव्य-
-अपः (…) ॥
देवाप्सुषदो ऽपां नपात् तनूनपान् नराशंस-
-अपो दत्तोदधिं भिन्त ।
(…) ॥
देव बृहस्पते ऽपो धेह्य् उदधिं भिन्धि ।
(…) ॥
देव प्रजापते ऽपो धेह्य् उदधिं भिन्धि ।
(…) ॥
देव परमेष्ठिन्न् अपो धेह्य् उदधिं भिन्धि ।
दिवस् पृथिव्या उरोर् अन्तरिक्षाद्
अस्मै क्षत्रायानेन ब्रह्मणाभ्यः
प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0